Page loading... Please wait.
7|2|2 - अतो र्लान्तस्य
॥ तस्मै पाणिनये नमः ॥
7|2|2
SK 2330
अतो र्लान्तस्य   🔊
सूत्रच्छेदः
अतः (षष्ठ्येकवचनम्) , ल (लुप्तषष्ठ्यन्तनिर्देशः) अन्तस्य (षष्ठ्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
रेफलकारौ यावतः अन्तौ समीपौ तदन्तस्य अङ्गस्य अत एव स्थाने वृद्धिः भवति। क्षर अक्षारीत्। त्सर अत्सारीत्। ज्वल अज्वालीत्। ह्मल अह्मालीत्। अतो हलादेर् लघोः 7|2|7 इति विकल्पस्य अयम् अपवादः। अतः इति किम्? न्यखोरीत्। न्यमीलीत्। ल्रान्तस्य इति किम्? मा भवानटीत्। मा भवानशीत्। अन्तग्रहणं किम्? अवभ्रीत्। अश्वल्लीत्। अत्र यौ रेफलकारौ अङ्गस्य अन्तौ न तावतः समीपौ।
अन्तशब्दोऽयमस्त्यवयववचनः, यथा वस्त्रान्तः, वसनान्त इति। अस्ति च समीपवाची, यथा--उदकान्तं प्रियं प्रोथमनुव्रजेदिति। उदकसमोपमित्यर्थः। अत्रावयववाचिनोऽन्तशब्दस्य ग्रहणे इहान्तग्रहणमनर्थकं स्यात्? तस्य ह्रुपादनस्यैतत्? प्रयोजनम्--रेफलकारान्तस्य यथा स्यादिति। एतच्च `येन विधिस्तदन्तस्य` 1|1|71 इत्यनेनैव सिध्यति। तस्मात्? समीपवाचिन एव ग्रहणमिति मत्वाऽ‌ऽह--`रेफलकारो यावतोऽन्तौ= समीपी` इति। यदि तर्हि ल्रावन्तौ यसय समीपावत इत्यनेन निर्दिश्यते वृद्धिभाग्? न निर्दिष्टः स्यात्। एवञ्च `अलोऽन्त्यस्य` 1|1|51 इत्यन्त्यस्य स्यात्; अकारसमीपभूतस्य ल्रान्तस्यान्त्यस्य वृद्धिभाज इकोऽभावादित्यत आह--`अत एव स्थाने` इति। एवं मन्यते--अकारस्य श्रुतत्वादकारस्यैव स्थाने वृद्धिर्विज्ञायत इति। `अक्षारीत्` इत्यादि। `क्षर सञ्चलने` (धातुपाठः-851), `त्सर छद्मगतौ` (धातुपाठः-554), `ज्वल दीप्तौ` (धातुपाठः-804), `ह्वल ह्रल चलने` (धातुपाठः-805,806) इत्येतेषां रूपाणि। `अतो हलादेर्लघोरित्यस्य विकल्पस्यायमपवादः` इति। एतेन नियमार्थतामस्य योगस्य दर्शयति। `न्यखोरीत्, न्यमीलीत्` इत्यादि। `खुर छेदने` (वा।यां।1342), `मील श्मील स्मील श्मील निमेषणे` (धातुपाठः-517-520)। `मा भवानटीत्, मा भवानशीत्` इति। `अट पट गतौ` (धातुपाठः-295,296), `अशभोजने` (धातुपाठः-1523) `न माङ्योगे` 6|4|74 इत्याट्प्रतिषेधार्थो माङ्योगः। `भवान्` इति। अयं सन्देहनिरासार्थः; अतोऽन्यत्र विशेषाभावात्। `अवभ्रीत्` इति। `अभ्र वभ्र मभ्र चर गत्यर्थाः` (धातुपाठः-556-559)। `अआल्लीत्` इति। `आलआल्ल आशुगमने` (धातुपाठः-549,550)। `न तावतः समीपौ` इति। भकारलकाराभ्यां व्यवधानादिति॥
