Page loading... Please wait.
7|3|32 - हनस्तोऽचिण्णलोः
॥ तस्मै पाणिनये नमः ॥
7|3|32
SK 2574
हनस्तोऽचिण्णलोः   🔊
सूत्रच्छेदः
हनः (षष्ठ्येकवचनम्) , तः (प्रथमैकवचनम्) , अचिण्णलोः (सप्तमीद्विवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तद्धितेषु इति निवृत्तम्, तत्सम्बद्धं किति इत्यपि। ञ्णिति इति वर्तते। हनः तकारोदेशो भवति ञिति, णिति प्रत्यये परतः चिण्णलौ वर्जयित्वा। घातयति। घातकः। साधुघाती। घातंघातम्। घातो वर्तते। अचिण्णलोः इति किम्? अघानि। जघान। धातो कार्यम् उच्यमानं धातोः प्रत्यये विज्ञायते। इह न भवति, वार्त्रघ्नम् इतरतिति।
`तद्धितेष्विति निवृत्तम्` इति। अस्वरितत्वात्। `तत्सम्बद्धं कितीत्यपि` इति। निवृत्तमित्यपेक्षते। तत्सम्बद्धत्वं पुनस्तस्य `किति च` 7|2|118 इत्यत्र `तद्धितेषु` 7|2|117 इत्यनुवृत्तेः। यदि पुनः कितीत्यनुवत्र्तत, ततो लक्षणे `जायापत्योष्टक्` 3|2|52 `अमनुष्यकर्त्तृके च` 3|2|53 इति टकि कृते--जायाध्नस्तिलकालक इत्यत्रापि स्यात्। ञ्णिद्ग्रहणं तु प्रत्ययमात्रेण सम्बद्धम्। अतः `तद्धितेषु` 7|2|117 इत्येतस्मिन्? निवृत्तेऽपि तदनुवत्र्तत एव। `घातयति` इति। हेतुमण्णिच्। `हौ हन्तेर्ञ्णिन्नेषु` 7|3|54 इति कृत्वम्। `घातकः` इति। ण्दुल। `साधुघाती` इति। `सुप्यजातौ णिनिस्ताच्छील्ये` 3|2|78 इति णिनिः। `घातंघातम्` इति। `आभीक्ष्ण्ये णमुल्? च` 3|4|22 , `आभीक्ष्ण्ये द्वे भवतः` (वा।887) इति द्विर्वचनम्। `घातः` इति। भादे घञ्? 3|3|18 । `अधानि` इति। लुङ्, `चिण्? भावकर्मणोः` 3|1|66 इति चिणादेशश्च; `भावकर्मणोः 1|3|13 इत्यात्मनेपदम्, `चिणो लुक्` 6|4|104 इति तकारस्य लुक्। `जघान` इति। लिट्, तिप्, तस्य णल्, `अभ्यासाच्च` 7|3|55 इति कुत्वम्-घकारः। अथेह कस्मान्न भवति--वृत्रं हतवानिति। `ब्राहृभ्रूणवृत्रेषु क्विप्` 3|2|87 , तदन्तात्? `तस्येदम्` 4|3|120 इत्यण्, `षपूर्वहन्धृतराज्ञामणि` 6|4|135 इत्यल्लोपः--वात्र्रध्नः, भ्रौणध्नः? इत्याह--`धातोः` इत्यादि। धातोरित्येवमुच्यार्य यो विहितः प्रत्ययः स धातुप्रत्ययः। धातौः कार्यमुच्यमानं तत्रैव धातुप्रत्यये भवति। एतच्च भौणहत्यमिति निपातनेन 6|4|174 ज्ञापितम्। तेन वात्र्रध्नः, भ्रौणध्न इत्यादौ न भवति। न ह्रत्र धातोरित्येवं प्रत्ययो विहितः, किं तर्हि? प्रातपदिकादित्त्येवम्॥
