Page loading... Please wait.
7|3|116 - ङेराम्नद्याम्नीभ्यः
॥ तस्मै पाणिनये नमः ॥
7|3|116
SK 270
ङेराम्नद्याम्नीभ्यः   🔊
सूत्रच्छेदः
ङेः (षष्ठ्येकवचनम्) , आम् (प्रथमैकवचनम्) , नदी-आप्-नीभ्यः (पञ्चमीबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
नदी-आप्-नीभ्यः ङेः आम्
सूत्रार्थः
नदीसंज्ञकात् परस्य, आबन्तात् परस्य, नीशब्दात् परस्य सप्तमीएकवचनस्य "ङि"-प्रत्ययस्य आम्-आदेशः भवति ।
उदाहरणानि -
1) नदीसंज्ञकात् परस्य -
नदी + ङि [सप्तम्येकवचनस्य प्रत्ययः]
→ नदी + आम् [ङेराम्नद्याम्नीभ्यः 7|3|116 इति आम्-आदेशः ।]
→ नदी + आट् + आम् [आण्-नद्याः 7|3|112 इति आडागमः ।]
→ नदी + आम् [आटश्च 6|1|90 इति वृद्धि-एकादेशः ।]
→ नद्याम् [इको यणचि 6|1|77 इति यणादेशः ।]

2) आबन्तात् परस्य -
माला + ङि [सप्तम्येकवचनस्य प्रत्ययः]
→ माला + आम् [ङेराम्नद्याम्नीभ्यः 7|3|116 इति आम्-आदेशः ।]
→ माला + याट् + आम् [याडापः 7|3|113 इति याडागमः ।]
→ मालायाम् [अकः सवर्णे दीर्घः 6|1|101 इति सवर्णदीर्घः ।]

3) नीशब्दात् परस्य -
राजनी + आम् [सप्तम्येकवचनस्य प्रत्ययः]
→ राजनी + आम् [ङेराम्नद्याम्नीभ्यः 7|3|116 इति आम्-आदेशः ।]
→ राजन्याम् [याडापः 7|3|113 इति याडागमः ।]
→ मालायाम् [इको यणचि 6|1|77 इति यणादेशः।]

ज्ञातव्यम् -
1) नदीसंज्ञा - यू स्त्र्याख्यौ नदी 1|4|3 इत्यनेन दीर्घ-ईकारान्त-ऊकारान्तशब्दानां नदीसंज्ञा भवति - यथा नदी, घटी, वधू, चञ्चू आदयः ।

2) "आबन्तशब्दाः" इत्यते ते शब्दाः येषाम् अन्ते चाप् / टाप/ डाप् एतेषु कश्चन स्त्रीलिङ्गवाची प्रत्ययः अस्ति । अनेन सर्वे आकारान्तस्त्रीलिङ्गशब्दाः गृह्यन्ते ।

3) अनया परिभाषया "नीभ्यः" इत्युक्ते नी-शब्दात् परस्य तथा नीशब्दान्तात् परस्य - उभौ अपि स्वीक्रियेते । अतः सेनानी, राजनी, ग्रामणी - एतादृशानां ईकारान्तपुँल्लिङ्गशब्दानाम् सप्तमी-एकवचनस्य रूपसिद्धौ अपि अस्य सूत्रस्य प्रयोगः भवति ।

