Page loading... Please wait.
7|2|11 - श्र्युकः किति
॥ तस्मै पाणिनये नमः ॥
7|2|11
SK 2381
श्र्युकः किति   🔊
सूत्रच्छेदः
श्र्युकः (षष्ठ्येकवचनम्) , किति (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
श्रि इत्येतस्य उगन्तानां च किति प्रत्यये परतः इडागमो न भवति। श्रि श्रित्वा। श्रितः। श्रितवान्। उगन्तानां चयुत्वा। युतः। युतवान्। लूत्वा। लूनः। लूनवान्। वृत्वा। वृतः। वृतवान्। तीर्त्वा। वीर्णः। तीर्णवान्। श्र्युकः इति किम्? विदितः। किति इति किम्? श्रयिता। श्रयितुम्। श्रयितव्यम्। केचिदत्र द्विककारनिर्देशेन गकारप्रश्लेषं वर्नयन्ति, भूष्णुः इत्येवं यथा स्यात्। सौत्रत्वाच् च निर्देशस्य श्र्युकः किति इत्यत्र चर्त्वस्य असिद्धत्वमनाश्रित्य रोरुत्वं न कृतम् विसर्जनीयश्च कृतः इति। ग्लाजिस्थश्च क्ष्नुः 3|2|139 इत्यत्र स्था आ इत्याकारप्रश्लेषेण स्थास्नोः सिद्धत्वान् न किंचिदेतत्। उपदेशे इत्येव, तीर्ण इत्यत्र अपि यथा स्यात्। इत्वे हि कृते रपरत्वे चन स्यात्। मा भूदेवम्। इट् सनि वा 7|2|41 इति विकल्पे विहिते यस्य विभाषा 7|2|15 इति निष्ठायां प्रतिषेधो भविष्यति? कस्य पुनः सा विभाषा? ऋ̄तः। यद्येवम् इत्वे हि कृते न अयम् ऋ̄करान्तो भविष्यति? स्थानिवद्भावाद् भविष्यति। अनल्विधौ स्थानिवद्भावः, अल्विधिश्चायम्? तस्मादनुवर्तयितव्यम् उपदेशे इति। तथा च सति जागरितः, जागरितवानित्यत्र अपि प्राप्नोति, तदर्थम् एकाचः इत्यनुवर्तयितव्यम्। ऊर्णोतेस्तु वाच्य ऊर्णोर्णुवद्भावो यङ्प्रसिद्धिः प्रयोजनम्। आमश्च प्रतिषेधार्थम् एकाचश्चेडुपग्रहात्। प्रोर्णुतः। प्रोर्णुतवान्।
उदात्तार्थं आरम्भः। `लूनः` इति। `ल्वादिभ्यश्च` 8|2|44 इति नत्वम्। `तीर्णः` इति। अत्रापि `रदाभ्याम्` 8|2|42 इति। `केचित्` इत्यादि `ग्लाजिस्थस्च क्स्नुः` 3|2|139 इति `भुवश्चेति वक्तव्यम्` 3|2|138 [`भुवश्च`--इति सूत्रम्] इत्यत्र भवतेः क्स्नुप्रत्यये गिति कृते सति विधीयमानस्वाद्? गितीट्प्रतिषेधो न प्राप्नोति, ततश्च भूष्णुरिति न सिध्येत्। तस्माद्? भूष्णुरित्यत्रेट्प्रतिषेधार्थं केचित्? आभूति--व्याङिप्रभृतयः `श्रयुकः किति` इत्यत्र द्विककारनिर्देशेव हेतुना चत्र्वभूतो गकारः प्रश्लिष्ट इत्येवमाचक्षते। यदि चत्र्वभूतो गकारः प्रश्लिष्टः, एवं सति `ससजुषो रुः` 8|2|66 इति रुत्वे कृते चत्र्वस्यासिद्धत्वात्? `हशि च` 6|1|114 इति रोरुत्वेन भवितव्यम्? न तु विसर्जनीयेन, ततश्च `श्रयुकः किति` इति निर्देशो न युज्यते? इत्येतच्चोद्यं