तद्धितेष्विति निवृतमिति । धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् । तत्सम्बद्धं कितीत्यपीति । निवृतमित्यपेक्ष्यते । ञ्णिद्ग्रहणं तु प्रत्ययमात्रेण सम्बद्धम्, अतः ठ्तद्धितेषुऽ इत्यस्मिन्निवृतेऽपि तदनुवर्तत एव । उदाहरणएषु ठ्हो हन्तेर्ञ्णिन्नेषुऽ इति कुत्वम् ॥
सिद्धान्तकौमुदी
हन्तेस्तकारोऽन्तादेशः स्याच्चिण्णिल्वर्जे ञिति णिति । नन्वत्राङ्गसंज्ञा धातुसंज्ञा च कंसविशिष्टस्य प्राप्ता । ततश्चाट्द्वित्वयोर्दोषः । किंच कुत्वतत्वे न स्याताम् । धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् । सत्यम् । प्रकृतिवच्चेति चकारो भिन्नक्रमः । कारकं च चात्कार्यम् । हेतुमण्णिचः प्रकृतेर्हन्यादेर्हेतुमण्णौ यादृशं कारकं धातावनन्तर्भूतं द्वितीयान्तं यादृशं च कार्यं कुत्वतत्वादि तदिहापीत्यर्थः । कंसमजीघतत् । (गणसूत्रम् -) कर्तृकरणाद्धात्वर्थे ॥ कर्तुव्यापारार्थंयत्करणं न तु चक्षुरादिमात्रमित्यर्थः । असिना हन्ति असयति । 1917 वल्क दर्शने 1918 चित्र चित्रीकरणे । आलेख्यकरण इत्यर्थः । कदाचिद्दर्शने । चित्रेत्ययमद्भुतदर्शने णिचं लभते । चित्रयति । 1919 अंस समाघाते 1920 वट विभाजने 1921 लज प्रकाशने ॥ वटि लजि इत्येके । वाण्टयति । लञ्जयति । अदन्तेषु पाठबवलाददन्तत्वे वृद्धिरित्यन्ये । वण्टापयति । लञ्जापयति । शाकटायनस्तु कथादीनां सर्वेषां पुकमाह । तन्मते कथापयति । गणापयतीत्यादि । 1922 मिश्र सम्पर्के 1923 संग्राम युद्धे । अयमनुदात्तेत अकारप्रश्लेषात् । अससंग्रामत । 1924 स्तोम श्लाघायाम् । अतुस्तोमत् । 1925 छिद्र कर्णभेदने । करणभेदन इत्यन्ये । कर्णेति धात्वन्तरमित्यन्ये । 1926 अन्ध दृष्ट्युपघाते । उपसंहार इत्यन्ये । आन्दधत् । 1927 दण्ड दण्डनिपातने 1928 अङ्क पदे लक्षणे च । आञ्चकत् । 1929 अङ्ग । आञ्जगत् । 1930 सुख 1931 दुःख तत्क्रियायाम् 1932 रस आस्वादनस्नेहनयोः 1933 व्यय वित्तसमुत्सर्गे । अवव्ययत् । 1934 रूप रूपक्रियायाम् । रूपस्य दर्शनं करणं वा रूपक्रिया । 1935 छेद द्वैधीकरणे । अचिच्छेदत् । 1936 छद अपवारण इत्येके । छादयति । 1937 लाभ प्रेरणे 1938 व्रण गात्रविचूर्णने 1939 वर्ण वर्णक्रियाविस्तारगुणवचनेषु । वर्णक्रिया वर्णकरणम् । सुवर्णं वर्णयति । कथां वर्णयति । विस्तृणातीत्यर्थः । हरिं वर्णयति । स्तौतीत्यर्थः । बहुलमेतन्निदर्शनम् । अदन्तधातुनिदर्शनमित्यर्थः । बाहुलकमन्येऽपि बोध्याः ॥ तद्यथा । 1940 पर्ण हरितभावे । अपपर्णत् । 1941 विष्क दर्शने 1942 क्षिप प्रेरणे 1943 वस निवासे 1944 तुत्थ आवरणे ॥ एवमान्दोलयति । प्रेङ्खोलयति । विडम्बयति । अधीरयतीत्यादि । अन्ये तु दशगणीपाठो बहुलमित्याहुः । तेनापठिता अपि सौत्रलौकिकवैदिका बोध्याः । अपरे तु नवगणीपाठो बहुलमित्याहुः । तेनापठितेभ्योऽपि क्वचित्स्वार्थेणिच् । रामो णिजित्यर्थ इत्यन्ये । सर्वे पक्षाः प्राचां ग्रन्थे स्थिताः ॥ (गणसूत्रम् -) णिङङ्गान्निरसने ॥ अङ्गवाचिनः प्रातिपदिकान्निरसनेऽर्थे णिङ् स्यात् । हस्तौ निरस्यति हस्तयते । पादयते ॥ (गणसूत्रम् -) श्वेताश्वाश्वतरगालोडिताह्वरकाणामश्वतरेतकलोपश्च ॥ श्वेताश्वादीनां चतुर्णामश्वादयोलुप्यन्ते णिङ् च धात्वर्थे । श्वेताश्वतादीनां तेनातिक्रामति वा श्वेतयति । अश्वतरमाचष्टेऽश्वयते । गालोडितं वाचां विमर्शः, तत्करोति गालोडयते । आह्वरयते । केचित्तु णिचमेवानुवर्तयन्ति तन्मते परस्मैपदमपि ॥ (गणसूत्रम् -) पुच्छादिषु धात्वर्थ इत्येव सिद्धम् ॥ णिजन्तादेव बहुलवचनादात्मनेपदमस्तु ॥ मास्तु पृच्छभाण्ड-(कौमुदी-2676) इति णिङ्विधिः । सिद्धशब्दो ग्रन्थान्ते मङ्गलार्थः ॥। इति तिङन्तचुरादिप्रकरणम्‌ ।
हनस्तोऽचिण्णलोः - हनस्तोऽचिण्णलोः । "हन" इति षष्ठी । "त" इत्यत्राऽकार उच्चारणार्थः । तदाह - हन्तेस्तकार इति । "अन्तादेश" इत्यलोऽन्त्यपरिभाषया सिद्धम् । ञिति णिति चेति ।अचो ञ्णिती॑त्यतस्तदनुवृत्तेरिति भावः । तथा च हनो नकारस्य तत्वेहो हन्ते॑रिति कुत्वेन हस्य घकारेघाती॑ति ण्यनतं फलितम् ।ततो लटिघाततयी॑ति रूपं स्थितम् । कृतो लुकि समासनिवृत्तौ सुब्लुकोऽपि निवृत्तौ कंसमिति च स्तितम् । "आक्यानात्कृतः" इति वार्तिकस्थंप्रकृतिवच्च कारक॑मित्यंशं शङ्कोत्तरत्वेन योजयिष्यञ्छङ्कामवतारयति — नन्विति । कंसवशिष्टस्येति ।कंसवध॑शब्दस्यैवेत्यर्थः । तस्मादेव णिचो विधानादिति भावः । ननु कंसवधशब्दस्य अङ्गत्वे का हानिरित्यत आह — ततस्चेति । कंसवधशब्दस्याऽङ्गत्वादड्द्वित्वयोर्विषये दोषः स्यात् । कंसशब्दात्पूर्वमडागमः स्यात् ।