4) यद्यपि "आम्" इति "मित्" अस्ति, तथापि अत्र अयम् आदेशः एव अस्ति, आगमः न ।

5) यद्यपि ह्रस्व-इकारान्तस्त्रीलिङ्गशब्दाः ह्रस्व-उकारान्तस्त्रीलिङ्गशब्दाश्च ङिति ह्रस्वश्च 1|4|6 इत्यनेन ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञां प्राप्नुवन्ति, तथापि तेषां विषये अयम् आदेशः वर्तमानसूत्रेण न भवति, अपितु अच्च घेः 7|3|118 इति सूत्रेण भवति ।
One-line meaning in English
The ङि-प्रत्यय gets आम् आदेश when it comes after - (a) a नदीसंज्ञक word, (b) an आबन्त word, and (c) a word that ends in "नी".
काशिकावृत्तिः
नद्यन्ताताबन्तात् नी इत्येतस्माच् च उत्तरस्य ङेः आम् आदेशो भवति। कुमार्याम्। गौर्याम्। ब्रह्मबन्ध्वाम्। धीबन्ध्वाम्। आपः खट्वायाम्। बहुराजायाम्। कारीषगन्ध्यायाम्। नी राजन्याम्। सेनान्याम्।
`ङेः` इति सप्तम्येकवचनस्य ग्रहणम्। एतच्च `स्त्रियाम्` इत्येवमादिनिर्देशाद्विज्ञायते। `ग्रामण्याम्` इति। ग्रामं नयतीति `सत्सूद्विष` 3|2|61 इत्यादिना क्विप्, `अग्रग्रामाभ्याञ्च` इति णत्वम्। `एरनेकाचः` 6|4|72 इति यणादेशः। अथ कुमार्याम्, खट्वायाम्, सर्वस्यामिति कथं सिध्यति, आमि कृते `ह्यस्वनद्यापो नुट्` 7|1|54 इति नुडागमेन भवितव्यम्? नैष दोषः; नुटः परत्वादाट्--याट्--स्याटो भवन्ति। तेष कृतेषु नुटः प्राप्तिरेव नास्तीति, न हि द्वयोरादिलिङ्गयोः समुच्चय उपपद्यते॥
ठ्णेóःऽ इति सप्तम्येकवचनग्रहणम्; इच्छायाम्, स्त्रियामित्यादिनिर्देशात् । ग्रामण्यामिति । ठ्सत्सूद्विषऽ इत्यादिना क्विप्, ठग्रग्रामाभ्याम्ऽ इति णत्वम्, ठेरनेकाचःऽ इति यण् ॥
सिद्धान्तकौमुदी
नद्यन्तादाबन्तान्नीशब्दाच्च ङेराम् स्यात् । इह परत्वादाटा नुड्बाध्यते । बहुश्रेयस्याम् । शेषमीप्रत्ययान्तवातप्रमीवत् । अङ्यन्तत्वान्न सुलोपः । अतिलक्ष्मीः । शेषं बहुश्रेयसीवत् । कुमारीमिच्छन् कुमारीवाचरन्वा ब्राह्मणः कुमारी । क्यजन्तादाचारक्विबन्ताद्वा कर्तरि क्विप् । हल्ङ्याब् (कौमुदी-252) इति सुलोपः ॥
ङेराम्नद्याम्नीभ्यः - ङेराम्नद्याम्नीभ्यः । आङ्गत्वात्प्रत्ययग्रहणपरिभाषया च तदन्तविधिमभिप्रेत्य आह — नद्यन्तादित्यादिना ।ङे॑रिति सप्तम्येकवचनं, व्याख्यानात् । नन्वामि कृते "ह्यस्वनद्यापः" इति नुटि "यदागमाः" इति न्यायेन नामोऽप्याम्ग्रहणेन ग्रहणात् "आण्नद्या" इति आडागमः स्यादित्याशङ्क्य आह — इह परत्वादिति । न च कृतेऽप्याडागमे नुट् किं न स्यादिति वाच्यं, विप्रतिषेधेन यद्बाधितं तद्बाधितमेवे॑ति न्यायादिति भावः । शेषमीप्रत्ययान्तेति । वातप्रमीशब्दस्यापि इवर्णान्तधातुत्वाऽभावेन अमि शसि ङौ च "एरनेकाचः" इति यणः प्रात्प्यभावादिति भावः । लक्षेर्मुट् चे॑ति लक्षधातोरीप्रत्यये तस्य मुटि च लक्ष्मीशब्दः । लक्ष्मीमतिक्रान्त इति विग्रहेअत्यादयः क्रान्ताद्यर्थे॑ इति समासः । अस्त्रीप्रत्ययान्तत्वान्नोपसर्जनह्यस्वः । अङ्यन्तत्वादिति । औणादिकप्रत्ययान्तत्वादिति बावः । शेषं बहुश्रेयसीवदिति ।