Page loading... Please wait.
7|3|103 - बहुवचने झल्येत्‌
॥ तस्मै पाणिनये नमः ॥
7|3|103
SK 205
बहुवचने झल्येत्‌   🔊
सूत्रच्छेदः
बहुवचने (सप्तम्येकवचनम्) , झलि (सप्तम्येकवचनम्) , एत् (प्रथमैकवचनम्)
अनुवृत्तिः
अतः  7|3|101 (षष्ठ्येकवचनम्) , सुपि  7|3|102 (सप्तम्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
अतः अङ्गस्य बहुवचने झलि एत्
सूत्रार्थः
"बहुवचनस्य झलादि सुप्-प्रत्यये परे" अदन्तस्य अङ्गस्य एकारादेशः भवति ।
सुप्-प्रत्ययाः इत्युक्ते स्वौजसमौट्.. 4|1|2 सूत्रेण उक्ताः एकविंशतिः प्रत्ययाः । एते प्रत्ययाः प्रातिपदिकेभ्यः आगच्छन्ति । एतेषु बहुवचनस्य झलादि-सुप्-प्रत्ययाः एते - भिस्, भ्यस्, सुप् । एतेषु परेषु अदन्तस्य अङ्गस्य अन्तिमवर्णस्य एकारादेशः भवति ।

यथा -
1) राम + भ्यस् → रामेभ्यः ।
2) राम + सुप् → रामेसु → [आदेशप्रत्यययोः 8|3|59 इति षत्वम् ] → रामेषु ।
One-line meaning in English
The last letter of an अदन्त अङ्ग gets an एकारादेश when followed by a सुप्-प्रत्यय which begins with a झल letter and which represents बहुवचन.
काशिकावृत्तिः
बहुवचने झलादौ सुपि परतो ऽकारान्तस्य अङ्गस्य एकारादेशो भवति। व्कृक्षेभ्यः। प्लक्षेभ्यः। वृक्षेषु। प्लक्षेषु। बहुवचने इति किम्? वृक्षाभ्याम्। प्लक्षाभ्याम्। झलि इति किम्? वृक्षाणाम्। सुपि इत्येव, यजध्वम्। पचध्वम्।
ननु च वृक्षाणामित्यत्र `नामि` 6|4|3 इति दीर्घत्वं बाधकं भविष्यति, तत्? किं तन्निवृत्त्यर्थेन झल्ग्रहणेन? नैतदस्ति; `नामि` 6|4|3 इति ह्रग्नीनामित्यत्र सावकाशम्, तत्रासति झल्ग्रहणे दीर्घत्वं बाधित्वा परत्वादेत्त्वमेव स्यात्। `पचध्वम्, यजध्वम्` इति। लोट्? टेरेत्त्वम्, `सवाभ्यां वामौ` 3|4|91 इत्यामादेशः॥
वृक्षाणामिति । ठ्झलिऽ इत्यनुच्यमानेऽग्नीनामित्यादौ सावकाशम् ठ्नामिऽ इति दीर्घत्वं बाधित्वेदमेत्वमकारान्तेषु स्यादिति भावः ॥
सिद्धान्तकौमुदी
झलादौ बहुवचने सुपि परेऽतोऽङ्गस्यैकारः स्यात् । रामेभ्यः । बहुवचने किम् । रामः । रामस्य । झलि किम् । रामाणाम् । सुपि किम् । पचध्वम् । जश्त्वम् ।
बहुवचने झल्येत् - भ्यसि न विभक्ताविति सस्य नेत्त्वम् । सुपि चेति दीर्घे प्राप्ते — बहुवचने झल्येत् ।अतो दीर्घो यञी॑त्यतःसुपि चे॑त्यतश्च "अत" इतिसुपी॑ति चानुवर्तते ।झली॑त्यनेनसुपी॑ति विशेष्यते ।