Page loading... Please wait.
7|3|102 - सुपि च
॥ तस्मै पाणिनये नमः ॥
7|3|102
SK 202
सुपि च   🔊
सूत्रच्छेदः
सुपि (सप्तम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
यञि  7|3|101 (सप्तम्येकवचनम्) , दीर्घः  7|3|101 (प्रथमैकवचनम्) , अतः  7|3|101 (षष्ठ्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
अतः अङ्गस्य यञि सुपि दीर्घः
सूत्रार्थः
यञादि सुप्-प्रत्यये परे अदन्तस्य अङ्गस्य दीर्घादेशः भवति ।
सुप्-प्रत्ययाः इत्युक्ते स्वौजसमौट्.. 4|1|2 सूत्रेण उक्ताः एकविंशतिः प्रत्ययाः । एते प्रत्ययाः प्रातिपदिकेभ्यः आगच्छन्ति । एतेषु यञादि सुप्-प्रत्ययाः एते - भ्याम्, भिस्, भ्यस्, तथा (ङे-प्रत्ययस्य आदेशभूतः) य । एतेषु परेषु अदन्तस्य अङ्गस्य अन्तिमवर्णस्य दीर्घादेशः भवति ।

यथा -
1) राम + भ्याम् → रामाभ्याम् ।
2) राम + ङे → [ङेर्यः 7|1|13 इति यकारादेशः] राम + य → रामाय ।

स्मर्तव्यम् - यद्यपि एतत् सूत्रम् बहु सुलभम् भासते, तथापि अत्र सप्त-परिभाषाणाम् प्रयोगं कृत्वा एव सम्पूर्णा अर्थनिष्पत्तिः भवति -

1) तपरस्तत्कालस्य 1|1|70 इत्यनेन "अतः" इत्यनेन केवलं अदन्तस्य अङ्गस्य इदं कार्यं भवति, आकारान्तस्य अङ्गस्य न ।
2) अलोऽन्त्यस्य 1|1|52 इत्यनेन अङ्गस्य अन्तिमवर्णस्य दीर्घादेशः भवति ।
3) अचश्च 1|2|8 इत्यनेन स्वरस्य दीर्घादेशः भवति ।
4) तस्मिन्निति निर्दिष्टे पूर्वस्य [1।1।66] इत्यनेन "सुपि" इत्यस्य अर्थः सुप्-प्रत्यये परे इति क्रियते ।
5) षष्ठी स्थानेयोगा 1|1|49 इत्यनेन "अतः" इत्यस्य अर्थः "अदन्तस्य अङ्गस्य स्थाने" इति भवति ।
6) येन विधिस्तदन्तस्य 1|1|72 इत्यनेन "अतः अङ्गस्य" इत्युक्ते "अदन्तस्य अङ्गस्य" इति अर्थनिष्पत्तिः भवति ।
7) यस्मिन् विधिः तदादौ अल्ग्रहणे अनया परिभाषया "यञि सुपि" इत्युक्ते "यञादि-सुप्-प्रत्यये परे" इत्यर्थः जायते ।
One-line meaning in English
The last letter of an अदन्त अङ्ग becomes दीर्घ when followed by a यञादि सुप्-प्रत्यय.
काशिकावृत्तिः
अतो दीर्घो यञि 7|3|101 इत्यनुवर्तते। सुपि च यञादौ परतो ऽकारान्तस्य अङ्गस्य दीर्घो भवति। वृक्षाय। प्लक्षाय। वृक्षाभ्याम्। प्लक्षाभ्याम्। अतः इत्येव, अग्निभ्याम्। यञि इत्येव, वृक्षस्य। प्लक्षस्य।
Text Unavailable. Please use feedback link below to provide the text if you have.
वृक्षायेति । सन्निपातपरिभाषाया अनित्यत्वादत्र दीर्घत्वम् । अनित्यत्वं च ठ्कष्टायऽ इति निर्देशादवसितम् ॥
सिद्धान्तकौमुदी
यञादौ सुपि परेऽतोऽङ्गस्य दीर्घः स्यात् । रामाभ्याम् ॥
जसि च - जसि च । "ह्यस्वस्य गुणः" इत्यनुवर्तते ।अह्गस्ये॑त्यधिकृतं ह्यस्वेन विशेष्यते । तेन तदन्तविधिः । तदाह — ह्यस्वान्तस्येत्यादिना । हरय इति । अलोऽन्त्यपरिभाषयाऽन्त्यस्य गुणः । इकारस्य तालुस्थानसाम्यादेकारः । अयादेशः । रुत्वविसर्गाविति भावः ।
सुपि च - सुपि च ।यञी॑त्यनुवर्तते । अल्ग्रहणात्तदादिविधिरित्याह — यञादौ सुपीति । यञि किम् । रामः । अत इति किम् । अग्निभ्याम् ।
लघुसिद्धान्तकौमुदी
यञादौ सुपि अतोऽङ्गस्य दीर्घः। रामाभ्याम्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.