कं॑सित्यस्यद्विर्वचनं स्यात् । इष्यते तु "कंसमजीघत" दित्येवं हनधातोरेवोभयमित्यर्थः । किं चेति । केंसं घातयतीति कुत्वतत्वे न स्यातामित्यर्थः । कुत इत्यत आह — धातोरिति । दातोर्हनित्यादितत्तत्स्वरूपेण ग्रहणे सति तत्प्रत्यये = धातोर्विहितप्रत्यये कार्यविज्ञानमिति परिभाषयेत्यर्थः । तेन वात्र्रघ्नमित्यत्रहनस्तोऽचिण्णलो॑रिति कुत्वं,हनस्तोऽचिण्णलोटरिति सूत्रे भाष्ये स्पष्टम् । तथा च प्रकृतेकंसं घातयती॑त्यत्रहो हन्ते॑रिति कुत्वं , "हनस्तोऽचिण्णलो" रिति तत्वं च न स्याताम्, अत्र णिचः प्रातिपदिकाद्विहितत्वेन धातोर्विहितत्वाऽभावदित्यर्थः । अत्र प्रत्ययलक्षणेन कृदन्ततया कृत्प्रकृत्यर्थस्य कर्मत्वेन कंसस्येति षष्ठी स्यादित्यप्याक्षेपोऽपि बोध्यः, तत्परिहारस्यापि वक्ष्यमाणत्वात् ।तामिमां शह्कामद्र्धाङ्गीकारेण परिहरति - सत्यमिति । कंसवधशब्दस्यैवाङ्गत्वमित्याद्यङ्गीक्रियते, दोषापादनं तु नाङ्गीक्रियत इत्यर्थः । प्रकृतिवच्चेतीति । "आख्यानात्कृतः" इति वार्तिकेप्रकृतिवच्चे॑ति चकारो भिन्नक्रमः ।प्रकृतिव॑दित्यनन्तरपठितश्चकारः कारकमित्यस्मादूध्र्वं निवेशनीय इति भावः । तदेवाभिनीय दर्शयति - कारकं चेति । चकारोऽयमनुक्तसङ्ग्रहार्थ इत्याह — चात्कार्यमिति । "समुच्चीयते" इति शेषः । तथा च कारकं कार्यं च प्रकृतिवदिति फलितम् । अत्र प्रकृतिशब्देन हेतुमण्णिचः प्रकृतिर्विवक्षिता, व्याख्यानात् । प्रकृताविव प्रकृतिवत् । सप्तम्यन्ताद्वतिः । तदाह — प्रकृतेर्हन्यादेर्हेतुमण्णाविति ।प्रयुज्यमाने सती॑ति शेषः । "कारक" मित्यस्य विवरण#ं — द्वितीयान्तमिति । द्वितीयातृतीयादिकारकविभक्त्यन्तमित्यर्थः । हन्ति कंसं कृष्णः, तं प्रेरयतीत्यर्थे कंस घातयति, कंसमजीघतदित्यादौ हेतुमण्ण्यन्ते प्रयुज्यमाने यद्द्वितीयादिकारकविभक्यन्तं यच्च कार्यं कुत्वतत्वाऽड्द्वित्वादि तत्सर्वंम् "आख्यानात्कृत" इत्यस्योदाहरणे कंसवधमाचष्टे कंसं घातयति, कंसवधमाचष्टे कंसमजीघतदित्यादावपि भवतीति फलितम् । तत्रकारक॑मित्यनेन कंसात्षष्ठी निरस्ता, उदाह्मतहेतुमण्ण्यन्तस्थले कृद्योगाऽभावेन कर्मणि द्वितीयाया एव सत्त्वात् ।कार्य॑मित्यनेन तु कंसस्य अड्द्वित्वनिरासश्चेति बोध्यम् । आख्यानशब्दश्च कथंचिद्वृत्तानुवादपरो, न तु भारतादिप्रसिद्धकंसवधादिकथापरः । तेन राजागमनमाचष्टे राजानामागमयतीत्यादि सिध्यति ।