Page loading... Please wait.
7|2|118 - किति च
॥ तस्मै पाणिनये नमः ॥
7|2|118
SK 1076
किति च   🔊
सूत्रच्छेदः
किति (सप्तम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
वृद्धिः  7|2|114 (प्रथमैकवचनम्) , अचः  7|2|116 (षष्ठ्येकवचनम्) , आदेः  7|2|117 (षष्ठ्येकवचनम्) , अचाम्  7|2|117 (षष्ठीबहुवचनम्) , तद्धितेषु  7|2|117 (सप्तमीबहुवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
अङ्गस्य अचाम् आदेः अचः किति तद्धितेषु वृद्धिः
सूत्रार्थः
कित्-तद्धित-प्रत्यये परे अङ्गस्य आदि-स्वरस्य वृद्धिः भवति ।
यदि कस्मिंश्चित् तद्धित-प्रत्यये ककारः इत्संज्ञकः अस्ति, तर्हि तस्मिन् प्रत्यये परे अङ्गस्य प्रथमः यः अच्-वर्णः, तस्य वृद्धिः भवति । उदाहरणानि एतानि -

1. विनता + ढक् [तस्यापत्यम् 4|1|92 अस्मिन् अर्थे स्त्रीभ्यो ढक् 4|1|120 इति ढक्-प्रत्ययः]
→ विनता + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ 7|1|2 इति ढकारस्य एय्-आदेशः]
→ वैनता + एय [किति च 7|2|118 इति आदिवृद्धिः । इकारस्य वृद्धिः ऐकारः]
→ वैनत् + एय [यस्येति च 6|4|148 इति अङ्गस्य अकारस्य लोपः]
→ वैनतेय

2. रेवती + ठक् [रेवत्यादिभ्यष्ठक् 4|1|146 इति ठक्-प्रत्ययः]
→ रैवती + ठ [किति च 7|2|118 इति आदिवृद्धिः । एकारस्य वृद्धिः ऐकारः]
→ रैवती + इक [ठस्येकः 7|3|50 इति ठकारस्य इक-आदेशः]
→ रैवत् + इक [यस्येति च 6|4|148 इति अङ्गस्य इकारस्य लोपः]
→ रैवतिक

3. कलि + ढक् [कलेर्ढक् 4|2|8 इत्यनेन कलि-शब्दात् ढक्-प्रत्ययः]
→ कलि + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ 7|1|2 इति ढकारस्य एय्-आदेशः]
→ कालि + एय [किति च 7|2|118 इति आदिवृद्धिः । एकारस्य वृद्धिः ऐकारः]
→ काल् + एय [यस्येति च 6|4|148 इति अङ्गस्य अकारस्य लोपः]
→ कालेय

4. नड + फक् [तस्यापत्यम् 4|1|92 अस्मिन् अर्थे नडादिभ्यः फक् 4|1|99 इति फक्-प्रत्ययः]
→ नड + अायन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ 7|1|2 इति फ्-इत्यस्य आयन्-आदेशः]
→ नाड + अायन [किति च 7|2|117 इति आदिवृद्धिः]
→ नाड् + आयन [यस्येति च 6|4|148 इति अङ्गस्य अकारस्य लोपः]
→ नाडायन

