Page loading... Please wait.
7|3|112 - आण्नद्याः
॥ तस्मै पाणिनये नमः ॥
7|3|112
SK 268
आण्नद्याः   🔊
सूत्रच्छेदः
आट् (प्रथमैकवचनम्) , नद्याः (पञ्चम्येकवचनम्)
अनुवृत्तिः
  सुपि  7|3|102 (सप्तम्येकवचनम्) , ङिति  7|3|111 (सप्तम्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
नद्याः अङ्गात् ङिति आट्
सूत्रार्थः
नदीसंज्ञकात् अङ्गात् परस्य ङित्-प्रत्ययस्य आट्-आगमः भवति ।
नदीसंज्ञकात् शब्दात् परस्य ङे / ङसिँ / ङस् / ङि एतेषां प्रत्ययानाम् "आट्" आगमः भवति । यथा -

नदी + ङे [चतुर्थी-एकवचनस्य प्रत्ययः]
→ नदी + आट् + ए [ आण्नद्याः 7|3|112 इति आट्-आगमः]
→ नदी + आ + ए [हलन्त्यम् 1|3|3 इति टकारस्य इत्संज्ञा । तस्य लोपः 1|3|9 इति लोपः ]
→ नदी + ऐ [आटश्च 6|1|90 इति आकार-एकारयोः वृद्धि-एकादेशः ऐकारः]
→ नद्यै [इको यणचि 6|1|77 इति यणादेशः]

अनेनैव प्रकारैण मत्यै, वध्वै , धेन्वे, मत्याः, नद्याः, वध्वाः, धेन्वाः, मत्याम्, नद्याम्, वध्वाम्, धेन्वाम् - आदिषु सर्वत्र अस्य सूत्रस्य प्रयोगः भवति ।

ज्ञातव्यम् -
1) नदीसंज्ञा - यू स्त्र्याख्यौ नदी 1|4|3 इत्यनेन दीर्घ-ईकारान्त-ऊकारान्तशब्दानां नदीसंज्ञा भवति - यथा नदी, घटी, वधू, चञ्चू आदयः] । ङिति ह्रस्वश्च 1|4|6 इत्यनेन ह्रस्व-इकारान्त-उकारान्तशब्दानाम् ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञा भवति - यथा मति, बुद्धि, धेनु, आदयः ।

2) अस्मिन् सूत्रे स्थानीनिर्देशकम् षष्ठ्यन्तम् पदम् नास्ति । अस्याम् अवस्थायाम् अनया परिभाषया पञ्चमी-विभक्त्यन्तशब्दस्य अर्थे परिवर्तनं न भवति, अपितु सप्तमी-विभक्तन्तशब्दस्य अर्थे परिवर्तनं भूत्वा षष्ठीविभक्तिवत् तस्य अर्थः सिद्ध्यति । अतः अस्मिन् सूत्रे "ङिति" इति सप्तम्यन्तपदस्य अर्थः "ङित्-प्रत्यये परे" इति न स्वीकृत्य "ङित्-प्रत्ययस्य" इति स्वीकरणीयः ।

3) यद्यपि केषुचन स्थलेषु तृतीया-एकवचनस्य प्रत्ययः "आङ्" इति निर्दिष्टः अस्ति, तथापि अयं प्रत्ययः "ङित्" नास्ति । तृतीयैकवचनस्य प्रत्ययः "टा" इत्येव अस्ति, आङ्-इति तस्य केवलं अन्यत् नाम ।

4) उपरि-निर्दिष्टायां प्रक्रियायाम् "नदी + आ + ए" इत्यत्र प्रथमम् "आ + ए" अयं कार्यम् करणीयम्, न तु "नदी + आ" अयम् । अनया परिभाषया आट्-आगमः प्रत्ययस्य गुणिभूतः अस्ति, अतः प्रत्ययेन सह एव सः ग्रहितव्यः । अतः आट्-इत्यस्य सन्धिः ए-इत्यनेन सह एव करणीया ।