द्वितीयान्त॑मित्यत्र द्वितीयाग्रहममुपलक्षणम् । तेन पुष्ययोगमाचष्टे पुष्येण योजयतीति सिध्यतीति भाष्ये स्पष्टम् । कर्तृकरणाद्धात्वर्थे । इदमपि गणसूत्रम्,प्रातिपदिकाद्धात्वर्थे॑ इत्यस्यैव प्रपञ्चः । कर्तुः करणं - कर्तृकरणं, न तु कर्ता च करणं च इति द्वन्द्वः, व्याख्यानात् । तदाह — कर्तुव्र्यापारार्थमिति । अभिमतफलोत्पादनार्थमित्यर्थः । साधकतममिति यावत् । नन्वेवं सति "करणाद्धात्वर्थे" इत्येव सिद्धे कर्तृग्रहणं व्यर्थमित्यत आह — न तु चक्षुरादिमात्रमिति । कर्तृग्रहणं विहाय करणादित्येवोक्तौ चक्षुरादीन्द्रियमेव सुप्रसिद्धत्वात्करणादिति शब्देन गम्येत । अतः कर्तृग्रहणमित्याहुः । वस्तुतस्तुसाधकतमं करण॑मिति देवदत्तयती॑ति कर्तुरुदाजह्युः । कदाचिद्दर्शने इति । चित्रेत्यनुवर्तते । तदाह — चित्र इत्ययमिति । कदाचिद्दर्शने इत्यस्य विवरणम् — अद्भुतदर्शने इति ।चित्र चित्रीकरणकदाचिद्दर्शनयो॑रित्येव सुवचम् । वटि लजि इत्येके अदन्तेष्विति । अदन्तेषु पाठबलात् बण्ड लज्जेति कदाचिददन्तत्वमप्यनयोर्विज्ञायते । अदन्तत्वस्य च फलाऽभावादतो लोपं बाधित्वाअचो ञ्णिती॑ति वृद्धौअर्तिह्यी॑ति पुगित्यर्थः । फलितमाह — वण्टापयतीति । शाकटायनस्त्विति । ऋषिविशेषोऽयम् । सङ्ग्राम युद्धे । गणसूत्रमिदम् । युद्धवाचि सङ्ग्रामेति प्रातिपदिकं करोत्यर्थे णिचं लभते इत्यर्थः । ननुप्रातिपदिकाद्धात्वर्थे॑ इत्येव सिद्धे किमर्थमिदमित्यत आह — अनुदात्तेदिति । एतदात्मनेपदार्थमिति भावः । ननु सङ्ग्रामशब्दस्य प्रातिपदिकस्य अकारान्तत्वात्कथमनुदात्तेत्वमित्यत आह — अकारप्रश्लेषादिति । सङ्ग्रामशब्दादनुदात्तानुनासिकं पररूपेण प्रश्लिष्य निर्देशादिति भावः । अससङ्ग्रामतेति । लुङि चङि सङ्ग्रामशब्दस्य ण्यन्तस्य अङ्गत्वात्ततः प्रागडिति भावः । एतच्चभृशादिसूत्रे कैयटे स्पष्टम् । अग्लोपित्वान्नोपधाह्यस्वः । सुखदुःख तत्क्रियायाम् । सुखानुकूले दुःखानुकूले च व्यापारे इत्यर्थः । सुख दुःखेति प्रातिपदिकाभ्यां तत्करोतीत्यर्थे णिच् स्यादिति यावत् ।प्रातिपदिकाद्धात्वर्थेट इत्येव आभ्यां णिजित्याहुः । बहुलमेतन्निदर्शनम् । गणसूत्रमिदम् । एतेषां कथादीनामदन्तानां निदर्शनं = पाठ इत्यर्थः । तदाह — अदन्तेति । बहुलग्रहणस्य फलमाह — बाहुलकादिति । अपपर्णदिति । अग्लोपित्वान्न सन्वत्त्वमिति भावः । क्षिप प्रेरणे । क्षिपयति । अग्लोपस्य स्थानिवत्त्वान्न गुणः । एवमग्रेऽपि । वसनिवासे । वसयति । अदन्तत्वान्नोपधावृद्धि ।