Page loading... Please wait.
7|2|26 - णेरध्ययने वृत्तम्
॥ तस्मै पाणिनये नमः ॥
7|2|26
SK 3066
णेरध्ययने वृत्तम्   🔊
सूत्रच्छेदः
णेः (षष्ठ्येकवचनम्) , अध्ययने (सप्तम्येकवचनम्) , वृत्तम् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ण्यन्तस्य वृत्तेर् निष्ठायाम् अध्ययनार्थे वृत्तम् इति इडभावः णिलुक् च निपात्यते। वृत्तो गुणे देवदत्तेन। वृत्तं पारायणं देवदत्तेन। अध्ययने इति किम्? वर्तितम् अन्यत्र। वृतिरयम् अकर्मकः, स ण्यर्थे वर्तमानः सकर्मको भवति। तेन निर्वृत्तम् इति हि प्रकृटेरेव कर्मणि क्तप्रत्ययो दृश्यते। तद्वदिह अपि ण्यर्थवृत्तेरेव च वृतेः वृत्तो गुणो देवदत्तेन इति भविष्यति इति निपातनम् अनर्थकम्? तत् क्रियते यदापि णिचैव ण्यर्थो ऽभिधीयते तदावर्तितम् इत्यध्ययने मा भूतिति केचित्। अपरे तु वर्तितो गुणो देवदत्तेन इत्यपि इच्छन्ति।
`अध्ययनम्` इति। `कृत्यल्युटो बहूलम्` 3|3|113 इति ल्युट्। अधीयत इत्यध्ययनम्--कर्मसाधनोऽध्ययनशब्दः। भावसाधने हि वृत्तो गुणो देवदत्तेनेति न स्यात्, वृत्तं गुणस्य देवदत्तेनेति स्यात्। निष्ठाविशेषणञ्चैतत्। अध्येतव्याभिधायिन्यां निष्ठायामित्यर्थः। `णिलुक्? च` इति। णिलुग्निपातनं प्रत्ययलक्षण प्रतिषेधार्थम्। लोपे हि प्रतययलक्षणेन गुणः स्यात्। लुकि सति `न लुमताङ्गस्य` 1|1|62 इति प्रत्ययलक्षणप्रतिषेधाद्गुणो न स्यात्। `वृत्तो गुणः` इति। गुणः कश्चिदेवाध्ययनविशेष इहोच्यते। `वृत्तिरयमकर्मकः` इति। दृतं गुणस्य, वृत्तं पारायणस्येति भावे निष्ठादर्शनात्। अकर्मकाणां हि भावे निष्ठा भवति, न सकर्मकाणाम्। `स ण्यर्थे` इत्यादि। सोऽन्तर्भावितण्यर्थो यदा भवति तदा प्रकृत्यन्तो ण्यर्थे वत्र्तमानः सकर्मको भवति, यथा--वद्र्धन्तु त्वां सुष्टुतय इत्यत्र वृधिः। कथमेतद्विज्ञायते? इत्याह--`तेन निर्वृत्तम्` इत्यादि। न चैतद्वक्तव्यम्--अकर्मका इति। `धातवः सोपसर्गाः सकर्मका भवन्ति` इति सोपसर्गत्वादिह वृत्तेः सकर्मकत्वम्। न तु ण्यर्थवृत्तित्वादिति कृतो ण्यर्थावगतिः? यदि सोपसर्गात्वादिह वृत्तेः सकर्मकत्वं स्यान्न ण्यर्थवृत्तित्वात्, ततो यथानुभूतः क्मबलो देवदत्तदेनेत्यत्र ण्यर्थो न गम्यते, तथा तेन निर्वृत्तः इत्यत्रापि न गम्येत; गम्यते च, तस्माण्णयर्थवृत्तित्वादेव वृत्तेः सकर्मकत्वम्। यदा च ण्यर्थवृत्तर्भवति तदा प्रयोजकव्यापारापेक्षयाऽस्य कत्र्ता कर्मभावभापद्यत इति। तेन प्रयोज्येन कर्मणा सकर्मको