Page loading... Please wait.
7|2|117 - तद्धितेष्वचामादेः
॥ तस्मै पाणिनये नमः ॥
7|2|117
SK 1075
तद्धितेष्वचामादेः   🔊
सूत्रच्छेदः
तद्धितेषु (सप्तमीबहुवचनम्) , अचाम् (षष्ठीबहुवचनम्) , आदेः (षष्ठ्येकवचनम्)
अनुवृत्तिः
वृद्धिः  7|2|114 (प्रथमैकवचनम्) , अचः  7|2|115 (षष्ठ्येकवचनम्) , ञ्णिति  7|2|115 (सप्तम्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
अङ्गस्य अचाम् आदेः अचः णिति ञिति तद्धितेषु वृद्धिः
सूत्रार्थः
णित् / ञित्-तद्धित-प्रत्यये परे अङ्गस्य आदि-स्वरस्य वृद्धिः भवति ।
यदि कस्मिंश्चित् तद्धित-प्रत्यये णकारः ञकारः वा इत्संज्ञकः अस्ति, तर्हि तस्मिन् प्रत्यये परे अङ्गस्य प्रथमः यः अच्-वर्णः, तस्य वृद्धिः भवति । उदाहरणानि एतानि -

1. दक्ष + इञ् [तस्यापत्यम् 4|1|92 अस्मिन् अर्थे अत इञ् 4|1|95 इति इञ्-प्रत्ययः]
→ दाक्ष इञ् [तद्धितेष्वचामादेः 7|2|117 इति ञित्-प्रत्यये परे आदिवृद्धिः । इत्युक्ते, अङ्गस्य आदिवर्णः यः अकारः, तस्य वृद्धिः आकारः]
→ दक्ष् + इञ् [यस्येति च 6|4|148 इति अङ्गस्य अकारस्य लोपः]
→ दाक्षि

2. शीत + ष्यञ् [वर्णदृढादिभ्यः ष्यञ् च 5|1|123 इति ष्यञ्-प्रत्ययः]
→ शैत + य [तद्धितेष्वचामादेः 7|2|117 इति ञित्-प्रत्यये परे आदिवृद्धिः । ईकारस्य वृद्धिः ऐकारः]
→ शैत् + य [यस्येति च इति अकारलोपः]
→ शैत्य

3. उपगु + अण् [तस्यापत्यम् 4|1|92 इति अण्-प्रत्ययः]
→ औपगु अ [तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः । उकारस्य वृद्धिः औकारः]
→ औपगो अ [ओर्गुणः 6|4|146 इत्यनेन उकारस्य गुणः ओकारः]
→ औपगव [एचोऽयवायावः 6|1|78 इति अव्-आदेशः]

4. सोम + ट्यण् [सास्य देवता 4|2|24 अस्मिन् अर्थे सोमाट् ट्यण् 4|2|30 इति ट्यण्-प्रत्ययः]
→ सौम + य [तद्धितेष्वचामादेः 7|2|117 इति ञित्-प्रत्यये परे आदिवृद्धिः । ओकारस्य वृद्धिः औकारः]
→ सौम् + य [यस्येति च इति अकारलोपः]
→ सौम्य

