Page loading... Please wait.
7|3|15 - संख्यायाः संवत्सरसंख्यस्य च
॥ तस्मै पाणिनये नमः ॥
7|3|15
SK 1752
संख्यायाः संवत्सरसंख्यस्य च   🔊
सूत्रच्छेदः
संख्यायाः (पञ्चम्येकवचनम्) , संवत्सरसंख्यस्य (षष्ठ्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1 उत्तरपदस्य  7|3|10
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
सङ्ख्याया उत्तरपदस्य संवत्सरशब्दस्य सङ्ख्यायाश्च अचामादेरचः स्थाने वृद्धिर् भवति तद्धिते ञिति, णिति, किति च परतः। द्वौ संवत्सराबधीष्टो भृतो भूतो भावी वा द्विसांवत्सरिकः। सङ्ख्यायाः द्वे षष्टी अधीष्टो भृतो भूतो भावी वा द्विषाष्टिकः। द्विसाप्ततिकः। द्विषष्ठ्यादिशब्दो वर्षेषु संख्येयेषु वर्तमानः कालाधिकारविहितं प्रत्ययम् उत्पादयति। परिमाणान्तस्य असंज्ञाशाणयोः 7|3|17 इत्येव सिद्धे संवत्सरग्रहणम् परिमाणग्रहणे कालपरिमाणस्य अग्रहणार्थम्। तेन द्वैसमिकः, त्रैसमिकः इति उत्तरपदवृद्धिर् न भवति। द्विवर्षा, त्रिवर्षा माणविका इति अपरिमाणबिस्ताचित इति पर्युदासो न भवति।
`द्विसांवत्सरिकः` इति। पूर्ववत्? तद्धितार्थे समासः। ततः प्राग्वतीयष्ठञ्। `द्विषाष्टिकः, द्विसाप्ततिकः` इति। ननु च `तमधीष्टो भृतो भृतो भावी` 5|1|79 इत्यत्र कालादिति। 5|1|77 वत्र्तते, न द्विषष्टआदिः कालशब्दः, किं तर्हि? संख्याशब्दः, तत्कथं कालाधिकारविहितं प्रत्ययमुत्पादयति? इत्याह--`द्विषष्टआदिशब्दः` इत्यादि। कालवाचिशब्दस्तत्र कालग्रहणेन गृह्रते, द्विषष्टआदिशब्दो हि यदा वर्षेषु संख्येयेषु वत्र्तते, तदा कालवाचित्वात्? कालश्ब्दो भवति। ततः कालाधिकारीयं प्रत्ययमुत्यादयति। अथ संवत्सरग्रहणं किमर्थम्, यावतः `परिमाणान्तस्यासंज्ञाशाणयोः` 7|3|17 इत्यत्र परिमाणशब्देन परिच्छेदहेतुमात्र गृह्रते, न तु प्रस्थादिवदारोहपरिणाहपरिच्छेदहेतुः, अन्यथा हि शाणप्रतिषेधोऽनर्थकः स्यात्, न हि शाणः परिमाणमारोहपरणाहपरिच्छेदहेतुः, अतः कालोऽपि परिच्छेदहेतुर्भवति, ततश्च सोऽपि परिमाणमिति संवत्सरशब्दस्य `परिमाणस्यासंज्ञाशाणयोः` 7|3|17 इत्येव सिद्धम्? इति चोद्यनिरासायाह--`संवत्सरग्रहणम्` इत्यादि। परिमाणग्रहणेन कालपरिमाणस्य ग्रहणं मा भूदित्येवमर्थं संवत्सरग्रहणम्। संवत्सरग्रहणेनासावर्थो ज्ञाप्यते--`परिमाणग्रहणे कालपरिमाणग्रहणं न भवति` इति। ततश्च यत्र परिमाणग्रहणं तत्र कलपरिमाणं न गृह्रते। `तेन` इत्यादिना परिमाणग्रहणे कालपरिमाणस्याग्रहणे सति यदिष्टं सिध्यति तद्दर्शयति। `उत्तरपदवृद्धिरन भवति` इति। `परिमाणान्तस्य` 7|3|17 इत्यादिना। `द्विवर्षा` इति। द्वे वर्षे भृतो भूतो भावी वा, पूर्ववट्ठक्, तस्य `वर्षाल्लुक्` 5|1|87 इत्यनुवत्र्तमाने `चित्तवति नित्यम्` 5|1|88 इति लुक्। `पर्युदासो न भवति` इति। ङीप्प्रतिषेधे कत्र्तव्ये तेन प्रतिषेधः। प्रवत्र्तत एवेति `द्विगोः` 4|1|21 इति ङीब्न भवति॥
संवत्सरश्च संख्या च संवत्सरसंख्यम्, समाहारद्वन्द्वः । द्विसांवत्सरिक इति । ठ्प्राग्वतेष्ठञ्ऽ, तस्य ठध्यर्धपूर्वऽ इति लुग्न भवति, अनार्हीयत्वात् । द्विषाष्टिक इति । ननु ठ्तमधीष्टो भृतःऽ इत्यत्र कालादिति वर्तते, तत्कथं द्विषष्ट।लदिशब्देभ्यः प्रत्ययः ? इत्यत आह---द्विषष्ट।