Page loading... Please wait.
7|2|60 - तासि च कॢपः
॥ तस्मै पाणिनये नमः ॥
7|2|60
SK 2352
तासि च कॢपः   🔊
सूत्रच्छेदः
तासि (लुप्तषष्ठ्यन्तनिर्देशः)(अव्ययम्) , कॢपः (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कृप उत्तरस्य तासेः सकारादेश्च अर्धधातुकस्य परस्मैपदेषु इडागमो न भवति। श्वः कल्प्ता। कल्प्स्यति। अकल्प्स्यत्। चिक्ल्̥प्सति। पर्स्मैपदेषु इत्येव, कल्पितासे। कल्पिष्यते। कल्पिषीष्ट। अकल्पिष्यत। चिकल्पिषते। क्ल्̥पेरप्यात्मनेपदेन समानपदस्थस्य इडागमः इष्यते। अन्यत्र प्रतिषेधः। कृत्यपि हि पर्समिपदलुकि च प्रतिषेधो भवति, चिक्ल्̥प्सिता, चिक्ल्̥प्स त्वम् इति।
`कृपू सामर्थ्ये` (धातुपाठः-762)। तस्मादूदित्त्वाद्विकल्पेनेटि प्राप्ते प्रतिषेधोऽयमारब्यते। `कल्प्ता` इति। लुट्, `लुटि च क्लृपः` 1|3|93 इति परस्मैपदं विकल्पेन, `कृपो रो लः` 8|2|18 इति लत्वम्। `चिक्लृप्सति` इति। पूर्ववत्कित्त्वम्। `क्लृपेरपि` इत्यादि। अयमर्थो वृदादीनामनुवृत्तर्लभ्यते, तदनुवत्तौ सत्यामेवाभिसम्बन्धः करिष्यते--यथा वृदादीना प्रतिषेधो भवति, तथाऽयमपि क्लृपेरिति। यदि तर्हि वृददीनां ग्रहणमिहानुवत्र्तते, तदा वृदादीनामपि तासौ प्रतिषेधः प्राप्नोति? योगविभागकरणसामथ्र्यान्न भविष्यति। यदि वृदादीनामपि तासौ स्यात्, तदा `न वृद्भ्यः पञ्चभ्यस्तासि च` इत्येकरणे कुर्यात्॥
उदाहरणेषु लुटि च क्लृपः इति परस्मैपदम् । क्लृपेरपीत्यादि । अन्यथा कल्प्स्यतीत्यादावेव स्यात्, न तु चिक्लृप्सिता, चिक्लृप्स त्वमित्यादाविति भावः । इह तु न वृद्भ्यः पञ्चभ्यस्तासि च इति वक्तव्यम्, क्लृपिग्रहणं तु शक्यमकर्तुम् । न च वृतादिभ्योऽपि तासौ प्रसङ्गः, परस्मैपदाभावात्, आत्मनेपदेन समानपदस्थत्वाच्च ॥
सिद्धान्तकौमुदी
क्लृपेः परस्य तासेः सकारादेरार्धधातुकस्य चेण्न स्यात्तङानयोरभावे । कल्प्तासि । कल्प्तास्थ । कल्पितासे । कल्प्तासे । कल्प्स्यति । कल्पिष्यते । कल्प्स्यते । कल्पिषीष्ट । क्लृप्सीष्ट । अक्लृपत् । अकल्पिष्ट । अक्लृप्त । अकल्प्स्यत् । अकल्पिष्यत । अकल्प्स्यत ॥ वृत् ॥ वृत्तः संपूर्णो द्युतादिर्वृतादिश्चोत्यर्थः ॥ अथ त्वरत्यन्तास्त्रयोदशानुदात्तेतः षितश्च । 763 घट चेष्टायाम् । घटते । जघटे । घटादयो मित इति वक्ष्यमाणेन मित्संज्ञा । तत्फलं तु णौ मितां ह्रस्वः-(कौमुदी-2568) इति चिण्णमुलोर्दीर्घोऽन्यतरस्याम् (कौमुदी-2762) इति च वक्ष्यते । घटयति । विघटयति । कथं तर्हि कमलवनोद्घाटनं कुर्वते ये । प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरानिवेत्यादि । शृणु । घट संघात इति चौरादिकस्येदम् । न च तस्यैवार्थविशेषे मित्त्वार्थमनुवादोऽयमिति वाच्यम् । नान्ये मितोऽहेताविति निषेधात् । अहेतौ स्वार्थे णिचि ज्ञपादिपञ्चकव्यतिरिक्ताश्चुरादयो मितो नेत्यर्थः । 764 व्यथ भयसंचलनयोः । व्यथते ॥