निराकर्त्तुमाह--`सौत्रत्वान्निर्देशस्य` इत्यादि। चत्र्वभूतस्यासिद्धत्वमनाश्रित्य रोरुत्वं न कृतम्, विसर्जनीयश्च कृत इति वर्णयन्ति। किमर्थं पुनस्ते क्स्नुप्रत्येय गित्त्वं प्रतिजानते, यस्मिन्? सतीदं व्याख्यानं कत्र्तव्यं जायते? स्थास्नुशब्दस्य सिद्ध्यर्थम्। एवं हि ते मन्यन्ते--क्स्नोः कित्त्वे सति `धुमास्थागादि` 6|4|66 सूत्रेण तिष्ठतेरीत्त्वं स्यात्, ततश्च स्थास्नुरिति न स#इद्ध्येदिति। `ग्लाजिस्थश्च क्स्नु इत्यत्र` इत्यादि। गित्त्वे हि सति क्स्नोरट्प्रतिषेधार्थमेवं व्याख्यायते, न च तस्य गित्त्वम्। किं तर्हि? कित्त्वमेव। न च कित्त्वे सतीत्त्वं प्रसज्यते, यस्मात्? `ग्लाजिस्थश्च क्स्नुः` 3|2|139 इत्यत्र स्था+आ इत्यकारप्रश्लेषः कृतः। तिष्ठतेः क्स्नुप्रत्ययान्तस्याकारान्तस्याकारान्ततैव यथा स्यातद्, ईकारान्तता मा भूदित्येवमर्थः। आकाराप्रश्लेषे हि सतीत्त्वापवादस्तिष्ठतेराकारादेशो भवति, अतस्तेन बाधित्वादीत्त्वं न प्रवत्र्तते। तदेवं कित्त्वे सत्यकरप्रश्लेषात्? स्थास्नुशब्दस्य सिद्धत्वात्? न किञ्चिदेतत्। एतद्व्यास्यानमसारमित्यर्थः। `तीर्णम्` इत्यत्रापि किं पुनः कारणमसत्युपदेशग्रहणेऽत्रि न स्यात्, यावता तरतिरयमुगन्तः पठते? इत्याह--`इत्त्वे हि` इत्यादि। `ऋत्? इद्धातोः` 7|1|100 इतीत्त्वे च कृत उगन्तता विहतेत्यसत्युपदेशग्रहणे न स्यात्, तस्मस्तु सति भवति। यद्यप्युत्तरकालं तरतिरुगन्तो न भवति, तथाप्युपदेश एव। `मा भूदेवम्` इत्यादि। चोदकः। `कस्य पुनः` इत्यादोतरः। `ॠतः`[`कृतः` इति मुद्रितः पाठः] इति चोदकः। `यद्येवम्` इत्यादीतरः। `स्थानिवद्भावात्` इति। अल्विधित्वं पुनरुगिति प्रत्याहारग्रहणात्। `तस्मात्` इति। आह--यस्मादेदमसत्युपदेशग्रहणे तीर्ण इत्यत्र प्रतिषेधो न प्राप्नोति, तस्मादुपदेश इत्यनुवत्र्तनीयम्। `तथा च सति` इत्यादि। उपदेशेऽनुवत्र्तमाने सतीत्यर्थः। `जागरित इत्यत्रापि प्राप्नोति` इति। जागत्र्तेरुपदेशावस्थायामुगन्तत्वात्। `तदर्थम्` इति। जागरित इत्यादाविट्प्रतिषेधप्राप्तिनिवृत्त्यर्थम्; अर्थशब्दस्य निवृत्तिवाचित्वात्। यदि तर्हि `एकाचः` 7|2|10 इत्यनुवत्र्तते, प्रोर्णुतः, प्रोर्णुतवनित्यत्रेट्प्रतिषेधो न प्राप्नोति; ऊरणोतेरनेकाण्त्वात्? इत्यत आह--`वाच्य ऊर्णोर्णुवत्` इत्यादि। अस्याः कारिकायाः पूर्वमेवार्थो व्याख्यात इति न पुनव्र्याख्यायते॥
