Page loading... Please wait.
7|3|113 - याडापः
॥ तस्मै पाणिनये नमः ॥
7|3|113
SK 290
याडापः   🔊
सूत्रच्छेदः
याट् (प्रथमैकवचनम्) , आपः (पञ्चम्येकवचनम्)
अनुवृत्तिः
 सुपि  7|3|102 (सप्तम्येकवचनम्) , ङिति  7|3|111 (सप्तम्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
आपः अङात् ङिति सुपि याट्
सूत्रार्थः
आबन्तात् अङ्गात् परस्य ङित्-प्रत्ययस्य याट्-आगमः भवति ।
आबन्तात् अङ्गात् परस्य ङे / ङसिँ / ङस् / ङि प्रत्ययानाम् याट्-आगमः भवति । यथा -

माला + ङे
→ माला + याट् + ए [याडापः 7|3|113 इति याट्-आगमः]
→ माला + या + ए [हलन्त्यम् 1|3|3 इति टकारस्य इत्संज्ञा । तस्य लोपः 1|3|9 इति लोपः ।]
→ मालायै [वृद्धिरेचि 6|1|88 इति वृद्धि-एकादेशः]

तथैव मालायाः तथा मालायाम् रूपे सिद्ध्यतः ।

ज्ञातव्यम् -
1) "आबन्तशब्दाः" इत्यते ते शब्दाः येषाम् अन्ते चाप् / टाप/ डाप् एतेषु कश्चन स्त्रीलिङ्गवाची प्रत्ययः अस्ति । अनेन सर्वे आकारान्तस्त्रीलिङ्गशब्दाः गृह्यन्ते ।

2) अस्मिन् सूत्रे स्थानीनिर्देशकम् षष्ठ्यन्तम् पदम् नास्ति । अस्याम् अवस्थायाम् अनया परिभाषया पञ्चमी-विभक्त्यन्तशब्दस्य अर्थे परिवर्तनं न भवति, अपितु सप्तमी-विभक्तन्तशब्दस्य अर्थे परिवर्तनं भूत्वा षष्ठीविभक्तिवत् तस्य अर्थः सिद्ध्यति । अतः अस्मिन् सूत्रे "ङिति" इति सप्तम्यन्तपदस्य अर्थः "ङित्-प्रत्यये परे" इति न स्वीकृत्य "ङित्-प्रत्ययस्य" इति स्वीकरणीयः ।

