Page loading... Please wait.
7|2|35 - आर्धधातुकस्येड् वलादेः
॥ तस्मै पाणिनये नमः ॥
7|2|35
SK 2184
आर्धधातुकस्येड् वलादेः   🔊
सूत्रच्छेदः
आर्धधातुकस्य (षष्ठ्येकवचनम्) , इट् (प्रथमैकवचनम्) , वलादेः (षष्ठ्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
वलादेः आर्धधातुकस्य इट्
सूत्रार्थः
वलादि-आर्धधातुक-प्रत्ययस्य इट्-आगमः भवति ।
यस्य आर्धधातुकप्रत्ययस्य प्रथमवर्णः यकारम् विहाय अन्यत् व्यञ्जनम् अस्ति, तस्य आर्धधातुकप्रत्ययस्य इट्-आगमः भवति ।

यथा -
1. [तकारादिप्रत्ययः] अर्च् + तृच् → अर्चिता ।
2. [सकारादिप्रत्ययः] लिख् + स्य + तिप् → लेखिष्यति ।
3. [थकारादिप्रत्ययः] चल्-धातोः लिट्-लकारस्य मध्यमपुरुषैकवचनम् - चल् + थल् → चिचेलिथ ।
4. [वकारादिप्रत्ययः] पच्-धातोः लिट्-लकारस्य उत्तमपुरुषद्विवचनम् - पच् + व → पेचिव ।
5. [मकारादिप्रत्ययः] हस्-धातोः लिट्-लकारस्य उत्तमपुरुषबहुवचनम् - हस् + म = जहसिम ।
6. [धकारादिप्रत्ययः] स्पर्ध्-धातोः लिट्-लकारस्य मध्यमपुरुषबहुवचनम् - स्पर्ध् + ध्वे - पस्पर्धिध्वे ।

ज्ञातव्यम् -
1. आर्धधातुकं शेषः 3|4|114 इत्यनेन धातुभ्यः विहिताः तिङ्भिन्नाः शित्-भिन्नाः च प्रत्ययाः "आर्धधातुक"संज्ञकाः भवन्ति ।
2. आर्धधातुकप्रत्यये इत्-वर्णाः सन्ति चेत् तेषां लोपं कृत्वा अनन्तरमेव "प्रथमः वर्णः कः" इति निश्चेतव्यम् । यथा, "ण्यत्" अस्य प्रथमः वर्णः यकारः अस्ति, यतः णकारस्य चुटू 1|3|7 इत्यनेन इत्संज्ञा लोपश्च भवति ।
3. यदि प्रत्ययस्य कश्चन आदेशः उक्तः अस्ति, तर्हि प्रथमं तम् आदेशं कृत्वा अनन्तरमेव तस्य आदेशस्य आदिवर्णः द्रष्टव्यः । यथा, यद्यपि "ण्वुल्" प्रत्ययः वकारादिः अस्ति, तथापि अस्य प्रत्ययस्य युवोरनाकौ 7|2|1 इत्यनेन अक-आदेशः भवति, यः अजादिः अस्ति । अतः ण्वुल्-प्रत्ययः अजादिः एव ज्ञातव्यः ।
4. ये धातवः औपदेशिक-अवस्थायाम् एकाचः सन्ति, येषां स्वरः च अनुदात्तसंज्ञकः अस्ति, तेषां विषये अनेन सूत्रेण इडागमे प्राप्ते एकाच उपदेशेऽनुदात्तात् 7|2|10 इत्यनेन सः निषिध्यते । अतः एतेषां विषये वलादि-आर्धधातुके प्रत्यये परे अपि इडागमः न भवति । एते धातवः एव सामान्यभाषायाम् "अनिट्" धातवः नाम्ना ज्ञायन्ते ।
5. अस्य सूत्रस्य प्रसक्तिः आर्धधातुकप्रत्यये परे एव अस्ति, सार्वधातुके प्रत्यये परे न ।
One-line meaning in English
An आर्धधातुक-प्रत्यय that starts with a वल् letter gets an इट् आगम.
