Page loading... Please wait.
7|2|81 - आतो ङितः
॥ तस्मै पाणिनये नमः ॥
7|2|81
SK 2235
आतो ङितः   🔊
सूत्रच्छेदः
आतः (षष्ठ्येकवचनम्) , ङितः (षष्ठ्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
आकारस्य ङिदवयवस्य आकारान्तादङ्गादुत्तरस्य सार्वधातुकस्य इयित्ययम् आदेशो भवति। पचेते पचेथे। पचेताम्। पचेथाम्। यजेते। यजेथे। यजेताम्। यजेथाम्। सार्वधातुकम् अपित् 1|2|4 इत्यत्र न ङितीव ङिद्वतित्येवम् अङ्गीक्रियते, अपि तु ङित इव ङिद्वतिति। पूर्वसूत्र एव उच्चुकुटिषति इति प्रसिद्धये तथाङ्गीकरणम्। यदि गाङ्कुटादिसूत्रे ङित इव ङिद्वद् भवति इत्येवम् अङ्गीक्रियते, तदा अनुदात्तङिति आत्मनेपदम् 1|3|12 इत्यात्मनेपदं प्रप्नोति इति। आतः इति किम्? पचन्ति। यजन्ति। पचन्ते। यजन्ते। ङितः इति किम्? पचावहै। पचामहै। अतः इत्येव, चिन्वाते। सुन्वाते। तपरकरणम् किम्? मिमाते। मिमाथे।
`आतः`, `ङितः` इति व्यधिकरणे षष्ठ्यौ। आत इयादेशापेक्षया स्थाने षष्ठीति। ङित इति आकारापेक्षयावयवषष्ठी` ङितो ह्रकारमात्रस्यासम्भवात्। ङित इत्येषोऽवचवयोगे षष्ठो विज्ञायते--ङिदवयस्येति ङकार इद्यस्य स ङित्, तस्यावयवो ङिदवयवः। `पचेते` पचेथे` इति। लट्, स्वरितेत्त्वादात्मनेपदम्, आतामथाम्, `सार्वधातुकमपित्` (1।2। 4) इति ङित्त्वम्। `पचोताम्, पचेथाम्` इति। लोट्, टेरेत्त्वे 3|4|79 कृते `आमेतः` 3|4|90 इत्याम्। ननु च ङिदवयवोऽत्राकारो न भवति, यस्माद्गाङकुटादिसूत्रे 1|2|1 ङितीव ङिद्वदित्येवमर्वोऽङ्गौक्रियते, तथा `सार्वधातुकमपित्` 1|2|4 इत्यत्राप्ययमर्थः, तथा ह्रस्मिन्नपि योगे तदेव ङिद्ग्रहणमनुवत्र्तते, तस्मश्चार्थेऽङ्गीक्रियमाणे ङिति यत्कार्यं तदपि हि सार्वधातुके परतः पूर्वस्य लक्ष्यते, न तु तस्यैवापित्सार्वधातुकस्यङित्वम्? इत्याह--`सार्वधातुकमपिदित्यत्र` इत्यादि। `पूर्वसूत्र एव` इति। गाङ्कुटादिसूत्रे 1|2|1 यद्येवमङ्गीक्रियते--गाङ्कुटादिभ्यः परो योऽञ्णित्प्रत्ययोऽसौ ङिदवद्भवतीति, तदा कुटादिभ्यः परस्य सनो ङित्त्वं भवति, ङित्त्वे सति `अनुदात्तङितः` 1|3|12 इत्यादिनाऽ‌ऽत्मनेदपं स्यात्, ततश्चोच्चुकुटिपतीति न सिध्येत्। तस्मादेतत्सिध्यर्थं ङितीय ङिद्वदित्यङ्गीक्रियते। `सार्वधातुकमपित्? 1|2|4 इत्यत्र तु तत्? सार्वधातुकं ङिद्भवतीत्येषोऽर्थोऽङ्गीक्रियते। तस्माद्युक्तमेवाकारस्य ङिदवयवत्वम्। `पचन्ते, यजन्ते` इति। `भवत्यत्र [`भवत्यङिदवयवो`--मुद्रितपाठः] ङिदवयवोऽक्तादेशस्याकारः, तथाप्यात इति वचनात्र भवति। `पचावहै, पचामहै` इति। लोट्? वहिमहिङौ। आडुत्तमस्य पिच्च` 3|4|92 इत्याट्, उत्तमश्च पिद्भवतीति। अत्र पित्त्वान्ङित्त्वं न भवतीति आतो ङिददयवाकारो न भवति। `मिमाते, मिमाथे` इति। `माङ माने` [`माने शब्दे च`--धातुपाठः-] (धातुपाठः-1088), जुहोत्यादित्वाच्छपः श्लुः। `श्लौ` 6|1|10 इति द्विर्वचनम्, `भृञायित्` 7|4|76 इत्यभ्यासस्येत्त्वम्, `श्नाभ्यस्तयोरातः` 6|4|112 इत्याकारलोपः॥
एआकारमात्रस्य ङितोऽसम्भवाद् आतः ङ्तिः इति व्यधिकरणे षष्ठयौ । ङितोऽवियवस्यात् इत्यर्थः । उदाहरणेषु स्वरितत्वादात्मनेपदम् । ननु गाङ्कुटादिसूत्रे परत्र परशब्दप्रयोगादध्यादह्रियमाणो वतिः सप्तमीसमर्थादध्याहर्तव्यः - हितीव दिति, अन्यथा चुकुटिषंतीत्यत्र सनो ङित्वादात्मिनेपदप्रसङ्गादित्युक्तम् । सार्वधातुकमपित् इत्यत्रापि तदेवानुवर्तते, ततश्च पूर्वस्य कार्य प्रत्येव सार्वधातुकस्य ङ्त्विम्, न स्वकार्य प्रतीत्ययुक्तान्युदाहरणानि लङ्लृङेस्तु युक्तमुदाहर्तुम् - अपचेताम्, अकरिष्येतामिति अस्ति ह्यत्रापि स्थानिवद्भावेन ङ्त्विम् अत आह - सार्वधातुकमपिदित्यत्रेत्यादि । ममाते, मिमाथे इति । असति तपरकरणे श्नाभ्यस्तयोरातः इति लोपात्परत्वादयमेव विधिः स्यात् ॥
सिद्धान्तकौमुदी
अतः परस्य ङितामाकारस्य इय् स्यात् । एधेते । एधन्ते ॥
आतो ङितः - आतो ङितः । ङित इत्यवयवषष्ठी । "अतो येय" इत्यस्मादत इति पञ्चम्यन्तम्, इय इति प्रथमान्तं चानुवर्तते । यकारादकार उच्चारणार्थः । तदाह — अतः परस्येति । "ङिता॑मित्यनन्तरम्"अवयवस्ये॑ति शेषः । एधेते इति । एध — आतो इति स्थिते, आकारस्य इञ्, "#आद्गुणः" अन्तादेशे, पररूपे, टेरेत्वमिति भावः । अथ लटो मध्यमपुरुषैकवचने थासादेसे कृतेटित आत्मनेपदाना॑मित्येत्वे प्राप्ते —
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
अतः परस्य ङितामाकारस्य इय् स्यात्। एधेते। एधन्ते॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.