आन्दोलयती॑त्यादावदन्तत्वेन अग्लोपित्त्वान्नोपधाह्यस्वः । तदेवंबहुलमेतन्निदर्शन॑मित्यस्य कथाद्यदन्तविषयत्वमुक्त्वा मतान्तरमाह — अन्ये त्विति । भ्वादिः, अदादिः, जुहोत्यादिः, दिवादिः, स्वादिः, तुदादिः, रुधादिः, तनादिः, क्र्यादिः, चुरादिरिति दशगणी, तद्बहिर्भूता अपि सौत्रा- जुप्रभृतयः, लौकिकाः प्रेङ्खोलादयः, वैदिका — तद्रक्षांसि रात्रिभिरसुभ्न मित्यादौ सुभादयश्च सङ्गृहीता भवन्तीत्यर्थः । मतान्तरमाह — अपरे त्विति । चुरादिभिन्ना उदाह्मता ये नव गणास्तेभ्योऽपि णिज्बहुलग्रहणादस्माल्लभ्यत इत्यर्थः । मतान्तरमाह — चुरादिभ्य एवेति । वस्तुतस्तु भूवादिसूत्रे "पाठेन धातुसंज्ञे" ति भाष्यप्रतीकमुपादाय -स पाठो नोपलक्षणार्थः । किंतु इयत्ताप्रतिपादनार्थ इति कैयट आह — एवं चबहुलमेतन्निदर्शन॑मिति गणसूत्रमनार्षमिति शब्देन्दुशेखरे स्थितम् । णिङ्ङ्गान्निरसने इति । गणसूत्रम् । स्पष्टम् । ङित्त्वान्नित्यमात्मनेपदम् । ओताआआआतर । इदमपि गणसूत्रम् । ओताआआदीनामिति । ओताआ, अआतर, गालोडित, आह्वरक — एषामित्यर्थः । अआआदय इति । ओताऽआशब्देअआ॑शब्दः, अआतरशब्दे "तर" शब्दः, गालोडितशब्द "इत" शब्दः, आह्वरकशब्देक॑शब्दश्च लुप्यन्ते इत्यर्थः । णिङ् चेति । चकारलभ्यमिदम् । धात्वर्थे इति ।प्रातिपदिकाचित्त्विति । "ओताओ" त्यादिसूत्रे णिचमेवानुवर्तयन्ति न तु णिङमित्यर्थः । णिच्णिङोः फलभेदं दर्शयति — तन्मते इति । धात्वर्थे इत्येव सिद्धमिति । धातुपाठं रचयितुर्भीमसेनस्य वाकय्मिदमित्याहुः ।प्रातिपदिकाद्धात्वर्थे॑ इति णिचि सिद्धेपुच्छभाण्डचीवराण्णि॑ङिति न कर्तव्यमित्यर्थः । ननु नित्यात्मनेपदार्थंपुच्छभाण्डे॑ति णिङ्विधिरावश्यक इत्यत आह — णिजन्तादेव बहुलवचनादिति बहुलवचनादिति ।बहुलमेतन्निदर्शन॑मिति बहुलग्रहणादित्यर्थः । ननुपुच्छादिषु धात्वर्थ इत्येव णि॑जित्येव सिद्ध सिद्धशब्दो व्यर्थ इत्यत आह — सिद्धशब्द इति । धातुपाठात्मकग्रन्थसमाप्तौ सिद्धशब्दप्रयोगो मङ्गलार्थ इत्यर्थः । पस्पशाह्निकभाष्ये हिसिद्धे शब्दार्थसम्बन्धे॑ इति वार्तिकग्रन्थस्याऽ‌ऽदिमवार्तिकव्याख्यावसरेसिद्धशब्दोपादनं मङ्गलार्थ॑मित्युक्तम् ।मङ्गलादीनि मङ्गलमद्यानि मङ्गलान्तानि च शस्त्राणि प्रथन्ते॑ इति बूवादिसूत्रस्थभाष्याद्ग्रन्थान्तेऽपि मङ्गलस्य कर्तव्यतासिद्धिः । चुरादयः ।॥ इति बालमनोरमायाम् चुरादयः॥अथ दिवादयः ।अथ श्यन्विकरणा धातवो निरूप्यन्ते — । दीवु क्रीडेति । उदिदयम् । तेन क्त्वायामिड्विकल्पः, निष्ठायां च नेट् । झृषन्ता इति । जृष् झृष् वयोहानौ इत्येतत्पर्यन्ता इत्यर्थः ।
