Page loading... Please wait.
7|2|80 - अतो येयः
॥ तस्मै पाणिनये नमः ॥
7|2|80
SK 2212
अतो येयः   🔊
सूत्रच्छेदः
अतः (पञ्चम्येकवचनम्) , या (लुप्तषष्ठ्यन्तनिर्देशः) इयः (प्रथमैकवचनम्)
अनुवृत्तिः
सार्वधातुके  7|2|76 (सप्तम्येकवचनम्) , लिङः    7|2|79 (षष्ठ्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
अतः लिङः याः इयः सार्वधातुके
सूत्रार्थः
अवर्णात् परस्य सार्वधातुक-लिङ्लकारस्य प्रत्ययस्य "या" इत्यस्य इय्-आदेशः भवति ।
सार्वधातुक-लिङ्लकारस्य प्रत्यये यासुट् परस्मैपदेषूदात्तो ङिच्च 3|4|103 इत्यनेन यासुट्-आगमः भवति । अस्य आगमस्य "या" इत्यस्य अनेन सूत्रेण एय्-आदेशः विधीयते । अयम् आदेशः तदा एव भवति यदा अयम् "या" इति अवर्णात् परः आगच्छति । यथा, पठ्-धातोः विधिलिङ्लकारस्य प्रथमपुरुष-एकवचनस्य रूपसिद्धिः इयम् -

पठ् + लिङ् [विधिनिमन्‍त्रणामन्‍त्रणाधीष्‍टसंप्रश्‍नप्रार्थनेषु लिङ् 3|3|161 इति लिङ्लकारः]
→ पठ् + तिप् [तिप्तस्.. 3|4|78 इत्यनेन तिप्-प्रत्ययः]
→ पठ् + शप् + ति [कर्तरि शप् 3|1|68 इति औत्सर्गिकम् विकरणम् शप्]
→ पठ् + अ + यासुट् + ति [यासुट् परस्मैपदेषु उदात्तः ङिच्च 3|4|103 इति यासुट्-आगमः]
→ पठ् + अ + यास् + सुट् + ति [सुट् तिथोः 3|4|107 इति सुट्-आगमः]
→ पठ् + अ + या + ति [लिङःसलोपोऽनन्त्यस्य 7|2|79 इति द्वयोः सकारयोः लोपः]
→ पठ् + अ + इय् + ति [अतो येयः 7|2|80 इति अकारात् परस्य "या"-इत्यस्य इय्-आदेशः]
→ पठ् + अ + इय् + त् [इतश्च 3|4|100 इति इकारलोपः]
→ पठ् + अ + इ + त् [लोपो व्योर्वलि 6|1|66 इति यकारलोपः]
→ पठ् + ए + त् [आद्गुणः 6|1|87 इति गुणः]
→ पठेत्

ज्ञातव्यम् -
1. अस्मिन् सूत्रे "इयः" इति उक्तम् अस्ति, परन्तु अत्र यकारात् परः विद्यमानः अकारः केवलम् उच्चारणार्थः एव अस्ति, अतः "इय्" इत्येव आदेशरूपेण आगच्छति ।
2. "पठ् + अ + या + ति" अस्याम् अवस्थायाम् अतो दीर्घो यञि 7|3|101 इत्यस्य अपि प्रसक्तिः अस्ति । परन्तु वर्तमानसूत्रम् अपवादत्वात् या-इत्यस्य इय्-आदेशं कारयति । (अत्र नित्यंअतो दीर्घो यञि 7|3|101 इत्यस्यैव प्रयोगं कुर्मश्चेत् वर्तमानसूत्रस्य अवकाशः एव विनश्येत् । अतः अत्र वर्तमानसूत्रम् अतो दीर्घो यञि 7|3|101 इत्यस्य अपवादरूपेण कार्यं करोति ।)
One-line meaning in English
"या" present in the प्रत्यय of सार्वधातुक-लिङ्लकार is converted to एय् when it follows an अकार.
