Page loading... Please wait.
7|3|109 - जसि च
॥ तस्मै पाणिनये नमः ॥
7|3|109
SK 241
जसि च   🔊
सूत्रच्छेदः
जसि (सप्तम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
सुपि  7|3|102 (सप्तम्येकवचनम्) , गुणः  7|3|108 (प्रथमैकवचनम्) , ह्रस्वस्य  7|3|108 (षष्ठ्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
ह्रस्वस्य अङ्गस्य जसि सुपि गुणः
सूत्रार्थः
हस्वान्तस्य अङ्गस्य जस्-प्रत्यये परे गुणादेशः भवति ।
हस्वान्तस्य अङ्गस्य अन्तिमवर्णस्य प्रथमाबहुवचनस्य जस्-प्रत्यये परे गुणादेशः भवति । इत्युक्ते, इकारस्य एकारः तथा उकारस्य ओकारः आदेशः भवति । यथा -

मुनि + जस्
→ मुने + अस् [जसि च 7|3|109 इति गुणादेशः]
→ मुनयः [एचोऽयवायावः 6|1|78 इति अयादेशः । विसर्गनिर्माणम् ।]
One-line meaning in English
If an अङ्ग ends in ह्रस्व letter, that ह्रस्व letter gets a गुणादेश in presence of the जस्-प्रत्यय.
काशिकावृत्तिः
जसि परतो ह्रस्वान्तस्य अङ्गस्य गुणो भवति। अग्नयः। वायवः। पटवः। धेनवः। बुद्धयः। जसादिषु छन्दसि वावचनं प्राङ् णौ चङ्युपधाया ह्रस्व इत्येतस्मात्। इतः प्रकरणात् प्रभृति छन्दसि वा इति वक्तव्यम्। किं प्रयोजनम्? अम्बे, दर्वि, शतक्रत्वः, पश्वे नृभ्यः, किकिदीव्या। अम्बे, अम्ब। पूर्णा दर्वि, पूर्णा दर्वी। अधा शतक्रत्वः, शतक्रतवः। पश्वे नृभ्यः, पशवे। किकिदीव्या, किकिदीविना।
`जसादिषु` इत्यादि। आदिशब्दः प्रकारे। जस्प्रकारेषु प्रत्ययेष्वित्यर्थः। `इतः प्रकरणात्` इति। `अम्बार्थनद्योह्र्यस्वः` 7|3|107 इत्येवमादिकात्। `छबदसीति वक्तव्यम्` इति। छन्दसि विषये वा कार्यं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु तदेव बहुलवचनमाश्रित्य कत्र्तव्यम्। `अम्बे` इत्यादि। `अम्बार्थनद्योह्र्यस्वः` 7|3|107 इति ह्यस्वो न भवति। `दर्वी` इत्यत्र ह्यस्वस्य गुणः। `शतक्रत्वः` इत्यत्रापि `जसि च` 7|3|109 इति। `पओ` इति। `धेर्ङिति` 7|3|111 इति गुणः। `किकिदीव्या` इति। अत्र `आङो नास्त्रियाम्` 7|3|119 इति नाभावः॥
जसादिष्विति । आदिशब्दः प्रकारे, तेन पूर्वयोगनिर्दिष्टानामपि ग्रहणम् । दर्वीति । ठ्कृदिकारादक्तिनःऽ इति ङीष्विकल्पमनपेक्ष्यैतदुक्तम्, तत एव तु सिद्धं रूपद्वयम् । शतक्रत्व इति । ठ्जसि चऽ इति गुणाभावपक्षे ठ्प्रथमयोःऽ इति पूर्वसवर्णदीर्घोऽपि ठ्वा च्छन्दसिऽ इति वचनान्न भवतीति यणादेशः प्रवर्तते । किकिदीव्येति । ठाङे नास्त्रियाम्ऽ इति नाभावो न भवति । किकिदीविशब्दः ठ्कृविधृष्विऽ इत्युणादिषु निपातितः ॥
सिद्धान्तकौमुदी
ह्रस्वान्तस्याऽङ्गस्य गुणः स्याज्जसि परे । हरयः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
ह्रस्वान्तस्याङ्गस्य गुणः। हरयः॥
महाभाष्यम्
जसि च जसादिषु छन्दसि वावचनं प्राङ्णौ चङ्युपधायाः जसादिषु छन्दसि वेति वक्तव्यम् ।। किमविशेषेण ? ।। नेत्याह । प्राङ्णौ चङ्युपधायाः।। किं प्रयोजनम् ? ।। अम्बे दर्वि शतक्रत्वः पश्वे नृभ्यः(1) किकिदीव्या अम्बे ‐ अम्ब । दर्वे(2) ‐ दर्वि । शतक्रत्वः ‐ शतक्रतवः । पश्वे नृभ्यः(1),पशवे नृभ्यः(1) । किकिदीव्या ‐ किकिदीविना ।। ( जसि च ) ।।