अन्तशब्दोऽयमस्त्यवयववचनः - वस्त्रान्तः, वसनान्त इति , अस्ति समीपवचनः - उदकान्तं गत इति तत्राद्ये पक्षे लरन्तस्य इति बहुव्रीहिः, अङ्गमन्यपदार्थः, अन्यस्यार्थस्यासम्भवात् । तत्र वर्णग्रहणे सर्वत्र बहुव्रीहिः अङ्गमन्यपदार्थः अन्यस्यार्थस्यासम्भवात् । तत्र वर्णग्रहणे सर्वत्र तदन्तविधिरित्येव सिद्धत्वादन्तग्रहणमतिरिच्यते । तस्मात्समीपवचनोऽन्तशब्दः । तत्रापि यदि षष्ठीसमासः स्यात - रेफलकारयोः समीपभूतस्यातो वृद्धिर्भवतीति, ततो लषिरणिप्रभृतिष्वेव स्यात् । यदि परसमीपवचनोऽन्तशब्दः, अथ तु समीपमात्रवचनसतदा इष्टविष्ये तावत्सिध्यति, अनिष्टेऽपि तु विषये प्राप्नोति, तथा अखल्लीदित्यत्रापि प्रसङ्गः । तस्मात्कर्मधायः, निपातनाच्च विशेषणस्य परनिपातः । समीपभूतौ रेफलकारौ लरन्तशब्देन एविवक्षितौ । कस्य समीपभूतावित्यपेक्षायाम् अत इत्यनेन सम्बन्धः । एवं विशेषिताभ्यां रेफलकाराभ्यामङ्गस्य विशेषणातदन्तविधिः । अतः समीपभूतौ यौ रेफलकारौ तदन्तस्याङ्गस्येति । यद्येवम्, एकत्वाद् अतः इत्यस्य तस्य च रेफलकारयोः विशेषणे एवं उपक्षीणत्वान्न वृद्धिभाङ् निर्द्दिष्टः स्यात् विशेषणत्वेनाइ तावदकारस्य श्रुतत्वातस्यैव वृद्धिर्भवतीत्यदोषः, तदिदमुक्तम् - रेफलकारौ यावतः समीपभूतावित्यादि । वयं तु ब्रूमः - समीपभूतरेफलकारान्तस्याङ्गस्यातः स्थाने वृद्धिर्भवतीत्येवा क्षरव्यापारः । तत्र कस्य समीपभूतावित्यपेक्षायां सन्निधानादतः समीपभूताविति गम्यते इति । अपर आह - रश्च लश्च लर्म्, आगन्तुकोऽकारः, षष्ठ।ल लुका निर्द्देशः, अत्र लरेणाङ्गस्य विशेषणातदन्तविधौ लरन्तस्याङ्गस्य योऽकारस्तत्र वृद्धिर्भवति । कीदृशस्यातः समीपभूतस्य । सन्निधानाच्च लर्ं प्रति समीपभूतस्येति । अन्यशब्दश्च समीपमात्रवचनो न तु परमसीपवचनः इति । उदाहरणेषु , क्षर सञ्चलने, त्सर च्छद्म गतौ, ज्वल दीप्तौ, ह्वल चलने । न्यखोरीत्, न्यमीलीदिति । खुर छेदने, मील निमेषणे । मा भवानित्यादि । अट गतौ, अश भोजने माङ्ः प्रयोग अडागमनिवृत्यर्थः । अवम्रीत्, अखल्लीदिति । वभ्रिर्गत्यर्थः, खल्लिराशु गमने । अथान्तग्रहणं किमर्थम्, न ल्रः इत्यवोच्येत इहापि तर्हि प्रप्नोति - अवभ्रीत्, अखल्लीदिति अकारमेव सिच्परत्वेन विशेषयिष्यामः लरन्तस्याङ्गस्य योऽकारस्तस्य सिच्यनन्तरे वृद्धिर्भवतीति । न च रेफलकारन्तस्याङ्गस्य योऽकारस्तस्य सिजव्यवहितः सम्भवतीति सामर्थ्यात् येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यादित्येकेन वर्णेन व्यवधानमाश्रयिष्यते । अथ वा अतो हलादेर्लघोः इत्यस्यानन्तर मिदं कर्तव्यम्, तत्रायमप्यर्थः अत इत्यपि न वक्तव्यं भवति, तत्र