Page loading... Please wait.
7|2|84 - अष्टन आ विभक्तौ
॥ तस्मै पाणिनये नमः ॥
7|2|84
SK 371
अष्टन आ विभक्तौ   🔊
सूत्रच्छेदः
अष्टनः (षष्ठ्येकवचनम्) , आः (प्रथमैकवचनम्) , विभक्तौ (सप्तम्येकवचनम्)
अनुवृत्तिः
हलि  7|2|85 (सप्तम्येकवचनम्, अपकर्षः)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
अष्टनः अङ्गस्य विभक्तौ आ
सूत्रार्थः
अष्टन्-शब्दस्य हलादौ विभक्तिप्रत्यये परे विकल्पेन आकारादेशः भवति ।
"अष्टन्" इति नकारान्तः सङ्ख्यावाची शब्दः । अस्य शब्दस्य हलादि-विभक्तिप्रत्यये परे विकल्पेन आकारादेशः भवति ।

यथा - अष्टन् + भिस् → अष्टाभिः [अष्टन आ विभक्तौ इत्यनेन नकारस्य वैकल्पिकः आकारादेशः ]
आकारादेशस्य अभावे नकारस्य नलोपः प्रातिपदिकान्तस्य 8|2|7 इत्यनेन लोपं कृत्वा "अष्टभिः" एतत् रूपम् अपि सिद्ध्यति ।

यस्मिन् समस्तपदे अष्टन्-शब्दः आगच्छति, तस्य शब्दस्यापि अनेन सूत्रेण वैकल्पिकः अकारादेशः भवति । यथा, "अष्ट प्रियाः यस्य सः" अस्मिन् अर्थे प्रियाष्टन्" इति प्रातिपदिकम् सिद्ध्यति । अस्यापि तृतीयाबहुवचनस्य रूपद्वयं भवति - प्रियाष्टाभिः, प्रियाष्टभिः ।

ज्ञातव्यम् -
1. अस्मिन् सूत्रे "हलि" इति पदम् रायो हलि 7|2|85 इति अग्रिमसूत्रात् "अपकर्षते" ।
2. यद्यपि अस्मिन् सूत्रे "वा" इत्यस्य अनुवृत्तिः नास्ति, तथापि आचार्येण स्वयम् अष्टनो दीर्घात् 6|1|172 अस्मिन् सूत्रे "दीर्घ-आदेशकृत-अष्टन-शब्दात् परा असर्वनामस्थाना विभक्तिः उदात्ता भवति" इति उक्तम् अस्ति । एतत् अस्यैव ज्ञापकम् यत् दीर्घग्रहणम् वैकल्पिकम् स्यात्, न हि नित्यम् । अतः अनेन सूत्रेण निर्दिष्टः दीर्घादेशः विकल्पेन भवति ।
3. अस्मिन् सूत्रे "आ" इति निरनुनासिक-आकारस्य निर्देशः कृतः अस्ति । अत्र सवर्णग्रहणं न भवति, अतः यद्यपि अयम् आदेशः नकारस्य स्थाने भवति, तथापि अननुनासिक-आकारः एव विसर्गरूपेण आगच्छति ।
4. अनेन सूत्रेण अष्टन्-शब्दात् अजादौ विभक्तौ परे आत्वं न विधीयते । यथा - अष्टन् + आम् → अष्टानाम् । इत्यत्र नोपधायाः 6|4|7 इत्यनेन अङ्गस्य उपधा-आकारस्य दीर्घे कृते रूपं सिद्ध्यति ।
One-line meaning in English
The word अष्टन् gets an optional आकारादेश when followed by a हलादि विभक्तिप्रत्यय.