ज्ञातव्यम् - अस्मिन् सूत्रे "अङ्गस्य आदिस्वरस्य वृद्धिः भवति" इति निर्दिष्टम् अस्ति, तथा च "अचः" इत्यपि अनुवर्तते, अतः इको गुणवृद्धी 1|1|3 इत्यस्य प्रयोगः अत्र न भवति ।
One-line meaning in English
When followed by a कित् तद्धित-प्रत्यय, the आदि-स्वर of the अङ्ग undergoes a वृद्धि.
काशिकावृत्तिः
किति च तद्धिते परतो ऽङ्गस्याचाम् आदेः अचः स्थाने वृद्धिर् भवति। नडादिभ्यः फक् 4|1|99 नाडायनः। चारायणः प्राग्वहतेष्ठक् 4|4|1 आक्षिकः। शालाकिकः। इति काशिकायां वृत्तौ सप्तमाध्यायस्य द्वितीयः पादः। सप्तमाध्यायस्य तृतीयः पादः।
यद्यपि `तद्धितेषु` 7|2|117 इति बहुवचनान्तं प्रकृतम्, तथापोहैकवचननिर्देशादेकवचनविषयो बहुवचनस्य विपरिणामेन विज्ञायते, इतयत आह--`किति च तद्धिते परतः` इति। `नाडायनः, जारायणः` इति। `नडादिभ्यः फक्` 4|1|99 इति फक्। `आक्षिकः, शालाकिकः ति। अक्षिशलाकाशब्दाभ्यां `तेन दीव्यत खनति जयति जितम्` 4|4|2 इति ठक्; `ठस्येकः` 7|3|50 ॥इकि बोधिसत्त्वदेशीयाचार्य श्रीजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्जिकायां सप्तमाध्यायस्यद्वितीयः पादः- - -अथ सप्तमोऽध्यायःतृतीयः पादः
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
किति तद्धिते च तथा । अश्वपतेरपत्यादि आश्वपतम् । गाणपतम् । गाणपत्यो मन्त्र इति तु प्रामादिकमेव ॥
किति च - किति च । तथेति । अचामादेरचो वृद्धिरित्यर्थः । इदं सूत्रं प्रकृतानुपय्कुत्मपि व्याख्यासोकर्यायेहोपन्यस्तम् । अपत्यादीति । आदिना समूहाद्यर्थसङ्ग्रहः । आआपतमिति । अआपतेरणि आदिवृद्धौयस्येति चे॑तीकारलोपः । गाणपतमिति । अआपत्यादिषु गणपतिशब्दः पठित इति भावः । गाणपत्य इति । गणपतिर्देवता अस्य मन्त्रस्येति विग्रहः । प्रामादिकमेवेति । प्रमादादायातमित्यर्थः । गणपतिक्षेत्रपत्यादीनामआपत्यादिगणे पाठस्य वृत्तौ दर्शना पदादिति । पतिरुत्तरपदं यस्य तस्मादिति विग्रहः । प्राग्दीव्यतीयेष्वर्थेष्विति । "प्राग्दीव्यत" इत्यनुवृत्तेरिति बावः । अणोऽपवादैति । विशेषविहितत्वादिति भावः । दैत्य इति । दितेरपत्यमिति विग्रहः । दितेण्र्यप्रत्ययः । "चुटू" इति णकार इत्, आदिवृद्धिः,यस्येति चे॑तीकारलोपः । अदितेः, आदित्यस्य वेति ।अपत्यादी॑ति शेषः । आदित्य इति । जाताद्यर्थे ण्ये आदिवृद्धौयस्येति चे॑ति लोपे "आदित्य" इति रूपम् । आदित्यशब्दाण्ण्ये आदिवृद्धौयस्येति चे॑ति लोपे "यणो मयः" इति पूर्वकारस्य द्वित्वे सतिहलो यमा॑मित्याद्ययकारस्य लोपे द्वियकारं रूपम् । द्वित्वाऽभावे लोपे चाऽसति द्वियकारमेव । असति द्वित्वे यकारलोपे च सत्येकयकारं रूपम् । अनपत्यात्वात्,आपत्यस्य चे॑ति यलोपो न । अदितेरपत्ये ण्ये, आदित्यशब्दात्पुनरपत्ये ण्येआपत्यस्य चे॑ति यलोपः प्राजापत्य इति । पत्युत्तरपदात् प्रजापतिशब्दाण्ण्ये आदिवृद्धौयस्येति चे॑ति लोपः । "दैतेया" इति त्वसाध्वेव । साधुत्वश्रद्धाजाडए तु पृषोदरादित्वात्समाधेयम् । कासिकायामिति । बाष्ये त्विदं न दृश्यत इति भावः । याम्य इति । यमस्यापत्यादीतिविग्रहः । पृथिव्या ञाऽञाविति । ञश्च, अञ् च वक्तव्यावित्यर्थः । पार्तिवेति । पृथिव्या अपत्यादीति विग्रहः । ञप्रत्यये "चुटू" इति ञकार इत्, आदिवृद्धिः,॒यस्येति चे॑ति लोपः । स्त्रियामदन्तत्वाट्टाप् । पार्थिवीति । अञिटिड्ढाण॑ञिति ङीप् । ञप्रत्ययस्यैव विधौ ङीब् न स्यात् । अञ एव विधौ टाब् न स्यात् । तस्मादुभयविधिः । #एतत्सूचनायः स्त्रीलिङ्गोदाहरणमिति बोध्यम् । देवादिति । देवशब्दाद्यञ्, अञ् च प्रत्ययौ प्राग्दीव्यतीयेष्वर्थेषु वक्तव्यावित्यर्थः । दैव्यं दैवमिति ।