लघोः, त्यिनुवृतेरखल्लीदित्यादौ न भविष्यति । एवमपि चतुश्शब्दादाचारिक्विपि लुङ् इसिचि चकारस्यापि प्राप्नोति तत्रापि सिचाऽऽनन्तर्यं विशेषयिष्यामः, तत्र यथा अचकासीदित्यत्र अतो हलादेर्लघोः इति चकाराकारस्य वृद्धिर्न भवति, तत्कस्य हेतोः सिचा आनन्तर्थं विशेष्यत इति । एवं चतुश्शब्देऽपि न भविष्यति । एवं च कृत्वा लघोः इत्यपि न वक्तव्यं भवति तथा तु न कृतमित्येव ॥
सिद्धान्तकौमुदी
ल्रेति लुप्तषष्ठीकम् । अतः समीपौ यौ ल्रौ तदन्तस्याङ्गस्यातो वृद्धिः स्यात्परस्मैपदपरे सिचि । नेटि (कौमुदी-2268) इति निषेधस्याअतो हलादेः---(कौमुदी-2284) इति विकल्पस्य चापवादः । मा भवानालीत् । अयं स्वरितेदित्येके । तन्मते, अलते इत्याद्यपि । 516 ञिफला विशरणे । तॄफल --(कौमुदी-2301) इत्येत्वम् । फेलतुः । फेलुः । अफालीत् । 517 मील 518 श्मील 519 स्मील 520 क्ष्मील निमेषणे । निमेषणं संकोचः । द्वितीयस्तालव्यादिः । तृतीयो दन्त्यादिः । 521 पील प्रतिष्टम्भे । प्रतिष्टम्भो रोधनम् । 522 णील वर्णे 523 शील समाधौ । शीलति । 524 काल बन्धने 525 कूल आवरणे 526 शूल रुजायां संघोषे च 527 तूल निष्कर्षे । निष्कर्षो निष्कोषणम् । तच्चान्तर्गतस्य बहिर्निः सारणम् । तुतूल । 528 पूल संघाते 529 मूल प्रतिष्ठायाम् 530 फल निष्पत्तौ । फेलतुः । फेलुः । 531 चुल्ल भावकरणे । भावकरणमभिप्रायाविष्कारः । 532 फुल्ल विकसने 533 चिल्ल शैथिल्ये भावकरणे च 534 तिल गतौ । तेलति । तिल्ल इत्येके । तिल्लति । 535 वेलृ 536 चेलृ 537 केलृ 538 खेलृ 539 क्ष्वेलृ 540 वेल्ल चलने । पञ्च ऋदितः । षष्ठो लोपधः । 541 पेलृ 542 फेलृ 543 शेलृ गतौ । षेलृ इत्येके । 544 स्खल संचलने । चस्काल । अस्खालीत् । 545 खल संचये 546 गल अदने । गलति । अगालीत् । 547 षल गतौ । सलति । 548 दल विशरणे 549 श्वल 550 श्वल्ल आशुगमने । शश्वाल । अश्वालीत् । अश्वल्लीत् । 551 खोलृ 552 खोर्ऋ गतिप्रतिघाते । खोलति । खोरति । 553 धोर्ऋ गतिचातुर्ये । धोरति । 554 त्सर छद्मगतौ । तत्सार । अत्सारीत् । 555 क्मर हूर्च्छने । चक्मार । 556 अभ्र 557 वभ्र 558 मभ्र 559 चर गत्यर्थाः । चरतिर्भक्षणेऽपि । अभ्रति । आनभ्र । मा भवानभ्रीत् । अङ्गान्त्यरेफस्यातः समीपत्वाभावान्नवृद्धिः । 560 ष्ठिवु निरसने । ष्ठिवुक्लमु--(कौमुदी-2320)इति दीर्घः । ष्ठीवति । अस्य द्वितीयस्थकारष्ठकारो वेति वृत्तिः । तिष्ठेव । तिष्ठिवतुः । तिष्ठिवुः । टिष्ठेव । टिष्ठिवतुः । टिष्ठिवुः । हलि च (कौमुदी-354) इति दीर्घः । ष्ठीव्यात् । 561 जि जये । अयमजन्तेषु पठितुं युक्तः । जय उत्कर्षप्राप्तिः । अकर्मकोऽयम् । जयति ॥
