`यान्यद्विवचनानि` इति। एकवचनबहुवचनानीत्यर्थः। `अत्र` इति। पञ्चम्यादिषु विभक्तिषु। `तेषु लोपो विधीयते` इति। तेषामेव शेषत्वात्। `तुभ्यम्, मह्रम्` इति। `तुभ्यमह्रौ ङयि`
7|2|95 इति तुभ्यमह्रावादेशौ भवतः। `युष्मभ्यम्` अस्मभ्यम्` इति। `भ्यसो भ्यम्`
7|1|30 इति भ्यमादेशः। `तव, मम` इति। `तवममौ ङसि`
7|2|96 इति तवममादेशौ। `युष्माकम्, अस्माकम्` इति। `साम आकम्`
7|1|33 इति। अथ शेषग्रहणं किमर्थम्, न `लोपः` इत्येवोच्येत, एवमुच्यमाने सत्यविशेषेण लोपः स्यादित्येतच्च नाशङ्कनीयम्, अविशेषेण हि लोपो विधीयमान उत्सर्गो भविष्यति, तस्यानादेशे विभक्तिविशेषे यकाराकारापवादौ, एवञ्चान्तरेणापि शेषग्रहणं शेष एव लोपोऽवस्थाप्यते? इत्यत आह--`शेषग्रहणं विस्पष्टार्थम्` इति। `शेषेलोपे कृते स्त्रियां टाप्? कस्मान्न भवति` इति। अन्त्यलोपे कृते सत्यदन्तत्वात्? `अजाद्यतष्टाप्`
4|1|4 इति टापा भवितव्यमिति भावः। `सन्निपात` इत्यादि। विभक्त्यानन्तर्ये हि सति युष्मदस्मदी अकारान्ते समुपजाते। तत्र यदि टापमुत्पादयेयाताम्, तदा विभक्तेरानन्तर्य ताभ्यां विहतं स्यात्। न च यो यत्सन्निपातलक्षणः स तद्विघातस्य निमित्तं भवतीति न भवति टाप्। यद्येवम्, त्यदादिभ्योऽपि न स्यात्? नैष दोषः; यदयम्? `न यासयोः`
7|3|45 इति निर्देशं करोति, तज्ज्ञापयति--भवति त्यदादिभ्यष्टाविति। अयञ्च स्त्रीलिङ्गत्वं युष्मदस्मदोरभ्युपेत्य परीहार उक्तः। इदानीं स्त्रीलिङ्गाभावादेव टाब्न भवतीति दर्शयितुमाह--`अलिङ्गे` इत्यादि। `केचित्तु शेषेलोपं टिलोपमिच्छन्ति` इति। त्वं ब्राआह्रणी, अहं ब्राआहृणी--इत्यत्र टाब्मा भूदित्येवमर्थम्। युष्मभ्यम्, अस्मभ्यमित्यत्र भ्यमादेशे कृते `बहुवचने झल्येत्`
7|3|103 इत्येत्त्वं मा भूदित्येवमर्थञ्च। `कथम्` इति। एवं मन्यते--यत्र विभक्तावाकारो यकारश्च न विहितः स शेषः, तत्र शेषेलोप उचयमानष्टिलोपो न लभ्यते। `अलोऽन्त्यस्य`
1|1|51 इति परिभाषयाऽन्त्यस्यैव प्राप्नोतीति वक्ष्यमाणादेशापेक्षया शेष इत्यस्यार्थं `ते च` इत्यादिना स्पष्टीकरोति। `मपर्यन्ताद्योऽन्यः स शेषः` इति। स पुनष्टिरेव। अत्रायं शेषोलोपष्टिलोपो भवतीति लोपं प्रति शेषस्याधिकरणविवक्षायां सप्तमी। किमर्थं पुनर्लोप इत्युच्यते, यावता त्यदाद्यत्वेनैव सिद्धम्? न सिध्यति; अत्यदादित्वात्। त्यदादित्वं हि द्वपर्यन्तास्त्यदादयः` इति। तत्र चैतदेव शेषेलोपवचनं ज्ञापकम्। तेन भवच्छब्दस्य त्यदाद्यत्वं न भवति--भवानिति॥