देवस्यापत्यादी॑ति विग्रहः । यञि अञि च आदिवृद्धौयस्येति चे॑ति लोपः । बहिष इति ।बहि॑सिति सकारान्तमव्ययम् । तस्मात्प्राग्दीव्यतीयेष्वर्थेषु यञ्, प्रकृतेष्टिलोपश्चेति वक्तव्यमित्यर्थः । बाह्र इति । बहिर्भव इत्यादि विग्रहः । यञि टिलोपे आदिवृद्धिः ।अव्ययानां भमात्रे टिलोप॑ इत्यस्याऽनित्यत्वज्ञापनार्थमिह टिलोपविधानम् । तेन आराद्भव आरातीय इत्यादि सिध्यति ।ईकक् चेति । बहिष ईकक् च स्यात्, प्रकृतेष्टिलोपश्चेति वक्तव्यमित्यर्थः । बाहीक इति । बहिष ईककि टिलोपेकिति चे॑त्यादिवृद्धिः । स्थाम्न इति । स्थामन्शब्दादकारप्रत्ययः । प्राग्दीव्यतीयेष्वर्तेषु वाच्य इत्यर्थः । अणोऽपवादः । अआत्थाम इति । अआस्येव स्थामा=स्थितिर्यस्येति विग्रहः । अआत्थाम्नोऽपत्यं, तत्र जात इत्यादिर्विग्रहः । प्रत्ययविधित्वेऽपि भाष्ये उदाहरणात्तदन्तविधिः । अआस्थामन्शब्दादकारप्रत्यये "नस्तद्धिते" इति टिलोपः । अणि तु आदि वृद्धिः स्यात् । ननूदः परत्वाऽभावात्कथमिह सकारस्य थकार इत्यत आह — पृषोदकादित्वादिति । भवार्थे तु लुग्वाच्य इति ।अकारप्रत्ययस्ये॑ति शेषः ।लोम्न इति । लोमन्शब्दाद्बहुषु अपत्येषु वाच्येषु अकारप्रत्ययो वक्तव्य इत्यर्थः । बाह्वादीञ इति । बाह्वादित्वप्रयुक्तस्य इञोऽपवाद इत्यर्थः । उडुलोमा इति । उडूनि नक्षत्राणीव लोमानि यस्य स उडुलोमा, तस्यापत्यमिति विग्रहः लोम्नोऽपत्ययोगाऽसंभवात्प्रत्ययविधित्वेऽपि तदन्तविधिः । अकारप्रत्यये सति "नस्यतद्धिते" इति टिलोपः । औडुलोमिरिति । उडुलोम्नोऽपत्यमिति विग्रहः । अत्रापत्यबहुत्वाऽभावादकारप्रत्ययो न । किंतु बाह्वादित्वादिञि टिलोप इति भावः । सर्वत्र गोरिति । लोम्नोऽपत्येष्विति पूर्ववार्तिकादपत्यग्रहणानुवृत्तिनिवृत्त्यर्थंसर्वत्र॑ग्रहणम् । अपत्ये तदन्येषु च प्राग्दीव्यतीयेष्वर्थेषु गोशब्दादजादिप्रत्ययप्रसङ्गे सति यत्प्रत्ययो वाच्य इत्यर्थः । गव्यमिति । गवि भवं, गोरागतमित्यादि विग्रहः । अणपवादो यत् । गोरूप्यं गोमयमिति ।हेतुमनुष्येभ्योऽन्यतरस्या॑मिति रूप्य इत्यर्थः ।मयड्वैतयो॑रिति रूप्यमयटौ । हलादित्वान्नैतयोर्यत्प्रत्ययो बाधक इति भावः ।
किति च - किति च ।वाहीकः॑ इत्याद्यर्थमपीदं सुगमव्याख्यानायत्रैवोपन्यस्तम् ।अचामादे॑रिति निर्दिष्टस्थानिकत्वादिक्परिभाषाऽत्र नोपतिष्ठत इत्याशयेनोदाहरति — आआपतिमित्यादि । प्रामादिकमेवेति । एतच्च हरदत्तग्रन्थे स्थितम् । यदि तु देवतार्थकाऽण्णन्ताच्चातुर्वण्र्यादेराकृतिगणत्वात्ष्यञिति व्याख्यायते तदा निर्दुष्ट एवायं प्रयोगः । अआपति गणपति राष्ट्रपति कुलपति गृहपति पशुपति क्षेत्रपतीत्यआपत्यादिः ।
लघुसिद्धान्तकौमुदी
किति तद्धिते चाचामादेरचो वृद्धिः स्यात्। वाहीकः। (गोरजादिप्रसङ्गे यत्)। गोरपत्यादि गव्यम्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.