योषां प्रकृत्याश्र प्रतिषेधो नास्ति तदर्थमिदम् । श्रितः, श्रितवान्, युतः, युतवान् इति । सनीवन्तर्ध इति विकल्पितेट्त्वाद् यस्य विभाषा इति प्रतिषेधः सिद्धः । केचिदित्यादि । यथा ग्लाजिस्थश्च क्स्नुः इत्यत्रोक्तम् - क्स्नोर्गित्वान्न स्थ ईकारः इत्यादि । यदि गकारः प्रश्लिष्यते श्रयुकः किति इति निर्द्देशो नोपपद्यते, गकारे परतः हशि च इत्युत्वं प्राप्नोति चर्त्वे च कृते कुप्वोः क पौ च इत्येष विधिर्भवति, चर्त्वस्यासिद्धत्वादुत्वमेव प्राप्नोति तत्राह सौत्रत्वादिति । अत्रापि ग्रन्थे वर्णयन्ति इत्यस्य सम्बन्धः । तदेतद्द्टषयति - ग्लाजिस्थश्च ग्स्नुरित्यत्रेति । आकारप्रश्लेषे सति तिष्ठतेराकारन्तादित्यर्थो भवति, तिष्ठतिश्चाकारान्त एव, तत्र विशेषणमुतरकालभावीकारनिवृत्यर्थ विज्ञायते, ततश्च - कथं प्रकृतिनिर्द्देशे पञ्चम्यां परतः श्रुतः । आकारोऽयं विधेयः स्यादिति चोद्यमपाकृतम् ॥ स्थास्नोः । स्थास्नुशब्दस्य । न किञ्चिदेतदिति । एतद् गकारप्रश्लेषवर्णनमशेभनमित्यर्थः । गस्नुप्रत्ययस्य गित्वे हि गप्रश्लोषो युज्यते, कित्वेऽपि तिष्ठतेरीत्वमुक्ताद्धेतोर्निवर्तते । तीर्ण इत्यत्रापि यथा स्यादिति । इह तु तीर्त्वा, पूर्त्वेति आनुपूर्व्यात्सिद्धम्, कथम् तत्वा, पत्वा इति स्थिते यावदिट्प्रतिषेधो न प्रर्वतते तावदित्वोत्वे प्राप्नोति, किं कारणम् क्ङिति इत्युच्यते, न चाकृते इट्प्रतिषधे क्त्वा किद्भवति, न क्त्वा सेट् इति प्रतिषेधात् । किञ्च भो इत्वोत्वे किति विधीयेते न किति विधीयेते, किति तु विज्ञायेते । कथम् इत्वोत्वाभ्यां गुणवृद्धी भवतो विप्रतिषेधेन । तस्मातप्रगेव सन्निहितं कित्वमाश्रित्येट्तिषेधे प्रवृते इत्वोत्वे भवतः । कृतयोस्तहि तयोः प्रतिषेधनिमितस्योगन्तत्वस्यापगमात्पुनरिट्प्रसङ्गः, तस्मिंश्च सति न क्त्वा सेट् इति कित्वप्रतिषेधाद् गुणे सति तेरित्वा, पोरित्वेति प्राप्नोति नैतदस्ति प्रसङ्गावस्थायामेव प्रतिषेधेन बाधितस्य भ्रष्टावसरस्य पुनः प्रवृत्ययोगात् । इह च तितीर्षति, मुमूर्षतीति नाकृत इटः प्रतिषेधे सनः कित्वमझलादित्वात्, असति च कित्वे गुणस्यायं विषय इति इत्वोत्वयोरप्रसङ्ग इति आनुपूर्व्यात्सिद्धमित्येव । यदि वा तृ - स इति स्थिते, अनवकाशत्वादिट् सनि वेति ऋकारान्तनिमित इड्विकल्पः प्रवर्तते, तत्रेडभावपक्षे कित्वाद् गुणे निषिद्धे इत्वोत्वयोः कृतयोरपि विकल्पेन बाधितस्येड्लक्षणस्य भ्रष्टावसरत्वेन पुनः प्रवृतययोगात्सिद्धमिष्टम् । तस्मातीर्ण इत्यत्र चोपदेशाधिकारस्योपयोगः । कस्मात्पुनरसत्युपदेशाधिकारेऽत्र न स्यात् इत्यत आह - इत्वे हि कृत इति । किं पुनः कारणमित्वमेव तावद्भवति नित्यत्वात् । मा भूदित्यादि चोदकः । कस्य पुनरित्यादीतरः । आञ्त इत्यादि चोदकः । यद्येवमित्यादीतरः । स्थानिवद्भावादिति चोदकः । अनिल्विधावित्यादीतरः । अल्विधित्वं पुनरुगिति प्रत्याहारग्रहणात् । ननु चेत्वोत्वयोः कृतयोः समप्रत्यृकाराभावेऽप्येकदेशविकृतस्यानन्यत्वात्स एव धातुर्यस्य सनि विभाषा विहितेतीट्प्रतिषेधो भविष्यति नैतदस्ति आदितश्च इति योगविभागेन ज्ञापयिष्यते - यदुपाधेर्विभाषा तदुपाधेः प्रतिषेध इति, ततश्च ऋकारान्तत्वमुपाधिरड्विकल्पे, स चेत्वे कृते नास्तीति कथं प्रतिषेधः स्यात् तस्मादित्यादि । यस्मादेवमसत्युपदेशग्रहणे तीर्ण इत्यत्र प्रतिषेधो न सेत्स्यति, तस्मात् उपदेशे इत्यनुवर्तनीयम् । तथा च सतीति । उपदेशे इत्यनुवर्तमाने सतीत्यर्थः । अत्रापि प्राप्नोतीति । जगर्तेरुपदेशावस्थायामुगान्तत्वात् । तदर्थमिति । जगरित इत्यादिसिद्ध्यर्थम् । जगरित इत्यादाविट्प्रतिषेधनिवृत्यर्थमिति वा । तथा च वार्तिकम् - एकाजग्रहणं जगर्त्यर्थम् इति पूर्वसूत्रेऽनुपयोगादिहार्थमेकज्ग्रहणमित्यर्थः । भष्यकारस्त्वाह - यस्य क्वचिदिड्विकल्पो दृष्टः स धातुराश्रीयते - यस्य विभाषा इति, न तु तद्गतं विकल्पकारणमकारादि । भवति चेत्वोत्वयोः कृत योरयमपि स एव धातुरिति तीर्ण इत्यादौ सिद्धः प्रतिषेधः इति । यद्येवम्, विभाषा गमहनविदविशाम् इति विशिना साहचर्यातौदादिकस्य विदेः क्वसाविटि विकल्पिते दैवादिकस्यापि विदेर्निष्ठायां प्रतिषेधः प्राप्नोति - विदितः, विदितवानिति न, धातुभदात् । कथं धातुभेदः अर्थभेदाद्, अनुबन्धभेदाद्, विकरणभेदाच्च । तदेवं नार्थ उपदेशाधिकारेण, नापि एकाज्गरहणानुवृत्या । किमर्थं तर्हि पूर्वसुत्रे एकज्ग्रहणम् यङ्लुगन्तनिवृत्यर्थम् । ननु च क्रियमाणेऽप्येकाज्कहणे यङ्लुगन्तस्य प्रतिषेधः प्राप्नोति, उपदेशग्रहणस्योभयविशेषणत्वात्, यथा बिभित्सतीति, तत्रैतत्स्यात् - क्रियमाणे एकाजग्रहणे यत्रैकाजग्रहणं किञ्चित् इति वचनाद् यङ्लुगन्तस्य न भवतीति तच्च वार्तम् अक्रियमाणेऽपि चैकाज्गरहणे वचनान्तराश्रयणेन यङ्लुगन्तेऽपि परिहारः । तदेव वचनमेवं पठ।ल्ताम् - त्रोपदेशाग्रहणमिति । अनुदातोपदेशलक्षणोऽनुनासिकलोपोऽपि तर्हि यङ्लुगन्तानां तसादिषु न स्यात्, तथा इबन्तानां दिविप्रभृतीनां यङ्लुगन्तानामपि सनीङ्विकल्पः प्राप्नोति । क्रियमाणे पुनरेकाज्ग्रहणे न भवति, तएकाचः इति तत्रानुवृतेः । यदि नेष्यते, एवं वक्ष्यामि - उपदेशेऽनुदातान्न यङ्लुक किति । अधिकारोऽयम्, यत्रैकाज्ग्रहणेन यङ्लुगन्तस्य वायवृत्तिरिष्यते, तत्रोपतिष्ठते । एवमपि वावृतु वरणे इति दिवादावनेकाजुदिदनुदातेत्पठ।