5) आद्यन्तौ टकितौ 1|1|46 इत्यनेन टित्-आगमः स्थानिनः आद्यवयवरूपेण आगच्छति । अतः याट्-आगमः प्रत्ययात् पूर्वम् आगच्छति ।
One-line meaning in English
A ङित्-प्रत्यय that comes after a नदीसंज्ञक अङ्ग get an आट् आगम.
काशिकावृत्तिः
नद्यन्तादङ्गादुत्तरस्य ङितः प्रत्ययस्य आडागमो भवति। कुमार्यै। ब्राहमबन्ध्वै। कुमार्याः। ब्रह्मबन्ध्वाः।
`नद्याः` इति पञ्चमी, सा चाकृतार्था पूर्वत्र कृतार्थाया ङितीत्यस्याः सप्तम्याः षष्ठीत्वं प्रकल्पयिष्यति। तेन ङित एवायमाडागमो विज्ञायते, इत्याह--`नद्यन्तादङ्गादुत्तरस्य` इत्यादि। `कुमार्यै` इत्येवमादौ `आटश्च` 6|1|87 इति वृद्धिः। अथ दीर्घोच्चारणं किमर्थम्, न अडेवोच्येत, `वृद्धिरेचि` 6|1|85 इति वृद्ध्या सवर्णदीर्घत्वेन सिद्ध्यत्येव; कुमार्यै, कुमार्या इत्यत्र `अतो गुणे` 6|1|94 पररूपत्वं प्राप्नोतीत्येतच्च नाशङ्कनीयम्, पररूपत्वं ह्रत्र वचनसामथ्र्यान्न भविष्यति? नैष दोषः; अस्ति ह्रन्यदवचनस्य प्रयोजनम्। किं तत्? श्रियै, श्रिया इत्यत्र `सावेकाचस्तृतीयादिर्विभक्तिः` 6|1|162 इत्युदात्तत्वं मा भूत्। आगमा आद्युदात्ता भवन्तीत्यनुदात्तत्वं यथा स्यादिति। शक्यते ह्रेकादेशोन्तादिवद्भावादागमग्रहणेन ग्रहीतुम्। आगमानुदात्तत्वञ्च यथा प्रत्ययस्वरम्--लविता, लवितुमित्यादौ बाधते, तथा विभक्तस्वरमपि बाधेत। तस्मात्? `आटश्च` 6|1|87 इति वृद्ध्यर्थमेतत्॥
ठ्नद्याःऽ इति पञ्चम्यकृतार्था ङ्तीइति सप्तम्याः षष्ठआआ प्रकल्पयति, तेन ङ्ति एवायमागमो विज्ञायत इत्याह---नद्यन्तादङ्गादुतरस्येति । कुमार्या इति । ठाटश्चऽ इति वृद्धिः । अथ दीर्घोच्चारणं किमर्थम्, अडेवोच्येत, ठ्वृद्धिरेचिऽ इति वृद्ध्या सवर्णदीर्घत्वेन च कुमार्यै, कुमार्या इति सिद्धम् ? न सिद्ध्यति; ठतो गुणेऽ पररूपत्वं प्राप्नोति । अड्वचनसामर्थ्यान्न भविष्यति ? अस्त्यड्वचने प्रयोजनम्, किम् ? श्रियै, श्रिया इत्यत्र ठ्सावेकाचःऽ इत्याद्यौदातत्वं मा भूत्, आगमानुदातत्वं यथा स्यादिति । आगमानुदातत्वं हि प्रत्ययस्वरमिव विभक्तिस्वरमपि बाधते, विशेषतोऽत्राड्वचनसार्थ्यात् ॥
सिद्धान्तकौमुदी
नद्यन्तात्परेषां ङितामाडागमः स्यात् ॥
आण्नद्याः - आण्नद्याः ।अङ्गस्ये॑-त्यधिकृतं पञ्चम्या विपरिणम्यते ।नद्या॑इति पञ्चम्यन्तेन विशेष्यते, तदन्तविधिः ।घेर्ङिती॑त्यतोङिती॑त्यनुवृत्तं षष्टआ विपरिणम्यते, तदाह-नद्यन्तादित्यादिना ।
आण्नद्याः - आण्नद्यः ।आण्नद्याः॑इत्येव सुवचम्, विधानसमाथ्र्यात्अतो गुणे॑ इत्यस्याऽप्रवृत्तौ यथायथं वृद्धिसवर्णदीर्घाभ्यांबहुश्रेयस्यै॑बहुश्रेयस्या॑इत्यादिरूपसिद्धेः । ननुपरत्वादाटा नुङ् बाध्यते॑इत्युत्तरग्रन्थपर्यालोचनया ङेरामि कृते तस्य नुडागमनिवारणार्थमड्विधेरावश्यकत्वात्सामथ्र्यमुपक्षीमिति चेत्, एवं तर्हिह्यस्वनद्यापः॑इत्यन्तरंङेर्ने॑त्येव सूत्र्यतामामीत्यनुवृत्त्याङेरामो नुण्ने॑त्यर्थलाभात् । तस्मात्अण्नाद्याः॑इति विधानसामथ्र्यात्अतो गुणे॑इति न प्रवर्तते इति दिक् ।
लघुसिद्धान्तकौमुदी
नद्यन्तात्परेषां ङितामाडागमः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.