Page loading... Please wait.
7|2|74 - स्मिपूङ्रञ्ज्वशां सनि
॥ तस्मै पाणिनये नमः ॥
7|2|74
SK 2626
स्मिपूङ्रञ्ज्वशां सनि   🔊
सूत्रच्छेदः
स्मिपूङ्‍रञ्ज्वशाम् (षष्ठीबहुवचनम्) , सनि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
स्मिङ् पूङृ अञ्जू अशू इत्येतेषां धातूनां सनि इडागमो भवति। सिस्मयिषते। पिपविषते। अरिरिषति। अञ्जिजिषति। अशिशिषते। ङकारग्रहणं पूञो मा भूत्। पुपूषति इत्येव तस्य भवति। अशेः ऊदितो ग्रहणातश्नोतेर् नित्यम् इडागमो ऽस्त्येव।
`ण्मिङ्? ईषद्धसने` (धातुपाठः-948), `पूङ् पवने` (धातुपाठः-966)। अनुबन्धोच्चारणंपूञ्निवृत्त्यर्थम्। `ऋ गतिप्रापणयोः` (दा।पा।936) इति भ्वादिः, `ऋ गतौ` (धातुपाठः-1098) इति जुहोत्यादिः--उभयोरपि ग्रहणम्; विशेषानुपादनात्। ऋकारान्तानां त्वेतद्ग्रहणं न भवति; उत्तरत्र किरत्यादीनामिटो विधानात्। `अन्जू म्रक्षणे` [`व्यक्तिमर्षणकान्तिगतिषु--धातुपाठः-] (धातुपाठः-1458), `अशू व्याप्तौ`[`व्याप्तौ संधे च`--धातुपाठः-] (धातुपाठः-1264)। `अश भोजने` (धातुपाठः-1523) इत्यस्य ग्रहणं न भवति; उदात्तत्वादेवेट्? सिद्ध इति। तत्राञ्जेरशेश्चोदित्त्वाद्विकल्पे प्राप्ते, शेषाणां तूगन्तत्वात्? `सनिग्रहगुहोश्च` 7|2|12 इति प्रतिषेधे प्राप्त इदमारभ्यते। `सिस्मियिषते` इति। `पूर्ववत्सनः` 1|3|62 इत्यात्मनेपदम्। `पिपविषते` इति। `ओः पुयण्ज्यपरे` 7|4|80 इत्याभ्यासस्येत्त्वम्। `अरिरिषति` इति। इटि सति गुणे कृतेऽजादेर्द्वितीयस्यैकाचो द्विर्वचनम्। `अञ्जिजिषति इति `अशिशिषति` [`अशिशिषते`--काशिका। नास्ति--मुद्रितग्रन्थे] इति। अञ्जेर्नकारो न द्विरुच्यते; `न न्द्राः संयोगादयः` 6|1|3 इति निषेधात्॥
ऋ इति धातोर्ग्रहणम्, न ऋकारान्तनाम् उतरत्र किरादीनामिड्विधानात् । पिपविषय इति । ओः पुयण्ज्यपरे इत्यभ्यासस्येत्वम् । अञ्जिजिषतीति । अजादेर्द्वितीयस्य इति जिशब्दस्य द्विर्वचनम्, नकारस्तु न द्विरुच्यते, न न्द्राः इति प्रतिषेधात् ॥
सिद्धान्तकौमुदी
स्मि पूङ् ऋ अञ्जू अश् एभ्यः सन इट् स्यात् । सिस्मयिषते । पिपविषते । अरिरिषति । इह रिस्शब्दस्य द्वित्वम् । इस् इति सनोऽवयवः कार्यभागिति कार्यिणो निमित्तत्वायोगात् द्विर्वचनेऽचि--(कौमुदी-2243) इति न प्रवर्तते । अञ्जिजिषति । अशिशिषते । उभौ साभ्यासस्य (कौमुदी-2606) । प्राणिणिषति । उच्छेस्तुक् । चुत्वम् । पूर्वत्रासिद्धीयमद्विर्वचने इति चछाभ्यां सहितस्येटो द्वित्वम् । हलादिः शेषः (कौमुदी-2179) । उचिच्छिषति । निमित्तापाये नैमित्तिकस्याप्यपायः इति त्वनित्यम् । च्छ्वोः-- (कौमुदी-2561) इति सतुग्ग्रहणाज्ज्ञापकात् । प्रकृतिप्रत्यापत्तिवचनाद्वा । णौ च संश्चङोः--(कौमुदी-2579) इति सूत्राभ्यामिङो गाङ् श्वयतेः संप्रसारणं च वा । अधिजिगापयिषति । अध्यापिपयिषति । शिश्वाययिषति । शुशावयिषति । ह्वः संप्रसारणम् (कौमुदी-2586) जुहावयिषति । णौ द्वित्वात्प्रागच आदेशो नेत्युक्तत्वादुकारस्य द्वित्वम् । पुस्फारयिषति । चुक्षाययिषति । ओः पुयण्ज्यपरे (कौमुदी-2577) । पिपावयिषति । बिभावयिषति । जिजायिषति । पुयण्जि किम् । नुनावयिषति । अपरे किम् । बुभूषति । स्रवति---(कौमुदी-2578) इतीत्वं वा । सिस्रावयिषति । सुस्रावयिषतीत्यादि । अपर इत्येव । शुश्रूषते ॥
स्मिपूङ्रञ्ज्वशां सनि - ॒इडत्त्यर्ती॑त्यतस्तदनुवृत्तेरिति भावः । पूञस्तु पुपूषतीत्येव ।सनि ग्रहे॑तीण्निषेधात् । सिस्मयिषते इति ।स्तौतिण्योरेवे॑ति नियमान्न षः । पिपविषते इति । पूङ्धातोः पू इत्स्य द्वित्वेओः पुयण्जी॑ति इत्त्वम् ।अरिरिषतीति । ऋधातोः सनि इटि रूपम् । रिरशब्दस्येति । गुणे रपरत्वेअजादेर्द्वितीयस्ये॑ति रिस् इत्यस्य द्वित्वमित्यर्थः । ननुद्विर्वचनेऽची॑ति निषेधाद्गुणाऽसंभवात् रिस् इत्यस्य कथं द्वित्वमित्यत आह — न प्रवर्तते इति । कुत इत्यत आह — कार्यिणो निमित्तत्वाऽयोगादिति ।न हि कार्यी निमित्ततया आश्रीयते॑ इति निषेधादिडादेः सनो द्वित्वरूपकार्यिणो न द्वित्वनिमित्तत्वमिति भावः । ननु इडागमः सन्भक्तः, ततश्च इस् इत्यस्य द्वित्वेऽपि समुदायस्य इस इत्यस्य द्वित्वकार्यित्वाऽभावाद्द्वित्वनिमित्यत आह — इसितीति । इस् इति सनोऽवयवो द्वित्वबागितिकृत्वा अवयवद्वारा इस इति समुदायस्य कार्यित्वमिति भावः । अञ्जिजिषतीति । अञ्जेः सनि इटि "न न्द्राः" इति नकारस्य निषेधात् जिसित्यस्य द्वित्वम् । ऊदित्तवादिड्विकल्पे प्राप्ते नित्यमिट् । अशिशिषते इति । "अशू व्याप्तौ" ऊदित्त्वादिड्विकल्पे प्राप्ते नित्यमिट् । "अश भोजने" इति क्र्यादिस्तु नित्यं सेडेव । उच्छेरिति ।उच्छी विवासे॑ । अत्र "छे च" इति तुगित्यर्थः । श्चुत्वमिति । "तुक" इति शेषः । ननु उच्छ् इस इति स्थिते श्चुत्वस्याऽसिद्धत्वात्तकारसहितस्यद्वित्वे अभ्यासे तकारः श्रूयेतेत्यत आह — पूर्वत्रेत्यादि । हलादि शेषः इति । च्छिस् द्वित्वे हलादिशेषादभ्यासे छकारसकारयोर्निवृत्तौ तुकश्चकार इकारश्च शिष्यते इत्यर्थः । तदाह- - उचिच्छिषतीति । उत्तरखण्डे छकारे परे इकारस्य तुकश्चुत्वेन चकारः । ननु च्छिस् इत्यस्य द्वित्वे हलादिशेषात्पूर्वखण्डे छकारसकारयोर्निवृत्तौनिमित्ताऽपाये नैमित्तिकस्याप्यपायः॑ इति न्यायेन तुकोऽपि निवृत्तेस्तदादेशचकारस्य कथमभ्यासे श्रवणमित्यत आह — निमित्तापाये इति । कथमनित्यत्वमित्यत आह — च्छ्वोरिति । पृष्टः पृष्टवानित्यादौ प्रच्छेः छकारस्यच्छ्वो॑रिति शकारे व्रश्चादिना शस्य षत्वे तुक्ककारस्य श्रवणप्राप्तौ तन्निवृत्त्यर्थं सतुक्कग्रहणम् । तत्र चकारस्य शकारे सति निमित्ताऽभावादेव तुकोऽपि निवृत्तिसिद्धेः सतुक्कग्रहणं व्यर्थमापद्यमानम् "निमित्तापाये" इत्यस्याऽनित्यतां ज्ञापयतीत्यर्थः । प्रकृतिप्रत्यापत्तिवचनाद्वेति । "हनश्च वधः" इति हनधातोरप्प्रत्यये प्रकृतेर्वधादेशे वधशब्दः । कंसवधमाचष्टे कंसं घातयतीत्यादौआख्यानात्कृतस्तदाचष्टे कृल्लुक्प्रकृतिप्रत्यापत्ति॑रित्यप्प्रत्ययस्य लुकि प्रकृतेर्वधादेशनिवृत्तिर्विहिता । तत्र कृतो लुकि निमित्ताऽपायादेव वधाद्यादेशनिवृत्तिसिद्धेः प्रकृतिप्रत्यापत्तिवचनं व्यर्थमापद्यमानं "निमित्तापाये" इत्यस्य अनित्यतां ज्ञापयतीत्यर्थः । यद्यप्यत्र वधशब्दे अप्प्रत्ययो वधादेशश्च युगपद्विहितो, नतु प्रत्यये परे, तथापि संनियोगशिष्टत्वात् प्रत्ययस्य निमित्तत्वं पर्यवसानगत्येति बोध्यम् । वस्तुतस्तु पुष्ययोगं जानाति पुष्येण योजयतीत्येतत्साधकेपुष्ययोगे ज्ञी॑ति वचने भाष्योक्तप्रकृतिप्रत्यापत्तिरित्यनुवृत्तिरिह ज्ञापिका । तत्र हिचजो॑रिति घिति परतः कुत्वम् । अन्यथा कृल्लुकि निमित्ताऽपायपरिभाषयैव कुत्वनिवृत्तौ किं प्रकृतिप्रत्यापत्त्यनुवृत्त्येति शब्देन्दुशेखरे विस्तरः । अथ "इङ् अध्ययने"टु ओ इआ गतिवृद्ध्योः॑ इत्याभ्यां ण्यन्ताभ्यां सनि विशेषमाह — णौ चेति ।णौ च संश्चङो॑रिति सूत्रं द्वितीयस्य चतुर्थे पादे, षष्ठस्य प्रथमे पादे च स्थितम् ।सन्परे चङ्परे च णौ इङो गाङ् वे॑ति प्रथमस्यार्थः ।सन्परे चङ्परे च णौ आयतेः संप्रसारणं वे॑त#इ द्वितीयस्यार्थः । प्रथमसूत्रेण इङो गाङ्, द्वितीयसूत्रेण आयतेः सम्प्रसारणमित्युभयमपि पाक्षिकं भवतीत्यर्थः । अधिजिगापयिषतीति । इङो णौ विवक्षिते गाङि पुकि गापीत्यस्मात्सनि रूपम् ।णौ च संश्चङो॑रिति गाङ्विधौ विषयसप्तमीति प्रागेवोक्तम् । गाङभावे आह — अध्यापिपयिषतीति ।