तासि च कॢपः - तासि च । चकारात्सकाराद्याद्र्धदातुकं गृह्रते ।सेऽसिचि कृत॑इत्यतः "से" इति,आद्र्धधातुकस्ये॑त्यत आद्र्धधातुकस्येडिति चानुवर्तते ।न वृद्भ्यश्चतुर्थ इत्यतो नेति च,गमेरि॑डित्यतः परस्मैपदमिति च । तदाह — क्लृपेः परस्येत्यादिना.कल्प्तासीति । "लुटि च क्लृप" इति परस्मपैपदपक्षे ऊदिल्लक्षणमिड्विकल्पं बाधित्वा "तासि च क्लृपः" इति इण्निषेधे गुण रपरत्वे लत्वे रूपम् । परस्मपैदाऽभावपक्षे तु ऊदिल्लक्षममिड्विविकल्पं मत्वा आह — कल्पितासे कल्प्तासे इति । लृटि तु "लुटि च क्लृपः" इति परस्मैपदपक्षे ऊदिल्लक्षणमिड्विकल्पं बाधित्वा "तासि च क्लृपः" इति इण्निषेधं मत्वा आह — कल्प्स्यतीति । परस्मपैदाऽभावे तु ऊदित्त्वादिडविकल्पं मत्वा आह — कल्पिष्यते कल्प्स्यत इति । कल्पताम् । अकल्प । कल्पेत । आशीर्लिङि ऊदिल्लक्षणमिड्विकल्पं मत्वा आह — कल्पिषीष्टेति, क्लृप्सीष्टेति च । इडभावेलिङ्सिचावात्मनेपदेषु॑ इति कित्त्वान्न गुणः । अक्लृपदिति ।द्युद्भ्यो लुङी॑ति परस्मैपदपक्षे द्युतादिलक्षणे अङि सति ङित्त्वान्न गुणः । अङभावे तु ऊदिलक्षणमिड्विकल्पं मत्वा आह — अकल्पिष्टेति, अक्लृप्तेति च । अकल्प्स्यदिति । लृङि स्ये "लुटि च क्लृप" इत#इ परस्मैपदपक्षे ऊदिलक्षणमिड्विकल्पं बाधित्वा "तासि च क्लृप" इति इण्निषेध इति भावः । परस्पैपदाऽभावपक्षे तु ऊदिल्लक्षणमिड्विकल्पं मत्वा आह — कल्पिष्यत अकल्प्स्यतेति । वृदिति । वृत्तेः समाप्त्य्रथकात्कर्तरि क्विप् । तदाह — वृत्त इति । "गत्यर्थाकर्मके" ति कर्तरि क्तः । वृत्तशब्दस्य विवरणं — - सम्पूर्ण इति । द्युतादयः कृपूपर्यन्ता अनुदात्तेतो गताः । अथ त्वरत्यन्ता इति । "ञि त्वरा संभ्रमे" इत्यन्ता इत्यर्थः । षितश्चेति । षित्संज्ञका इत्यर्थः । षित्कार्यभाज इति वा ।ञि त्वरा संभ्रमे इत्युक्त्वाघटादयः षितः॑इति वक्ष्यमाणत्वादिति भावः । षित्फलं तु त्विति । मित्त्वफलं तु "मितां ह्यस्वः" इति णौ ह्यस्वः॑ इति णौ ह्यस्वः, "चिण्णमुलोर्दीर्घः" इति दीर्घश्च वक्ष्यते ।धातुपाठे अर्थनिर्देश उपलक्षण॑मित्युक्तम् । ततश्चार्थान्तरवृत्तेरपि घटदातोर्घटादिकार्यं भवत्येव । तदाह — घटयति विघटयतीति । संश्लेषयति विश्लेषयतीत्यर्थः । णौ ह्यस्वोदाहरणमिदम् । अघटि अघाटीति । चिण्युदाहरणम् । घाटंघाटम्, घटंघटमिति ण्यन्ताण्णमुलि दीर्घविकल्पस्योदाहरणम् ।नित्यवीप्सयो॑रिति द्विर्वचनम् । ननु यद्यर्थान्तरवृत्तेरपि घटधातोर्मित्त्वं तदा "उद्घाटनं" "प्रविघाटियते" त्यत्र विकासनार्थकस्यापि घटधातोर्णौ मित्त्वाद्ध्रस्वः स्यादित्याक्षिपति — कथं तर्हीति । शृण्विति ।