Page loading... Please wait.
7|3|36 - अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ
॥ तस्मै पाणिनये नमः ॥
7|3|36
SK 2570
अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ   🔊
सूत्रच्छेदः
अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्याताम् (षष्ठीबहुवचनम्) , पुक् (प्रथमैकवचनम्) , णौ (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
सर्वं निवृत्तम्, अङ्गस्य इति वर्तते। अर्ति ह्री व्ली री क्नूयी क्ष्मायी इत्येतेषाम् अङ्गानाम् आकारान्तानां च पुगागमो भवति णौ परतः। अर्ति अर्पयति। ह्री ह्रेपयति। व्ली व्लेपयति। री रेपयति। क्नूयी क्नोपयति। क्ष्मायी क्ष्माप्यति। आकारान्तानाम् दापयति। धापयति। अर्ति इति ऋ गतिप्रापणयोः, ऋ गतौ इति द्वयोरपि धात्वोर् ग्रहणम्। री इत्यपि री गतिरेषणयोः, रीङ् श्रवणे इति। पुकः पूर्वान्तकरणम् अदीदपतित्यत्र उपधाह्रस्वो यथा स्यातिति।
अत्र्तीति श्तिता निर्देशः। ऋकारान्तस्य ग्रहणं मा विज्ञायीति, यथा--`ऋदृशोऽङि गुणः` 7|4|16 इति। `अर्पयति` इति। हेतुमण्णिच्, `पुगन्तलघूपधस्य` 7|3|86 इति गुणः। `ह्येपयति, व्लेपयति` इति। `ह्यी लज्जायाम्` (धातुपाठः-1085) `व्लो वरणे (धातुपाठः-1502)। `क्नोपयति, क्ष्मापयति` इति। `क्नूयो शब्दे` (धातुपाठः-4।85), `क्ष्मायी विधूनने` (धातुपाठः-486)। `लोपो व्योर्वलि` 6|1|64 इति यकारलोपः। `द्वयोरपि धात्वोग्र्रहणम्` इति। विसेषाभावात्। रोत्येतस्यापि `री गतिशोषणयोः` (धातुपाठः-1500), `रोङ्? श्रवणे` (धा।प।1138)--इति द्वयोरपि ग्रहणमित्यपेक्ष्यते। ननु च `निरनुबन्धकग्रहणे न सानुबन्धकस्य` (व्या।प।53) इति रीङो ग्रहणं न प्राप्नोति? नैष दोषः; अत्र ह्रल्पाच्तरत्वात्? ह्रोव्ल्यातामन्यतमस्य पूर्वनिपाते कत्र्तव्ये `अल्पाच्तरम्` 2|2|34 इत्येतदनपेक्ष्यार्त्तिशब्दस्य पूर्वं निपातं कुर्वताऽन्यदपि किञ्चिदिह शास्त्रवचनं नापेक्ष्यत इत्येतत्? सूचितम्। तेन निरनुबन्धकपरिभाषा नापेक्ष्यत इति रीङोऽपि ग्रहणं भवति। अथ किमर्थं पुनः पुक् पूर्वान्तः क्रियते, न परादिरेव पुङ्? विधीयताम्; पुटि सति गुणविधौ पुगन्तग्रहणं न कत्र्तव्यं भवति, `सार्वधातुकार्धधातुकयोः` 7|3|84 इत्येवं सिद्धत्वात्? पुटि; अवश्यं पुड्ग्रहणं कत्र्तव्यम्, अन्यथा हि `अचो ञ्णिति` 7|2|115 इति वृद्धिः स्यादिति चेत्? नैतदस्ति; नाप्राप्ते णिचो वृर्द्धि प्रति निमित्तत्वे पुटं प्रत्यागमित्वमुच्यत इत्युत्तरस्य बाधकं भविष्यतीति नास्ति वृद्धेः प्रसङ्गः। अयं तर्हि परादौ दोषः--दाप्यते, दाप्यत इति--अत्र णेर्लोपेनापह्मतत्वात्? पकारस्य श्रवणं न स्यादिति? एषोऽप्यदोष-; न हि णिलोपः सर्वापहारी भवति, येन णेर्निवृत्तौ पुडागमोऽपि निवत्र्तत। प्रत्ययलश्रणञ्चास्तीति