हनस्तोऽचिण्णलोः - णिच्प्रकृतिरिति । वधशब्दो णिच्प्रकृतिः, इदानां तु कृल्लक्यवशिष्टभाग एव प्रकृतिरित्यर्थः । आख्यानात्कृत इति । यद्यपिवध॑ शब्दः कृदन्तः, स आख्यानं न भवति तथाप्याख्यान वाची कृदन्तश्च कंसवधशब्दो भवत्येव, कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणात् । कृल्लुगिति ।हनश्च वधः॑इति विहितस्य अप्प्रत्ययस्य लुक् । प्रकृतिप्रत्यापत्तिरिति । विकारपरित्यागेन स्वरूपेणाऽवस्थितिरित्यर्थः । तदेतत्सकलमभिप्रेत्याह — कंसं हन् इ इति स्थिते इति । कंसविशिष्टस्येति । तस्मादेव णिचो विधानादिति भावः । दोष इति । कंसशब्दात्पूर्वमडागमः, कंस् इत्यस्य द्विर्वचनं स्यादित्यर्थः । किं चेति । एवं च कंसमजीघतदितीष्टं न सिध्येदिति भावः । तत्प्रत्यये — धातोर्विहितप्रत्यये । तेनवात्र्रघ्न॑मित्यत्रहनस्त॑ इति तत्वं न भवतीति ज्ञेयम् । उक्तदोषान्परिहरति — सत्यमिति ।प्रकृतिवच्चे॑ति चकारोऽनुक्तसङ्ग्रहार्थं इत्याह — — वात्कार्यमिति । यद्यप्यन्यतरादितदेशेनाप्यड्द्विर्वचने सिध्यतः, तथापि धाताप्रसिद्धे कंसवधाद्युपाख्याने एव णि॑जिति नाग्रहः, किं तूपाख्यानमात्रे । तेन राजागमनमाचष्टे राजानमागमयतीत्यादि सिध्यति । इह कृत्प्रकृतौ राज्ञः कर्तृत्वेऽपि गमेर्हेतुमण्णौगतिबुद्धी॑त्यनेन तस्य कर्मत्वमिति द्वितीयान्तमेव रूपातिदेश बलात्स्वीक्रियते । देवदत्तपाकमाचष्टे देवदत्तेन पाचयतीत्यत्र तु देवदत्तस्य कर्तृत्वानपायात्तृतीयैव भवति । रुक्मिणीहरणमाचष्टे इत्यादौह्मक्रोरन्यतरस्या॑मिति विकल्पाद्रुक्मिणीं रुक्मिण्या वा हारयतीति प्रयोगः । कर्तृकरणादिति । कर्तृग्रहणाऽभावे चक्षुषा पश्यति चक्षयतीत्यादावेव स्यान्न तु करिभिरवबध्नाति अवकरयतीत्यादौ । लोके इन्द्रियाणामेव करणत्वेन सुप्रसिद्धत्वात्, अतस्तत्सङ्ग्रहार्थं कर्तृग्रहणमिति मनोरमायां स्थितम् । नव्यास्तु — - साधकतमत्वेन विवक्षितं यत्तत्करणशब्देन गृह्रते न तु लोकप्रसिद्धकरणमेव । अन्यथाकर्तृकरणयोस्तृतीया॑ इत्यादावपि लोकप्रसिद्धकरणग्रहणप्रसक्त्याबाणेन हत॑ इत्यादि रूपं न सिध्येततथा च कर्तृग्रहमं विनाप्यवकरयतीति रूपसिद्धौ न किंचिद्बाधकमिति व्याख्यायकर्तृकरमा॑दित्यत्र समाहारद्वन्द्वं मत्वा देवदत्तेन पाचयति देवदत्तयतीत्युदाजह्युः । कदाचिद्दर्शने ।