काशिकावृत्तिः
अकारान्तातङ्गादुत्तरस्य या इत्येतस्य सार्वधातुकस्य इयित्ययम् आदेशो भवति, पचेत्, पचेताम्, पचेयुः इति। अत्र उस्यपदान्तात् 6|1|96 इति पररूपं बाधितम्। अतः इति किम्? चिनुयात्। सुनुयात्। तपरकरणम् किम्? यायात्। सार्वधातुक इत्येव, चिकीर्ष्यात्। ननु च अतो लोपः 6|4|48 इत्यनेन अत्र भवितव्यम्, पचेतित्यत्र अपि हि तर्हि अतो दीर्घो यञि 7|3|101 इति दीर्घत्वेन भवितव्यम्, तदनेन अवश्यं विध्यन्तरं बाधितव्यम्, स यथैव दीर्घस्य बाधकः एवम् अतो लोपस्य अपि बाधकः स्यात्? स्यादेतदेवं यदि दीर्घः सार्वधातुके विधीयते। अथ तु तिङि विधीयते, तदा येन नाप्राप्तिन्यायेन दीर्घस्यैव बाधकः स्यान् न पुनरतो लोपस्य। येयः इत्यविभक्तिको निर्देशः। यः इति वा षष्ठीनिर्देशे यलोपस्य असिद्धत्वमनाश्रित्य आद्गुणः कृतः, सौत्रत्वान् निर्देशस्य इति। केचितत्र अतो यासियः इति सूत्रं पथन्ति। तेषां सकारान्तः स्थानी, षष्ठीसमासश्च।
सार्वधातुकं यत्? प्रकृतं तदर्थादिह विभक्तिविपरिणामेन षष्ठन्तं प्रतिपद्यते। अत एवाह--`अकारान्तादङ्गादुत्तरस्य सार्वधातुकस्य` इति। `पचेत` [`पठेत्`--इति प्राचीनमुद्रितः पाठः] इति। इयादेशे कृतेऽकारेण सह `आद्गुणः` 6|1|84 , `लोपो व्योर्वलि` 6|1|64 इति यकारलोपः। `चिनुयात्` इति। `स्वादिभ्यः श्नुः` 3|1|73 `यायात्` इति। अदादित्वाच्छपो लुक्। `चिकीष्र्यात्` इति। सनन्तादाशिषि लिङ्। `ननु चातो लोपेनात्र भवितव्यम्` इति। नार्थोऽनुवृत्तेन सार्वदातुकग्रहणेनेत्यभिप्रायः। `पचेदित्यत्रापि` इत्यादि। यद्यपि पचेदितोदमस्योदाहरणमभिमतम्, तत्रापि `अतो दीर्गो यञि` 7|2|101 इति दीर्घत्वेन भवितव्यमिति, ततश्च सर्वविषयस्य विध्यन्तरेणावष्टब्धत्वादनवकाशोऽयमियादेशः। तस्मादवश्यमनेन विध्यन्तरं बाधितव्यम्। एवञ्च यथा दीर्घस्यायं बाधकः, तथाऽतो लोपस्यापि स्यात्। तस्मात्? सार्वधातुकग्रहणमनुवत्र्तयितन्यमिति भावः। `स्यादेतदेवम्` इत्यादि। यदि च दीर्घत्वं `तुरुस्तुन्नम्यमः सार्वधातुके` 7|3|95 इत्यतः सार्वधातुकग्रहणमनुवत्त्यं विधीयते, ततश्च स्यादेतदेवं यदुक्तवानसि; इयादेशस्यानवकाशत्वात्। अथ `भूसुवोस्तिङि` 7|3|88 इति तिङ्ग्रहणमनुवर्त्त्य विधीयते, तदा तिङ्मात्रमभावि दीर्घत्वमिति लिङ्? विधीयमान इत्यादेशे नाप्राप्ते तस्मिन्नयमारभ्यते, ततश्च `येन नाप्राप्ति` (व्या।प।49) न्यायेन तस्यैव बाधको भवति, न त्वतो लोपस्य। इयोऽतो लोपे प्राप्ते चाप्राप्तेऽयमारभ्यते। आर्धधातुके हि प्राप्ते सार्वधातुके त्वप्राप्ते।