Page loading... Please wait.
7|3|106 - सम्बुद्धौ च
॥ तस्मै पाणिनये नमः ॥
7|3|106
SK 288
सम्बुद्धौ च   🔊
सूत्रच्छेदः
सम्बुद्धौ (सप्तम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
सुपि  7|3|102 (सप्तम्येकवचनम्) , एत्  7|3|103 (प्रथमैकवचनम्) , आपः  7|3|105 (षष्ठ्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
आपः अङ्गस्य सम्बुद्धौ सुपि एत्
सूत्रार्थः
आबन्तस्य अङ्गस्य सम्बुद्धि-एकवचनस्य प्रत्यये परे एकारादेशः भवति ।
आकारान्तस्त्रीलिङ्गशब्दाः सर्वे टाप्/चाप्/डाप् प्रत्ययान्ताः सन्ति । "आबन्त" इत्यनेन एतेषाम् एव ग्रहणम् क्रियते । एतेषाम् सर्वेषाम् अङ्गस्य सम्बोधन-एकवचनस्य सुँ-प्रत्यये परे एकारादेशः भवति ।

यथा - माला + सुँ [सम्बुद्धिः]
→ माले + सुँ [सम्बुद्धौ च 7|3|106 इति एकारादेशः]
→ माले [एङ्ह्रस्वात्‌ सम्बुद्धेः 6|1|69 इति सुँ-प्रत्ययस्य लोपः]

ज्ञातव्यम् - एकवचनं सम्बुद्धिः 2|3|49 इत्यनेन सम्बोधन-एकवचनस्य सुँ-प्रत्ययस्य सम्बुद्धिः संज्ञा भवति ।
One-line meaning in English
An आबन्त अङ्ग gets an एकारादेश in presence of the सुँ-प्रत्यय of सम्बोधन-एकवचन.
काशिकावृत्तिः
आपः इति वर्तते। सम्बुद्धौ च परतः आबन्तस्य अङ्गस्य एत्वं भवति। हे खट्वे। हे बहुराजे। हे कारीषगन्ध्ये।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
आप एकारः स्यात्संबुद्धौ । एङ्ह्रस्वात् (कौमुदी-193)इति संबुद्धिलोपः । हे रमे । हे रमे । हे रमाः । रमाम् । रमे । रमाः । स्त्रीत्वान्नत्वाऽभावः ॥
सम्बुद्धौ च - संबुद्धौ च ।बहुवचने झल्ये॑दित्यत एदिति, "आङि चापः" इत्यत "आप" इति चानुवर्तते । तदाह-आप इत्यादिना । आबन्तस्येत्यर्थः ।अलोऽन्त्यस्य॑ । हे रमे स् इति स्थिते प्रक्रियां दर्शयति — एङ्ह्यस्वादिति । हल्ङ्यादिलोपस्तु न, परत्वात्प्रतिपदोक्तत्वाच्च एत्त्वे कृते हल्ङ्यादिलोपस्याऽप्राप्तेः,एङ्ह्यस्वा॑दिति लोपस्यैव परत्वेन न्याय्यत्वाच्चेति भावः । रमामिति । "अमि पूर्वः" इति पूर्वरूपम् । औङः शीभावे आद्गुणं मत्वाह — रमे इति । स्त्रीत्वादिति । शसि रमा-असिति स्थिते पूर्वसवर्णदीर्घे सति कृतपूर्वसवर्णदीर्घात्परत्वेऽपि "तस्माच्छसः" इति नत्वं स्त्रीलिङ्गत्वान्न भवतीत्यर्थः । रमा-आ इति स्थिते ।
सम्बुद्धौ च - संबुद्धौ च ।बहुवचने झल्येत्आङि चापः॑इत्यतएत्॒आप॑इति चानुवर्तते, तदाह — -आप स्यादिति । एङ्ह्यस्वादिति । न चात्र हल्ङ्यादिनैध सुलोपोऽस्तु, प्रत्ययलक्षणन्यायेनसुबुद्धौ चे॑त्येत्त्वस्यापि प्रवृत्तिसंभवादिति शङ्कयं, परत्वाकत्प्रतिपदोक्तत्वच्च एत्त्वे कृते हल्ङ्यादिलोपस्याऽप्राप्तेः, स्थानवद्भावादाप्त्वेऽप्याकाररूपत्वाऽभावात् ।आ आ॑बित्याकारं पर्श्लिष्य दीर्घग्रहणस्य प्रत्याख्यानात् ।एङ्ह्यस्वा॑दिति लोपस्यैव परत्वेन न्याय्यत्वाच्चेति भावः ।
लघुसिद्धान्तकौमुदी
आप एकारः स्यात्सम्बुद्धौ। एङ्ह्रस्वादिति संबुद्धिलोपः। हे रमे। हे रमे। हे रमाः। रमाम्। रमे। रमाः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.