Page loading... Please wait.
7|3|4 - द्वारादीनां च
॥ तस्मै पाणिनये नमः ॥
7|3|4
SK 1386
द्वारादीनां च   🔊
सूत्रच्छेदः
द्वारादीनाम् (षष्ठीबहुवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
द्वार इत्येवम् आदीनां य्वाभ्याम् उत्तरपदस्य अचामादेरचः स्थाने वृद्धिर् न भवति, पूर्वौ तु ताभ्याम् ऐजागमौ भवतः। द्वारे नियुक्तः दौवारिकः। द्वारपालस्य इदं दौवारपालम्। तदादिविधिश्च अत्र भवति। स्वरम् अधिकृत्य कृतो ग्रन्थः सौवरः। सौवरः अध्यायः, सौवर्यः सप्तम्यः इति। व्यल्कशे भवः वैयल्कशः। स्वस्ति इत्याह सौवस्तिकः। स्वर्भवः सौवः। अव्ययानां भमात्रे टिलोपः। स्वर्गमनम् आह सौवर्गमनिकः। स्वाध्याय इति केचित् पठन्ति, तदनर्थकम्। शोभनो ऽध्यायः इत्येतस्यां व्युत्पत्तौ तु पूर्वेण एव सिद्धम्। अथ अपि एवं व्युत्पत्तिः क्रियते, स्वो ऽध्यायः स्वाध्यायः इति? एवम् अप्यत्र एव स्वशब्दस्य एव पाठात् सिद्धम्। तदादावपि हि वृद्धिरियं भवत्येव। स्फ्यकृतस्य अपत्यम् स्फैयकृतः। स्वादुमृदुनः इदम् सौवादुमृदवम्। शुनः इदम् शौवनम्। अणि अन् 6|4|167 इति प्रकृतिभावः। शुनो विकारः शौवं मांसम्। प्रणिरजतादिभ्यो ऽञ् 4|3|154 इत्यञ्। श्वादंश्ट्रायां भवः शौवादंष्ट्रो मणिः। स्वस्य इदम् सौवम्। स्वग्रामे भवः सौवग्रामिकः। अध्यात्मादित्वात् ठञ्। अपदान्तार्थो ऽयम् आरम्भः। द्वार। स्वर। व्यल्कश। स्वस्ति। स्वर्। स्फ्यकृत। स्वादुमृदु। श्वन्। स्व। द्वारादिः।
`दौवारिकः` इति। `तत्र नियुक्तः` 4|4|69 इति ठक्। `द्वारपालस्येदं दौवारपालम्` इति। `तस्येदम्` 4|3|120 इत्यण्। प्रायेण तु पुस्तकेषु `द्वारपालस्येवं दौवारपालिकम्` इति। पाठः, स चायुक्तः; न हि तस्यैद 4|3|120 मित्यत्रार्थे द्वारपालशब्दात्? लक्षणेन केनचिट्ठग्विहितः। क्वचित्? पुनः `द्वारपालस्यापत्यं दौवारपालिकः` इति पाठः, तत्र `रेवत्यादिभ्यष्ठक्? 4|1|146 इति ठक्। ननु। तत्र द्वारपालीशब्दः पठते, न तु द्वारपालशब्दः? एवं तर्हि मन्यते--द्वारपालशब्दस्तत्र पठितव्यः, स द्वारपालीशब्दमपि ग्राहयिष्यति; `प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्` (व्या।प।29) इति। न्यायात्। ये तु तत्र द्वारपालशब्दं न पठन्ति, तेऽपत्यार्थे दौवारपालिरितीञन्तमुदहरन्ति। कथं पुनद्र्वारस्य गणे द्वारपालस्य भवति? अत्रापि द्वारादिभिराद्यचो विशेषणत्--द्वारादीनां शब्दानामचां मध्ये य आदिरजिति। वक्ष्यमाणाद्वा तदादिविधेज्ञपिकात्। `सौवरः` इति। स्वरमधिकृत्य कृतो ग्रन्थ इति `अथिकृत्य कृते ग्रन्थे` 4|3|87 इत्यण्। `सौवर्य्यः` इति। `टिड्ढाणञ्` (4.1.1।5) इति ङीप्। `वैयल्कशः` इति। `तत्र भवः` 4|3|53 इत्यण्। `सौवस्तिकः` इति। `तदाहेति माशब्दादिभ्य उपसंख्यानंम्` (वा।482) इति ठक्। `सोवर्गमनिकः` [`सौवर्गमिकः`--काशिका] इति। `आहौ प्रभूतादिभ्य उपसंख्यानम्` (वा।483) इति ठक्।`पूर्वेणैव सिद्धम्` इति। वकारस्य पदान्तत्वात्? तत्रैतत्? स्यात्। यद्येवं व्युत्पत्तिः क्रियते--स्वोऽध्यायः स्वाध्यायः, तदाऽपदान्तत्वान्न प्राप्नोति, तस्यां व्युत्पत्तावर्थवान्? स्वध्यायशब्दस्य पाठः? इत्यत आह--`अथाप्येवम्` इत्यादि। कथं पुनः स्वशब्दात्? स्वाध्यायशब्दस्य सिध्यति? इत्याह--`तदादावपि हि` इत्यादि। `स्फैयकृतः`[स्फैकृतः--काशिका] इति। `ऋष्यन्धकवृष्णिकुरुभ्यश्च` 4|1|114 इत्यण्। `सौवादुमृदवः`[सोवादुमृदवम्--काशिका] इति। अत्रापि `तस्यैदम्` 4|3|120 इत्यण्। एवं `शौवनम्` इत्यत्रापि। `शौवम्` इति। `नस्तद्धिते` 6|4|144 इति टिलोपः। `शौवादंष्ट्रः` इति। `अन्येषामपि` 6|3|136 इति दीर्घः॥