ज्ञातव्यम् - अस्मिन् सूत्रे "अङ्गस्य आदिस्वरस्य वृद्धिः भवति" इति निर्दिष्टम् अस्ति, तथा च "अचः" इत्यपि अनुवर्तते, अतः इको गुणवृद्धी 1|1|3 इत्यस्य प्रयोगः अत्र न भवति ।
One-line meaning in English
When followed by a णित् / ञित् तद्धित-प्रत्यय, the आदि-स्वर of the अङ्ग undergoes a वृद्धि.
काशिकावृत्तिः
तद्धिते ञिति णिति च प्रत्यये परतो ऽङ्गस्य अचाम् आदेः अचः स्थाने वृद्धिर् भवति। गार्ग्यः। वात्स्यः। दाक्षिः। प्लाक्षिः। णिति औपगवः। कापटवः। त्वाष्ट्रः, जागतः इत्यत्र अचामादेर् वृद्धिरन्त्योपधालक्षणां वृद्धिं बाधते।
`अचाम्` इति निर्धारणे षष्ठी। `अचामादेरचः स्थाने` इति। ननु चेक्परिभावोपस्थानादिक एव स्थाने वृद्ध्या भवितव्यम्, तस्मादिकः स्थान इत्येवं वक्तव्यम्, न त्वचः स्थान इति? एवं मन्यते--`अचो ञ्णिति` 7|2|115 इत्यतः स्थानिनिर्देशार्थं द्वितीयमज्ग्रहणमनुवत्र्तते, तेन यथा `अचो ञ्णिति` 7|2|115 इत्यत्र स्थानिनिर्देशादिक्परिभाषा नोपतिष्ठते, तथेहापीत्यदोषः। `गार्ग्यः, वात्स्यः` इति। `गर्गादिभ्यो यञ्` 4|1|105 । `दाक्षिः, प्लाक्षिः` इति। `अत इञ्` 4|1|95 । `औपगवः, कापटवः` इति। प्राग्दीव्यतीयोऽण्? 4|1|83 ।अथ त्वाष्ट्रः, जागत इत्यतर त्वष्टृजगद्भ्यां `तस्येवम्` 4|3|120 इत्यणि कृते यथाक्रमं `अचो ञ्णिति` 7|2|115 इत्यज्लक्षणा वृद्धिः प्राप्नोति, `अत उपधायाः` 7|2|116 इत्युपधालक्षणा वृद्धिः कस्मान्न भवति? इत्याह--`अचामादेर्वृद्धिरन्त्योपधावृर्द्धि बाधते` इति। कथं पुनरन्यस्योच्यमानाऽन्यस्य बाधिका स्यात्? ज्ञापकात्। यदयमनुशतिकादिषु पुष्करसच्छब्दं पठति, तज्ज्ञापयति--यत्रादिवृद्धिस्तत्रान्या वृद्धिर्न भवतीति। तस्यानुशतिकादिषु पाठस्यैतत्? प्रयोजनम्--उभयपदवृद्धिर्यथा स्यात्, पुष्करसदोऽपत्यं पौष्करसादिरिति। `बाहवादिभ्यश्च` 4|1|96 इतीञ्। यदि चादिवृद्धिरन्यस्या वृद्धेर्बाधिका न स्यात्, उपधालक्षणेनैव वृद्धेः सिद्धत्वात्? पौष्करसादिशब्दस्य, पुष्करसच्छब्दोऽनुशतिकादिषु न पठएत। पश्यत्याचार्यः--यत्रादिपदवृद्धिस्तत्रान्या वृद्धिर्न भवतीति; यतोऽनुशतिकादिषु पुष्करसच्छब्दं पठति। ननु ठगर्थस्तत्र पठः, तत्र ह्रुपधालक्षणा वृद्धिर्न प्राप्नोतीति ठकोऽञ्णित्त्वात्--पुष्करसदा चरतीति पौष्करसादिक इति? नैतदस्ति; यदि पुष्करसच्छब्दाच्चरत्यर्थे ठगुत्पद्यते। कस्मात्? पुनर्नोत्पद्यते? अनभिधानात्। अभिधानलक्षणा हि कृत्तद्धितसमासा भवन्तीति। तस्माज्ज्ञापक एवानुशतिकादिषु पाठः पुष्करसच्छब्दस्य॥
नाडायनः, चारायण इति । नडादिभ्यः फक् । आक्षिकः, शालाकिक इति । दीव्यत्यर्थे ठक् ॥
सिद्धान्तकौमुदी
ञिति णिति च प्रत्यये परेऽचामादेरचो वृद्धिः स्यात् ॥