भवति। `तद्वदिहापि` इत्यादि। यस्मादेवाकर्मकोऽपि स न प्रकृत्यन्त एव ण्यर्थे वत्र्तमानः सकर्मको भवति तस्माद्वृत्तो गुणो देवदत्तेनेत्यत्रापि ण्यर्थवृत्तेरेव कर्मणि क्तप्रत्ययो भविष्यति। ततश्च निपातनमनर्थकं स्यात्। विनाऽपि तेन सिद्धत्वात्। कथमिति चेत्? वृत्तेः क्वाप्रत्यये `उदितो वा` 7|2|56 इतीङ्विकल्पे कृते निष्ठायाम्, `यस्य विभाषा` 7|2|15 इति प्रतिषेधात्। यद्येवम्, किमर्थं तदित्याह--`तत्? क्रियते` इत्यादि। कदाचिण्ण्यर्थोऽन्तर्भावितण्यर्थतया प्रकृत्यैवाभिधीयते, तत्र यदि निपातनं न क्रियेत, तदाध्ययनेऽपि वर्त्तितमिति स्यात्। तस्मादेतन्निवृत्त्यर्थं तदित्येके प्रतिपन्नः। `अपरे तु` इत्यादि। अन्ये तु वत्तितो गुण इत्यपीच्छन्ति। ण्यन्तस्याण्यन्तस्य च--वृत्तो गुण इति। तन्मतेन निपातनं न कत्र्तव्यमेव। क्रियमाणं वैचित्र्यार्थं वेदितव्यम्॥
अधीयत् इत्यध्ययनमिति कृत्यल्युटो बहुलम् इति कर्मणि ल्युट् । निषठाविशेषणं चैतत् - अध्ययनाभिधायिन्यां निष्ठायामिति । णिलुक्वेति । प्रत्ययलक्षणेन गुणो मा भूदिति णेर्लुग्निपातनम्, लोपनिपातने तु गुणः स्यात् । वृतो गुणो देवदेतेनेति । गुणः - पाठः, पदक्रमसंहितारुपोऽध्ययनविशेषः, स वृतः - सम्पादित इत्यर्थः । वृत्तिरयमित्यादिना सूत्रस्यानारम्भमाशङ्कते । अकर्मक इति वृतं गुणसुय, वृतं पारायाणस्यते भावे क्तस्य प्रयोगार्थमिदमुक्तम् । अकर्मकत्वे हि भावे निष्ठा भवति तयोरेव इत्यत्र भावे चाकर्मकेभ्यः इत्यनुवृतेः । योऽपि नपुंसके भावे क्तः, सोऽपि सकर्मकेभ्यो न भवति तयोरेव इत्यत्र क्तमात्रस्य ग्रहणात् । अन्यथा सक्रमकाद्भावे क्ते विधीयमाने कर्मणि द्वितीया प्रज्येत - ग्रामं गतम्, ओदनं भुक्तमिति । यदि तर्ह्यकर्मकः, कथं एवृतो गुण इति कर्मणि निष्ठा इत्याशङ्क्याह - स ण्यर्थे वर्तमाने इति । यदि वा - अयं वृत्तिरकर्मकः स ण्यर्थे वर्तमानः इत्येक एव ग्रन्थः, अकर्मका अपि धातवोऽन्तर्भावितण्यर्थाः प्रयोज्येन कर्मणा सकर्मका भवन्ति, यथा - राजयुध्वेति, दृश्यते च वृतेरन्तर्भावितण्यर्थस्य प्रयोग इत्याह - तेन निर्वृत्तिमिति हीति । न चात्रोपसर्गवशात्सकर्मकत्वम्, ण्यर्थगतेः वृतेणिचि योऽर्थः । निवर्त्यते यैर्नियमाभिषेकः इत्यादौ तदवगतेरित्यर्थः। ततस्मात् । वृतेरेवेति । प्रकृत्यन्तादेवेत्यर्थः । वृतो गुण इति । उदितो वा इति क्त्वायां विकल्पितेट्कत्वाद् यस्य विभाषा इतीट्प्रतिषेधः सिद्धः । तदेवं निपातनमनर्थकमित्येव मतं चोद्यम् । परिहरति - तत्क्रियत इति । इष्टस्यान्यथासिद्धावप्यनिष्टनिवृत्यर्थं निपातनसित्यर्थः । अपरे त्विति । तेषां मते नानेनार्थः सूत्रेण ॥