अतो र्लान्तस्य - अतो ल्रान्तस्य ।सिचि वृद्धिः परस्मैपदेषु॑ इत्यनुवृत्तम् । अङ्गस्येत्यधिकृतम् । तद्विशेषणत्वात्तदन्तविधिनैव सिद्धेऽन्तग्रहणं व्यर्थम् । तत्राह — - ल्रेति लुप्तषष्ठीकमिति । ल्र अन्तस्य इति छेदः । ल् च रश्चेति समाहारद्वन्द्वात्षष्ठएकवचनं लुप्तम् । ल्रस्यान्तस्येति सामानाधिकरण्येनान्वयः । "अत" इति व्यधिकरणषष्ठन्तम् — अन्तस्येत्यत्रान्वेति । अन्तशब्दः समीपवर्तिवाची । तथा च अतः समीपवर्तिनो ल्रस्येति लभ्यते । ल्रस्येत्यङ्गविशेषणत्वात्तदन्तविधिः । ततश्च अत्समीपवर्तिरेफलकारान्तस्य अङ्गस्य सिचि वृद्धिरिति लभ्यते । "अत" इत्यावृत्तं वृद्धौ स्थानित्वेनान्वेति तदाह — अतः समीपावित्यादिना । अतः समीप इति किम् । अखोरीत् । अमीलीत् । ल्रान्तस्येति किम् । मा भवनातीति । अतो वृद्धिरुत्युक्ता अतः समीपावित्यनुक्तौ तु अवभ्रीत् अआल्लीदित्यत्रातिपव्याप्तिः । अत्र अङ्गस्यान्तौ रेफलकारौ नातः समीपाविति न वृद्धिः । न चात्र अतो भकारेण लकारेण च व्यवहितत्वादेव न वृद्धिः, आलीदित्यादौ एकव्यवधाने चरितार्थत्वादिति वाच्यं, सिचि परे यदङ्गं तदकारस्य वृद्धिरित्यर्थाश्रयणेऽतिव्याप्तवारणार्थत्वात् । ञि फलेति । विशरणं — शिथिलीभावः । "आदिर्ञिटुडवःर" इति ञिरित् । "ञीतः क्तः" इति प्रयोजनम् ।आदितश्चे॑ति तीण्निषेधार्थमादित्त्वम् । लिण्निमित्तादेशादित्वादप्राप्ते आह — -तृफलेति । मील श्मीलेति । निमेषणं — नेत्रसंकोचः । संकोच इति पाठेऽप्ययमेवार्थः । णील वर्ण इति । वर्णक्रियायामित्यर्थः । फल निष्पत्ताविति । ञि फलेति पूर्वं पठितम् । अनुबन्धभेदात्पुनः पाठः । खोलृ खोरृ इति । द्वितीयो रेफान्त ऋदित् । इत आरभ्यष्ठिवेः प्राग्रेफान्ताः । धोरृगतिचातुर्य इति । अआगतिविशेष इत्यर्थः । रेपान्तोऽयम्, ऋदित् । त्सर छद्मगताविति । कपटगतावित्यर्थः । क्मर हूर्छन इति । कुटिलीभवन इत्यर्थः । ष्ठिवु निरसन इति । इदुपधः, उदित् । इत आरभ्य ऊष्मान्तेभ्यः प्राग्वकारान्ताः । तिपि शपि लघूपधगुणे प्राप्ते आह — -ष्विनुक्लम्वितीति । ल्युटि तु शित्परकत्वाऽभावाद्धीर्घऽभावे लघूपधगुणः । "ष्ठीवन" मिति तु पृषोदरादित्वात्समाधेयम् । अस्येति । ष्ठिनुधातोर्द्वितीयो वर्णस्थकार इत्यर्थः । कृतष्टुत्वस्य निर्देश इति भावः । षोपदेशोऽयं, केवलदन्त्यथकारपरकसादित्वात् । षोपदेशत्वेऽपि न सत्वम्, "सुब्धातुष्ठिवु" ति निषेधात् । लिटि तु "शर्पूर्वाः खयःर" इति षकारवकारयोर्निवृत्त्या ष्टुत्वनिवृत्तौ रूपमाह — तिष्ठेवेति । ठकारस्य स्वाभाविकत्वे तु टिष्ठेवेति रूपम् । जि जय इति । जिधातुरनिट्कः । सँल्लिटोर्जेः ।