Page loading... Please wait.
7|3|33 - आतो युक् चिण्कृतोः
॥ तस्मै पाणिनये नमः ॥
7|3|33
SK 2761
आतो युक् चिण्कृतोः   🔊
सूत्रच्छेदः
आतः (षष्ठ्येकवचनम्) , युक् (प्रथमैकवचनम्) , चिण्कृतोः (सप्तमीद्विवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
आकारान्तस्य अङ्गस्य चिणि कृति ञ्णिति युगागमो भवति। अदायि। अधायि। कृति दायः। दायकः। धायः। धायकः। चिण्कृतोः इति किम्? ददौ। दधौ। चौडिः, बालाकिः, बाह्वादित्वातिञ्। ज्ञा देवता अस्य ज्ञः।
`चिणि कृति च` [`च` नास्ति--काशिका] इति। चिण्ग्रहणमकृदर्थम्। अकृत्त्वं तु तस्य द्वितीयधात्वधिकारेऽविहितत्वात्। `अदायि, अधायि` इति। ददातिदधात्योः पूर्ववल्लुङादिकार्यम्। `दायः, धायः` इति। धञ्। `दायकः, धायकः` इति। ष्वुल्। `ददौ, दधौ` इति। `आत औ णलः` 7|1|34 इत्यौत्वम्। `चौङिः, बालाकिः` इति। चूडाबलाकाभ्यां बाह्वादीञ्। अचामादेरित्यनुवृत्तेरत्र न भविष्यतीति यो मन्येत, तं प्रत्युदाहरणान्तरमाह--`ज्ञा देवता अस्येति ज्ञः` (इति)। `सास्य देवता` 4|2|23 इत्यण्। अत्र व्यपदेशिवदभावेनाचामादिराकारो भवति। अत्रासति चिण्कृद्ग्रहणे सत्यामप्यचामादेरित्यनुवृत्तौ स्यादेवात्र युक्। `व्यपदेशिवदभावोऽप्रातिपदिकेन` (शाक।प।65) इत्येतच्च प्रत्ययवधिविषय एव ह्रुक्तम्॥
चिण्ग्रहणमकृदर्थम् । ददौ, दधाविति । ननु च ठात औ णलःऽ इत्यौत्वमत्र बाधकं भविष्यति, अनवकाशा हि विधयो बाधका भवन्ति, सावकाशं चौत्वम्, कोऽवकाशः ? यदा उतमे णलि णित्वाभावः ? एवं तर्हि ठचिणाणलोःऽ इत्यनुवर्तिष्यते, चिणि तु वचनाद्भविष्यति, तत्राह---चौडिर्बालाकिरिति । बाह्वादित्वादिञ् । अत्र दाक्ष्यादौ चरितार्थं यस्येतिलोपं बाधित्वा परत्वाद्यौक् स्यात् । अचामादेरित्यनुवृतेर्न भविष्यति ? अत आह---ज्ञा देवता अस्येति । आदिवद्भावात्र प्रसङ्गः । किञ्च---ठचामादेःऽ इत्यनुवृतौ दरिद्रायक इत्यत्र न स्यात् ॥
सिद्धान्तकौमुदी
आदन्तानां युगागमः स्याच्चिणि ञिति णिति कृति च । दायिता । दाता । दायिषीष्ट । दासीष्ट । अदायि । अदायिषाताम् । स्थाघ्वोरिच्च (कौमुदी-2389) । अदिषाताम् । अधायिषाताम् । अधिषाताम् । अग्लायिषाताम् । अग्लासाताम् । इत्यते । अचिण्णलोः (कौमुदी-2574) इत्युक्तेर्हनस्तो न । हो हन्तेः-(कौमुदी-358) इति कुत्वम् । घानिता । हन्ता । धानिष्यते । हनिष्यते । आशीर्लिङि वधादेशस्यापवादश्चिण्वद्भावः । आर्धधातुके सीयुटीति विशेषविहितत्वात् । घानिषीष्ट । पक्षे वधिषीष्ट । अघानि । अघानिषाताम् । अहसाताम् । पक्षे वधादेशः । अवधि । अवधिषाताम् । अघानिष्यत । अहनिष्यत । न च स्यादिषु चिण्वदित्यतिदेशाद्वधादेशः स्यादिति वाच्यम् । अङ्गस्य (कौमुदी-200) इत्यधिकारादाङ्गस्यैवातिदेशात् । गृह्यते । चिण्वदिटो न दीर्घत्वम् । प्रकृतस्य वलादिलक्षणस्यैवेटो ग्रहोऽलिटि-(कौमुदी-2562) इत्यनेन दीर्घविधानात् । ग्राहिता । ग्रहीता । ग्राहिष्यते । ग्रहीष्यते । ग्राहिषीष्ट । ग्रहिषीष्ट । अग्राहि । अग्राहिषातम् । अग्रहीषाताम् । दृश्यते । अदर्शि । अदर्शिषाताम् । सिचः कित्त्वादम्न । अदृक्षाताम् । गिरतेर्लुङि ध्वमि चतुरधिकं शतम् । तथा हि चिण्वदिटो दीर्घो नेत्युक्तम् । अगारिध्वम् । द्वितीये त्विटि वॄतो वा (कौमुदी-2391) इति वा दीर्घः । अगरीध्वम् । अगरिध्वम् । एषां त्रायाणां लत्वं ढत्वं द्वित्वत्रयं चेति पञ्च वैकल्पिकानि । इत्थं षण्णवतिः । लिङ्सिचोः (कौमुदी-2528) इति विकल्पत्वादिडभावे उश्च (कौमुदी-2368) इति कित्त्वम् । रपरत्वं हलि च (कौमुदी-354) इति दीर्घः । इणः षीध्वं-(कौमुदी-2247) इति नित्यं ढत्वम् । अशीढ्र्वम् । ढवमानां द्वित्वविकल्पे अष्टौ । उक्तषण्णवत्या सह संकलने उक्ता संख्येति ॥ इङ् दीर्घश्चिण्वदिट् लत्वं ढत्वं द्वित्वत्रिकं तथा । इत्याष्टानां विकल्पेन चतुर्भिरधिकं शतम् ॥ हेतुमण्ण्यन्तात्कर्मणि लः । यक् । णिलोपः । शभ्यते मोहो मुकुन्देन ॥
आतो युक् चिण्कृतोः - आतोयुक् । अङ्गस्येत्यत्यधिकृतमाता विशेषितं, तदन्तविधिः ।अचो ञ्णिती॑त्यो ञ्णितीत्यनुवृत्तं कृतएव विशेषणं, नतु चिणः, तस्य णित्त्वाऽव्यभिचारात् । तदाह — आदन्तानामित्यादि । दायितेति.चिण्वदिट्पक्षे युक् । अदायिषातामिति ।स्थाध्वोरिच्चे॑त्येतद्बाधित्वा परत्वाच्चिम्वदिटि कृतेघुमास्थे॑तीत्त्वं न, अजादित्वात्त्वं न, अजादित्वात् । पुनःस्थाध्वोरिच्चे॑रिति तु न भवति, अझलादित्वात् । तत्र हिइको झ॑लिति सूत्रझलित्यनुवृत्तं । तथा च झलादिरेव सिच् किदिति लाभादिडादिः सिज्न कित्, तत्संनियोगादित्त्वमपि न भवतीत्याहुः । वस्तुतस्तु सत्यपि तस्मिन्नाऽत्र काचित् क्षतिः । सिचः कित्तवेऽप्यनिग्लक्षणया वृद्ध्या रूपसिद्धेरिति दिक् । अथ हनधातोः कर्मलकारे आह — हन्यते इति । अचिण्णलोरिति । लुटि चिण्वदिटि वृद्धौहनस्तोऽचिण्णलो॑रिति हनो नकारस्य तकारो न भवति, चिण्ववत्त्वादित्यर्थः । कुत्वमिति । तस्यणिति विहितस्याऽत्र चिण्वत्त्वात्प्राप्तिरिति भावः । घानिष्यते इति ।ऋद्धनो॑रिति बाधित्वा नित्यत्वाच्चिण्वदिट ।