समाधानमिति शेषः । चौरादिकस्येति । चुरादौ "घट सङ्घाते" इति पठितम् । तदिदं घाटादिकाद्धटधातोर्धात्वन्तरमेव । तस्य णौ मित्त्वाऽभावाद्ध्रस्वाऽभावे "उद्घटनं"प्रविघाटयिते॑ति निर्बाधमेव, अर्थनिर्देशस्योपलक्षणतया सङ्घातादन्यत्र विकसनेऽपि चौरादिकस्य वृत्तिसंभवादिति भावः । ननु घटादिगणादन्यत्र अर्थान्तरे पठितानां धातूनामिह धातूनामिह घटादिगणे पाठो घटादिगणनिर्दिष्टएवार्थे मित्त्वार्थोऽनुवाद एव,नतु धातुभेदः । अन्यथा घाटादिकत्वं, गणान्तरस्थत्वं चादाय मित्त्वतदभावयोर्विकल्पापत्तेः । ये तु धातवो घटादिगण एव पठिता न तु गणान्तरे, ते,#आमन्त्वर्थान्तरवृत्तावपि मित्त्वमिति धातुवृत्त्यादिग्रन्थेषु सिद्धान्तः । घटधातुस्तु "घट सङ्घाते" इति चुरादौ पठितः । अतस्तस्यैवात्र गणे चेष्टायामर्थे मित्त्वार्थोऽनुवाद इति लब्धम् । एवं चविघटयती॑त्यादावर्थान्तरवृत्तौ ण्यन्तस्य कथं मित्त्वमित्याशङ्क्य निराकरोति — -नचेति । तस्यैव — चौरादिकस्यैव, घटधातोश्चेष्टात्मके अर्थविशेषे वृत्तौ मित्त्वार्थोऽनुवादः स्यादिति न वाच्यमित्यर्थः । कुत इत्यत आह — नान्ये मितोऽहेताविति । चुराद्यन्तर्गणसूत्रमिदम् । तत्र हि "ज्ञप मिच्च" "यम च परिवेषणे" "चह परिवेषणे" "चह परिकल्कने" "रह त्यागे" "बल प्राणने" "चिञ् चयने" इति पञ्चधातून् पठित्वा "नान्ये मितोऽहेतौ" इति पठितम् । तत्र "चह परिकल्कने" इत्यस्य स्थानेचपे॑ति केचित्पठन्ति । तथाच पञ्चत्वस्य न विरोधः । एषु पञ्चस्वपि मिदित्यनुवर्तते ।अहेता॑विति च्छेदः । कस्मादन्ये इत्यपेक्षायां संनिहितत्वाज्ज्ञापादिपञ्चभ्य इति लभ्यते । हेतुशब्देनहेतुमति चे॑ति सूत्रविहितो णिज्लभ्यते । तद्भिन्नो णिच् स्वार्थिकोऽहेतुः । तदाह — - अहेतौ स्वर्थे णिचीति । ज्ञप आदिर्येषामिति अतद्गुणसंविज्ञानो बहुव्रीहिः । ज्ञपधातोस्तदुत्तरेभ्यश्च पञ्चभ्य इत्येवं षड्भ्योऽन्ये ये चुरादयस्ते मितो नेति फलितम् । एवं च चुरादौ ज्ञपादिपञ्चकव्यतिरिक्तानां मित्त्वाऽभावात् घट चेष्टाया॑मिति निर्देशश्चौरादिकस्य "घट सङ्घाते" इत्यस्य चेष्टायां वृत्तौ मित्त्वार्थोऽनुवाद इति न युज्यते, किंतु इहैव घटादिगणेघट चेष्टाया॑मित्यपूर्वोऽयं धातुः । तस्य चाऽर्थान्तरवृत्तावपि मित्त्वमस्त्येवेतिविघटयती॑त्यादौ मित्तवाद्ध्रर्वो निर्बाध इति भ#आवः ।
तासि च कॢपः - तासि च क्लृपः । चकारात्साद्याद्र्धधातुकं गृह्रते । क्लृप्सीष्टेति ।लिङ्सिचावात्मनेपदेषु॑ इति कित्त्वान्न गुणः । (ग ।) वृत । वृदिति । वृतु वर्तने इत्यस्मात्क्विप् ।ञित्वरा संभ्रमे॑ इत्यस्यानन्तरंघटादयः षितः॑ इत्युक्तत्वात्त्वरत्यन्तारुआयोदसैव षितो न तु फणान्ताः सर्वेऽपीति सिद्धं,तथापि स्पष्टप्रतिपत्त्यर्थमाह — षितश्चेति । प्रयोजनं तु षिद्भिदादिभ्यः॑ इत्यङि टाप् । घटा व्यथेत्यादिरूपसिद्धिः । ये धातवोऽन्यत्राधीतास्तेषमिह पाठोऽर्थनियमाय । ये त्विहैव पठन्ते तेषामुपसर्गादिनाऽर्थान्तरपरत्वेऽपि मित्त्वमस्त्येवेति धातुवृत्त्यादिषु स्थितं । तदेतद्ध्वनयन्नुदाहरति — विघटयतीति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.