Page loading... Please wait.
7|3|110 - ऋतो ङिसर्वनामस्थानयोः
॥ तस्मै पाणिनये नमः ॥
7|3|110
SK 275
ऋतो ङिसर्वनामस्थानयोः   🔊
सूत्रच्छेदः
ऋतः (षष्ठ्येकवचनम्) , ङिसर्वनामस्थानयोः (सप्तमीद्विवचनम्)
अनुवृत्तिः
 सुपि  7|3|102 (सप्तम्येकवचनम्) , गुणः 1/1  7|3|108 (षष्ठ्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
ऋतः अङ्गस्य ङि-सर्वनामस्थानयोः गुणः
सूत्रार्थः
ऋदन्तस्य अङ्गस्य ङि-प्रत्यये परे सर्वनामस्थानप्रत्यये च परे गुणादेशः भवति ।
ऋदन्तस्य अङ्गस्य (1) सप्तमी-एकवचनस्य ङि-प्रत्यये परे, (2) सर्वनामस्थानप्रत्यये च परे - गुणादेशः - इत्युक्ते "अर्" आदेशः भवति ।

यथा -
1) पितृ + औ [प्रथमाद्विवचनस्य प्रत्ययः]
→ पितर् + औ [ऋतो ङिसर्वनामस्थानयोः 7|3|110 इति गुणः]
→ पितरौ

2) दातृ + ङि [सप्तम्येकवचनस्य प्रत्ययः]
→ दातर् + इ [ऋतो ङिसर्वनामस्थानयोः 7|3|110 इति गुणः]
→ दातरि

ज्ञातव्यम् - अदेङ्-गुणः 1|1|2 इत्यनेन अ-ए-ओ-वर्णानाम् गुणसंज्ञा विधीयते । वस्तुतः तु एतेषु कोऽपि वर्णः स्थानसाधर्म्येण ऋकारवत् नास्ति, परन्तु उरण् रपरः 1|1|51 अनया परिभाषया ऋकारस्य आदेशभूतः अकारः नित्यम् रेफेण सह (इत्युक्ते, "अर्" इति) एव आगच्छति । अयं "अर्" आदेशः स्थानसाधर्म्येण ऋकारवत् अस्ति - उभयोः उच्चारणार्थम् मूर्ध्नः प्रयोगः क्रियते । अतः ऋकारस्य गुणादेशरूपेण अर्-आदेशः भवति ।
One-line meaning in English
The last letter of a ऋदन्त word is replaced by अर् in presence of - (a) ङि-प्रत्यय and (b) a प्रत्यय that is also a सर्वनामस्थान.
काशिकावृत्तिः
गुणः इति वर्तते। ऋकारान्तस्य अङ्गस्य ङौ परतः सर्वनामस्थाने च गुणो भवति। ङौ मातरि। पितरि। भ्रातरि। कर्तरि। सर्वनामस्थाने कर्तारौ। कर्तारः। मातरौ। पितरौ। भ्रातरौ। तपरकरणं मुखसुखार्थम्।
`तपरकरणं मुखसुखार्थम्` इति। न हि ङिसर्वनामस्थानयोर्दीर्घ ऋकारः सम्भवति यस्तपरेण निवर्त्त्येत॥
तपरकरणं मुखसुखार्थमिति । ङिसर्वनामस्थानयोर्दीर्घान्तस्यासम्भवात् । धात्वनुकरणमपि न सम्भवति, ठृत इद्धातोःऽ इतीत्वविधानात् । कर्त णीत्यत्यादावपि नुमः पूर्वान्तत्वादसम्भवः ॥
सिद्धान्तकौमुदी
ङौ सर्वनामस्थाने च परे ऋदन्ताङ्गस्य गुणः स्यात् । इति प्राप्ते ॥
ऋतो ङिसर्वनामस्थानयोः - ऋतो ङि । "ह्यस्वस्य गुणः" इत्यतो॒गुण॑ इत्यनुवर्तते ।अङ्गस्ये॑त्यधिकृतम् "ऋत" इत्यनेन विशेष्यते, ततस्तदन्तविधिस्तदाह — ङाविति ।
ऋतो ङिसर्वनामस्थानयोः - ऋतो ङि ।कृ॑तृ॑ एतयोरनुकरणे ऋकारान्ते गुणवारणाय तपरकरणमिति बोध्यम् ।अप्तृन् ।तुरिष्ठेमेयस्स्वि॑तिवृत्तृ इत्येवसिद्धे तृन्तृचोर्मभेदानोपादानंक्वचित्सामान्योक्तावपि विशेष एव गृह्रते॑इति ज्ञापनार्थन् । तेनन कापधायाः॑इत्यत्र सामान्योक्तावपि वुतद्धितयोरेव को गृह्रते, न कमात्रम् । तेन यदग्रे वक्ष्यतिकोपधप्रतषेधे तद्धितवुग्रहण॑मिति, तदुपपन्नं भवतीत्येके । अन्ये त्वाहुः — ॒अप्तृ॑ — इत्योव वक्तव्येतृन्तृ॑जिति भेदेनोपादानमर्वणस्तृव् ।यावृत्तये । यद्यप्यर्थवत्परिभाषाया तन्निवृत्तिः सिध्यति, तथापि तस्याः परिभाषाया अनित्यत्वज्ञापनाय तयोः पृथगुपादानम् । तेनअनिनस्मन्ग्रहणान्यर्थवता चानर्थकतेन त तदन्तविधिं पर्योजयन्ती॑ति सिद्धमिति । व्युत्पत्तिपक्षे तृन्नन्तत्वात्तृजन्तत्वाद्वा सिद्धे नप्त्रादिग्रहणं व्यर्थमित्यत आह — नियमार्थमिति । औणादिकानामन्यषां संज्ञाशब्दानां मा भूदित्येतदर्थमित्यर्थः । धातृशब्दस्त्वौणादिकः संज्ञाशब्दो न भवतीति तत्र दीर्घो भवत्येव । धातारौ । धातारः । अव्युत्पत्तिपक्षे तु नप्त्रादिग्रहणं विध्यर्थमिति पितृभ्रातृप्रभृतीनां दीर्घशङ्कैव नास्तीति बोध्यम् ।तेनेति । पितरौ । पितरः ।भ्रातरौ । भ्रातर इत्यादौ दीर्घे नेत्यर्थः । क्रोष्टेति । अनङ् । ह्ल्ङ्यादिलोपात्परत्वादुपधादीर्घः । स चसर्वनामस्थाने चे॑त्यनेन यद्यपि लभ्यते, तथापि परत्वात्अप्तृ॑न्नित्येवं न्याय्यः । कृतेऽप्यनङिएकदेशविकृतस्यानन्यत्वेन तृच्त्वात् । अन्यथा गुणे कृतेऽपिक्रोष्टारा॑वित्यादौ दीर्घे न स्यादिति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.