काशिकावृत्तिः
छन्दसि इति निवृत्तम्। आर्धधातुकस्य वलादेरिडागमो भवति। लविता। लवितुम्। लवितव्यम्। पविता। पवितुम्। पवितव्यम्। आर्धधातुकस्य इति किम्? आस्ते। शेते। वस्ते। रुदादिभ्यः सार्वधातुके 7|2|56 इत्येतस्मिन् नियमार्थे वज्ञायमाने प्रतिपत्तिगौरवम् भवति इति आर्धधातुकग्रहणं क्रियते। वलादेः इति किम्? लव्यम्। पव्यम्। लवनीयम्। पवनीयम्। इटिति वर्तमाने पुनः इड्ग्रहणं प्रतिषेधनिवृत्त्यर्थम्।
`आस्ते, शेते, वस्ते` इति। `आस उपवेशने` (धातुपाठः-1021), `शीङ्? स्वप्ने` (धातुपाठः-1032), `दस आच्छादने` (धातुपाठः-1023)। अदादित्वाच्छपो लुक्, `शीङः सार्वधातुके गुणः` 7|4|21 । आर्धधातुकग्रहणादिह--सार्वधातुकस्येण्न भवतीति। ननु च `रुदादिभ्यः सार्वधातुके` 7|2|76 इत्येतन्नियमार्थ विज्ञायते--`रुदादिभ्य एव सार्वधातुकस्य नान्येभ्य` इति। `रुदादिभ्यः सार्वधातुकस्यैव` इत्येषा तु विपरीतनियमाशङ्का न कत्र्तव्या। यदि ह्रेवंविधो नियमः स्यात्, तदा रुदादेः परस्य सन इडागमो न स्यात्; नियमेन व्यावर्त्तितत्वात्। ततश्च `रुदविद` 1|2|8 इत्यत्र रुदिग्रहणमनर्थकं स्यात्; `हलन्ताच्च` 1|2|10 इति कित्त्वस्य सिद्धत्वात्। तस्मान्नात्र विपरीतनियमाशङ्का। `रुदादिभ्य एव सार्वधातुकस्य, नान्येभ्यः` इत्येष नियमो भविष्यति, ततो नार्थः सार्वधातुकनिवृत्त्यर्थेनाद्र्धधातुकग्रहणेन? इत्यत आह--`रुदादिभ्यः` इत्यादि। `रुदादिभ्यः सार्वधातुके` 7|2|76 इत्येतस्मिन्नियमार्थे विज्ञायमाने कश्चिन्मन्दबुद्धिः प्रतिपत्ता विपरीतनियमं सम्भावयेत्, तत्रानन्तरोक्तया नीत्याऽभिमतनियमे प्रतिपद्यमाने `प्रतिपत्तिगौरवं भवति` इति। इतिकरणो हेतौ। यत एव `रुदादिभ्यः सार्वधातुके` 7|2|76 इत्येतस्मिन्नियमार्थे विज्ञायमाने प्रतिपत्तिगौरवं भवति, अतो हेतोरार्धधातुकग्रहणं कस्मान्न भवति? नार्हतीत्येवमर्थं भवितुम्। यदि ह्रङ्गस्य स्यात्, `एकाच उपदेशेऽनुदात्तात्` 7|2|10 इति प्रत्ययस्येट्प्रतिषेधोऽनर्थकः स्यात्; प्राप्त्यभावा। `न क्त्वा सेट्` 1|2|18 , `निष्ठा शीङ्` 1|2|19 इति वचनाच्च। न ह्रस्येडागमे सति क्त्वानिष्ठयोः सेट्त्वमुपपद्यते। इह तर्हि वृक्षात्वम्, वृक्षतेति प्रातिपदिकप्रत्ययस्य मा भूदित्येवमर्थं कस्मान्न भवति? एवमर्थमपि नार्हति भवितुम्, `ऋत इद्धातोः` 7|1|100 इत्यतः `धातोः` इत्यनुवत्र्तते। नन्वेवमपि लूभ्याम्, लूभिरित्यत्र प्राप्नोतीत्येव, न ह्रत्र प्रकृतेः प्रतिपदिकत्वेन धातुत्वं विहन्यते `क्विबन्ता धातुत्वं न जहति` (व्या।प।