Page loading... Please wait.
7|3|118 - औत्‌
॥ तस्मै पाणिनये नमः ॥
7|3|118
SK 256
औत्‌   🔊
सूत्रच्छेदः
औत् (प्रथमैकवचनम्)
अनुवृत्तिः
ङेः  7|3|116 (षष्ठ्येकवचनम्) , इदुद्‍भ्याम्  7|3|117 (पञ्चमीद्विवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
इदुद्भ्याम् अङ्गात् ङेः औत्
सूत्रार्थः
इकारान्त-उकारान्त-शब्दात् परस्य ङि-प्रत्ययस्य औत्-आदेशः भवति ।
सर्वेभ्यः इकारान्त-उकारान्त-शब्देभ्यः परस्य ङि-प्रत्ययस्य औत्-आदेशः भवति । "औत्" इत्यत्र तकारः केवलं उच्चारणार्थः अस्ति , अतः आदेशरूपेण केवलं "औ" वर्णः आगच्छति ।
यथा -
सखि + ङि [सप्तम्यैकवचनस्य प्रत्ययः]
→ सखि + औ [औत् 7|3|118 इत्यनेन ङि-प्रत्ययस्य औ-आदेशः]
→ सख्यौ + औ [इको यणचि 6|1|77 इति यणादेशः ।]


ज्ञातव्यम् -
1) यद्यपि अस्मिन् सूत्रे "इकारान्त/उकारान्तशब्देभ्यः परस्य ङि-प्रत्ययस्य औत्-आदेशः दत्तः अस्ति, तथापि
(अ) घिसंज्ञकात् परस्य ङि-प्रत्ययस्य अच्च घेः 7|3|119 इति अग्रिमसूत्रेण आदेशः भवति ।
(आ) नदीसंज्ञकात् इ/उकारान्तात् परस्य ङि-प्रत्ययस्य इदुद्भ्याम् 7|3|117 इत्यनेन आदेशः भवति ।
अतः वर्तमानसूत्रस्य प्रयोजनम् केवलं तेषां इकारान्त-उकारान्तशब्दानां कृते अस्ति, येषाम् नदीसंज्ञा अपि न भवति, घिसंज्ञा अपि न भवति । यथा - सखि, पति ।

2) अस्मिन् सूत्रे उकारग्रहणस्य किमपि प्रयोजनम् नास्ति, यतः सर्वे उकारान्तशब्दाः घिसंज्ञकाः नदीसंज्ञकाः वा सन्ति ।
One-line meaning in English
The ङि-प्रत्यय gets औ आदेश when it comes after a ह्रस्व-इकारान्त or ह्रस्व-उकारान्त word.
काशिकावृत्तिः
इदुद्भ्याम् उत्तरस्य ङेः औकारादेशो भवति। यन् न नदिसंज्ञं न अपि घिसंज्ञम् इकारान्तम् , तदिह उदाहरणम्। सख्यौ। पत्यौ।
Text Unavailable. Please use feedback link below to provide the text if you have.
यन्न नदीसंज्ञमित्यादि । नदीसंज्ञके पूर्वेणाम् विहितः, घिसंज्ञेऽप्युतरेणात्वसंयुक्तमौत्वं वक्ष्यति, तस्मादाभ्यामन्यदेवोदाहरणम् । तत्र पूर्वत्र ठ्घ्यन्तान्नद्यन्तात्ऽ इत्युक्तम्, इह त्विकारोकारान्तमित्युक्त्म्, संज्ञाविधौ च पक्षद्वयं दर्शितम्---वर्णमात्रस्य संज्ञा, तदन्तस्य वेति; तेन नास्ति विरोधः ॥
सिद्धान्तकौमुदी
इदुद्भ्यां परस्य ङेरौत्स्यात् । उकारानुवृत्तिरुत्तरार्था । सख्यौ । शेषं हरिवत् ॥ शोभनः सखा सुसखा । सुसखायौ । सुसखायः । अनङ्णिद्वद्भावयोराङ्गत्वात्तदन्तेऽपि प्रवृत्तिः । समुदायस्य सखिरूपत्वाभावात् असखि (कौमुदी-243)इति निषेधाप्रवृत्तेर्घिसंज्ञा । सुसखिना । सुसखये । ङसिङसोर्गुणे कृते कृतयणादेशत्वाभावात् ख्यत्यात् (कौमुदी-255)इत्युत्त्वं न । सुसखेः । सुसखावित्यादि । एवमतिशयितः सखा अतिसखा । परमः सखा यस्येति विग्रहे । परमसखा । परमसखायावित्यादि । गौणत्वेऽप्यनङ्णित्त्वे प्रवर्तेते । सखीमतिक्रान्तोऽतिसखिः । लिङ्गविशिष्टपरिभाषाया अनित्यत्वान्न टच् । हरिवत् । इहाऽनङ्णित्त्वे न भवतः । गोस्त्रियो (कौमुदी-656)रिति ह्रस्वत्वेन सखिशब्दस्य लाक्षणिकत्वात् । [(परिभाषा - ) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणात्] ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