ऋद्धनो॑रिति तु चिण्वदिटि कृते न भवतीत्यनित्यं, तत्र वलीत्यनुवृत्तेरिति भावः । नन्वाशीर्लिङि घानिषीष्टेत्यत्र हन् सीष्ट इत#इ स्थिते परमपि चिण्वत्त्वं बाधित्वा वधादेशः प्राप्नोति, आद्र्धधातुके विवक्षिते विहितत्वेन वधादेशस्याऽन्तरङ्गत्वादित्यत आह — आशीर्लिङीत्यादि । नु घानितेत्यादौ अप्राप्तेऽपि वधादेशे आरम्भात्कथं वधादेशस्य चिण्वद्भावोऽपवादः स्यादित्यत आह — आद्र्धधातुके सीयुटीति ।स्यसिच्सीयु॑डिति सूत्रे अजन्तस्य स्ये, अजन्तस्य सिचि, अजन्तस्य आद्र्धधातुके, सीयुटि, अजन्तस्य तासौ, इत्यजन्तस्य चत्वारि वाक्यानि । एवं हनग्रहदृशामप्येकैकस्य चत्वारि वाक्यानीति स्थितिः । तत्र हन आद्र्धधातुके सीयुटिचिण्वदिड्विधिर्निरवकाशत्वाद्वधादेशापवादः, अप्राप्त एव वधादेशे आरम्भात् । वधादेशस्तु न चिण्वदिटोऽपवादः, तस्य वध्यादित्यत्रकर्तरि लिङि चरितार्थत्वादिति भावः । पक्षे इति । चिण्वत्त्वाऽभावपक्षे ।हनो वध लिङी॑ति वधादेशे वलादिलक्षणे इटि अतो लोपे रूपम्, वधादेशस्याऽदन्तत्वात् । न च हनधातोरनुदात्तत्वादुपदेशे एकाच्त्वात्तदीयवधादेशस्यापि तथाविधत्वादिह कथं वलादिलक्षम इडिति वाच्यम्, "एकाच उपदेशे" इत्यत्र "अच" इत्येकत्वसामथ्र्यादेकत्वे सिद्धे पुनरेकग्रहणबलेन इटि अतो लोपे रूपम्, वधादेशस्याऽदन्तत्वात् । न च हनधातोरनुदात्तत्वादुपदेशे एकाच्त्वात्तदीयवधादेशस्यापि तथाविधत्वादिह कथं वलादिलक्षण इडिति वाच्यम्, "एकाच उपदेशे" इत्यत्र "अच" इत्येकत्ववसामथ्र्यादेकत्वे सिद्धे पुनरकेग्रहणबलेनय उपदेशे एकाजेव नतु कदाप्यनेका॑जिति लभ्यते । तेन वधेर्हन्त्युपदेशमादाय एकाचोऽपि न निषेधः । आदेशोपदेशे अनेकाच्त्वादित्युक्तं प्राक् । लुङि तु सिचश्चिणि उपधावृद्धौ कुत्वेन घः । आत्मनेपदेष्वन्यतरस्या॑मिति वधादेशाऽभावः । अघानिषातामिति । चिण्वदिटि वधादेशाऽभावपक्षे रूपम् ।अहसातामिति । चिण्वदिडभावपक्षेहनः सि॑जिति कित्त्वादनुदात्तोपदेशेत्यनुनासिकलोपः । पक्षे अवधीति ।आत्मनेपदेष्वन्यतस्या॑मिति वधादेशपक्षे इत्यर्थः अवधिषातामिति ।आत्मनेपदेष्वन्यतस्या॑मिति वधादेशस्यापि पाक्षिकतयाऽप्राप्तेपि वधादेशे चिण्वत्त्वस्यारम्भन्नापवादत्वमिति भावः । ननु चिणि वधादेशस्य दृष्टत्वात्स्यादिषु चिण्वत्त्वाद्वधादेशः स्यादित्याशङ्क्य परिहरति — न चेत्यादिना । आङ्गस्यैवेति । वधादेशस्तु द्वैतीयीकः, न त्वङ्गाधिकारस्थ इति भावः । अथ "ग्रह उपादाने" इत्यस्माददुपधात्कर्मलकारे उदाहरति — गृह्रते इति ।