अथ येय इति कोऽयं निर्द्देशः, अत्र हि `या` इत्येष यः स्थानी तत्र षष्ठआं कृतायामतो या अस्? इय इति स्थिते `आतो लोपः` 6|4|48 इति `आतः `धातोः` 6|4|140 इति योगविभागाद्वा आकारलोपे कृते `ससजुषोः` 8|2|66 इति षष्ठीसकारस्य रुत्वे कृते त्सय `भोभयोअघोअपूर्वस्य योऽशि` 8|3|17 इति यकारः। तस्यापि `लोपः शाकस्यस्य` 8|3|19 इति लोपे च `य इयः` इति निर्द्देशेन भवितव्यमिति, न तु यत इति। न ह्रत्राद्गुणो भवितुमुत्सहते; `पूर्वत्रासिद्धम्` 8|2|1 इति यलोपस्यासिद्धत्वात्? इत्यत आह--`येय इत्यविभक्तिकोऽयं निर्द्देशः` इति। येय इत्यस्मिन्? स्थान्यादेशसमुदयेन `या` इति। योऽयं निर्द्देशः सोऽविभक्तिकः; `सुपां सुलुक्` 7|1|39 इति विभक्तेर्लुप्तत्वात्। अङ्गीकृत्य च सविभक्तिकत्वं निर्देशस्य परीहारान्तरमाह--`यः` इति। `वा` इत्यादि। कथं पुन लोपस्यासिद्धत्वं शक्यमनाश्रयितुम्? इत्यत्राह--`सौत्रोऽयं निर्देशः` इति। इतिकरणो हेतौ। यस्मात्? `सर्वे विधयश्छन्दसि विकल्प्यन्ते` (पु।प।वु।56) इति `छन्दोवत्? सूत्राणि भवन्ति` (म।भा) इति, तस्मात्, सौत्रत्वादस्य निर्द्देशस्यासिद्धत्वमनाश्रित्य `आद्गुणः` 6|1|84 कृतः। इत्यादेशेऽकार उच्चारणार्थः॥
सार्वधातुके इति प्रकृतमर्थात् षष्ठ।ल्न्तं सम्पद्यते, तदाह -- अकारान्तादङ्गादुतरस्य सार्वधातुकस्येति । अवयवसम्बन्धे चैषा षष्ठी, सार्वधातुकस्यावयवस्य याशब्दस्येत्यर्थः । इय् इत्ययमिति । सूत्रे त्वाकार उच्चारणार्थः । पचेदिति । इयादेशे कृते शवकारेण सहाद्गुणः, वलादिषु वलि लोपः । यकारस्य च श्रवणम् - पचेयुः, पचेयमित्यादौ । पचेयुरित्यत्रेत्यादि । पररूपस्यावकाशः चिनुयुः, सुनुयुः, इयादेशस्य तु पचेदित्यादि, पचेयुरित्यत्रोभयप्रसङ्गे परत्वादियादेशः । यदि पूर्वमेव पररूपं स्यात्, याशब्दाभावादियादेशो न स्यात् । एवमतो लोपस्यापि बाधकः स्यादिति । एतच्च मध्येऽपवादाः इति न्यायमनाश्रित्योक्तम् । तदाश्रयणे त्वतो लोपस्यैव बाधकः स्यात् । दीर्घस्तु परत्वात्स्यादेव । स्वादेतदेवमित्यादि । दीर्घविधौ तुरुस्तुशम्यम्ः सार्वधातुके इति प्रकृतम्, मूसुवोस्तिङ् ईति च । एयोय इत्यविभक्तिको निर्देश इति । येयः इत्यस्मिन्समुदाये या इत्युविभक्तिको निर्देश इत्यर्थः । य इति वेति । याशब्दात्षष्ठी, आतो धातोः इत्याकारलोपः । केचितु -- अतो यास् इति सकारान्तानुकरणं पठन्ति ॥
सिद्धान्तकौमुदी
अतः परस्य सार्वधातुकावयवस्य या इत्यस्य इय् स्यात् । गुणः । यलोपः । भवेत् । सार्वधातुके किम् । चिकीर्ष्यात् । मध्येऽपवादन्यायेन हि अतो लोप एव बाध्येत । भवेदित्यादौ तु परत्वाद्दीर्घः स्यात् । भवेताम् ॥
अतो येयः - तथा च भव या त् इति स्थिते — अतो येयः । "या" इति लुप्तषष्ठीकं पदम् । "अत इति" पञ्चमी । परस्येत्यध्याहार्यम् । "इय" इत्यत्राऽकार उच्चारणार्थः । "रुदादिभ्य" इत्यस्मात् "सार्वधातुक" इत्यनुवृत्तमवयवषष्ठआ विपरिणम्यते । तदाह — अतः परस्येत्यादिना । भव इय् त् इति स्थितम् । गुण इति ।आद्गुण इत्येनेने॑ति शेषः । भवेय् त् इति स्थितम् । यलोप इति ।लोपो व्योरित्यनेने॑ति शेषः । भवेदिति.