आत्। एतच्च सूत्रं नदीसंज्ञकेषु `इदुभ्द्या`मिति पूर्वसूत्रेण बाध्यते। घिसंज्ञकेषु `अच्च घे`रिति उत्तरसूत्रेण। तस्मात्संज्ञाद्वयशून्योऽस्य विषयः। न च तादृश उकारोऽस्तीत्यत आह-उकारनुवृत्तिरिति। प्राचा तु `घिनदीसंज्ञावर्जिताभ्यामिदुभ्द्यां परस्ये`त्युक्तम्?। तदसत्। तादृसत्। तादृशस्योरकारस्याप्रसिद्धेः। सुसखेति। प्रादिसमासे `राजाहः सखिभ्या`इति टचो `न पूजना`दिति निषेधः। `शेषो ध्यसखी`इत्यत्राऽसखीति नायं प्रसज्यप्रतिषधः, असमर्थसमासादिदोषापत्तेः, किं तु पर्युदास एवेति `सुसखी`त्यस्य सखिशब्दभिन्नत्वाद्धिसंज्ञा स्यादेव। न च समुदायस्य सखिशब्दभिन्नत्वेऽपि सखिशब्दान्तभिन्नत्वं नेति कथमसखीति निषेधाऽपर्वृत्तिरिति शङ्क्यम्। विशेष्याऽसंनिधानादसखीत्यत्र `येन विधिस्तदन्तस्ये`त्यस्याऽप्रवृत्तेः। तदेतत्साकलभिग्रेत्याह--समुदायस्येत्यादि। एवमतिसखेत्यत्रापि समासान्तनिषेधादिकं बोध्यम्। गौणत्वेऽपीति। `अतिदन्धे`त्यादावस्थ्याद्यनङ्वदिति भावः। तथा च `येन विधि`रिति सूत्रे `परमसखाया`विति बहुर्वीहिः, तत्पुरुषे हि टचा भाव्यमिति कैथटः। तथा `द्वितीया श्रिते`ति सूत्रे `सोमसखे`ति प्रतीकमुपादाय बहुव्रीहित्वान्न सम#आसान्त इति स एवाह। `अनुद्युक्षोवरुण इन्द्रसखा,` `अग्ने याहि मरुत्सखा`, `तीव्रं सोमं पिबति गोसखाय`मित्यादिप्रयोगाश्चैवमेव सङ्गच्छन्ते। तत्र [तु] बहुव्रीहिप्रयुक्तस्य पूर्वपदप्रकृतिस्वरस्य दर्शनेन गौणत्वात्। एतेन घिसंज्ञासूत्रे शोभनः सखा अस्य सुसखिरित्युदाहरन्तौ हरदत्तन्यासकारौ तदनुगामिनश्चान्ये उपेक्ष्याः। अनित्यत्वादिति। `शक्तिलाङ्गलाङ्कुशे`ति वार्तिके घटघटीग्रहणमत्र लिङ्गम्।
लघुसिद्धान्तकौमुदी
इतः परस्य ङेरौत्। सख्यौ। शेषं हरिवत्॥
महाभाष्यम्
औत् औत्वे योगविभागः औत्वे योगविभागः कर्तव्यः । औत् । औद्भवतीदुभ्द्याम् । ततः अच्च घेरिति । अकारश्च भवति घेरिति ।। किमर्थो योगविभागः ? सखिपतिभ्यामौत्त्वार्थः(2) सखिपतिभ्यामौत्त्वं यथा स्यात् । सख्यौ पत्यौ एकयोगे ह्यप्राप्तिरत्त्वसन्नियोगात् एकयोगे हि सत्यौत्त्वस्याऽप्राप्तिः ।। किं कारणम्?।। अत्त्वसन्नियोगात् । अत्त्वसन्नियोगेनौत्त्वमुच्यते तेन यत्रैवात्वं तत्रैवौत्त्वं स्यात् नवाऽकारस्याऽन्वाचयवचनाद्यथा क्यङि सलोपः न वाऽर्थ औत्त्वे योगविभागेन ।। किं कारणम् ? ।। अकारस्यान्वाचयवनचनात्(3) । प्रधानशिष्टमौत्त्वमन्वाचयशिष्टमत्त्वम् । यथा क्यङि सलोपः । तद्यथा प्रधानशिष्टः क्यङ् प्रातिपदिकमात्राद्भवति । यत्र च सकारस्तत्र लोपः ।। अत्त्वे टाप्प्रतिषेधः अत्त्वे टापः प्रतिषेधो वक्तव्यः शकटौ पद्धतौ धेनौ । अत्वे कृते (ठऽत इति(4)) टाप् प्राप्नोति न वा सन्निपातलक्षणस्याऽनिमित्तत्वात् न वा वक्तव्यः । किं कारणम् ? ।। सन्निपातलक्षणस्याऽनिमित्तत्वात् । सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येत्येवं न(5) भविष्यति डित्करणाद्वा(6) अथ वा डिदौकारः करिष्यते ‐ औ डिच्च घेः ।