3) आद्यन्तौ टकितौ 1|1|46 इत्यनेन टित्-आगमः स्थानिनः आद्यवयवरूपेण आगच्छति । अतः याट्-आगमः प्रत्ययात् पूर्वम् आगच्छति ।
One-line meaning in English
A ङित्-प्रत्यय that comes after an आबन्त word get a याट् आगम.
काशिकावृत्तिः
आबन्ता दङ्गादुत्तरस्य ङितः प्रत्ययस्य याडागमो भवति। खट्वायै। बहुराजायै। कारीषगन्ध्व्यायै। खट्वायाः। कारीषगन्ध्यायाः। बहुराजायाः। अतिखट्वाय इत्यत्र अकृते दीर्घे ङ्याब्ग्रहणे अदीर्घः इति वचनाद् याडागमो न भवति, कृते तु लाक्षणिकत्वात्।
`खट्वायाम्` इति। `वृद्धिरेचि` 6|1|85 इति वृद्धिः। खट्वाया इत्यत्राकः सवर्णे 6|1|97 दीर्घोच्चारणम्--वृद्धिसवर्णदीर्घत्वे यथा स्याताम्, पररूपत्वं मा भूदित्येवमर्थम्। अकारोच्चारणसामथ्र्यान्न भविष्यतीति चेत्? न; अस्ति ह्रन्यदकारोच्चारणस्य प्रयोजनम्। किं तत्? ज्ञायै, ज्ञाया इत्यत्र `सावेकाचस्तृतीयादिर्विभक्तिः` 6|1|162 इत्यनेनोदात्तत्वं मा भूत्, आगमनुदात्तत्वं यथा स्यादिति। अथ खट्वामतिक्रान्तायातिखट्वायेत्यत्र कस्मान्न भवति, उपसर्जनह्यस्वत्वे कृते तस्य स्थानिवद्भावादाव्ग्रहणेन ग्रहणे सति प्राप्नोति? इत्यत आह--`अतिखट्वाय` इत्यादि। यदा तावत्? `सुपि च` 7|3|102 इति दीर्घत्वं न क्रियते, तदा ङ्याव्ग्रहणेन दीर्घग्रहणमित्येतद्ववचनान्न भवति। यदा दीर्घत्वं तदा लाक्षणिकत्वान्न भवति; `लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्` (व्या।प।3) इति वचनात्॥
दीर्घोच्चारणं किमर्थम्, न यडेवोच्येत, वृद्धौ कृतायां सवर्णदीर्घत्वे च खट्वायै, खट्वाया इति सिद्धम् ? न सिध्यति; ठतो गुणेऽ पररूपत्वं प्राप्नोति, अकारोच्चारणसामर्थ्यान्न भविष्यति । अस्त्यन्यदकारोच्चारणस्य प्रयोजनम्---ज्ञाये, ज्ञाया इत्यत्र ठ्सावेकाचःऽ इत्याद्यौदातत्वं मा भूत्, आगमानुदातत्वं यथा स्यादिति । किञ्च---उच्चारणार्थोऽप्यकारः सम्भाव्येत, इह खट्वामतिक्रान्त इति प्रादिसमासे ह्रस्वत्वे च तस्य स्थानिवद्भावाततः परस्य चतुर्थ्येकवचनस्य ठ्णेóर्यःऽ इति यादेशं बाधित्वानेन याट् प्राप्नोति, तत्र कृते दीर्घत्वे चातिखट्वायै देवदतायेति प्रसङ्गः, तत्राह---आतखट्वायेत्यत्रेति । अकृते दीर्घत्व इति । यादेशात् प्रागवस्थायामिदमुक्तम् । कृते तहि यादेशे दीर्घत्वे च ङ्च्चासिउ भूतपूर्व इति याट् प्राप्नोति ? अत आह---कृते च लाक्षणिकत्वादिति ॥
सिद्धान्तकौमुदी
आपः परस्य ङिद्वचनस्य याडागमः स्यात् । वृद्धिरेचि (कौमुदी-72) । रमायै । सवर्णदीर्घः । रमायाः । रमयोः । रमाणाम् । रमायाम् । रमयोः । रमासु । एवं दुर्गादयः ॥
याडापः - यडापः । "आप" इति पञ्चमी ।धेर्ङिती॑त्यतो डितीत्यनुवृत्तं षष्ठआ विपरिणम्यते । तदाह — आपः परस्येत्यादिना । टित्त्वादाद्यवयवः । वृद्धिरेचीति । या-ए इति स्थिते आकारस्य एकारस्य च स्थाने ऐकार एकादेश इति भावः । सवर्णेति । ङसिङसोः रमा अस् इति स्थिते याडागमे "अकः सवर्णे दीर्घः" इति सवर्णदीर्घ इति भावः ।य॑डित्येव सुवचम् । "अतो गुणे" इति पररूपं तु न, अकारोच्चारणसामथ्र्यात् । रमयोरिति । "आङि चापः" इत्यात्त्वेऽयादेश इति भावः । रमाणामिति । "ह्यस्वनद्यापः" इत्यत्राऽ‌ऽब्ग्रहणन्नुटि पर्जन्यवल्लक्षणप्रवृत्त्यानामी॑ति दीर्घे "अट्कुप्वा" ङिति णत्वमिति भावः । रमायामिति । "रमा-इ" इति स्थितेङेराम्नद्याम्नीभ्यः॑ इत्यामादेशे याडागमे सवर्णदीर्घ इति भावः । "न विभक्तौ" इति मस्य नेत्त्वम् । सर्वशब्दाट्टापि सर्वाशब्दः । सोऽपि प्राये रमावत् । ङित्सु "याडापः" इति प्राप्ते- ।
याडापः - याडापः ।घेर्ङिती॑त्यतोऽनुवृत्तंङिति॑ति सप्तम्यन्तमाप इति पञ्चम्यनुरोधेन षष्टन्तं विपरिणम्यत् इत्याह — -ङिद्वचनस्येति । अत्रसुपि चे॑त्यतःसुपी॑त्यमुवर्तनात्सुप एव याट् । तेन अपित्सार्वधातुकस्य ङित्त्वेऽपि मालेवाचरतोमालात॑इत्यादौ तसादेर्न भवति । एतच्चअचः परस्मि॑न्नित्यत्र पूर्वस्यविधिः पूर्वविधिरिति षष्ठीसमासपक्षाभ्युपगमेनोक्तम् । पञ्चमीसमासपक्षाभ्युपगमे तु शपः स्थानिवत्त्वेन व्यवधानात्मालात्इत्यादौ याटः प्रसङ्ग एव नास्तीत्याहुः ।य॑डित्येव वक्तव्ये दीर्घोच्चारणं स्पष्टप्रतिपत्त्यर्थम् । न चअतो गुणे॑इति पररूपापत्तिः, अकारोच्चारणसामथ्र्यादेव तद्बाधात् । वृद्धिरेचीति । प्राचा तुआटश्चे॑त्युपन्यस्तंतदुपेक्षितम् । याट्स्याटोष्टकारस्य समुदायानुबन्धत्वेनेह आटोऽभावात् ।
लघुसिद्धान्तकौमुदी
आपो ङितो याट्। वृद्धिः। रमायै। रमाभ्याम्। रमाभ्यः। रमायाः। रमयोः। रमाणाम्। रमायाम्। रमासु। एवं दुर्गाम्बिकादयः॥
महाभाष्यम्
याडापः इहातिखट्वाय अतिमालायेति ह्रस्वत्वे कृते स्थानिवद्भवाद्याट्प्राप्नोति तस्य प्रतिषेधो वक्तव्यः । न वक्तव्यः याडि्वधानेऽतिखट्वायेत्यप्रतिषेधो ह्रस्वादेशत्वात् याडि्वधानेऽतिखट्वायातिमालायेत्यप्रतिषेधः । अनर्थकः प्रतिषेधोऽप्रतिषेधः ।। याट्कस्मान्न भवति(1) ? ।। ह्रस्वादेशत्वात् । ह्रस्वादेशोऽयम् । उक्तमेतत् ड्याब्ग्रहणेऽदीर्घ इति ।। अथेदानीमसत्यपि स्थानिवद्भावे दीर्घत्वे कृते आबसौ(1) भूतपूर्व इति कृत्वा याट्कस्मान्न भवति ? ।। लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति ।। ननु चेदानीं सत्यपि स्थानिवद्भाव एतया परिभाषया शक्यमुपस्थातुम् ? ।। नेत्याह । न हीदानीं(2) क्वचिदपि स्थानिवद्भावः स्यात् ।। ( याडापः ) ।।