काशिकावृत्तिः
अष्टनो विभक्तौ परतः आकारादेशो भवति। अष्टाभिः। अष्टाभ्यः। अष्टानाम्। अष्टासु। विभक्तौ इति किम्? अष्टत्वम्। अष्टता। आ इति व्यक्तिनिर्देशो ऽयम्। आकृतिनिर्देशे तु नकारस्थने ऽनुनासिकाकारः स्यात्। विकल्पेन अयम् आकारो भवति, एतज् ज्ञापितम् अष्टनो दीर्घात् 6|1|172 इति दीर्घग्रहणात्, अष्टाभ्य औश् 7|1|21 इति च कृतात्वस्य निर्देशात्। तेन अष्टभिः, अष्टभ्यः इत्यपि भवति। तदन्तविधिश्च अत्र इष्यते। प्रियाः अष्टौ येषाम् ते प्रियाष्टानः। प्रियाष्टौ।
`आ इति व्यक्तिनिर्देशोऽयम्` इति। शुद्धाया निरनुनासिकाया आकारस्य व्यक्तेरेव निर्देश इत्यर्थः। अथाकृतिनिर्देशे को दोषः स्यात्, यतस्तत्परीहारार्थो व्यक्तिनिर्देशोऽयमाश्रितः? इत्यत आह--`आकृतिनिर्देशे हि` इत्यादि। जातिरिहाकृतिर्विवक्षिता, न तु संस्थानम्। जातिनिर्देशे सति शुद्धाया जातेर्निर्देष्टुमशक्यत्वात्? तदाधारभूतासु व्यक्तिषु कार्यं विज्ञायते। तत्र यदीह जातिनिर्देश आश्रीयेत, तदा सर्वास्वकारव्यक्तिषु जात्यावारत्वमुपगतासु `अलोऽन्त्यस्य` 1|1|51 इति नकारस्य विधोपमान आकार आन्तरतम्यादनुनासिकस्य स्थानेऽनुनासिक एव स्यात्। व्यक्तिनिर्देशे त्वेष दोषो न भवति; इत्यादि न सिध्यति, न ह्रत्र विकल्पाभिधायि वचनमस्ति, नपि प्रकृतम्? इत्यत आह--`विकल्पेन` इत्यादि। `अष्टनो दीर्घात्` 6|1|166 इत्यनेनाष्टनी दीर्घादसर्वनामस्थानाविभक्तेरुदात्तत्वं विधीयते। यदि च नित्यमात्त्वं स्यात्, दीर्घादिति विशेषणं निरर्थकं स्यात्। अष्टाभ्य औश्` 7|1|21 इत्यत्र च कृतात्त्वस्य निर्देशोऽनर्थकः स्यात्। व्यवच्छेद्याभावदष्टन इत्येवं ब्राऊयात्। तस्माद्दीर्घग्रहेन कृतात्त्वनिर्देशेन विकल्पेनेदमात्त्वं भवतीति ज्ञ#आपितम्। तेनाष्टभिरित्याद्यपि पक्षे उपात्तः; एकवचननिर्देशात्। अन्यथा हि बह्वर्थत्वादष्टानामित्येवं ब्राऊयात्। तस्मात्? स्वरूपधानोयम्। तत्राङ्गे प्रकृतेऽनेन विशेष्यमाणे तदन्तविधिर्लभ्यते। विशेषणेन हि तदन्तविधिर्भतीत्युक्तम्। `प्रियाष्टा` [नेदमदाहरणं मूले दृश्यते] इति। `सर्वनामस्थाने` 6|4|8 इत्यादिना दीर्घः॥
सौत्रत्वान्निर्द्देशस्य अल्लोपो न कृतः । व्यक्तिनिर्देशोऽयमिति । यथाश्रुतनिरनुनासिकाकारव्यक्तिर्निर्द्दिश्यत इत्यर्थः । जातिनिर्देशस्तु दुष्ट इत्याह -- आकृतिनिर्देशो त्विति । आकृतिर्जातिः, न संस्थानम् । जातिनिर्द्देशे हि शुद्धाया जातेरादेष्टुअशमक्यत्वातदाधारभूतानां व्यक्तीनां विधानम् । तत्र यद्यपि दीर्घोच्चारणसामर्थ्यान्न ह्रस्वप्लुतव्यक्तीनां प्रसङ्गः, दीर्घव्यक्तयस्तु सर्वाः प्रसक्ताः, तत्रान्तर्यतोऽनुनासिकव्यक्तिरेव स्यात्, तस्याः पूर्वेण सह सवर्मदीर्घोऽप्यनुनासिक एव स्यात् । विकल्पेन चायमित्यादि । यथा च दीर्घग्रहणं कृतात्वनिर्द्देशश्चास्मिन्नर्थे लिङ्गं तथा