Page loading... Please wait.
7|3|114 - सर्वनाम्नः स्याड्ढ्रस्वश्च
॥ तस्मै पाणिनये नमः ॥
7|3|114
SK 291
सर्वनाम्नः स्याड्ढ्रस्वश्च   🔊
सूत्रच्छेदः
सर्वनाम्नः (पञ्चम्येकवचनम्) , स्याट् (प्रथमैकवचनम्) , ह्रस्वः (प्रथमैकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
सुपि  7|3|102 (सप्तम्येकवचनम्) , ङिति  7|3|111 (सप्तम्येकवचनम्) , आपः  7|3|113 (पञ्चम्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
सर्वनाम्नः आपः ङिति सुपि स्याट् अङ्गस्य ह्रस्वः च |
सूत्रार्थः
सर्वनामसंज्ञकात् आबन्तात् परस्य ङित्-प्रत्ययस्य स्याट्-आगमः भवति, तथा च अङ्गस्य ह्रस्वः भवति ।
ये आबन्ताः शब्दाः सर्वनामसंज्ञकाः सन्ति तेषां परस्य ङित्-प्रत्यस्य स्याट्-आगमः, तथा अङ्गस्य ह्रस्वादेशः भवति । यथा, किम्-सर्वनामस्य आबन्तरूपं "का" इति प्रतिपदिकम्, तस्य चतुर्थी-एकवचनस्य प्रक्रियायाम् -

का + ङे [चतुर्थ्यैकवचनस्य प्रत्ययः]
→ क + स्याट् + ए [सर्वनाम्नः स्याड्ढ्रस्वश्च 7|3|114 इत्यनेन प्रत्ययस्य स्याट्-आगमः, अङ्गस्य च ह्रस्वः]
→ कस्यै [वृद्धिरेचि 6|1|88 इति वृद्धि-एकादेशः]

तथैव तस्यै, अस्याः, एतस्याम् एतानि रूपाणि सिद्ध्यन्ति ।

ज्ञातव्यम् -
1) सर्वनामसंज्ञा - सर्वादीनि सर्वनामानि 1|1|27 इत्यनेन सर्वादिगणस्य शब्दाः सर्वनामसंज्ञकाः सन्ति । यथा - सर्व, विश्व, उभ, उभय .. आदयः ।

2) "आबन्तशब्दाः" इत्यते ते शब्दाः येषाम् अन्ते चाप् / टाप/ डाप् एतेषु कश्चन स्त्रीलिङ्गवाची प्रत्ययः अस्ति । अनेन सर्वे आकारान्तस्त्रीलिङ्गशब्दाः गृह्यन्ते ।

3) अस्मिन् सूत्रे स्थानीनिर्देशकम् षष्ठ्यन्तम् पदम् नास्ति । अस्याम् अवस्थायाम् उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् अनया परिभाषया पञ्चमी-विभक्त्यन्तशब्दस्य अर्थे परिवर्तनं न भवति, अपितु सप्तमी-विभक्तन्तशब्दस्य अर्थे परिवर्तनं भूत्वा षष्ठीविभक्तिवत् तस्य अर्थः सिद्ध्यति । अतः अस्मिन् सूत्रे "ङिति" इति सप्तम्यन्तपदस्य अर्थः "ङित्-प्रत्यये परे" इति न स्वीकृत्य "ङित्-प्रत्ययस्य" इति स्वीकरणीयः ।