ल्ते । तथा च भट्टिकाव्ये प्रयोगः - ततो वावृत्यमानाऽसौ रामशालां न्यविक्षत इति । तस्योदितो विकल्पितेटो निष्ठायाम् यस्य विभा,अ इति प्रतिषेधः प्राप्नोति । एकाज्ग्रहणे तु क्रियमाणे न भवति एकाचः इति तत्रानुवृतेः । तथा च निष्ठायां सेटि ( 6।4।52 । इत्यत्रापि वृत्तिकारेणोक्तम् - अथ पुनरेकाच इति तत्रानुवर्तते इत्यादि । अन्ये पुनर्भाष्यकारेणैकाज्ग्रहणस्य प्रत्याख्यातत्वान्नैतदिष्यत इत्याहुः । तथा च वृत्तिकारेणापि पाक्षिकत्वेनैवोक्तम् - अथ पुनरेकाच इति तत्रानुवर्तते इति । कृतमतितविस्तिरेण ॥
सिद्धान्तकौमुदी
श्रिय एकाच उगन्ताच परयोर्गित्कितोरिण्न स्यात् । परमपि स्वरत्यादिविकल्पं बाधित्वा पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यादनेन निषेधे प्राप्ते क्रादिनियमान्नित्यमिट् । सस्वरिव । सस्वरिम् । परत्वात् ऋद्धनो---(कौमुदी-2366) इति नित्यमिटि । स्वरिष्यति । स्वर्यात् । अस्वरीत् । अस्वरिष्टाम् । अस्वार्षीत् । अस्वर्ष्टाम् । 933 स्मृ चिन्तायाम् 934 ह्वृ संवरणे 935 सृ गतौ । क्रादित्वान्नेट् । ससर्थ । ससृव । रिङ् । स्नियात् । असार्षीत् । असार्ष्टाम् ॥
श्र्युकः किति - अत्र इण्निषेधं शङ्कितुमाह — श्र्युकः क्किति । श्रिश्च उक् चेति समाहारद्वन्द्वात् षष्ठी । उक् प्रत्याहारः । अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणतम् उका विशेष्यते । तदन्तविधिः ।एकाच उपदेशे॑इत्यत इत्यनुवृत्तमिगन्तेऽन्वेति ।नेड्वशि कृती॑त्यतो नेडिति । क्कितीति सप्तमी षष्ठर्थे । गच् कच् क्कौ, तौ इतौ यस्येति विग्रहः । गकारस्य चर्त्वेन निर्देशः । तदाह — श्रिञ एकाच इत्यादिना । गकारप्रश्लेषः किम् । भूष्णुः ।ग्लाजिस्थश्चग्स्नु॑रिति चकाराद्भूधातोर्ग्स्नुः । तस्य गित्त्वादिण्न । कित्त्वे तु स्थास्नुरित्यत्रघुमास्थे॑ति ईत् स्यात् । इण्न स्यादित्यनन्तरम् — अनेन निषेधे प्राप्ते इत्यन्वयः । नन्वियं शङ्का न युज्यते,श्रयुकः क्किती॑ति निषेधं बाधित्वा परत्वात्स्वरतिसूती॑ति विकल्पस्य प्राप्तेरित्यत आह — परमपीत्यादि, सामथ्र्यादित्यन्तम् । पुरस्तात्प्रतिषेधकाण्डारम्भसामथ्र्यात्परमपि स्वरत्यादिविकल्पं बाधित्वा अनेन निषेधे प्राप्ते इत्यन्वयः ।