Page loading... Please wait.
7|2|108 - इदमो मः
॥ तस्मै पाणिनये नमः ॥
7|2|108
SK 343
इदमो मः   🔊
सूत्रच्छेदः
इदमः (षष्ठ्येकवचनम्) , मः (प्रथमैकवचनम्)
अनुवृत्तिः
सौ  7|2|106 (सप्तम्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
इदमः सौ मः
सूत्रार्थः
इदम्-शब्दस्य सुँ-प्रत्यये परे मकारादेशः भवति ।
इदम्-शब्दस्य प्रथमैकवचनस्य सुँ-प्रत्यये परे त्यदादीनामः 7|2|102 इत्यनेन अकारत्वे प्राप्ते तं बाधित्वा वर्तमानसूत्रेण मकारस्य पुनः मकारादेशः एव विधीयते -

1. इदम् + सुँ [पुँल्लिङ्गे प्रथमैकवचनस्य प्रत्ययः]
→ इदम् + सुँ [त्यदादीनामः 7|2|102 इत्यनेन अकारत्वे प्राप्ते अपवादत्वेन इदमो मः 7|2|108 इति मकारस्य मकारः]
→ अयम् + सुँ [इदोऽयं पुँसि 7|2|111 इति "इद्" इत्यस्य "अय्" आदेशः]
→ अयम् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6|1|68 इति सुँलोपः]

2. इदम् + सुँ [स्त्रीलिङ्गे प्रथमैकवचनस्य प्रत्ययः]
→ इदम् + सुँ [त्यदादीनामः 7|2|102 इत्यनेन अकारत्वे प्राप्ते अपवादत्वेन इदमो मः 7|2|108 इति मकारस्य मकारः]
→ इयम् + सुँ [यः सौ 7|2|110 इत्यनेन दकारस्य यकारः]
→ इयम् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6|1|68 इति सुँलोपः]

3. इदम्-शब्दस्य नपुँसकलिङ्गवाचिनः अङ्गात् सुँ-प्रत्यये परे स्वमोर्नपुँसकात् 7|1|23 इत्यनेन सुँ-प्रत्ययस्य लुक्-भवति, ततः न लुमताङ्गस्य 1|1|63 इत्यनेन अङ्गकार्यं निषिध्यते । अतः वर्तमानसूत्रस्य तत्र प्रसक्तिः नास्ति -
इदम् + सुँ [नपुँसकलिङ्गे प्रथमैकवचनस्य प्रत्ययः ]
→ इदम् [स्वमोर्नपुँसकात् 7|1|23 इत्यनेन सुँ-प्रत्ययस्य लुक्]
One-line meaning in English
The word इदम् gets a मकारादेश when followed by the सुँ-प्रत्यय.
काशिकावृत्तिः
इदमः सौ परतः मकारो ऽन्तादेशो भवति। इयम्। अयम्। इदमो मकारस्य मकारवचनं त्यदाद्यत्वबाधनार्थम्।
अलोऽन्त्यपरिभाषया 1|1|51 मकारस्यैवानेन मकारेण भवितव्यम्, न च मकरसय मकारादेशे कृते विशेषोऽस्ति, तत्किमर्थं मकारस्य मकारः इत्युच्यते? --इत्येतच्चोद्यं निराकर्तुमाह--`मकारस्य` इत्यादि। गतार्थम्॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
इदमो मस्य मः स्यात्सौ परे । त्यदाद्यत्वापवादः ॥
इदमो मः - अथ इदंशब्दे विशेषमाह — इदमो मः । साविति । "तदोः सः सौ" इत्यतस्तदनुवृत्तेरिति भावः ।अलोऽन्त्यस्ये॑त्यन्त्यस्य मस्य मः । ननु मस्य मविधिव्र्यर्थ इत्यत आह — त्यदाद्यत्वापवाद इति ।
इदमो मः - इदमो मः ।इन्दे कमिर्नलोपश्च॑ । इदम् ।तदोः सः सौ॑इत्यतोऽनुवर्तनादाह — -सौ पर इति ।
लघुसिद्धान्तकौमुदी
सौ। त्यदाद्यत्वापवादः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.