प्रथमलिङ्गग्रहणं चे॑ति नदीत्वादिति भावः । अथ धातुत्वमापन्ने कुमारीशब्दे पुँल्लिङ्गे श्रेयसीशब्दाद्वैलक्षण्यं दर्शयितुमाह-कुमारीमिच्छन्नित्यादिना । क्यजन्तादिति । कुमारीमात्मन इच्छतीत्यर्थेसुपः आत्मनः क्य॑जिति क्यच् । कचावितौ । "सन#आद्यन्ता" इति क्यजन्तस्य धातुत्वात्तदवयवसुपोऽमःसुपो धातुप्रातिपदिकयो॑रिति लुक् । ततः क्विप् चे॑ति कर्तरि क्विप् । कपावितौ । इकार उच्चारणार्थः ।अतो लोपः,॒॑लोपो व्योः॑ इति यलोपः । वेरपृक्तस्ये॑ति वलोपः ।कुमारी॑ति रूपम् । आचारक्विबन्तादिति । कुमारीवाचरतीत्यर्थेसर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः॑ इति क्विप् । कपावितौ ।वेरपृक्तस्ये॑ति वलोपः । "सनाद्यन्ताः" इति धातुत्वात्कर्तरि क्विप् । तस्य च पूर्वत्कृत्स्नलोपः ।कुमारीति॑रूपम् । नच क्विबर्थं प्रति कुमारीशब्दस्य उपसर्जनत्वात् "गोस्त्रियोः" इति ह्यस्वः शङ्क्यः,गोस्त्रियो॑रित्यत्र शास्त्रीयोपसर्जनस्यैव ग्रहणात्, कृत्रिमाऽकृत्रिमयोः कृत्रिमस्यैव ग्रहणात् । हल्ङ्याबिति सुलोप इति । नच क्यजन्ते कथं सोर्लोपः, पूर्वस्माद्विधावल्लोपस्यस्थानिवद्भावादिति वाच्यं,क्वौ लुप्तं न स्थानिव॑दिति निषेधादिति भावः ।
ङेराम्नद्याम्नीभ्यः - ङेराम् ।ङे॑रिति सप्तम्येकवचनस्य ग्रहणं,समानाधिकरणे॑स्त्रिया॑मित्यादिनिर्देशात् । आटा नुड्वाध्यत इति । आटि कृते तु पुनर्न पर्वर्तते ।सकृद्गतौ॑इति न्यायाश्रयणादिति भावः । न सुलोप इति ।लक्षेर्मुट् चे॑त्यैणादिक ईप्रत्ययान्तो लक्ष्मीशब्द इत्युपसर्जनह्यस्वोऽपि नेति बोध्यम् । कुमारीति । यद्यपि क्किबर्थं प्रति ङ्यन्तस्योपसर्जनरत्वाद्द्धस्तत्वं प्राप्तं,तथापिगोस्त्रियोः॑इत्यत्र कृत्रिमोपसर्जनत्वं गृह्रते न त्वप्रधानरूपमिति नात्र ह्यस्वः प्रवर्तते । अतएव हरीतक्याः फलानि हरीतक्य इत्यत्रापि ह्यस्वो न भवति ।लुक्तद्धितलुकी॑त्यत्र त्वप्रधानरूपमुपसर्जनमेव गृह्रते, नतु कृत्रिमोपसर्जनमसम्भवादिति वक्ष्यामः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
ङेराम्नद्याम्नीभ्यः इदुभ्द्यामाम्विधानमौत्वस्य परत्वात् इदुभ्द्यामाम्विधेयः, ‐ शकट्यां पद्धत्यां धेन्वामिति ।। किं पुनः कारणं न सिध्यति ? ।। औत्वस्य परत्वात् । परत्वादौत्वं प्राप्नोति योगविभागात्सिद्धम् (योगविभागात्सिद्धमेतत्) । योगविभागः करिष्यते ङेराम्नद्याम्नीभ्यः । तत इदुद्भ्याम् । इदुद्भ्यामुत्तरस्य ङेराम्भवतीति । शकट्यां पद्धत्यां धेन्वामिति । तत औदच्च घेः ।