आद्र्धधातुकस्ये॑डित्यादिविधिकाण्डात्प्रागेवनेड्वशि कृती॑त्यादि प्रतिषेधकाण्डारम्भसामथ्र्याद॒त्स्वरती॑ति विकल्पोऽप्यनेन बाध्यते इत्यर्थः । परमपीत्यादिः, प्राप्ते इत्यन्तः शङ्काग्रन्थः । परिहरति — क्रादिनियमान्नित्यमिडिति । प्रकृत्याश्रयः प्रत्ययाश्रयो वा यावानिण्निषेधः स लिटि चेत्तर्हि क्रादिभ्य एवेत्युक्तत्वादिति भावः । लुटि — स्वरिता स्वर्ता । लृटि स्येस्वरती॑तिविकल्पं निरस्यति — परत्वादिति । स्वरतु । अस्वरत् । स्वरेत् । स्वर्यादिति । आशीर्लिङिगुणोऽर्तिसंयोगाद्यो॑रिति गुणः । अस्वारीदिति ।स्वरती॑तीट्पक्षे वृद्धिरिति भावः । अस्वार्षीदिति । इडभावेसिचि वृद्धि॑रिति वृद्धिरिति भावः । स्मृचिन्तायामिति । अयमप्यनिट् । स्मरति । लिटिऋतश्चे॑ति कित्यपि गुणः । णलि तु गुणे उपधावृद्धिः । सस्मार सस्मरतुः सस्मरुः । ऋदन्तत्वाद्भारद्वाजमतेऽपि क्रादिनियमप्राप्तस्य इटस्थलि नित्यनिषेधः । सस्मर्थ सस्मरथुः सस्मर । सस्मार — सस्मर सस्मरिव सस्मरिम । स्मर्ता । लृटि स्येऋद्धनो॑रितीट् — स्मरिष्यति । स्मरतु । अस्मरत् । स्मरेत् । आशीर्लिङगुणोऽर्ती॑ति गुणः — स्मर्यात् । लुङि सिचि वृद्धौ रपरत्वम् — अस्मार्षीत् । अस्मरष्यत् । द्वृ संवरणे इति.अयमपि स्मृधातुवत् । [अस्यैव द्वारमित्यादि] । सृ गताविति । ऋदन्तोऽयमनिट् । सरति । लिटि संयोगादित्वाऽभावादृतश्चेति गुणो न । ससार सरुआतुः । क्रादत्वान्नेडिति । सृधातोः क्राद#इस्थत्वादिति भावः । ससर्थेति । क्रादित्वात्थल्यपि नित्यं निषेध इति भावः । सरुआथुः सरुआ ।ससार ससार ससृव ससृम । इत्यपि ज्ञेयम् । सर्ता । लृटिऋद्धनो॑रितीट् — सरिष्यति । सरतु । असरत् । सरेत् । आशीर्लिङि संयोगादित्वाऽभावात्गुणोऽर्ती॑ति न गुणः । किंतु "रिङ् शयग्लिङ्क्षु" इति रिङित्याह — रिङिति । रिउआयादिति । रीङि प्रकृतेरिङ्विधिसामथ्र्यान्न दीर्घ इति भावः । असार्षीदिति । सिचि वृद्धौ रपरत्वम् ।
श्र्युकः किति - श्र्युकः किति ।एकाच उपदेशे॑ इत्यत एकाच इत्यनुवर्तते । तच्च उको विशेषणमित्याह — एकाच उगन्तादिति । श्रितः । श्रितवान् । श्रित्वा । भूतः । भूत्वा । भूतिः । गित्युदाहरणं — भूष्णुः ।ग्लाजिस्थश्चे॑ति ग्स्नुः । स च गिद्भवति न कित् । स्थास्नुरित्यत्रघुमास्थे॑तीत्त्वप्रसङ्गात् । एकाच इति किम् । जागरितः । जागरितवान् । ऊर्णोतेस्तु नुवद्भावे — ऊर्णुतः । ऊर्णुतवानिति सिध्यति । उगन्तात्किम् । शयितः । शयितवान् । पुरस्तादित्यादि ।आद्र्धधातुकस्येड्वलादे॑रित्यादि विधिकाण्डात्प्रागेवनेज्वशि कृती॑त्यादिप्रतिषेधकाण्डारम्भसामथ्र्यादित्यर्थः । निषेधे प्राप्ते इति । स्वृतः । सूतः । धूत इत्यादौ यथेति भावः । सृ गतौ । सरति । सरिष्यति ।
लघुसिद्धान्तकौमुदी
तुद व्यथने॥ 1॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.