यस्मिन् विधि॑रिति तदादिविधिस्तदाह — झलादाविति । अतोऽङ्गस्येति । अदन्तस्याङ्गस्येत्यर्थः । एत्वे सति रुत्वविसर्गौ सिद्धवत्कृत्याह — रामेभ्य इति । राम इति । अयोगवाहानामकारोपरि शर्षु चोपसंख्यातत्वेन विसर्गस्य झल्त्वात्स्थानिवद्भावेन सुप्त्वाच्च तस्मिन् परत एत्वं प्राप्तं, रुत्वविसर्गयोरसिद्धत्वेऽपि राम — सिति दशायां झलादिसुप्परत्वात् । अतो बहुवचनग्रहणमित्यर्थः । रामस्येति । बहुवचनग्रहणस्य प्रयोजनान्तरम् । षष्ठएकवचनस्य ङसः स्यादेशे तस्य स्थानिवद्भावेन सुप्त्वात्स्वतो झलादित्वाच्च तस्मिन् परत एत्वे प्राप्ते तन्निवृत्त्यर्थं बहुवचनग्रहणमित्यर्थः । संनिपातपरिभाषा तुसर्वेषा॑मिति निर्देशादेत्वविधौ न प्रवर्तत इत्याहुः । झलि किमिति ।उतो वृद्धिर्लुकि हलीत्यतो हली॑त्यनुवर्त्त्य हलादौ बहुवचने सुपि एत्वमित्येव व्याख्यातु शक्यते । तावतैव "रामा" इत्याद्यजादिबहुवचने एत्वनिरासादिति प्रश्नः । रामाणामिति ।हलादौ बह#उवचने सुपि एत्व॑मित्युक्तौ रामाणामित्यत्राप्येत्वं स्यात् । तन्निवृत्त्यर्थं झल्ग्रहणमित्यर्थः । यद्यप्यत्र संनिपातपरिभाषया ह्यस्वान्ताङ्गसंनिपातमुपजीव्य प्रवृत्त्स्य नुटस्तद्विघातकमेत्वं प्रति निमित्तत्वाऽसंभवादेव एत्वं न भविष्यति, तथापि झल्ग्रहणमेत्वे संनिपात परिभाषाया अप्रववृत्तिज्ञापनार्थम् । तेनहलि सर्वेषा॑मिति निर्देशात्सर्वशब्दे एत्वसिद्धावपि विओषामित्यादावेप्यत्वं भवति । पचध्वमिति । ध्वमो झलादिबहुवचनत्वेऽपि सुप्त्वाऽभावान्न तस्मिन् परत एत्वमित्यर्थः । नचबहुवचने झली॑गित्योवास्तु । कित्त्वादन्तावयवे आद्गुणे च "रामेभ्य" इत्यादिसिद्धेरिति वाच्यम्, एवं सतिओसि चे॑त्युत्तरसूत्रेऽपि इगागमविधौ ज्ञानयोरित्यत्रइकोऽचि विभक्ता॑विति नुमापत्तेः । अथ पञ्चमीविभक्तिः । तत्रउपदेशेऽजनुनासिक इ॑दिति ङसेरिकार इत् । तस्य लोपः । ङकारस्तु लशक्विति इत् । तस्य लोपः । ङकारस्तु लशक्विति इत् । तस्य लोपः । तदुभयोच्चारणं तु "ङसिङ्योः"घेर्ङिती॑त्याद्यर्थम् ।टाङसिङसा॑मिति आत् । सवर्णदीर्घः । जश्त्वमिति । "झलां जशो ।ञन्ते" इति नित्यतया जश्त्वं प्राप्तम् । तदपवादश्चत्र्वविकल्प आरभ्यत इत्यर्थः ।
बहुवचने झल्येत् - रामः । रामस्येति । यद्यपि रामस्येत्यत्र संनिपातरिभाषयाप्येत्त्वं सुपरिहरम्, तथापिअदः सर्वेषा॑मिति निर्देशादेत्त्वविधौ संनिपातपरिभाषा न प्रवर्तत इत्याशयेनोक्तमिति स्थितस्य गतिः समर्थनीया ।
लघुसिद्धान्तकौमुदी
झलादौ बहुवचने सुप्यतोऽङ्गस्यैकारः। रामेभ्यः। सुपि किम्? पचध्वम्॥
महाभाष्यम्
बहुवचने झल्येत् अतो दीर्घाद्बहुवचन एत्वं विप्रतिषेधेन अतो दीर्घाद्बहुचन एत्वं भवति विप्रतिषेधेन । अतो दीर्घो यञ्ञि सुपि चेत्यस्यावकाशः ‐ वृक्षाभ्यां प्लक्षाभ्याम् । बहुवचने झल्येदित्यस्यावकाशो ‐ वृक्षेषु ल्पक्षेषु । इहोभयं प्राप्नोति ‐ वृक्षेभ्यः ल्पक्षेभ्यः । एत्वं भवति विप्रतिषेधेन ।। ( बहुवचने )