यलोपात्प्राग्घल्ङ्यादिलोपः संयोगान्तलोपश्च न शङ्क्यः, अन्तरङ्गत्वेन यलोपस्य पूर्वं प्रवृत्तेः, संयोगान्तलोपस्य त्रैपादिकत्वेनाऽसिद्धत्वाच्चेति भावः । सार्वधातुके किमिति । "रुदादिभ्य" इत्यतः सार्वधातुक इत्यनुवृत्तिलभ्यं । सार्वधातुकावयवस्येति किमर्थमित्यर्थः । भूयादित्यादावाशीर्लिङि आद्र्धधातुकेऽतः परत्वाऽभावादेव इयादेशाऽभावसिद्धेः सार्वधातुकग्रहणानुवृत्तिव्र्यर्थेत्याशयः । चिकीष्र्यादिति । कृञ्धातोः सन्नन्तादाशीर्लिङि तिबादौ चिकीर्ष — यादिति स्थिते "अतो लोप" इत्यकारलोपे चिकीष्र्यादिति रूपम् । तत्र "अतो येय" इत्यत्र सार्वधातुकग्रहणाननुवृत्तौ चिकीर्ष — यादिति स्थिते "अतो येय" इति इयादेशे आद्गुणे यलोपे चिकीर्षेदिति स्यात् । सार्वधातुकग्रहणानुवृत्तो तु न दोषः, आशीर्लिङादेशस्य तिङो लिङाशिषीत्याद्र्धधातुकताया वक्ष्यमाणत्वादिति भावः । ननु आशिषि लिङि चिकीर्ष — -यादिति स्थिते नित्यत्वादतो लोप इत्यकारलोपे सति अतः परत्वाऽभावादेव "आतो येय" इत्यस्याऽप्रवृत्तेस्तत्र सार्वधातुकग्रहणानुवृत्तिव्र्यर्थैवेत्यत आह — मध्येऽपवादन्यायेन ह्रतो लोप एव बाध्येनेति । षष्ठस्य चतुर्थपादे अतो लोप इति सूत्रं, सप्तमस्य द्वितीयपादे अतो येय इति सूत्रं, सप्तमस्य चतुर्थपादे तु अतो दीर्घो यञीति सूत्रमिति स्थितिः । तत्र आशीर्लिङ आद्र्धधातुके चिकीर्ष — यादित्यत्राऽल्लोपप्राप्त्या, विधिलिङि तु भव यादित्यत्र अतो दीर्घप्राप्त्या च इयादेशस्य निरवकाशत्वेन बाध्यसामान्यचिन्तामाश्रित्यापवादतया तेन अन्यतरस्मिन् बाध्ये सति,मद्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरा॑निति न्यायेनातो लोप एव बाधमर्हति न तु अतो दीर्घ इत्यर्थः । एवं चाद्र्धधातुके भव — यादिति स्थिते इयादेशं परत्वाद्बाधित्वाअतो दीर्घो यञी॑ति यञादौ सार्वधातुके परे अतो विधीयमानो दीर्घः स्यात् । ततश्च अतः परत्वाऽभावादियादेशो न स्यादित्यव्याप्तिः स्यादित्यर्थः । न च इयादेशस्य निरवकाशत्वाद्दीर्घबाधकत्वं शङ्क्यम् । चिकीष्र्यादित्याद्र्धधातुके दीर्घप्राप्त्ययोगे इयादेशस्य सावकाशत्वादिति भावः । भवेतामिति । तसस्तामादेशे शपि गुणे अवादेशे यासुडागमे सुटि सकारद्वयलोपे या इत्यस्य इयादेशे आद्गुणे यलोपः ।
अतो येयः - मध्येऽपवादन्यायेनेति ।रुदादिभ्य॑ इति सूत्रात्सार्वधातुक इत्यननुवृत्तावयं न्यायः प्रवर्तत इति भावः ।
लघुसिद्धान्तकौमुदी
अतः परस्य सार्वधातुकावयवस्य यास् इत्यस्य इय्। गुणः॥
महाभाष्यम्
अतोयेयः(2) किं सार्वधातुकग्रहणमनुवर्तत उताहो न ? ।। किं चार्थोऽनुवृत्त्या ? ।। बाढमर्थः(3) ।। यद्यकारात्परो याशब्द(4) ‐ आर्धधातुकमस्ति ।। ननु चायमस्ति चिकीर्ष्यात् जिहीष्यात्(1) ।। लोपोऽत्र बाधको भविष्यति ।। किं तर्ह्यस्मिन्योग उदाहरणम् ? ।। पचेत्(2) यजेत् ।। अत्राप्यतो दीर्घो यञ्ञीति दीर्घत्वं प्राप्नोति । स यथैवेयादेशो दीर्घत्वं बाधते एवं लोपमपि बाधेत । तस्मात्सार्वधातुकग्रहणमनुर्वत्यम् ।। ( अतो येयः ) ।।