Page loading... Please wait.
7|3|120 - आङो नाऽस्त्रियाम्
॥ तस्मै पाणिनये नमः ॥
7|3|120
SK 244
आङो नाऽस्त्रियाम्   🔊
सूत्रच्छेदः
आङः (षष्ठ्येकवचनम्) , ना (प्रथमैकवचनम्) , अस्त्रियाम् (सप्तम्येकवचनम्)
अनुवृत्तिः
घेः  7|3|119 (पञ्चम्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
घेः अङ्गात् आङः ना अस्त्रियाम्
सूत्रार्थः
पुँल्लिङ्ग-नपुँसकलिङ्ग-घिसंज्ञकात् परस्य तृतीयैकवचनस्य टा-प्रत्ययस्य "ना" आदेशः भवति ।
यः घिसंज्ञकः शब्दः पुँल्लिङवाची नपुँसकलिङ्गवाची वा अस्ति, तस्मात् परस्य तृतीयैकवचनस्य टा-प्रत्ययस्य "ना" इति आदेशः भवति । यथा - साधु + टा → साधुना ।

अत्र "अस्त्रियाम्" इति किमर्थम् उक्तम्? इकारान्त-उकारान्त-स्त्रीलिङ्गशब्दाः अपि नित्यं घिसंज्ञकाः भवन्ति । अतः "मति + टा" इत्यत्र अनेन सूत्रेण "ना"-आदेशः मा भूत् इति स्पष्टीकर्तुम् अत्र "अस्त्रियाम्" इति उक्तम् अस्ति । अतः "मति + टा" इत्यत्र केवलं यणादेशे कृते "मत्या" इति रूपं सिद्ध्यति ।

ज्ञातव्यम् - अस्मिन् सूत्रे प्रयुक्तम् "आङ्" इति "टा" प्रत्ययस्यैव अन्यत् नाम । पूर्वाचार्यैः टा-प्रत्ययस्य आङ्-इति उल्लेखः कृतः अस्ति, अतः पाणिनिः अपि केषुचन स्थलेषु "टा" इत्यस्य स्थाने आङ्-इति वदति । परन्तु अयं प्रत्ययः टित्-अस्ति, ङित्-नास्ति इति स्मर्तव्यम् ।
One-line meaning in English
The आङ्-प्रत्यय that comes after a non-feminine घिसंज्ञक अङ्ग is converted to "ना".
काशिकावृत्तिः
घेः उत्तरस्य आङः न अभावो भवति अस्त्रियाम्। अग्निना। वायुना। पटुना। पुंसि इति नोक्तम्, अमुना ब्राह्मणकुलेन। अस्त्रियाम् इति किम्? कृत्या। धेन्वा। इति काशिकायां वृत्तौ सप्तमाध्यायस्य तृतीयः पादः। । सप्तमाध्यायस्य चतुर्थः पादः।
आङ इति स्थान्यन्तरनिर्देशादिहार्थाद्विभक्तिविपरिणामो भवतीति षष्ठन्तं यद्घेरिति प्रकृतं तदिह पञ्चम्यन्तमुपजायत इत्याह--`घेरुत्तरस्य` इत्यादि। अथ किमरथम्? `अस्त्रियाम्` इत्युच्यते, `आङो ना पुंसि` इत्येवोच्येत; एवमुच्यमाने त्रपुणा जतुनेत्येतन्न सिध्यतीत्येतच्च नाशङ्कनीयम्; `इकोऽचि विभक्तौ` 7|1|73 इति नुमैव सिद्धत्वात्? इति यो मन्येत, तं निराकर्त्तुम्--`अमुना ब्राआहृणकुलेन इत्यस्योपन्यासः। अत्र हि त्यदाद्यत्वे कृते `अदसोऽसेर्दादु दो मः` 8|2|80 इत्युत्त्वमत्वे च। तत्र यदि पुंसीत्युच्यते, ततोऽमुनेति नपुंसके न सिध्येत्; मुभावस्यासिद्धत्वात्। नुमोऽभावात्? `अस्त्रियाम्` इत्युच्यमाने नपुंसकेऽपि नाभावो भवतीत्यमुनेति सिद्धं भवति। न हि नाभावे कत्र्तव्ये मुभावस्यासिद्धत्वम्; `न मु ने` 8|2|3 इति वचनादत्यभिप्रायः॥ इति बोधिसत्त्वदेशीयाचार्य श्रीजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्जिकायां सप्तमाध्यायस्यतृतीयः पादः- - -अथ सप्तमोऽध्यायःचतुर्थः पादः