तद्धितेष्वचामादेः - तद्धितेष्वचामादेः ।अचोञ्णिती॑त्यनुवर्तते ।मृजेर्वृद्धि॑रित्यतो वृद्धिरिति च ।अचा॑मिति निर्धारणषष्ठी । तदाह — ञितीति ।
तद्धितेष्वचामादेः - तद्धितेष्व । अचां मध्ये आदिरजेवेतिअचोऽञ्णिती॑ति सूत्रदच इत्यनुवर्तत इत्याशयेन व्याचष्टे — अच इति । वृद्धिः स्यादिति ।मृजेर्वृद्धि॑रित्यतोऽनुवर्तत इति भावः ।
लघुसिद्धान्तकौमुदी
दित्यादिभ्यः पत्युततरपदाच्च प्राग्दीव्यतियेष्वर्थेषु ण्यः स्यात्। अणोऽपवादः। दितेरपत्यं दैत्यः। अदितेरादित्यस्य वा॥
महाभाष्यम्
तद्धितेष्वचामादेः अज्ग्रहणं कर्तव्यम् ।। ननु च क्रियत एव(2) ।। द्वितीयं कर्तव्यं, ‐ यथाऽचामादिग्रहणमज्विशेषणं विज्ञायेत ‐ अचामादेरचःथ्द्य;ति ।। अथाऽक्रियमाणेऽज्ग्रहणे कस्याऽचामादिग्रहणं विशेषणं स्यात् ? ।। इग्विशेषणमित्याह, ‐ -अचामादेरिक इति ।। तत्र को दोषः ? ।। इहैव स्यात् ‐ ऐतिकायनः औपगवः । इह न स्यात् ‐ गार्ग्यो वात्स्य इति ।। तत्तर्ह्यज्ग्रहणं कर्तव्यम् ? ।। न कर्तव्यम् । प्रकृतमनुववर्तते ।। क्व प्रकृतम् ? ।। अचो ञ्ञ्णितीति ।। यदि तदनुवर्ततेऽत उपधाया अचश्चेति अज्मात्रस्य उपधाया वृद्धिः प्रसज्येत ‐ भेदकः(3) छेदक इति ।। अकारेण तपरेणाऽचं विशेषयिष्यामः ‐ अचोऽतःथ्द्य;ति ।। इहेदानीमच इत्यनुवर्तते अतःथ्द्य;ति निवृत्तम् । अथवा ‐ ।। मण्डूकगतयोऽधिकाराः(4) ।। तद्यथा मण्डूका उत्प्लुत्योत्प्लुत्य गच्छन्ति तद्वदधिकाराः ।। अथ वैकयोगः करिष्यते अचो ञ्ञ्णित्यत उपधायाः (ःथ्द्य;ति(1)) । ततः ‐ तद्धितेष्वचामादेरिति । न चैकयोगेऽनुवृत्तिर्भवति ।। तद्धितेष्वचामादिवृद्धावन्त्योपधलक्षणप्रतिषेधः ।। तद्धितेष्वचामादिवृद्धावन्त्योपधलक्षणाया वृद्धेः प्रतिषेधो वक्तव्यः । क्रौष्ट्रः । जागत इति ।। ननु चाऽचामादिवृद्धिरन्त्योपधालक्षणां वृद्धिं बाधिष्यते ।। कथमन्यस्योच्यमानाऽन्यस्य बाधिका स्यात् ? ।। असति खल्वपि संभवे बाधनं भवति,अस्ति च संभवो यदुभयं स्यात् ।। लोकविज्ञानात्सिद्धम् ।। सत्यपि संभवे बाधनं भवति । तद्यथा- दधि ब्राह्मणेभ्यो(3) दीयतां तक्रं कौण्डिन्यायेति सत्यपि संभवे दधिदानस्य तक्रदानं निवर्तकं भवति, एवमिहापि सत्यपि संभवेऽचामादिवृद्धिरन्त्योपधलक्षणां(2) वृद्धिं बाधिष्यते ।। विषम उपन्यासः । नाप्राप्ते दधिदाने तक्रदानमारभ्यते तत्प्राप्ते आरभ्यमाणं बाधकं भविष्यति, इह पुनरप्राप्तायामन्त्योपधालक्षणायां(2) वृद्धावचामादिवृद्धिराभ्यते ‐ सुश्रुत्सौश्रुत इति ।। पुष्करसद्ग्रहणाद्वा ।। अथ वा यदयमनुशतिकादिषु पुष्करसच्छब्दं पठति तज्ज्ञापयत्याचार्योऽचामादिवृद्धावन्त्योपधालक्षणा वृद्धिर्न भवतीति ।। इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभष्ये सप्तमाध्यायस्य द्वितीये पादे द्वितीयमाह्निकम् ।। पादश्च समाप्तः ।।