सिद्धान्तकौमुदी
ण्यन्ताद्वृत्तेः क्तस्येडभावो णिलुक्चाधीयमानेऽर्थे । वृत्तं छन्दश्छात्रेण । संपादितम् । अधीतमिति यावत् । अन्यत्र तु वर्तिताः रज्जुः ॥
णेरध्ययने वृत्तम् - णेरध्ययने । णिलुक् चेति । णिलोपे तु लघूपधगुणः स्यादिति भावः । अधीयमान इति । सूत्रे अध्ययनशब्दः कर्मणि ल्युडन्त इति भावः ।
णेरध्ययने वृत्तम् - णेः । अधीयत इति अध्ययनम् ।कृत्यल्युटः॑ इति बहुलवचनात्कर्मणि ल्युट् । णिलुक् चेति ।निपात्यते॑ इति शेषः । लोपे हि प्रत्ययलक्षणेन गुणः स्यादिति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
णेरध्ययने वृत्तम् किं पुन(1)रिदमध्ययनाऽभिधायिकायां निष्ठायां निपातनं क्रियते आहोस्विदध्ययने चेद्वृतिर्वर्त्तत इति ? ।। किं चातः ? ।। यद्यध्ययनाभिधायिकायां निष्ठायां(2) निपातनं क्रियते, सिद्धं वृत्तो गुणः वृत्तं पारायणम् । वृत्तं(3) गुणस्य वृत्तं पारायणस्येति न सिध्यति ।। अथ विज्ञायते ‐ अध्ययने चेद्वृतिर्वर्त्ततःथ्द्य;ति न दोषो भवति ।। यथा न दोषस्तथास्तु ।। अध्ययने चेद्वृतिर्वर्त्ततःथ्द्य;त्यपि वै विज्ञायमाने न सिध्यति ।। किं कारणम् ? ।। वृत्तिरयमकर्मकः ।। अकर्मकाश्चापि ण्यन्ताः सकर्मका भवन्ति, अकर्मकश्चात्र वृतिः ।। कथं पुनर्ज्ञायतेऽकर्मकोऽत्र वृतिरिति ? ।। अकर्मकाणां भावे क्तो भवती(1)त्येवमत्र भावे क्तो भवति । तत्र उदितः क्त्व विभाषा(2), यस्य विभाषेति इट्प्रतिषेधो भविष्यति ।। अथ णिग्रहणं किमर्थम् ? ।। ।। वृत्तनिपातने णिग्रहण(3)मण्यन्तस्याऽवधारणप्रतिषेधार्थम् ।। वृत्तनिपातने णिग्रहणं क्रियते ।। (किं प्रयोजनम्(4) ? ।। अण्यन्तस्याऽवधारणप्रतिषेधार्थम्) । अण्यन्तस्याऽवधारणं माभूदिति ।। कैमर्थक्यान्नियमो भवति ? ।। विधेयं नास्तीति कृत्वा ।। इह चास्ति विधेयं ।। किम्(4) ? ।। ण्यधिकाद्वृते रिट्प्रतिषेधो विधेयः तत्राऽपूर्वो विधिरस्तु नियमोऽस्त्वित्यपूर्व एव विधिर्भविष्यति न नियमः ।। कुतो नु खल्वेतदधिकार्थ आरम्भे सति ण्यधिकस्य भविष्यति न पुनः(5) सनधिकस्य वा स्याद्यङि्धकस्य वेति ? ।। तस्माण्णिग्रहणं(6) कर्तव्यम् ।। अथ किमर्थं निपातनं क्रियते ? ।। निपातनं णिलोपेङ्गुणप्रतिषेधार्थम् ।। निपातनं क्रियते । (किमर्थम् ? ।। णिलोपेङ्गुणप्रतिषेधार्थम् ) । णिलोपार्थमिङ्गुणप्रतिषेधार्थं च ।। (णेरध्ययने वृत्तम् ) ।।