ग्रहिज्ये॑ति संप्रसारणम् । अथ लुटि तासि चिण्वदिटिग्रहोऽलिटी॑ति दीर्घमाशङ्क्याह — चिण्वदिटो न दीर्घत्वमिति । कुत इत्यत आह — प्रकृतस्येति । वलादिलक्षणस्य इटः प्रकृतत्वात्तस्यैवग्रहोऽलिटी॑ति दीर्घविधौ ग्रहणं नतु चिण्वदिट इति भाष्ये स्पष्टम् । अथ दृशेः कर्मलकारे उदाहरति — दृश्यते इति । लिटि- ददृशे । लुटि तासि चिण्वदिट्पक्षे — दर्शिता । चिण्वत्त्वाऽबावेसृजिदृशो॑रित्यम् । द्रष्टा.दर्शिष्यते । द्रक्ष्यते । दर्शिषीष्ट । चिण्वदिडभावे तुलिङ्सिचावात्मनेपदेषु॑ इति सिचः कित्त्वात्सृजिदृशो॑रित्यम्न । नापि लघूपधगुणः । दृक्षीष्ट । अदर्शीति.चिणि लघूपधगुणः । अदर्शिषातामिति । चिण्वदिटि रूपम् । चिण्वत्त्वाऽभावे त्वाह — सिचः कित्त्वादम्नेति ।लिङ्सिचावात्मनेपदेषु॑ इति सिचः कित्त्वात्सृजिदृशो॑रित्यम्न भवति, अकितीति पर्युदासादित्यर्थः । अथ गृधातोः कर्मलकारे यकि ऋत इत्त्वेहलि चे॑ति दीर्घे — गीर्यते । जगरे । लुटि तासि चिण्वत्त्वपक्षे — गारिता । चिण्वत्त्वाऽभावे वलादिलक्षणे इटि गुणे रपरत्वे — गरिता गरीता ।वृतो वे॑ति वा दीर्घः । गारिष्यते गरिष्यते गरीष्यते । गीर्यताम् । अगीर्यत । गीर्येत । गारिषीष्ट । चिण्वत्त्वाऽभावपक्षे तुलिङ्सिचोरात्मनेपदेषु॑ इति इड्विकल्पः । इडभावपक्षेउश्चे॑ति कित्त्वम् । इत्त्वम् । रपरत्वम् ।हलि चे॑ति दीर्घः । षत्वम् । गीर्षीष्ट । इट्पक्षे तु — गारिषीष्ट । लुङि — अगारि । अगारिषाताम् । अगीर्षाताम्- अगरिषातामिति सिद्धवत्कृत्य आह — लुङि ध्वमि चतुरधिकं शतमिति ।रूपाणी॑ति शेषः । तदेवोपपादयति — तथाहिति । अगारिध्वमिति । गृ स् ध्वम् इति स्थिते चिण्वदिटि वृद्धौ रपरत्वेधिचे॑ति सलोपे रूपमिति भावः । द्वितीये त्विटीति । चिण्वदिडभावपपक्षे वलादितलक्षणे सिच इटि ऋकारस्य गुणे रपत्वेधि चे॑ति सलोपे "वतो वा" इति दीर्घविकल्पे अगरिध्वम्, अगरीध्वमिति रूपद्वयमित्यर्थः । एषामिति । एषां त्रयाणां मध्ये एकैकस्मिन् रेफस्यअचि विभाषे॑ति लत्वम् । "विभाषेटः" इति वा धस्य ढत्वम् । तथा धस्य,तदादेशढस्य,वस्य, मस्य च द्वित्वत्रयमित्येवं पञ्च वैकल्पिकानीत्यर्थः तत्र धढयोर्मस्य चअनचि चे॑ति द्वित्वविकल्पः । वकारस्य तु "मय" इति पञ्चमीमाश्रित्य "यणो मयः" इति द्वित्वविकल्पैति विवेकः । यद्यपि धढयोर्वस्य मसय् च द्वित्वचतुष्टयमिति वक्तुमुचितं, तथापि ढस्य धस्थानिकतया धढयोरेकत्वमभिप्रेत्यद्वित्वत्रय॑मित्युक्तिः । इत्थमिति । एवं च त्रयाणामेषां लत्वविकल्पे