चित्रकरणकदाचिद्दर्शनयो॑रिति सुवचम् । अदन्तेषु पाठबलादिति । अदन्तस्य फलान्तराऽभावादतो लोपं बाधित्वा वृद्धिरित्यर्थः । सङ्ग्राम । सङ्ग्रामेति युद्धवाचि प्रातिपदिकं कर#ओत्यर्थे णिचं लभ्यते । अनुदात्तेदिति । एतच्चभृशादिभ्यो भुवी॑ति सूत्रे कैयटेनोक्तम् । अकारप्रश्लेषादिति । तेन प्रश्लिष्टस्येत्संज्ञा, प्रकृत्यकारस्य तुइष्ठव॑दिति टिलोपः । तथा च अग्लोपादससङ्ग्रामतेत्यत्र नोपधाह्यस्वः । सुख दुःख । तच्छब्देन प्रातिपदिकार्थौ पराभृश्येते । प्रातिपदिकाद्धात्वर्थ इत्येव सिद्धे अनयोः पाठः सोपसर्गात्प्रत्ययार्थ इत्येके । सुखदुःखाभ्यां तत्कियायामेव णिच् स्यान्न त्वाचष्ट इत्यस्मिन्नर्थे इत्येतदर्थः पाठ इत्यन्ये । पुच्छादिष्वति । भीमसेनस्य वाक्यम् । ग्रन्थान्त इति । भू सत्तायामित्यादिधातुपाठस्याऽन्त इत्यर्थः । इति चुरादयः ।अथ दिवादयः ।दिवु क्रीडा । उदित्करणं क्त्वायामिड्विकल्पार्थं निष्ठायामनिडर्थं, च । देवित्वा । द्यूत्वा.द्यूतम् । क्रीडायां — दीव्यन्ति माणवकाः । विजिगीषायां — - शत्रुं दीव्यति । विजिगीषते इत्यर्थः । कान्तिरिच्छा । द्युतेः पृथग्ग्रहणात् । षिवु ।परिषिषेवेति ।स्थादिष्वेवाऽभ्यासस्ये॑ति नियमो नेह प्रवर्तते, तत्रप्राक् सिता॑दित्यनवृत्तेः । अस्य चाऽप्राक्सितीयत्वात् । तेनाऽभ्यासस्य षत्वंपरिनिविभ्यः॑ इत्यनेन भवत्येव । न्यषवीदिति ।सिवादीनां वे॑ति विकल्पः । नृती । ईदित्करणंआईदित॑ इति निष्ठायामिण्निषेधार्थम् । यद्यपिसेऽसिची॑ति इटो विकल्पतत्वात्यस्य विभाषेऽत्यनेनैवेष्टं सिध्यति, तथापियस्य विभाषे॑त्यस्याऽनित्यत्वज्ञापनार्थमीदित्करणं, तेनदावितमिभराजधिया॑ इत्यादि सिद्धम् ।
लघुसिद्धान्तकौमुदी
अवर्णस्य ईत्स्यात् च्वौ। वेर्लोपे च्व्यन्तत्वादव्ययत्वम्। अकृष्णः कृष्णः संपद्यते तं करोति कृष्णीकरोति। ब्रह्मीभवति। गङ्गीस्यात्। (अव्ययस्य च्वावीत्वं नेति वाच्यम्)। दोषाभूतमहः। दिवाभूता रात्रिः॥
महाभाष्यम्
हनस्तोऽचिण्णलोः ।। हन्तेस्तकारे तद्धिते(1) प्रतिषेधः हन्तेस्तकारे तद्धिते(1) प्रतिषेधो वक्तव्यः । वार्त्रघ्नं भ्रौणघ्नम् उक्तं वा किमुक्तम् ? ।। धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात्सिद्धमिति ।। ( हनस्तोऽचिण्णलोः )