132) इति कृत्वा, तस्मादिह मा भूदित्येवमर्थमार्धधातुकग्रहणं युक्तम्? नैतदस्ति; `ॠत इद्धातोः` 7|1|100 इत्यत्र हि स्वरूपपदात्मकस्य धातुशब्दस्य ग्रहणम्। अत इहापि `धातो` रित्यनुवत्र्तमानं तथाभूतमेवानुवत्र्तते। तेन `धातोः` इत्येवंविहितस्येङ्विधानात्? लूभ्याम्, लूभिरित्यत्रासत्यार्धधातुकग्रहण इटः प्रसङ्गो न भवति। तथा जुगुप्सत इत्येवमादावपि; न ह्रत्र धातोरित्येवं सन्? विहितः, किं तर्हि? गुपादीन्? धातून्? स्वरूपेणोपादाय। तस्मादेतन्निवृत्त्यर्थमप्यार्धधातुकग्रहणं न भवतीति वेदितव्यम्। `ऋत इद्धातोः` 7|1|100 इत्यत्र स्वरूपपदात्मकस्य धातुशब्दस्य ग्रहणं स्यात्। तदा तस्यापि `ऋतः` इति विशेषणं न परिकल्प्येत। तस्य धातुशब्देऽसम्भवात्? तदर्थस्य विशेषणं विज्ञायत इत्यदोवः। अथ वा--तत्र तन्त्रेण द्वे धादुग्रहण उपात्ते; तत्रैकमर्थपदात्मकम्, अपरं स्वरूपपदात्मकम्। तत्र यदर्थपदात्मकं तत्र तस्योपयोगः, अपरस्य त्वत्रेति न कश्चिद्दोषः। तस्मात्? प्रतिपत्तिगौरवपरीहारार्थमेवार्धधातुकग्रहणम्। अथेङ्ग्रहणं किमर्थम्, यावता `नेङ्वशि कृति` 7|2|28 इत्यत इङ्ग्रहणमनुवरत्तते? इत्याह--`इडिति वत्र्तमाने` इत्यादि। तद्धिड्ग्रहणं प्रतिषेधेन सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्। तन्निवृत्यर्थ पुनरिड्ग्रहणं क्रियते। ननु च प्राप्तौ सत्यां प्रतिषेधः स्यात्, न च वलादेरार्धधातुकस्य केनचिदिट्प्राप्नोति, अतः प्राप्त्यभावादेव विधिरयं विज्ञास्यते, न प्रतिषेधः? नैतदस्ति; एतस्मादेव प्रतिषेधवचनाद्विधिरप्यनुमीयते। नूनमार्धधातुकस्येङ्विधिरस्तीति येन वलादेः प्रतिषेधं शास्ति। पुनरिड्ग्रहणात्? तु विधिरेष विज्ञास्यते॥
आस्ते, वस्त इति । ननु च रुदादिभ्यः सार्वधातुके इत्येतन्नियमार्थ भविष्यति - रुदादिभ्य एव एसार्वधातुक इति तत्राह - रुदादिभ्यः सार्वधातुक इत्येतस्तमिन्निति । नियमे त्वेतस्मिन् विज्ञायमाने विपरीतोऽपि नियमः सम्भाव्यते - रुदादिभयः सार्वधातुके एवेति । तत्र च वक्तव्यं रुदविदेति क्त्वासनोः कित्वविधानान्न भविष्यति । तानिटः सनो झलादेर्हलन्ताच्च इत्येव सिद्धत्वात् । क्त्वोऽप्यनिट औपदेशिककित्वसद्भावादिति, ततश्च प्रतिपतिगौरवं स्यात् । ननु चासत्यार्धधातुकग्रहतणे अङ्ग्स्य इत्यधिकारतस्यैवेट् प्राप्नोति, यथा लुङ्लङ्लृङ्क्ष्वडुदातः इति ज्ञापकात्सिद्धम्, यदयम् एकाच उपदेशेषनुदातात् इति प्रत्ययस्यट्प्रतिषेधं शास्ति, यच्च निष्ठायां सेटि न क्त्वा सेट् इत्याह, तज्ज्ञापयति - प्रत्ययस्यैवायमिडिति । न च वृक्षत्वमित्यादौ प्रतिपदिकप्रत्ययस्य प्रसङ्गः, आञ्त तैद्धतोः इत्यधिकारात् । एवमपि जुगुप्सते, ल्भ्याम्, लूभिरित्यादौ प्रसङ्गः इदितो नुम् धातोः इत्यतो द्वितीयमपि धातुग्रहणमनुवर्तिष्यते, तत्रैकं स्वरुपपदार्थकम्, ततश्च धातोः इत्येवं धातुसंश्बदनेन विहितस्य धातोः परस्येड्विधानान्न क्वाप्यनिष्ट्ंअ रूपम् । तदेवं बहुप्रतिविधेयत्वात् प्रतिपतिगौरवपरिहार्थम् आर्धधातुकस्य इत्युक्तम् । प्रतिषेधनिवृत्यर्थमिति । केन पुनः प्राप्तस्य प्रतिषेधः शङ्क्यते इदमेव वचनं कल्पकं स्यात् - अस्त्यार्द्धधातुकमात्रस्येट्, यतो वलादेः प्रतिषिध्यत इति । तनेङ्वशि कृति थैत्यादिकस्तु प्रतिषेधो नियमार्थः स्यात् ॥