निवृत्तेऽपि णौ पुटः श्रवणं भविष्यतीत्याह--`पुकः पूर्वान्तकरणम्` इत्यादि। दापयतेर्लुङ्, च्लिः, तस्य `णिश्रिद्रु रुआउभ्यः कत्र्तर` 3|1|48 इति चङि णिलोपः, `णौ चङ्युपधाया ह्यस्वः` 7|4|1 इति ह्यस्वत्वम्, `चङि` 6|1|11 इति द्विर्वचनम्, `सन्वल्लघुनि चङ्परे` 7|4|93 इतीत्त्वम्, `दीर्घो लघोः` 7|4|94 इति दीर्घत्वम्--अदीदपत्। अत्र यदि पुट्? क्रियते तदा ह्यस्वत्वं न स्यात्; अनुपधात्वात्। पुकि तु सति भवति। अतो ह्यस्वार्थं पुकः पूर्वान्तकरणम्॥
ठ्व्लीङ् वरणेऽ, ठ्क्नूयी शब्देऽ, ठ्क्ष्मायी विधूननेऽ । उदाहरणेषु पुगन्तलक्षणो गुणः । द्वयोरपि ग्रहणमिति । विशेषानुपादानात् । री इत्यपीति । यद्यपि प्रस्रवणार्थः सानुबन्धकः तथापि तस्यापि ग्रहणमाचार्यैः स्मर्यत इति भावः । पूर्वान्तकरणं न यादृच्छिकम्, किं तर्हि ? विवक्षितमित्याह---पुकः पूर्वान्तकरणमिति । अदीदपदिति । यदि पुनर्णेः पुट् स्यात्, तस्य णिग्रहणेन ग्रहणाण्णौ परतो यदङ्गं न तस्याकार उपधेति ह्रस्वो न स्यात् । दोषोपलक्षणं चैतत्, दाप्यते इत्यादौ ठ्णेरनिटिऽ इति णेर्लोपेनापहृतत्वात्पकारस्य श्रवणं न स्यात् ? नैष दोषः; न हि लोपः सर्वापहारी, ठलोऽन्त्यस्यऽ इत्यन्त्यस्य लोपः । इह तर्हि क्नोपयतीतीडागमः प्राप्नोति । लाभोऽपि कश्चिन्नैवात्र परादौ सति दृश्यते । पुगन्तस्य गुणो वाच्यो वृद्धिः स्यादन्यथा यतः ॥ यत्किलेदमुच्यते---पुटि सति गुणविधौ पुगन्तग्रहणं न कर्तव्यम्, ठ्सार्वधातुकार्धधातुकयोःऽ इत्येव सिद्धत्वादिति, तदप्याशावादमात्रम्; यतः परादावप्यवश्यं पुटि गुणो विधेयः, अन्यथा ठचो ञ्णितिऽ इति वृद्धिप्रसङ्गात् ॥
सिद्धान्तकौमुदी
चपयति । चययति । ञित्करणसामर्थ्यादस्य णिज्विकल्पः । चयति । चयते । प्रणिचयति । प्रनिचयति । (गणसूत्रम् -) नान्ये मितोऽहेतौ । अहेतौ स्वार्थे णिचि ज्ञपादिभ्योऽन्ये मितो न स्युः । तेन शमादीनाममन्तत्वप्रयुक्तं मित्त्वं न । 1631 घट्ट चलने 1632 मुस्त संघाते 1633 खट्ट संवरणे 1634 षट्ट 1635 स्फिट्ट 1636 चुबि हिंसायाम् 1637 पुल सङ्घाते । पूर्ण इत्येके । पुण इत्यन्ये । 1638 पुंस अभिवर्धने 1639 टकि बन्धने । टङ्कयति । टङ्कति । 1640 धूस कान्तिकरणे । धूसयति । दन्त्यान्तः । मूर्धन्यान्त इत्येके । तालव्यान्त इत्यपरे । 1641 कीट वर्णे 1642 चूर्ण संकोचने 1643 पूज पूजायाम् 1644 अर्क स्तवने । तपन इत्येके । 1645 शुठ आलस्ये 1646 शुठि शोषणे । शुण्ठयति । शुण्ठति । 1647 जुड प्रेरणे 1648 गज 1649 मार्ज शब्दार्थौ । गाजयति । मार्जयति । 1650 मर्च । मर्चयति । 1651 घृ प्रस्रवणे । स्रावण इत्येके । 1652 पचि विस्तारवचने । पञ्चयति । पञ्चति । पञ्चते इति व्यक्तार्थस्य शपि गतम् । 1653 तिज निशाने । तेजयति । 1654 कॄत संशब्दने