लदिशब्द इति । कालवृत्तिः शब्दस्तत्र गृह्यते, न मासादय एवेति भावः । ननु च ठ्परमाणान्तस्यासंज्ञाशाणयोःऽ इत्यत्र परिच्छेदहेतुत्वमात्रं गृह्यते, न त्वारोहतः परिणाइतश्च येन मीयते तदेव प्रस्थादि; अन्यथा शाणप्रतिषेधोऽनर्थकः स्यात्; कालश्चापि परिच्छेदहेतुर्भवत्येव, ततश्च संबत्सरग्रहणमनर्थकम्, परिमाणान्तस्येत्येव सिद्धत्वात् ? इत्यत आह---संवत्सरग्रहणमिति । द्वैसमिक इति । अधीष्टादिषु ठ्समायाः खःऽ, ठ्द्विगोर्वाऽ इति पक्षे ठञ् । न केवलं वृद्धिविषयमेव ज्ञापकम्, किं तर्हि ? सार्वत्रिकमित्याह---द्विवर्षा माणविकेति । द्वे वर्षे भूता इति पूर्ववट्टञ्, तस्य ठ्वर्षाल्लुक्ऽ, ठ्चितवति नित्यम्ऽ इति लुक् । पर्युदासो न भवतीति । प्रतिषेधस्य । तेन प्रतिषेध एव भवति । अथ संख्याग्रहणं किमर्थम्, यावता संख्ययापि परिच्छिद्यते, तत्र ठ्परिमाणान्तस्यऽ इत्येव सिद्धम् ? केचिदाहुः---संख्याग्रहणमपि ज्ञापकार्थमेव, परिमाणग्रहणेन संख्यापि न गृह्यत इति । तथा च ठपरिमाणबिस्ताचितऽ इत्यत्र वृतावुक्तम्---ठ्कालः संख्या च परिमाणं न भवति । द्विवर्षा, त्रिवर्षा, द्विशता, त्रिशताऽ इति । अपर आह---साक्षाच्छिष्टेन निमितभावेनानुमितं कार्यित्वं मा बाधीति परिमाणात्पृथगिह संख्याग्रहणं कृतमिति ॥
सिद्धान्तकौमुदी
संख्याया उत्तरपदस्य वृद्धिः स्यात् ञिदादौ । द्विसांवत्सरिकः । द्वे षष्टी भृतो द्विषाष्टिकः । संख्यायाः परिमाणान्तस्येत्येव सिद्धे संवत्सरग्रहणं परिमाणग्रहणे कालपरिमाणस्याग्रहणार्थम् । तेन द्वैसमिक इत्युत्तरपदवृद्धिर्न ॥
संख्यायाः संवत्सरसंख्यस्य च - ठञि त्वादिवृद्धौ प्राप्तायां — संख्यायाः संवत्सर । आदिवृद्धिप्रकरणेउत्तरपदस्ये॑त्यधिकारे इदं सूत्रम् । संवत्सरश्चसङ्ख्या चेति समाहारद्वन्द्वात् षष्ठी । संख्याया उत्तरपदस्येति । संख्यायाः परस्य संवत्सरसंख्यस्योत्तरपदस्येत्यर्थः । नन्वत्र संवत्सरग्रहणं व्यर्थं, संवत्सरस्य द्वादशमासपरिमाणतयापरिमाणान्तस्याऽसंज्ञाशाणयो॑रित्येव सिद्धेरित्यत आह — परिमाणान्तस्येत्येवेति ।
संख्यायाः संवत्सरसंख्यस्य च - उत्तरपदवृद्धिर्नेति । एतच्चोपलक्षणम् ।द्विवर्षा॑इत्यत्रद्विगो॑रिति ङीन्बभवति । परिमाणपर्युदासेन पर्युदासाऽबावात्अपरिमाणबिस्ताचिते॑तीह निषेधप्रवृत्तेः । द्विवर्षे भृतेतमधीष्टः॑इति ठञ् ।॒वर्षाल्लुक्च॑इति लुक् ।चित्तवति नित्य॑मिति नित्यलुको वक्ष्यमाणत्वादचित्तवानिह प्रत्ययार्थ इति प्रत्युदाहरति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
सङ्ख्यायाः सवत्सरसङ्ख्यस्य च संवत्सरग्रहणमनर्थकं परिमाणान्तस्येति कृतत्वात्, संवत्सरग्रहणमनर्थकम् ।। किं कारणम् ? ।। परिमाणान्तस्येति कृतत्वात् । परिमाणान्तस्याऽसंज्ञाशाणयोरित्येव सिद्धम् ज्ञापकं तु कालपरिमाणानां वृद्धिप्रतिषेधस्य(3) (एवं तर्हि ज्ञापयत्याचार्यः ‐ -कालपरिमाणानां(4)) वृद्धिर्न भवतीति ।। किमेतस्य ज्ञापने प्रयोजनम् ? ।। द्वैरात्रिकः त्रैरात्रिकः ‐ अत्र वृद्धिर्न भवति ।। नैतदस्ति प्रयोजनं, नास्त्यत्र विशेषः सत्यां वोत्तरपदवृद्धावसत्यां(5) वा ।। इदं तर्हि ‐ द्वैसमिकः त्रैसमिकः ।। इदं चापि प्रयोजनं ‐ द्वैरात्रिकः त्रैरात्रिकः ।। ननु चोक्तंनास्त्यत्र विशेषः सत्यां वोत्तरपदवृद्धावसत्यां वेति ? ।। अयमस्ति विशेषः ‐ यद्यत्रोत्तरपदवृद्धिः स्यादचामादेर्वृद्धिर्न स्यात् ।। अपर आह ज्ञापकं तु कालपरिमाणानां परिमाणाऽग्रहणस्य एवं तर्हि ज्ञापयत्याचार्यः ‐ कालपरिमाणानां परिमाणग्रहणेन ग्रहणं न भवतीति ।। किमेतस्य ज्ञापने प्रयोजनम् ? ।। अपरिमाणबिस्ताचिकम्बल्येभ्यो न तद्धितलुकि ‐ द्विवर्षा त्रिवर्षा । परिमाणपदासेन पर्युदासो न भवति ।।