सिद्धान्तकौमुदी
वलादेरार्धधातुकस्येडागमः स्यात् । बभूविथ । बभूवथुः । बभूव । बभूव । बभूविव । बभूविम ॥
आर्धधातुकस्येड् वलादेः - सिपस्थलि बभू थ इति स्थिते — आद्र्धधातुस्येट् ।नेड्वशि कृती॑त्यस्मादनुवृत्त्यैव सिद्धेरिहेड्ग्रहणं न कार्यमितिनेड्वशी॑ति सूत्रभाष्ये प्रत्याख्यातम् । आद्र्धधातुकस्येति किम् । जुगुप्सति । अत्र "गुप्तिज्किद्भ्य" इति सनो धातोरित्यधिकृत्य विहितत्वाऽभावान्नाद्र्धधातुकत्वम् । बभूविथेति । सिपस्थलि तस्य इडागमे वुगादि पूर्ववत् । बभूवथुरिति । थसोऽथुसादेशे वुगादि पूर्ववत् । सकारस्य रुत्वविसर्गौ । बभूवेति । मध्यमपुरुषबहुवचनस्य अकारः सर्वादेश इतिपरस्मैपदानां णलतु॑सित्यत्रोक्तम् । वुगादि पूर्ववत् । बभूवेति । मिपो णलि वुगादि पूर्ववत् । बभूविवेति । वसो वादेशे वलादित्वादिडागमे वुगादि पूर्ववत् । नचात्रश्र्युकः किती॑तीडागमनिषेधः शङ्क्यः,कृसृभृवृस्तुद्रुरुआउश्रुवो लिटी॑ति क्रादिनियमादिटसिद्धेः । बभूविमेति । मसो मादेशे इडागमे वुगादि पूर्ववत् । इति लिट्प्रक्रिया ।
आर्धधातुकस्येड् वलादेः - ॒नेड्वशि कृती॑त्यत इडित्यनुवर्तमाने पुनरिड्ग्रहणं निषेधसंबद्धस्येटो निवृत्त्यर्थम् । वस्तुतस्तुसमर्थानां प्रथमाद्वे॑त्यनुवृत्तस्य पदत्रयसय् मध्येप्राग्दिश् इत्यनन्तरंसमर्थानां प्रथमा॑दिति निवृत्तं,वे॑तित्वनुवर्तत इति व्याख्यानमिवनेति निवृत्तम्, इडित्यनुवत्र्तते॑ इति व्याख्यातुं शक्यत्वादिड्ग्रहणं त्युक्तं शक्यम्, तथापि स्पष्टप्रतिपत्त्यर्थं तत्स्वीकृतमिति बोध्यम् । आद्र्धधातुकस्येति किम् । आस्ते, शेते । वलादेः किम् । एधनीयम् । ननुरुदादिभ्यः सार्वधातुके॑ इत्यनेन सार्वधातुकस्य यदीड्भवति तर्हि रुदादिभ्य एवे॑ति नियमादास्ते शेत इत्यत्र इड्न भवेदित्याद्र्धधातुकस्येति ग्रहणं व्यर्थम् । न च रुदादिभ्यः सार्वधातुक एवेति विपरीतनियमाद्रोदितेत्यत्र न स्यात्, आस्ते शेत इत्यत्र तु स्यादिति शङ्क्यम् ।रुदविदमुषग्रहिस्वपिप्रच्छः संश्चे॑ति क्त्वाप्रत्यये औपदेशिककित्त्वस्य सुस्थत्वात् ।हलन्तञ्चे॑ति झलादिसनः कित्त्वाच्च । तस्माद्विपरीतनियमाऽसंभवेनाद्र्धदातुकग्रहणं व्यर्थमेव । ननु तद्ग्रहणाऽभावे वलादेरित्यस्य — अङ्गस्येति यदधिकृतं तद्विशेष्यं स्यात्, ततश्च अडाटाविवेडागमोऽतादवस्थ्यात्, अकृते ।पि तद्ग्रहणेऽङ्गस्य यो वलादिरङ्गनिमित्तं तस्येडिति व्याख्यानादिष्टसिद्धेश्च । तस्मादुभयथापि व्याख्यानेशरणीकर्तव्येआद्र्धधातुकस्ये॑त्यस्य त्याग एव श्रेयान् । नन्वेवंकेशवः॑,अङ्गना॑वृक्षत्व॑मित्यत्रेट् स्यात् ।