तत्रैव व्याख्यातम् । तदन्तविधिश्चात्रेष्यत इति । अङ्गाधिकारे तस्य तदुतरपदस्य च इति वचनात् । एकवचननिर्देशात्स्वरूपस्य ग्रहणं नार्थस्य तेनोपसर्जनेऽप्यष्टनि भवति, तत्रापि विकल्पितत्वात्प्रियाष्टा, प्रियाष्टानौ, प्रियाष्टान इत्यपि भवति । तत्रापि भसंज्ञाविषये आत्वपत्रे आतो धातोः इत्यकारलोपमिच्छन्ति - प्रियाष्टः पश्येत्यादि, आत्वाभावपक्षे त्वल्लोपे ष्टुअत्वम् - प्रियाष्ट्न इत्यादि भवति ॥
सिद्धान्तकौमुदी
अष्टन आत्वं स्याद्धलादौ विभक्तौ ॥
अष्टन आ विभक्तौ - तस्य विशेषमाह — अष्टन आ विभक्तौ ।रायो हली॑त्यो हलीत्यपकृष्यते । तच्च विभक्तेर्विशेषणं, तदादिविधिः । तदाह — अष्टन आत्वमित्यादिना । ग्रहणकसूत्रेऽग्रहणेन वार्णसमाम्नायिकानामेव ग्रहणादाकारस्याऽनण्त्वाद्भाव्यमानत्वाच्च शुद्ध एव नकारस्य आकारः ।
अष्टन आ विभक्तौ - अष्टन आ विभक्तौ । सौत्रत्वादिहाऽल्लोपो न कृतः ।कनिन्युषितक्षी॑त्यतःकनिः नित्यनुवर्तमाने ॑सप्यशूभ्यां तुट् चे॒त्यनेन सप्तन्नष्टन्शब्दौ निष्पन्नौ ।रायौ हली त्युत्तरसूत्राद्धलीत्यपकृष्यते, तच्च विभक्तेर्विशेषणमित्यभिप्रेत्य व्याचष्टे — -हलादाविति ।हली॑त्यस्यानपपकर्षणे त्वष्टानामिति न सिध्येत् । परत्वान्नित्यत्वाच्च नुटः प्रागात्वे कृते अनान्तत्वेन षट्संज्ञाऽभावान्तुटोऽप्रवृत्तेः ।न च यथोद्देशपक्षेऽन्तकङ्गत्वात्प्रागेव कृता षट्संज्ञा एकदेशविकृतन्यायेन कृतात्वेऽपि सुलभेति वाच्यम्, अल्विधौ उक्तन्यायऽयौग्त् । किंचप्रियाष्टानौ॒॑प्रियष्टानः॑प्रियष्ट्नः॑प्रियष्ट्ने॑त्याद्यपि न सिध्येत्, उक्तरीत्या तत्राप्यात्वप्रवृत्तेरिति बोध्यम् ।
लघुसिद्धान्तकौमुदी
हलादौ वा स्यात्॥
महाभाष्यम्
अष्टन आ विभक्तौ ।। अष्टन्जनादिपथिमथ्यात्वेष्वान्तरतम्यादनुनासिकप्रसङ्गः ।। अष्टन्जनादिपथिमथ्यात्वेष्वान्तरतम्यादनुनासिकः प्राप्नोति । अष्टाभिः अष्टाभ्यः । जातः जातवान् । पन्थाः मन्थाः ।। 8 ।। सिद्धमनण्त्वात् ।। सिद्धमेतत् ।। कथम् ? ।। अनण्त्वात् ।। कथमनण्त्वम् ? ।। अण्सवर्णान्गृह्णातीत्युच्यते न चाऽऽकारोऽण् । ।। उच्चारणसार्मथ्याद्वा ।। अथ वा शुद्ध उच्चारमसार्मथ्याद्भविष्यति ।। नैतौ स्तः परिहारौ । यत्तावदुच्यते ‐ -अनण्त्वादिति । न ब्रूमोऽण्सर्वान्गृह्णातीति ।। कथं तर्हि ? ।। तपरस्तत्कालस्येति । यदप्युच्यते उच्चारणसार्मथ्याद्वेति । अस्त्यन्यदुच्चारणे प्रयोजनम् ।। किम् ? ।। उत्तरार्थं रायो हलीति ।। एवं तर्हि नेमौ पृथक् परिहारौ । (। ।। एकपरिहारः ।।) ।। एकः(1) परिहारोऽयं ‐ सिद्धमनण्त्वादुच्चारणसार्मत्याद्वेति ।। इह तावदष्टाभिः अष्टाभ्य इति ‐ - अनण्त्वात्सिद्धम् । जातः जातवान् । पन्थाः मन्थाः, ‐ उच्चारणसार्मथ्यात्सिद्धम्।। यद्येवं पृथक्परिहारयोरपि न दोषो यो यत्र परिहारः स तत्र भविष्यति।। (अष्टन आ विभक्तौ)।।