`अशमि, अतमि, अदमि` इति। `शमु उपशमे` (धातुपाठः-1201), `तमु काङक्षायाम्` (धातुपाठः-1202), `दमु उपशमे` (धातुपाठः-1203), लुङादि पूर्ववत्। `शमकः` इत्यादौ ण्वुल्। `शमः` इत्यादौ घञ्। `यामकः, रामकः` इति। `यम उपरमे` (धातुपाठः-984), `रमु क्रीडायाम्` (धातुपाठः-856)। अनुदात्तोपदेशावेतौ। अथ कथमुद्यमोपरमौ? इत्याह--`उद्यमोपरमौ` इत्यादि। `अनुगन्तश्यौ` इत्यादि। साधुत्वेनेति शेषः। निपातनादेतो साधुत्वेन वेदितव्यावित्यर्थः।`शमी, तमी, दमीत्यत्र यथा स्यात्` इति। शमादिभ्यः `शमित्यष्टाभ्यो धिनुण्`
3|2|141 । असत्युपदेशग्रहणेऽत्र न स्यात्; प्रत्ययस्वरे कृते धातोरनुदात्तत्वात्। उपदेशग्रहणे तु सति तेनाद्यवस्था लक्ष्य इति यद्यप्युततरकालमनुदात्तत्वं भवति, तथापि भवत्येव प्रतिषेधः; उपदेशावस्थायामुदात्तत्वात्। `इह` इत्यादि। यद्युपदेशग्रहर्ण न क्रियते, ततो यामकः, रामक इत्यत्रापि स्यात्; `लिति`
6|1|193 इति प्रत्ययात्? पूर्वस्योदात्तत्वविधानात्। उपदेशग्रहणे तु न भवति; उपदेशेऽनुदात्तत्वात्। `अनाचमिकमिवमीनामिति वक्तव्यम्` इति। `कमु कान्तौ` (धातुपाठः-443), `टुवम उद्गिरर्णे` (धातुपाठः-849), `चम छमु, चमु, झमु अदने` (धातुपाठः-469,470,471,472) एषां त्रयाणां धातुनां प्रतिषेधो न भवतोत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--चमेस्तावदनाचमेरिति सूत्र एवोपादानात्? प्रतिषेधो न भवतीति। इतरयोस्तु `धामदेवाङ् डडडऔ`
4|2|8 , `धनहिरण्यात्? कामे`
5|2|64 इति निपतनादिति। अथ कथमामः? इत्याह--`आम ति चौरादिकस्य` इत्यादि। `अम रोगे` (धातुपाठः-1720) इत्यस्य चौरादिकस्य णिचि वृद्धौ, `एरच्`
3|3|56 इत्यचि कृते-आम इति। न हि णिच्यपि वृद्धेः प्रतिषेधो भवति; तस्याचिण्कृत्त्वात्। अकृत्त्वं तु पूर्ववद्वेदितव्यम्। ननु `जनीजृष्क्ससुरञ्जोऽमन्ताश्च` (धातुपाठः-817 अनन्तरम्? ग।सू।) इति मित्संज्ञायां सत्याम्? `मितां ह्यस्वः`
6|4|92 इत्यनेनेह णौ भवितव्यम्? इत्यत आह--`अत्र हि भित्त्वं नास्ति` इति। कथं नास्ति? इत्याह--`नान्ये` इत्यादि। यस्तु भ्वादिः `अम गत्यादिषु` (धातुपाठः-465) पठते, अम इत्येवं तस्य भवितव्यम्। अथ कथं विश्राम इति, न चायमसाधुरिति शक्यते वक्तुम्, यतः `सूर्यविश्रामा भूमिः` इति प्रयोगो द#ऋश्यते? इत्याह--`एवमादिकं प्रयोगम्` इत्यादि॥