रेफवन्ति त्रीणि, लकारवन्ति त्रीणीति षट् (६) । एषु षट्सु धस्य द्वित्वविकल्पे एकधानि षट्, द्विधानि च षडिति द्वादश (१२) । तथा रेफवत्सु त्रिषु लकारवत्सु च त्रिषु ढस्य द्वित्वविकल्पे एकढानि षट्, द्विढानि च षडिति द्वादश (१२) । उभयेषामपि द्वादशानां मेलने चतुर्विंशतिः । (२४) । एषु वस्य द्वित्वविकल्पे एकवानि चतुर्विंशति, द्विवानि चतुर्विंशतिरित्यष्टाचत्वारिंशत् । (४८) । एषु मस्यद्वित्वविकल्पे एकमान्यष्टाचत्वारिंशत्,द्विमान्यष्टाचत्वारिंशदिति (९६) षण्णवतिरित्यर्थः । लिङ्सिचोरितीति । चिण्वदिडभावपक्षे वलादिलक्षणस्य इटोलिङ्सिचोरिति विकल्पितत्वात्तदभावपक्षे "उश्चे" ति सिचः कित्त्वाद्गुणाऽभावे ऋत इत्त्वे रपरत्वेहलि चे॑तिदीर्गे रेफादिणः परत्वात्इणः षीध्व॑मिति नित्यं ढत्वे अर्गीढ्वमिति रूपमित्यर्थः । ढवमानामिति । ढस्यअचो रहाभ्या॑मिति द्वित्वविकल्पे एकढं द्विढमिति द्वे रूपे । तयोर्वस्य "यणो मयः" इति द्वित्वविकल्पे एकवे द्वे , द्विवे द्वे इति चत्वारि (४) । एषु चतुर्षु मस्यअनचि चे॑ति द्वित्वविकल्पे एकमानि चत्वारि, द्विमानि चत्वारीत्यष्टौ (८) रूपाणीत्यर्थः । षण्णवत्येति । उक्तषण्णवत्या अष्टानां मेलने सति या सङ्ख्या सिध्यति सा चतुरुत्तरशतसङ्क्या (१०४) उक्तेति ज्ञेयमित्यर्थः । उक्तप्रक्रियां श्लोकेन सङ्गृह्णाति — इट्दीर्घ इत्यादिना । वलादिलक्,ण इट्,वृतो वे॑ति दीर्घः । अजन्तलक्षणश्चिण्वदिट्,अचि विभाषे॑ति लत्वं, "विभाषेट" इति वा ढत्वं, धढवमानां द्वित्वत्रिकमित्यष्टानां विकल्पाच्चतुरधिकं शतं रूपाणीत्यर्थः ।शमय्ते मोहो मुकुन्देने॑त्यत्र प्रक्रियां दर्शयति — हेतुमण्ण्यन्तादिति । शमधातोर्हेतुमण्णौ उपधावृद्धौ मन्तत्वेन मित्त्वाद्ध्रस्वे शमीत्यस्मात्कर्मणि लः, नतु भावे, हेतुमण्ण्यन्तस्य सकर्मकत्वनियमादिति भावः । यगिति । तङि कृतेसार्वधातुके य॑गित्यनेन॑ति शेषः । णिलोप इति ।णेरनिटीत्यनेने॑ति शेषः । लुटि तासि शमि इ ता इति स्थिते अमन्तत्वेन मित्त्वान्नित्यमुपधाह्यस्वे प्राप्ते — -
आतो युक् चिण्कृतोः - आतो युक् ।अचो ञ्णिती॑त्यतो ञ्णितीत्यनुवर्तते । तच्च कृतो विशेषणं न तु चिणः, तस्य णित्त्वेनाऽव्यभिचारात् । चिण्कृतोः किम् । चौडिः । बालाकिः । बाह्वादित्वादिञ् । ददौ । ञ्णितीति किं । पानीयम् । दानीयम् । अदायिषातामिति ।स्थाधवोरिच्चे॑त्येतद्बाधित्वा परत्वाच्चिण्वदिटि कृतेघुमास्थे॑ तीत्वं न भवति, अजादित्वात् ।