Page loading... Please wait.
7|2|8 - नेड् वशि कृति
॥ तस्मै पाणिनये नमः ॥
7|2|8
SK 2981
नेड् वशि कृति   🔊
सूत्रच्छेदः
(अव्ययम्) , इट् (प्रथमैकवचनम्) , वशि (सप्तम्येकवचनम्) , कृति (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
वशादौ कृति प्रत्यये परतः इडागमो न भवति। वरमनादौ प्रयोजनम्। ईशिता। ईशितुम्। ईश्वरः। दीपिता। दीपितुम्। दीप्रः। भसिता। भसितुम्। भस्म। याचिता। आचितुम्। याच्ञा। वरमनादौ इत्युदाहरणप्रदर्शनार्थम्, न परिगणनम्। तेन ञमन्ताड्डः इत्येवम् आदावपि हि प्रतिषेधो भवति। अथ तत्र उणादयो बहुलम् 3|3|1 इति समाधीयते? सम्भवोदाहरनप्रदर्शनम् एतत्। कृति इति किम्? रुदिवः। रुदिमः।
`आर्धधातुकस्येड्वलादेः 7|2|35 इतीटं वक्ष्यति, तस्य यत्र प्रकृतिलक्षणः परतिषेधो नास्ति तत्रानेन प्रतिषेधः क्रियते। पुरस्तात्? प्रतिषेधकाण्डस्य प्रयोजनं क्रादिनियमसूत्रे 7|2|13 वक्ष्यति। `ईशिता` इत्यादि प्रत्ययान्तरे त्विटो भावेन `एकाच उपदेशेऽनुदात्तात्` 7|2|10 इति यः प्रकृतिनिमित्तकः प्रतिषेधस्तदभावमेवाचष्टे। `ईआरः` इति। `ईश ऐआर्ये` (धातुपाठः-1020), `स्थेशभास` 3|2|175 इत्यादिना वरच्। `दीप्रः` इति। `दीपी दीप्तौ` (धातुपाठः-1150), `नमिकम्यि` 3|2|167 इत्यादिना रः। `भस्म` इति। `भस भर्सनदीप्त्योः` (धातुपाठः-1100)। `आतो मनिन्क्वनिब्वनिपश्च` 3|2|74 इत्यादौ `अन्येभ्योऽपि दृश्यन्ते` 3|2|75 इति मनिन्। `याच्ञा` इति। `टु याचृ याच्ञायाम्` (धातुपाठः-863)। `यजयाच` 7|3|66 इत्यादिना नङ्। `वरमनादौ प्रयोजनम्` इति यदुक्तं तत्र प्ररिगणनत्वमवधार्य य एवं चोदयेत्--यदि वरमनादाविति परिगणनं क्रियते तदा `षणु दाने` (धातुपाठः-1464), `ञमन्ताड्डः` (पं।उ।1।104)--षण्डः, `शमः खः` (पं।उ।1।113)--शङ्ख इत्यादौ प्रतिषेधो न प्राप्नोतीति--तं प्रति नेदं परिगणनमिति दर्शयितुमाह--`वरमनादावित्युदाहरणम्` इति। `अथ तत्र` इत्यादि। तत्रौणादिके डप्रत्यये समाधीयेतेति परिगणनपक्षभादि चोद्यं परिह्यियत इत्यर्थः। `सम्बवोदाहरणप्रदर्शनार्थमेतत्` इति। अत्रापि न परिगणनमेतदिति सम्बध्यते। प्रतिषेधस्य सम्भव उदाह्यियते। यत्र कृति प्रतिषेधः सम्भवति तस्य प्रदर्शनार्थमेतदुक्तं भवति। यत्र वसादौ कृतीद्प्रतिषेधः सम्भवति, तस्य प्रदर्शनार्थं वरमनादावित्युक्तम्, न पुनरेतत्? परिगणनमिति। `रुरुदिव, रुरुदिम` इति। अत्र कृद्ग्रहणादार्धधातुकस्येटो न भवति प्रतिषेधः॥