क्रीङ्जीनां णौ॑इत्यात्त्वे पुक् । शिआआयतयिषतीति । इआधातोर्णौ वृद्धावायादेशे आआयि इत्यस्मात्सनि संप्रसारणाऽभावे रूपम् । संप्रसारणपक्षे आह — शुशावयिषतीति । ण्यन्तात्सनि इटि इआ इ इस इति स्तितेसंप्रसारणं तदाश्रयं च कार्यं बलव॑दिति वचनात्प्रथमं संप्रसारणं संप्रसारणं पूर्वरूपम् । "शु" इत्स्य द्वित्वे उत्तरखण्डे उकारस्य वृद्ध्यादेशौ, णिचो गुणाऽयादेशाविति भावः । ननु परत्वाद्द्वित्वात् प्रागेव उकारस्य वृद्ध्यावादेशयोः कृतयोर्हावित्यस्य द्वित्वे अभ्यासस्याऽत इत्त्वे इकार एव श्रूयेतेत्यत आह- णौ द्वित्वादिति । पुस्फारयिषतीति । स्फुरतेः ण्यन्तात्सनि इटि "चिस्फुरोर्णौ" इत्यस्मात् प्रागेव स्फुरित्यस्य द्वित्वम्, द्वित्वे कार्ये णावच आदेशस्य निषेधात् ।ओ, पुयण्जी॑ति इत्त्वं तु न, फकारस्य सकारेण व्यवहिततया पवर्गपरत्वाऽभात् । चुक्षावयिषतीति । क्षुधातोर्ण्नय्तात्सनि इटिक्षु॑इत्यस्य द्वित्वम् । परिनिष्ठिते रूपे अवर्णपरत्वेन णावच आदेशस्य निषेधादिति भावः । ओः पुयणिति । हेतुमण्णिच्प्रक्रियायामिदं व्याख्यातमपि स्मार्यते । पिपावयिषतीत्यादि । पू, भू, यू, रु, लू, जु एभ्यो ण्य्नतेभ्यः सनि इटि द्वित्वे कार्येणावच आदेशनिषेधात् उवर्णान्तानामेव द्वित्वे अभ्यासोवर्णस्य इत्त्वमिति भावः । जुः सौत्रो धातुः,जुचङ्क्रम्ये॑त्यत्रोक्तः । अथरुआवति शृणोती॑ति सूत्रं हेतुमण्णिच्प्रक्रियायां व्याख्यातं स्मारयति — रुआवतीतीत्त्वं वेति । शुश्रूषते इति ।ज्ञाश्रुस्मृदृशां सनः॑इत्यात्मनेपदम् । स्तौतिण्योरेव ।षणी॑ति कृतषत्वस्य सनो ग्रहणम् ।अपदान्तस्य मूर्धन्यः॑ इत्यधिकृतम्,इण्को॑रिति च । तत्र कुग्रहमं निवर्तते, असंभवात् । णिग्रहणेन तदन्तग्रहणम् । "सहेः साडः सः" इत्यतः स इति षष्ठन्तमनुवर्तते । तदाह — अभ्यासेण इत्यादि । षभूते इति । षकारं प्राप्ते सनीत्यर्थः । नान्यत्रेति । अभ्यासेणः परस्यचेत्सस्य षत्वं तर्हि स्तौतिण्यन्तयोरेवेत्यर्थः । न चआदेशप्रत्यययो॑रित्येव सिद्धे आरम्भसामथ्र्यादेव नियमलाभादेवकारो व्यर्थ इति शङ्क्यं, षण्येवेति नियमनिरसनार्थत्वात् ।षण्येव#ए॑ति नियमे सति तुष्टावेत्यत्र षत्वाऽनापत्तेः । स्तौतेरुदाहरति — तुष्टूषतीति ।अज्झने॑ति दीर्घः । ण्यन्तस्योदाहरिष्यन्नाह — द्युतीति । उत्त्वमिति । वकारस्य संप्रसारणमुकार इत्यर्थः । सुष्वापयिषतीति । स्वपेर्णौ उपधावृद्धौस्वापि इत्यस्मात्सनि इटि वकारस्य संप्रसारमे सुप् इत्यस्य द्वित्व णेर्गुणे अयादेशे सनः षत्वे अभ्यासेणः परस्य षत्वमिति भावः । सिषाधयिषतीति । त्रापि ण्यन्तत्वादभ्यासेणः परस्य षत्वमिति भावः । सिसिक्षतीति । सेक्तुमिच्छतीत्यर्थः । सिच्धातोः सन् ।