अर्त्तिह्रीब्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ - अर्ति ह्यी व्ली री क्नूयी क्ष्मायी आत् एषां द्वन्द्वात्षष्ठी । "पुक् णौ" इति छेदः । तदाह — एषां पुक्स्याण्णौ इति । पुकि ककार इत्, उकार उच्चारणार्थः । कित्त्वादन्तावयवः । चाप् इ इति स्थिते चेत्यनुवर्त्त्य मित्त्वस्याऽनुकर्षणेन मित्त्वाद्ध्रस्वेचपी॑त्यस्मात्तिबादौ परिनिष्ठितमाह — चपयतीति । आत्त्वाऽभावपक्षे त्वाह — चययतीति । चेर्णिचि वृद्धौ आयादेशे मित्त्वादुपधाह्यस्व इति भावः । ननु चिञ्धातोरिह ञित्करणं व्यर्थम्, ण्यन्ताण्णिचश्चेत्येव उभयपदसिद्धेः । चौरादिकस्याऽस्य नित्यं ण्यन्तत्वेन चयति चयते इति केवलस्याऽण्यन्तस्य शशशृङ्गायमाणत्वदित्यताअह — ञित्करणसामथ्र्यादिति । एवं च णिजभावपक्षे उभयपदार्थमिह ञित्करणमर्थवदिति भावः । "शेषे विभाषाऽकखादौ" इति णत्वनविकल्पं मत्वा आह — प्रणिचयति प्रनिचयति इति । "नान्ये मितोऽहेतौ" इति । चुरादिगणसूत्रम् । अहेताबिति च्छेदः । किमपेक्षया अन्ये इत्याकाङ्क्षायां मितः प्राक् पठितज्ञपादिचिञन्तेभ्य इति लभ्यते । तदाह — अहेतौ स्वार्थं णिचीत्यादिना । अहेतावित्यस्य व्याख्यानं — स्वार्थे णिचीति । तेनेति । ज्ञपादिचिञन्तव्यतिरिक्तचुरादीनां मित्त्वनिषेधेनेत्यर्थः । शमादीनामिति । "शम आलोचने"अम रोगे॑इत्यादीनामग्रे चुरादौ पठिष्यमाणानामित्यर्थः । अमन्तत्वेति ।जनीजृष्क्नसुरञ्जौऽमन्ताश्चे॑त्यमन्तत्वनिमित्तकमित्यर्थ- । कृत संशब्दने ।
अर्त्तिह्रीब्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ - अर्तिह्यी । परत्वादन्तरङ्गत्वाच्च आदौ पुक्, पश्चाद्गुणः । अर्पयति । ह्येपयति । व्लेपयति । रेपयति । यलोपः । क्नोपयति । क्ष्मपयति । स्थापयति । चपयतीति । वर्णग्रहणे लक्षणप्रतिपदोक्तपरिभाषा न प्रवर्तते,आतोऽनुपसर्गे॑ इति कबाधनायह्वावामश्चे॑त्यारम्भादिति भावः । ज्ञपादिभ्य इति । मुख्यमते पञ्च ज्ञपादयः । मतान्तरे तु सप्त पूर्ण इत्येके । पुणेत्यन्ये इति । ईदृशेषु पाठशुद्धिनिर्णेतुमशक्या । अत एव क्षीरस्वामिनोक्तम् — ॒पाठेऽर्थे चागमभ्रंशान्महतामपि मोहतः । नविद्मः किं जहीमोऽत्र किमुपादद्महे वयम् । इति । पूलपूर्णादिषु पाठे भ्रंशः । पजधातोर्मार्गसंस्कारोऽर्थ उत संस्कार एवेत्यर्थे भ्रंशः । आगमभ्रंशात् — -शास्त्रभ्रंशात् । चूर्ण संकोवने । प्रेरणे पठितस्य पुनः पाठोऽर्थभेदकृतः । मर्च चेति । क्वचिद्धातुपाठेऽस्याऽदृष्टत्वेऽपि नाऽयम प्रामाणिक इति मन्तव्यम् ।मिदचोऽन्त्यात्परः॑ इति सूत्रे कैयटेनाऽस्योपन्यस्तत्वात् ।मर्तो मर्तं मर्चयति द्वयेने॑ति प्रयोगदर्शनाच्च ।
लघुसिद्धान्तकौमुदी
स्थापयति॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.