वशि कृतीति सप्तमीनिर्द्देशस्तदादिविध्यर्थः तस्य च वयं पुरस्तात्करणस्य प्रयोजनं क्रादिसूत्रे वक्ष्यामः। ईशितेत्यदेरुपन्यासः प्रकृत्याश्रयः प्रतिषेधो न सिध्यति इति प्रदर्शनार्थः । ईश्वर इति । स्थेशभास इत्यादिना वरच् । दीप्रमिति । नमिकम्पि इत्यादिना रः । भस्मेति । अन्येभ्योऽपि दृश्यन्ते इति मनिन् । औणदिके त्वव्युत्पत्तिपक्षाश्रयणेनापि सिद्धम् । याच्ञेति । यजयाच इत्यादिना नङ् । सम्भवोदारहणप्रदर्शनमिति । एतावन्त्युदाहरणानि सम्भवन्तीति प्रदर्शनार्थमित्यर्थः । रुदिंव, रुदिम इति । असति कृद्ग्रहणे रुदादिभ्यः सार्वधातुके इत्यस्यापचि इटोऽत्र प्रतिषेधः स्यात्, तस्य त्वाशादिरवकाशः रोदितीति । क्वचिद् रुरुदिव, रुरुदिमेति लिटि पठ।ल्ते, तदयुक्तम्, क्रादिनियमादेवेटः सिद्धत्वात् ॥
सिद्धान्तकौमुदी
वशादेः कृत इण्न स्यात् । शॄ । सुशर्मा । प्रातरित्वा ॥
नेड् वशि कृति - नेड्वशि कृति । षष्ठर्थे सप्तम्यौ । वशा कृद्विशेष्यते । तदादिविधिः । तदा — वशादेरिति । सुशर्मेति । शृधातोर्मनिन् । प्रातरित्वेति । इण्धातोः क्वनिप् ।
नेड् वशि कृति - सुशर्मेति । सुष्टु शृणातीति वग्रहः । प्रातः एतीति प्रातरित्वा । इणः क्वनिपिह्यस्वस्य पिती॑ति तुक् ।
लघुसिद्धान्तकौमुदी
वशादेः कृत इण् न स्यात्॥ शॄ हिंसायाम्॥ सुशर्मा प्रातरित्वा॥
महाभाष्यम्
नेड्वशि कृति किमर्थं पुरस्तात्प्रतिषेध उच्यते न विध्युत्तरकालः प्रतिषेधः क्रियते(3) । तद्यथा ‐ -अन्यत्रापि विध्युत्तरकालाः प्रतिषेधा भवन्ति ।। क्वाऽन्यत्र ? ।। कर्तरि कर्मव्यतिहारे न गतिहिंसार्थेभ्य इति । देवताद्वन्दे च नेन्द्रस्य परस्य (ःथ्द्य;ति(4)) ।। तत्रायमप्यर्थो ‐ द्विरिङ्ग्रहणं न कर्तव्यं भवति, प्रकृतमनुवर्तते ।। नैवं शक्यम्, इडर्थं सार्वधातुकग्रहणं लिङः सलोपे संनिहितं तद्विच्छिद्येत ।। यदि पुनर्न वृध्द्यश्चतुर्भ्य इत्यत्रैवोच्येत ? ।। किं कृतं भवति ? ।। विध्युत्तरकालश्चैव प्रतिषेधः कृतो भवति । द्विश्चेड्ग्रहणं न कर्तव्यम्भवति (5)। इडर्थं च स सार्वधातुकग्रहणं लिङः सलोपे सन्निहितं भवति । तत्राऽयमप्यर्थः ‐ द्विःप्रतिषेधो(6) न कर्तव्यो भवति ।। नैवं शक्यम्, इह हि तुष्टोथ दुद्रोथेति, ‐ -ऋतो भारद्वाजस्येत्येतस्मान्नियमादिट्प्रसज्येत ।। कृसृभृवृस्तुद्रुस्रुश्रुवो(1) लिटीत्येष योगः प्रतिषेधार्थो भविष्यति ।। यद्येष योगः प्रतिषेधार्थो य एतस्माद्योगादिट्परिप्राप्यते नियमात्स न सिध्यति, ‐ पेचिव पेचिम । शेकिव शेकिम ।। एवं तर्हि ‐ -( ।। कृसृभृग्रहणं नियमार्थं(2), स्तुद्रुस्रुश्रुवां प्रतिषेधार्थं, वृङ्वृञ्ञो ज्ञापकार्थम् ।।) ।। कृसृभृ इत्येषां(3) ग्रहणं नियमार्थं भविष्यति, स्तुद्रुस्रुश्रुवां प्रतिषेधार्थं, वृङ्वृञ्ञोर्ज्ञापकार्थम् ।। एवमपि सामान्यविहितस्यैवेटः प्रतिषेधो विज्ञायेत(4), विशेषविहितश्चायं ‐ थलीति(1) ।। पुरस्तात्पुनः(2) प्रतिषेधे सत्यनारभ्यापवादोऽयं भवति । तेन यावानिण्नाम तस्य सर्वस्यैव(4) प्रतिषेधः सिद्धो भवति ।। यदि खल्वप्येषोऽभिप्रायस्तन्न क्रियत(5) इति, पुरस्तादपि प्रतिषेधे सति तन्न करिष्यते ।। कथम् ? ।। इदमस्ति नेड्वशि कृतीति । ततो वक्ष्यामि ‐ आर्धधातुकस्य वलादेरिति । इडित्यनुवर्तते । नेति निवृत्तम् ।। अथ कृद्ग्रहणं किमर्थम् ? ।। इह मा भूत् ‐ बिभिदिव बिभिदिमेति ।। नैतदस्ति प्रयोजनं ‐ -कृसृभृवृस्तुद्रुश्रुस्रुवो लिटीत्येतस्मान्नियमादत्रेड्भविष्यति ।। नाऽत्र तेन परिप्रापणं प्राप्नोति ।। किं कारणम् ? ।। प्रकृतिलक्षणस्य प्रतिषेधस्य स प्रत्यारम्भः प्रत्ययलक्षणश्चाऽयं प्रतिषेधः ।। उभयोः(6) स प्रत्यारम्भः ।। कथं ज्ञायते ? ।। वृङ्वृञ्ञोर्ग्रहणात् ।। कथं कृत्वा ज्ञापकम् ? ।। इमौ वृङ्वृञ्ञावुदात्तौ, तयोः प्रकृतिलक्षणः प्रतिषेधो न प्राप्नोति । पश्यति त्वाचार्य ‐ उभयोः स प्रत्यारम्भःथ्द्य;ति, ततो वृङ्वृञ्ञोर्ग्रहणं करोति । (किं च) ‐ न खल्वपि कश्चिदुभयवान्प्रतिषेधः प्रकृतिलक्षणः प्रत्ययलक्षणश्च ।। ततः किम् ? ।। तुल्यजातीयेऽसति यथैव प्रकृतिलक्षणस्य नियामको भवत्येवं प्रत्ययलक्षणस्यापि नियामको भविष्यति ।। इदं तर्हि प्रयोजनम् ‐ -ःथ्द्य;ह मा भूत् ‐ रुदिवः रुदिमः ।। एतदपि नास्ति प्रयोजनम्, ‐ - उपरिष्टाद्योगविभागः करिष्यते, ‐ आर्धधातुकस्य । यदेतदनुक्रान्तं एतदार्धातुकस्यैव(1) द्रष्टव्यम् । ततःथ्द्य;ड्वलादेरिति । तत्र(2) त्वेतावद्द्रष्टव्यं यदि किंचित्तत्रान्यदप्यार्धधातुकग्रहणस्य प्रयोजनमस्ति । अथ न किं चित् ‐ इह वा कृद्ग्रहणं क्रियेत(3), तत्र वार्धधातुकग्रहणं, को न्वत्र विशेषः ! ।। ।। 8 ।। नेड्वररमनादौ(4) कृति ।। वररमनादौ कृतीट्प्रतिषेधं प्रयोजयति । (वर ‐ ) इर्शिता इर्शितुम् इर्श्वरः । वर ।। र ‐ दीपिता दीपितुम् दीप्रम्(6) । र ।। म ‐ भसिता भसितुम् भस्म । म ।। न ‐ यतिता । यतितुम् यत्नः ।। अथान्ये ये वशादयस्तत्र कथम् ? ।। उणादयोऽव्युत्पन्नानि प्रातिपदिकानि ।।