हलन्ताच्चे॑ति कित्त्वान्न लघूपधगुणः ।अभ्यासेणः परस्य सस्य चेत् षत्वं, तर्हि स्तौतिण्योरेवे॑ति नियमान्न ष इति भावः । ननु परिषिषिक्षतीत्यत्र अभ्यासेणः परस्यसस्य कथं षत्वं,स्तौतिण्योरेवे॑ति नियमात्,स्थादिष्वभ्यासेन चे॑ति षत्वस्याप्यनेन नियमेन निवृत्तेरित्यत आह — उपसर्गादत्विति ।स्तौतिण्योरेवे॑ति नियमेन मद्येऽपवादन्यायबलात् "आदेशप्रत्यययोः" इति षत्वमेव बाध्यत इति भावः । षणि किमिति । कृतषत्वनिर्देशः किमर्थ इति प्रश्नः । तिष्ठासतीति ।धात्वादे॑रिति षस्य सत्वे स्था इत्स्य द्वित्वे अभ्यासह्यस्वे इत्त्वेआदेशप्रत्यययो॑रिति ष्तवम् ।कृतषत्वे सन्येवायं नियमः, अत्र तु सनः ष्तवाऽभावेन नियमाऽप्रवृत्तेः षत्वं निर्बाधमिति भावः । सुषुप्सतीति । स्वप्धातोः सनि॒रुदविदमुषग्रहिस्वपी॑ति कित्त्वात्वचिस्वपी॑ति संप्रसारमे कृते द्वित्वम् । कित्त्वान्न लघूपधगुणः । इहापिस्तौतिण्योरेवे॑ति नियमो न भवति, सनः षत्वाऽभावादिति भावः । ननुषणि इणः परस्य सस्य चेत्षत्वं तर्हि स्तौतिण्योरेवे॑त्येतावदेवास्तु, अभ्यासादिति किमर्थमित्यत आह — अभ्यासादित्युक्तेर्नेहेति । प्रतीषिषतीति । इण्धातोः सनिजादेर्द्वितीयस्ये॑ति स इत्यस्य द्वित्वे अभ्यासेत्त्वम् । इह षभूते सनि "इण् गतौ" इति धातोः परस्य सस्य षत्वं भवत्येव, अभ्यासेण परत्वे सत्येव नियमप्रवृत्तेरिति भावः । अधीषिषतीत्यप्येवम् ।
स्मिपूङ्रञ्ज्वशां सनि - स्मिपूङ् ।पू॑ङिति ङकारानुबन्धग्रहणात् पूञः पुपूषतीत्येव,सनि ग्रहे॑तीण्निषेधात् । सिस्मयिषत इति । स्मिङ् ईषद्धसने॑ अस्याऽनिट्त्वादिडागमस्याऽप्राप्तिः ।स्तौतिण्योरेवे॑ति नियमान्न षः । अरिरिषतीति । अस्याप्यनिट्त्वादिडागमस्याऽप्राप्तिः । रिस्शब्दस्येति । सन इटि गुणे च कृते अरिस् इति स्थितेअजादेद्र्वतीयस्ये॑ति रिस्शब्दस्य द्वित्वमित्यर्थः । अञ्जिजिषतीत्यादि ।अञ्जू व्यक्तिम्रक्षणादौ॑ ।अशू व्याप्तौ॑ अनयोरूदित्त्वादिड्विकल्पे प्राप्तेनित्यमिट् । अश भोजन इति क्र्यादिस्तु नित्यं सेडेव । सूत्राभ्यामिति । एकं द्वितीयेऽपरं तु षष्ठे । तत्राद्येन गाङादेशोऽपरेण संप्रसारणम् । ह्वः संप्रसारणम् । इदं च णिजन्तेषु व्याख्यातमिह तु स्मारितम् । जिजावयिषतीति । जुः सौत्रो धातुःजुचङ्क्रम्ये॑ त्यत्रोक्तः । शुश्रूषते इति ।ज्ञाश्रुस्मृदृशां सनः॑ इत्यात्मपदम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.