स्थाध्वोरिच्चे॑त्यपि पुनर्न् भवति, अज्झलादित्वादित्याहुः । तेषामयमाशयः — इको झ॑लिति सूत्राज्झलनुवर्तते । तथा च झलादिरेव सिच् किन्न त्वयमिडादिः सिच् । एवं च तत्संनियोगशिष्टत्वादित्त्वमप्यत्र न भवतीति । वस्तुतस्तु सत्यपि तस्मिन्नेह काचित्क्षतिः- सिचः कित्त्वेऽप्यनिग्लक्षणाया अनिषेधात्अचो ञ्णिती॑ति वृद्ध्या रूपनिष्पत्तेः । आशीर्लिङीति । न तु लुङि । तत्र चिण्वद्भावात्आत्मनेपदेष्वन्यतस्यार॑मिति वधादेशस्यापि वैकल्पिकतया येन नाप्राप्तिन्यायऽभावादिति भावः । आद्र्धधातुके सीयुटीत्यादि । यद्यपिहनो वध लिङी॑ त्यत्रापि आद्र्धधातुकाधिकारादाद्र्धधातुके लिङीत्यपि समानं, तथापि लिङीति पदद्वयसाधारणं , सीयुट् तु आत्मनेपद एवेति विशेषविहितत्वमस्तीति भावः । अहसातामिति । चिण्वदिटोऽभावेहनः सि॑जिति कित्त्वात्,अनुदात्तोपदेशे॑ त्यनुनासिकलोपः । चिणि वधादेशस्य दृष्टत्वाच्चिण्वद्भावेन स्यादिषु प्राप्तिमाशङ्क्य परहरति — नचेत्यादिना । अदर्शिषातामिति ।न दृशः॑ इति क्सस्य निषेधादिह सिचि चिण्वदिट् । सिचः कित्त्वादिति ।लिङ्गिचावात्मनेपदेषु॑ इत्यनेन । लत्वमिति ।अचि विभाषे॑ति । गिरते रेफस्य ल्वे षट् । ढत्वमिति ।विभाषेटः॑ इत्यनेन । षण्णां ढत्वे द्वादश । द्वित्वत्रयं चेति ।अनचि चे॑ति । द्वादशानां मध्ये षण्णां ढस्य, षण्णां धस्य च द्वित्वे चतुर्विशतिः (२४) ।मय॑ इति पञ्चमीयण॑ इति षष्ठीति पक्षे वकारस्य द्वित्वे त्वष्टाचत्वारिंशत् (४८) । अनचि चे॑ति मकारस्य द्वित्वे षण्णवतिः (९६) । ढवमानामिति ।अचो रहाभ्या॑मिति द्वित्वे द्वयम् (२) । द्वयोरपि वस्ययणो मयः॑ इति द्वित्वे चत्वारि (४) । चतुर्णामपि मस्यअनचि च॑ इति द्वित्वे त्वष्टौ (८) ।
लघुसिद्धान्तकौमुदी
आदन्तानां युगागमः स्याच्चिणि ञ्णिति कृति च। दायिता, दाता। दायिषीष्ट, दासीष्ट। अदायि। अदायिषाताम्॥ भज्यते॥
महाभाष्यम्
आतो युक् चिण्कृतोः कृद्ग्रहणं किमर्थम् ? ।। इह मा भूत् ‐ ददौ दधौ ।। नैतदस्ति प्रयोजनम्, अचिण्णलोरिति वर्तते ।। यद्यचिण्णलोरिति वर्तते, ‐ अदायि(3) अधायीत्यत्र न प्राप्नोति ।। वचनाच्चिणि भविष्यति ‐ अचिण्णलोरिति वर्तते ।। एवमपि चौडिः वालाकिरित्यत्र प्राप्नोति ।। लोपोऽत्र बाधको भविष्यति ।। इदमिह सम्प्रधार्यं ‐ लोपः क्रियतां युगिति, ‐ किमत्र कर्तव्यम् ? ।। परत्वाद्युक् ।। एवं तर्ह्यचामादेरिति वर्तते । यत्राचामादिराकारस्तत्र युगिति ।। एवमपि ज्ञा देवता अस्य स्थालीपाकस्य ज्ञः स्थालीपाकः ‐ अत्र प्राप्नोति । तस्मात्कृद्ग्रहणं कर्तव्यम् ।।