दौवारिक इति । ठ्तत्र नियुक्तःऽ इति ठक् । द्वारपालस्येदं दौवारपालमिति । ठ्संज्ञापूर्वको विधिरनित्यःऽ इति वृद्धलक्षणश्छाए न भवति, ठ्कलापिनोऽण्ऽ इत्यत्राण्ग्रहणस्याधिकविधानार्थत्वाद्वा । कथं पुनर्द्वारशब्दस्य पाठे द्वारपालशब्दस्य विधिरयं भवति ? तत्राह---तदादिविधिश्चात्र भवतीति । अत्र च कारणं देविकादिसूत्र एवोक्तम् । ज्ञापकं चात्र वक्ष्यति । सौवरोऽध्याय इति । स पुनः शन्तनुप्रणीतः, फिषित्यादिकः । ठ्सौवर्यः सप्तम्यस्तदन्तसप्तम्यःऽ इति भाष्ये । शोभनोऽध्यायः स्वाध्याय इति । आङ्त्र मध्ये प्रक्षेप्तव्यः, ठन्येषामपि दृश्यतेऽ इति वा उतरपदादेदीर्घत्वम् । एवमपीत्यादि । यद्यत्र स्वशब्दः पठ।ल्ते, किमायातं स्वाध्यायशब्दस्य ? तत्राह---तदादावपि हीति । स्वार्थिक-स्वाभाविकादयस्तु भाष्यप्रयोगात्साधवः । स्फैयकृत इति ऋषित्वादण् । शौवादंष्ट्रो मणिरिति । ठ्शुनो दन्तदंष्ट्राऽ इति दीर्घत्वम्, पूर्ववदण् ॥
सिद्धान्तकौमुदी
द्वार, स्वर्, व्यल्कश, स्वस्ति, स्वर, स्फ्यकृत्, स्वादु, मृदु, श्वस्, श्वन्, स्व एषां न वृद्धिरैजागमश्च । शौवस्तिकम् ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
शौवस्तिकमिति। नन्वन्तरङ्गत्वात्तुटि ठस्य प्रत्ययादित्वाऽभावात्कर्मठ इत्यत्र ठच इवेकादेशो न स्यात्। न च परत्वादिकादेशे तस्य तुडिति वाच्यम्, आदेशात्प्रागेवान्तरङ्गत्वात्तुटः प्रवृत्तेः। इकादेशस्य त्वाङ्गत्वेन बहिरङ्गत्वात्। सूत्रभङ्गेन तुकि हि क्रियामाणे तु `इसुसुक्तान्ता`दिति कादेशप्रसङ्ग इथि चेत्। सत्यम्। वुञ्छणादिषु ठचश्चित्त्वेन?। कृते त्विकादेशे प्रत्ययस्वरबाधनाय चित्त्वं प्रयुज्यत इति मनोरमायां स्थितम्।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
द्वारादीनां च अथ परस्याऽवृद्धिरित्यनुवर्तते उताहो न ? ।। किं चातः ? ।। यद्यनुवर्तते शौवं मांसं, टिलोपे कृते ऐजागमो न प्राप्नोति ।। अथ निवृत्तं, स्वाध्यायशब्दो द्वारादिषु पठ्यते तत्र यावन्तो यणः सर्वेभ्यः पूर्व ऐजागमः प्राप्नोति ।। यथेच्छसि तथास्तु ।। अस्तु तावदनुवर्तते, कथं शैवं मांसम् ? ।। आनुपूर्व्या(1) सिद्धमेतत् । नात्राऽकृते ऐजागमे टिलोपः प्रप्नोति ।। किं कारणम् ? ।। प्रकृत्यैकाजिति प्रकृतिभावेन भवितव्यम् । तदेतदानुपूर्व्या(1) सिद्धं भवति ।। अथ वा पुनरस्तु निवृत्तम् ।। ननु चोक्तं ‐ स्वाध्यायशब्दो द्वारादिषु पठ्यते तत्र यावन्तो यणः सर्वेभ्यः पूर्व ऐजागमः प्राप्नोतीति ।। कः पुनरर्हति स्वाध्यायशब्दं द्वारादिषु पठितुम्, एवं किल पठ्येत ‐ स्वमध्ययनं स्वाध्याय इति ।। तच्च न ।। सुष्ठु वाऽध्ययनं स्वाध्यायः । (शोभनं वा अध्ययनं स्वाध्यायः(1) ।। अथापि स्वमध्ययनं स्वाध्यायः(1)) एवमपि न दोषः । अचामादेरिति वर्त्तते ।।