अभ्यासाच्चे॑ति सूत्रादभ्यासादित्यनुवर्तते ।चजोः कुघिण्यतो॑रित्यस्मात्कु इति च ।संल्लिटो॑रिति निमित्तसप्तमी अभ्यासे अन्वेति । तदाह — - संल्लिण्निमित्तो योऽभ्यास इत्यादि ।सनि लिटि च अभ्यासात् परस्य कुत्व॑मिति व्याख्याने तु यङ्लुगन्तात्सनि जेजयिषतीत्यत्र कुत्वं स्यात् । अतःसंल्लिण्निमित्तो योऽभ्यास॑ इति व्याख्येयमिति माधवः । जिगायेति । णलि द्वित्वे वृद्धौ उत्तरखण्डे जस्य कुत्वेन गः । जिग्यतुरिति । कित्त्वाद्गुणाऽभावः । लिटि "एकाच" इति इण्निषेधं बाधित्वा क्रादिनियमादिटि प्राप्ते,थलिअचस्तास्व॑दिति तन्निषेधस्य भारद्वाजनियमाद्विकल्पः । तदाह — जिगयिथ जिगेथेति । जिग्यथुः । जिग्य ।णलुत्तमो वे॑ति मत्वा आह — जिगाय जिगयेति । क्रादिनियमादिटं मत्वा आह — जिग्यिव जिग्यिमेति । जेतेति । जेष्यति । जयतु ।अजयत् । आशीर्लिङिअकृत्सार्वधातुकयो॑रिति दीर्घ मत्वा आह — जीयादिति । अजैषीदिति ।सिचि वृद्धि॑रिति वृद्धिरिति भावः । अजेष्यते । षर्वधातुः षोपदेशः । इविधातोरिदित्त्वान्नुम् । तदाह — इन्वतीति । इन्वांचकारेति । नुमि इजादिगुरुमत्त्वादमिति भाव- । पिवि मिवीत्यादय इदितः ।
अतो र्लान्तस्य - अतो ल्रान्तस्य । यद्यवयववचनेनाऽन्तशब्देन बहुव्रीहिरङ्गं चान्यपदार्थस्तत्पक्षे विशेषणेन तदन्तविधेः विशेषणेन तदन्तविधेः सिद्धत्वादन्तग्रहणमनर्थकम् । अआल्लीदित्यत्रातिव्याप्तिश्च । समीपवाचिना अन्तशब्देन षष्ठीसमासपक्षे विशेषणेन तदन्तविधेः सिद्धत्वादन्तग्रहणमनर्थकम् । अआल्लीदित्यत्रातिव्याप्तिश्च । समीपवाचिना अन्तशब्देन षष्ठीसमासपक्षे रपिरणिआल्लप्रभृतिष्वतिव्याप्तिः, अङ्गस्याऽतो ल्रोः समीपत्वात् ।ल्र॑ च तदन्तश्चेति समीपवाचिनाऽन्तशब्देन कर्मधारयपक्षे त्वन्तशब्दस्य विशेषणत्वात्पूर्वनिपातः स्यादत आह — लुप्तषष्ठीकमिति । अन्तशब्दः समीपवाचीत्यभिप्रेत्याह — अतः समीपाविति । अतो वृद्धि स्यादिति । इहअत॑ इत्यस्य तन्त्रावृत्यादिकं स्वीकर्तव्यम् । अन्यथा प्रयोजनाऽभावादिक्परिभाषानुपस्थानऽप्यलोन्त्यपरिभाषयाऽन्त्यस्य स्यादिति भावः । यद्यपिअतो ल्रस्येट त्युक्तेऽपि ल्रान्तस्याङ्गस्य अतः सिचि परे वृद्धिरित्यर्थोऽपि प्रतीयेत । ततश्चाऽआल्लीदित्यत्रातिप्रसङ्गः स्यात् । तद्वारणाय सूत्रेऽन्तग्रहणं कृतमिति । तदनुरोधेनाऽन्तशब्दस्य समीपवनाचित्वमत इत्यस्य चाऽ‌ऽवृत्तिः स्वीकृतेति बोध्यम् । अतः