ठाङ्ःऽ इति स्थान्यन्तरस्योपादानाद् घेरिति षष्ठी पञ्चम्या विपरिणम्यत इत्याह---घेरुतरस्येति । अथ किमर्थमस्त्रियामित्युच्यते, ठाङे ना पुंसिऽ इत्येवोच्येत, एवं हि मात्रया लाघवं भवति, इष्ट्ंअ च सिध्यति ? एवमुच्यमाने त्रपुणा, जतुनेत्यत्र नपुंसके न प्राप्नोति । मा भून्नाभावः, ठिकोचि विभक्तौ, इति नुमि कृते सिद्धमिष्टम् ? अत आह--पुंसीति नोक्तमित्यादि । अमुना ब्राह्मणकुलेनेति । ठ्पुंसिऽ इत्युच्यमाने नाभावो न स्यात् । नुमपीग्लक्षणो नास्ति; मुत्वस्यासिद्धत्वात् । ठस्त्रियाम्ऽ इत्युच्यमाने नपुंसकेऽपि नाभावो भवति । नाभावे कर्तव्ये मुत्वस्यासिद्धत्वं नास्ति । ठ्न मुनेऽ इति प्रतिषेधादिति ठ्नपुंसकेऽ इत्युच्यमानेऽपि न सिध्यति । तस्मादस्त्रियामित्येव वक्तव्यमिति ॥
सिद्धान्तकौमुदी
घेः परस्याङो ना स्यादस्त्रियाम् । आङिति टासञ्ज्ञा प्राचाम् । हरिणा । अस्त्रियां किम् । मत्या ॥
आङो नाऽस्त्रियाम् - आङो । घेः परस्येति । "अच्च घेः" इत्यतो घिग्रहणानुवृत्तेरिति भावः । हरिणेति । नादेशेअट्कुप्वा॑ङिति णत्वम् । नन्वाङो विहितो नाभावः कथं टा इत्यस्य स्यादित्यत आह — आङितीति । प्राचामाचार्याणां शास्त्रे संञ्ज्ञैषेत्यर्थः । मत्येति ।स्त्रियां क्ति॑निति क्तिन्नन्तमतिशब्दस्य स्त्रीलिङ्गत्वान्नाभावो नेति भावः । हरिभ्याम् । हरिभिः । हरि-ए इति स्थिते ।
आङो नाऽस्त्रियाम् - आङो ना ।पुंसी॑ति तु नोक्तम्,अमुना कुलेने॑त्यत्र यथा स्यात् । न च नुमा रूपसिद्धिः, मुत्वास्याऽसिद्धत्वाइकोऽची॑ति नुमोऽप्रवृत्तेः । नादेशे तु नाऽसिद्धत्वम् ।न मुने॑ इति निषेधात् । नचन मु ने॑ इति निषेधो नुम्येव किं न स्यात्,-॒न॑ इत्यकारस्याऽविवक्षितत्वादिति वाच्यम्,अमुना घटेने॑त्याद्यसिद्ध्यापत्तेः ।अमुष्मै कुलाये॑त्यादौ नुम्प्रसङ्गाच्च । न च तत्रस्मायादेशे सति नुमोऽप्रवृत्तिरिति शङ्क्यं, स्मायादेशं बाधित्वा परत्वान्नुमः प्रवृत्तेः । प्राचामिति ।आचार्याणा॑मिति शेषः ।
लघुसिद्धान्तकौमुदी
घेः परस्याङो ना स्यादस्त्रियाम्। आङिति टासंज्ञा। हरिणा। हरिभ्याम्। हरिभिः॥
महाभाष्यम्
आङो नाऽस्त्रियाम् किमर्थमस्त्रियामित्युच्यते नाऽऽङो ना पुंसीत्येवोच्येत ? ।। का रूपसिद्धिः ‐ त्रपुणा जतुना ? ।। नुमा सिद्धम् ।। नैवं शक्यम् इह ह्यमुना ब्राह्मणकुलेनेति मुभावस्याऽसिद्धत्वान्नुम्न स्यात् । अस्त्रियामिति पुनरुच्यमाने न दोषो भवति ।। कथम्(1) ? ।। वक्ष्यत्येतत्नमुटादेशःथ्द्य;ति इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते सप्तमस्य तृतीये द्वितीयमाह्निकम् ।। पादः समाप्तः