ऋत इद्धातो॑रित्यतो धातोरित्यनुवर्तनादधातोः परस्य न भवतीति परिहारसंभवेऽपि लूभ्यां पूभ्यामित्यत्र दुर्वार एवेडागमः । विहितविशेषणेनाप्ययं वारयितुमशक्यः, क्विबन्ता धातुत्वं न जहतीति लूभ्यां लूभिरित्यत्र ब्यामादेर्धातोर्विहितत्वाऽनपायात् । किंचजुगुप्सते॑ इत्यादौगुप्तिज्किद्भ्यः॑ इति धातोर्विहितस्य सन इड् दुर्वारः स्यात् । न चेह धातोः परत्र विहितस्य वलादेरिति व्याख्यानलाभाय धातोरिति पञ्चम्यन्तमपेक्षितं, तच्च दुर्लभम्,ऋत इद्धातो॑रित्यत्र धातोरित्यस्य षष्ठन्तत्वात्, तथा च वृक्षत्वमित्यादावपीडागमप्रसङ्ग इति वाच्यं, शब्दाधिकारपक्षे स्वरितत्वेन तत्सदृशशब्दोऽनुमीयत इति पञ्चम्यन्तलाभात् । अस्तु वा षष्ठन्तत्वं, विहितत्वं षष्ठर्थ इति व्याख्यायामिष्टसिद्धः । तस्माज्जुगुप्सत इत्यादावतिप्रसङ्गवारणार्थमाद्र्धधातुकस्यति ग्रहणम् । केचित्तु — - धातोरित्युच्चार्य विहितो यः प्रत्ययस्तस्य#एडिति यदि व्याख्यायेत तदा लूभ्यां जुगुप्सत इत्यत्रातिप्रसङ्गाऽभावादाद्र्धधातुकस्येति व्यर्थमित्याहुः । बभूविवेति । न चाऽत्रश्र्युकः किती॑तीण्निषेधे वुगागमोऽपि न स्यादिति शङ्क्यं, क्रादिनियमादिटः प्रवृत्तेः॥
लघुसिद्धान्तकौमुदी
वलादेरार्धधातुरस्येडागमः स्यात्। बभूविथ। बभूवथुः। बभूव। बभूव। बभूविव। बभूविम।
महाभाष्यम्
आर्धधातुकस्येड्वलादेः आर्धधातुकग्रहणं किमर्थम् ? ।। वलादिग्रहणमार्धधातुकविशेषणं(4) यथा विज्ञायेत ‐ वलादेरार्धधातुकस्येति ।। अथाऽक्रियमाणे आर्धधातुकग्रहणे कस्य वलादिग्रहणं विशेषणं स्यात् ? ।। अङ्गस्येति वर्ततेऽङ्गविशेषणम् ।। तत्र को दोषः ? ।। अङ्गस्य वलादेरादित इट्प्रसज्येत ‐ अडाड्वत् । तद्यथा ‐ अडाटावङ्गस्यादितो भवतस्तद्वत् ।। क्रियमाणेऽप्यार्धधातुकग्रहणेऽनिष्टं शक्यं(5) विज्ञातुं ‐ - वलादेरार्धधातुकस्य यदङ्गमिति । अक्रियमाणे चेष्टम् ‐ अङ्गस्य योवलादिरिति ।। किं चाङ्गस्य वलादिः ? ।। निमित्तं, ‐ यस्मिन्नङ्गमित्येतद्भवति ।। कस्मिन्नङ्गमित्येतद्भवति ? ।। प्रत्यये ।। यावता क्रियमाणेऽपि चाऽनिष्टं विज्ञायते, अक्रियमाणे चेष्टं. तत्राऽक्रियमाणे एवेष्टं विज्ञास्यामः ।। इदं तर्हि प्रयोजनम् ‐ इह मा भूत् ‐ आस्ते शेते ।। एतदपि नास्ति प्रयोजनं ‐ रुदादिभ्यः सार्वधातुक इत्येतन्नियमार्थं भविष्यति ‐ रुदादिभ्य एव सार्वधातुक इड्भवति नान्येभ्य इति ।। एवमपि वृक्षत्वं वृक्षता ‐ अत्र प्राप्नोति ।। एवं तर्हि विहितविशेषणं धातुग्रहणं ‐ -धातोर्यो विहितः ।। ननु च(3) धातोरेवाऽयं विहितः ।। न चायं धातोरित्येवं विहितः ।। क्व पुनर्धातुग्रहणं प्रकृतम् ? ।। ऋत इद्धातोरिति ।। तद्वै षष्ठीनिर्दिष्टं पञ्ञ्चमीनिर्दिष्टेन चेह विहितः(4) शक्यते विशेषयितुम् ।। अथेदानीं षष्ठीनिर्दिष्टेनचापि विहितः(4)शक्यते विशेषयितुम् । शक्यमार्धधातुकग्रहणमकर्तुमिति ।।