समीपाविति क#इम् । अखोरीत् अमीलीत् । ल्रान्तस्याङ्गस्य किम् । आल्ल आशुगमने । अआल्लीत् । अकारसमीपे यो लकारः स नाङ्गस्यान्तः, यस्त्वङ्गस्यान्तः, रा तु नाकारस्य समीपः । ननु ल्रेत्यस्य लुप्तषष्ठीकत्वनाभ्युपगमेऽप्यन्तशब्दस्यावयववाचित्वंस्वीकृत्य अङ्गस्यान्तं यत् ल्रं तस्याऽतो = तत्समीपस्याऽतो वृद्धिरिति व्याख्याने त्वत इत्यस्यावृत्तिर्नापेक्षितेति चेत् । अत्राहुः — हलन्त्यटमिति सूत्रे मनोरमायांसामीप्यं षष्ठर्थः॑ इति पक्षस्य निराकरणात्तदनुरोधनात्राऽत इत्यस्याऽ‌ऽवृत्तिराश्रितेति । अत्र केचित् — अतो ल्रान्तस्ये॑त्यत्र ल्रेति लुप्तसप्तमीकम् । अथवाअतो ल्रान्ते॑ इति व्यस्तमेव सूत्रयितुं शक्यम् । तथा चअङ्गस्यान्तं यत् ल्रं तस्मिन्परेऽव्यवहितस्याऽतो वृद्धिरिति व्याख्यानसंभवान्न तन्त्रा[वृत्त्या] द्याश्रयणक्लेशः । न चाङ्गस्य विशेख्यत्वेनैवान्वयो युज्यते न तु विशेषणत्वेनपदाङ्गाधिकारे तस्य च तदन्तस्य चे॑ति परिभाषायाः पदमङ्गं च विशेष्यं भवतीत्यभिप्रायवर्णनादिति वाच्यम्,अल्लोपोऽनः॑ इतिसूत्रेऽङ्गावयवोऽसर्वनाम स्थानेत्येवं भाष्याकारादिभिर्विशेषणतया व्याख्यानात्क्वचिद्विशेषणत्वेऽप्यङ्गस्य न क्षतिर#इत्याहुः । नेटीत्यादि । यद्यपि पुरस्तादपवादन्यायेननेटी॑त्यस्यापवादो न तु विकल्पस्यापि, तथापि बाध्यसामान्यचिन्तायां स्वविषये प्राप्तं सर्वं बाध्यत इति पुरस्तादपवादन्यायोऽत्र न प्रवर्तत इति भावः । मील संकोचे इति । नेत्रसंकोचे तु प्रचुरप्रयोगः । तिल गतौ । तिल स्नेहने इति चुरादौ । दल विशरणे । विशरणमवयवानां विभागः । धोरृ । धोरितकमआआनां गतिविशेषः । निष्ठान्तात्संज्ञायां कन् । त्सरः । छद्मना कपटेन गतिः — छद्मगतिः । क्मर हूर्छने । हूर्छनं — कौटिल्यम् । ष्ठिवु निरसने । अस्य ल्युटि — ष्ठेवनम् ।ष्ठीवनाऽसृक्शकृन् मूत्ररेतांस्यप्सु न निक्षिपे॑दित्यत्र पृषोदरादित्वापक्षे दीर्घ ईकार इत्याहुः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अतो ल्रान्तस्य(1) अन्तग्रहणं किमर्थं नाऽतो ल्र(2) इत्येवोच्यत ? ।। केनेदानीं तदन्तस्य भविष्यति ? ।। तदन्तविधिना ।। इदं तर्हि प्रयोजनम् ‐ -अयमन्तशब्दोस्त्येवाऽवयववाची । तद्यथा ‐ -वस्त्रान्तो वसनान्तः । अस्ति सामीप्ये वर्त्तते । तद्यथा ‐ -उदकान्तं गतः । उदकसमीपं गत इति गम्यते । तद्यः सामीप्ये वर्त्तते तस्येदं ग्रहणं यथा विज्ञायेत्(3) । अङ्गान्तौ यौ रेफलकारौ तयोः समीपे योऽकारस्तस्य(4) यथा स्यात् । इह माभूत् ‐ अश्वल्लीत् अवभ्रीत् । ( अतोल्रा ) ।।