Page loading... Please wait.
7|2|109 - दश्च
॥ तस्मै पाणिनये नमः ॥
7|2|109
SK 345
दश्च   🔊
सूत्रच्छेदः
दः (षष्ठ्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
विभक्तौ  7|2|84 (सप्तम्येकवचनम्) , मः  7|2|108 (प्रथमैकवचनम्) , इदमः  7|2|108 (षष्ठ्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
इदमः दः मः विभक्तौ
सूत्रार्थः
इदम्-शब्दस्य दकारस्य विभक्तिप्रत्यये परे मकारादेशः भवति ।
इदम्-सर्वनामशब्दस्य दकारस्य विभक्तिप्रत्यये परे मकारादेशः भवति । यथा -

1) इदम् + अम् [द्वितीयैकवचनस्य प्रत्ययः]
→ इद अ + अम् [त्यदादीनामः 7|2|102 इति मकारस्य अकारादेशः]
→ इद + अम् [अतो गुणे 6|1|97 इति पररूपः अकारः]
→ इम + अम् [दश्च 7|2|109 इति दकारस्य मकारः]
→ इमम् [अमि पूर्वः 6|1|107 इति अम्-प्रत्यये परे पूर्वरूपम्]

2) इदम् + औ / औट् [प्रथमा/द्वितीया-द्विवचनस्य प्रत्ययः]
→ इद अ + औ / औट् [त्यदादीनामः 7|2|102 इति मकारस्य अकारादेशः]
→ इद + औ / औट् [अतो गुणे 6|1|97 इति पररूपः अकारः]
→ इम + औ / औट् [दश्च 7|2|109 इति दकारस्य मकारः]
→ इमौ [वृद्धिरेचि 6|1|88 इति वृद्धि-एकादेशः]

3) इदम् + औ / औट् [प्रथमा/द्वितीया-द्विवचनस्य प्रत्ययः]
→ इद अ + औ / औट् [त्यदादीनामः 7|2|102 इति मकारस्य अकारादेशः]
→ इद + औ / औट् [अतो गुणे 6|1|97 इति पररूपः अकारः]
→ इद + टाप् + औ / औट् [स्त्रीत्वं द्योतयितुम् अजाद्यतष्टाप् 4|1|4 इति टाप्-प्रत्ययः]
→ इदा + शी [औङः आपः 7|1|18 इति आबन्तात् परस्य औ/औट्-प्रत्यययोः शी-आदेशः]
→ इमा + ई [दश्च 7|2|109 इति दकारस्य मकारः]
→ इमे [आद्गुणः 6|1|87 इति गुणादेशः]

ज्ञातव्यम् - अव्ययसर्वनाम्नाम् अकच् प्राक्टेः 5|3|71 अनेन सूत्रेण इदम्-शब्दस्य स्वार्थे "अकच्" प्रत्ययः विधीयते । एवं क्रियते चेत् "इदकम्" इति प्रातिपदिकं सिद्ध्यति । अस्य प्रातिपदिकस्य दकारस्यापि अनेन सूत्रेण मकारादेशः भवति । यथा -
इदकम् + टा [तृतीयैकवचनस्य प्रत्ययः]
→ इदक अ + आ [त्यदादीनामः 7|1|102 इति मकारस्य अकारः]
→ इदक + आ [त्यदादीनामः 7|1|102 इति मकारस्य अकारः]
→ इमक + आ [दश्च 7|2|109 इति दकारस्य मकारादेशः]
→ इमक + इन [टाङसिङसामिनात्स्याः 7|1|12 इति टा-इत्यस्य इन-आदेशः]
→ इमकेन [आद्गुणः 6|1|87 इति गुण-एकादेशः]
One-line meaning in English
The दकार of the word इदम् is converted to a मकार when followed by a विभक्तिप्रत्यय.
काशिकावृत्तिः
इदमो दकारस्य स्थाने मकारादेशो भवति विभक्तौ परतः। इमौ, इमे। इमम्, इमौ, इमान्।
`इदमः` इति वत्र्तते, `सौ` इति निवृत्तम्; उत्तरसूत्रे पुनः `सौ` इति वचनात्। तेनायं विभक्तिमात्रे दाकारस्य मकारो भवति॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
इदमो दस्य मः स्याद्विभक्तौ । इमौ । इमे । त्यदादेः सम्बोधनं नास्तीत्युत्सर्गः ॥
दश्च - दश्च । "इदमो मः" इत्यनुवर्तते । "द" इति षष्ठी । इदमो दकारस्येति । लभ्यते । "अष्टन आ विभक्तौ" इत्यतोऽतिव्यवहितमपि विभक्तावित्येतन्मण्डूकप्लुत्याऽनुवर्तते । "तदोः सः सौ" इत्यतः साविति तु संनिहितमपि नानुवर्तते, सौ इदमो दस्याऽभावात्, "यः सौ" इत्युत्तरसूत्रे सौग्रहणाच्च । तदाह-इदमो दस्येत्यादिना । तथाच इम-औ इति स्थिते रामवद्रूपाणीत्याह — इमावित्यादि । त्यदादेः संबोधनं नास्तीति । प्रचुरप्रयोगाऽदर्शनादिति भावः । नन्वेवं सति "तदोः सः सो" इति सूत्रे "हे स" इति भाष्यविरोध इत्यत आह-उत्सर्ग इति प्रायिकमित्यर्थः ।
दश्च - उत्सर्ग इति । तेनतदोः सः सा॑बिति सूत्रेअनन्त्ययोरिति किं हे स॑इति भाष्यं,भो अच्युत॒॑भवन्नच्युते॑त्यादि प्रयोदाश्च न विरुध्यन्त इति भावः ।
लघुसिद्धान्तकौमुदी
इदमो दस्य मः स्याद्विभक्तौ। इमौ। इमे। त्यदादेः सम्बोधनं नास्तीत्युत्सर्गः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.