3) आद्यन्तौ टकितौ 1|1|46 इत्यनेन टित्-आगमः स्थानिनः आद्यवयवरूपेण आगच्छति । अतः याट्-आगमः प्रत्ययात् पूर्वम् आगच्छति ।
One-line meaning in English
A ङित्-प्रत्यय that comes after an सर्वनामसंज्ञक आबन्त word get a स्याट् आगम, and the आबन्त अङ्ग gets a ह्रस्वादेश.
काशिकावृत्तिः
सर्वनाम्नः आबन्तादङ्गादुत्तरस्य ङितः प्रत्यय्स्य स्याटागमो ह्रस्वश्च भवति। सर्वस्यै। विश्वस्यै। यस्यै। तस्यै। कस्यै। अन्यस्यै। सर्वस्याः। विश्वस्याः। यस्याः। तस्याः। कस्याः। अन्यस्याः। आपः इत्येव, भवति। भवते।
याटोऽपवादः। आकारोच्चारणं सर्वस्या इत्यत्र यथा स्यात्, अन्यथा पररूपत्वं प्रसज्येत। अकारोच्चारणसामथ्र्यान्न प्रसज्येत--इत्येतच्च नाशङ्कनीयम्, तद्धि तस्यामित्यत्र `ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः` 6|1|165 इति विभक्त्युदात्तत्वं मा भूत्, आगमानुदत्तत्वं यथा स्यादित्येवमर्थम्॥
दीर्घोच्चारणं सर्वस्या इत्यत्र वृद्धिर्यथा स्याद्, ठतो गुणेऽ पररूपत्वं मा भूत् । अकारोच्चारणं तु अस्या इत्यत्र ठूडिदम्पदादिऽ इति विभक्तेराद्यौदातत्वं मा भूत्, आगमानुदातत्वं यथा स्यादेवमर्थ स्यात् । किञ्च उच्चारणार्थोऽप्यकारः सम्भाव्येत ॥
सिद्धान्तकौमुदी
आबन्तात्सर्वनाम्नः परस्य ङितः स्याट् स्यादापश्च ह्रस्वः । याटोऽपवादः । सर्वस्यै । सर्वस्याः । एकादेशस्य पूर्वान्तत्वेन ग्रहणात् आमि सर्वानाम्नः (कौमुदी-217) इति सुट् । सर्वासाम् । सर्वस्याम् । सर्वयोः । सर्वासु । एवं विश्वादय आबन्ताः ॥
सर्वनाम्नः स्याड्ढ्रस्वश्च - सर्वनाम्नः स्याड् । "याडापः" इत्यत "आप" इति पञ्चम्यन्तमनुवृत्तं, तेन "सर्वनाम्न" इत्येतद्विशेष्यते । तदन्तविधिः ।घेर्ङिती॑त्यतो ङितीत्यनुवृत्तं षष्ठआ विपरिणम्यते । ततश्चआबन्तात्सर्वनाम्नः परस्य ङितः स्याट् स्या॑दित्यर्थः । टित्त्वादाद्यवयवः ।ह्यस्वश्चे॑ति वाक्यान्तरम् । "आप" इत्यनुवृत्तमावर्तते । षष्ठन्ततया च विपरिणम्यते । तच्च "ह्यस्व" इत्यत्रान्वेति ।आप स्थाने ह्यस्वो भवती॑ति तदर्थः । तदाह — आबन्तादिति । याटोऽपवाद इति । येन नाप्राप्तिन्यायादिति भावः । सर्वस्यै इति । सर्वा-ए इति स्थिते स्याट् । वकारोत्तराकारस्य ह्यस्वः, वृद्धिरिति भावः । सर्वस्या इति । ङसिङसोः सर्वा-अस इति स्थिते-स्याट्, आपो ह्यस्वः, सवर्णदीर्घ इति भावः । नन्वाबन्तस्य सर्वाशब्दस्य सर्वादिगणे पाठाऽभावात्कथं सर्वनामत्वमित्यत आह — एकादेश-स्येति । वकारादकारस्य आपश्च योऽयमेकादेशः सवर्णदीर्घः, तस्येत्यर्थः । नन्वेकादेशनिष्पन्नस्य आकारस्य पूर्वान्तत्वे आप्त्वाव्याघातादाबन्तत्वं व्याहतम् । न च परादिवत्त्वेन आबन्तत्वमपीति वाच्यम्, उभयत आश्रयणे नान्तादिवदिति निषेधादिति चेत्, सत्यम्-लिङ्गविशिष्टपरिभाषयाऽ‌ऽबन्तस्य सर्वनामत्वम् । आबन्तत्वं तु परादिवद्भावेनेत्याहुः । सर्वस्यामिति । ङौ सर्वा-इ इति स्थितेङेरा॑मित्याम् । सुटं बाधित्वा परत्वात्स्याट्, ह्यस्वश्च । सकृद्गतिन्यायान्न पुनः सुट् । एवमिति । सर्वादिगणपठिताविआआदय आबन्तत्वं प्राप्ताः सर्वाशब्दवदित्यर्थः । उत्तरस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालम् उत्तरपूर्वा । "दिङ्नामन्यन्तराले" इति बहुव्रीहिविशेषोऽयम् ।
सर्वनाम्नः स्याड्ढ्रस्वश्च - सर्वनाम्नः स्याट् । दीर्घोच्चारणं प्राग्वत्स्पष्टपर्तिपत्त्यर्थाम् । आबन्तस्य सर्वादिगणे पाठाऽभावात्सर्वनामत्वं नेत्याशङ्क्याह — -एकाजेशस्य पूर्वान्तत्वेनेति ।
लघुसिद्धान्तकौमुदी
आबन्तात्सर्वनाम्नो ङितः स्याट् स्यादापश्च ह्रस्वः। सर्वस्यै। सर्वस्याः। सर्वासाम्। सर्वस्याम्। शेषं रमावत्॥ एवं विश्वादय आबन्ताः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.