Page loading... Please wait.
7|2|106 - तदोः सः सावनन्त्ययोः
॥ तस्मै पाणिनये नमः ॥
7|2|106
SK 381
तदोः सः सावनन्त्ययोः   🔊
सूत्रच्छेदः
तदोः (षष्ठीद्विवचनम्) , सः (प्रथमैकवचनम्) , सौ (सप्तम्येकवचनम्) , अनन्त्ययोः (षष्ठीद्विवचनम्)
अनुवृत्तिः
त्यदादीनाम्  7|2|102 ()
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
त्यदादीनाम् अनन्त्ययोः तदोः सः सौ
सूत्रार्थः
त्यदादिगणस्य शब्देषु विद्यमानः यः तकारः दकारः च अन्ते नास्ति, तस्य सुँ-प्रत्यये परे सकारादेशः भवति ।
"त्यदादिगणः" नाम कश्चन गणः अस्ति । अस्मिन् गणे अष्ट शब्दाः समाविश्यन्ते - त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि । एतेषाम् सर्वेषाम् "अनत्यस्य " (इत्युक्ते, यः अन्ते नास्ति, तस्य) तकार-दकारस्य सुँ-प्रत्यये परे सकारादेशः भवति ।

अस्य सूत्रस्य प्रसक्तिः केवलं पुँल्लिङ्ग-स्त्रीलिङ्गरूपेषु एव दृश्यते, यतः नपुँसकलिङ्गात् परस्य सुँ-प्रत्ययस्य स्वमोर्नपुँसकात् 7|1|23 इति लुक्-कृते न लुमताङ्गस्य 1|1|63 इति अङ्गकार्यम् निषिध्यते । अतः अनेन सूत्रेण निर्दिष्टः सकारादेशः नपुँसकलिङ्गशब्दस्य विषये न भवति ।

1) त्यद् + सुँ
→ स्यद् + स् [तदोः सः सावनन्त्ययोः 7|2|106 इति तकारस्य सकारादेशः । अत्र "त्य" इत्यस्य तकारः शब्दस्य अन्ते नास्ति अतः अनेन सूत्रेण तस्य सकारादेशः भवति ।]
→ स्य अ + स् [त्यदादीनामः 7|2|102 इति दकारस्य अकारः । ]
→ स्य + स् [अतो गुणे 6|1|97 इति पररूप-एकादेशः]
→ स्यः [विसर्गनिर्माणम्]
स्त्रीलिङ्गे "त्यद्" इत्यस्य तु कोऽपि स्त्रीप्रत्ययः न विधीयते, परन्तु दकारस्य अकारः भवति चेत् अजाद्यतष्टाप् 4|1|4 इति टाप्-प्रत्ययः आगच्छति, अतः "स्या" इति प्रथमैकवचनस्य रूपं जायते ।

2) तद् + सुँ
→ सद् + स् [तदोः सः सावनन्त्ययोः 7|2|106 इति तकारस्य सकारादेशः । अत्र "त" इत्यस्य तकारः शब्दस्य अन्ते नास्ति अतः अनेन सूत्रेण तस्य सकारादेशः भवति ।]
→ स अ + स् [त्यदादीनामः 7|2|102 इति दकारस्य अकारः]
→ स + स् [अतो गुणे 6|1|97 इति पररूप-एकादेशः]
→ सः [विसर्गनिर्माणम्]
स्त्रीलिङ्गे "तद्" इत्यस्य तु कोऽपि स्त्रीप्रत्ययः न विधीयते, परन्तु दकारस्य अकारः भवति चेत् अजाद्यतष्टाप् 4|1|4 इति टाप्-प्रत्ययः आगच्छति, अतः "सा" इति प्रथमैकवचनस्य रूपं जायते ।

3) यद् + सुँ इत्यत्र अस्य सूत्रस्य प्रसक्तिः नास्ति यतः अस्मिन् सूत्रे विद्यमानः दकारः अन्ते अस्ति ।

4) एतद् + सुँ
→ एसद् + स् [तदोः सः सावनन्त्ययोः 7|2|106 इति तकारस्य सकारादेशः । अत्र "त" इत्यस्य तकारः शब्दस्य अन्ते नास्ति अतः अनेन सूत्रेण तस्य सकारादेशः भवति ।]
→ एस अ + स् [त्यदादीनामः 7|2|102 इति दकारस्य अकारः]
→ एस + स् [अतो गुणे 6|1|97 इति पररूप-एकादेशः]
→ एसः [विसर्गनिर्माणम्]
→ एषः [आदेशप्रत्यययोः इति आदेशः यः सकारः, तस्य षत्वम्]
स्त्रीलिङ्गे "एतद्" इत्यस्य तु कोऽपि स्त्रीप्रत्ययः न विधीयते, परन्तु दकारस्य अकारः भवति चेत् अजाद्यतष्टाप् 4|1|4 इति टाप्-प्रत्ययः आगच्छति, अतः "एषा" इति प्रथमैकवचनस्य रूपं जायते ।

5) "इदम्" शब्दे यदि दकारः अस्ति, तथापि अस्य सूत्रस्य प्रसक्तिः नास्ति, यतः पुँल्लिङ्गे इदोऽयं पुँसि 7|2|111 इत्यनेन पुँल्लिङ्गे इदम्-शब्दस्य "इद्" इत्यस्य "अय्" आदेशः विधीयते, स्त्रीलिङ्गे च यः सौ 7|2|110 इत्यनेन दकारस्य यकारः भवति ।

6) अदस् + सुँ
→ अद औ [अदसः औ सुँलोपश्च 7|2|107 इति सकारस्य औ-आदेशः, सुँ-प्रत्ययस्य लोपः]
→ अदौ [वृद्धिरेचि 6|1|88 इति वृद्धि-एकादेशः]
→ असौ [तदोः सः सावनन्त्ययोः 7|2|106 इति दकारस्य सकारादेशः । अत्र "अदस्" इत्यस्य दकारः शब्दस्य अन्ते नास्ति अतः अनेन सूत्रेण तस्य सकारादेशः भवति । प्रत्ययलोपे प्रत्ययलक्षणम् 1|1|62 इति सुँ-प्रत्ययस्य लोपे अपि तस्य लक्षणकार्यम् विधीयते । ]
One-line meaning in English
For the words of त्यदादिगण, a तकार or a दकार which is not at end of the word is converted to सकार when followed by the सुँ-प्रत्यय.
काशिकावृत्तिः
त्यदादीनां तकारदकारयोः अनन्त्ययोः सकारादेशो भवति सौ परतः। त्यद् स्यः। तद् सः। एतद् एषः। अदस् असौ। अनन्त्ययोः इति किम्? हे स। सा।
`सै` इति। किमिदं प्रथमैकवचनस्य ग्रहणम्? उत सप्तमीबहुवचनस्य? आहोस्विदुभयोरपि? तत्र प्रथमैकवचनस्य ग्रहणम्। तथा हि--द्वयोरपि सामान्येन ग्रहणं न भवति। यदि स्यात्, सीत्र्येवं ब्राऊयात्। एवं हि सकारादौ कार्यं विधीयमानं तयोद्र्वयोरपि भविष्यति। तस्मादन्यतरस्य ग्रहणम्। तथा हि--`स्यश्छन्दसि बहुलम्` 6|1|129 `सोऽचि लोपे चेत्` 6|1|134 इत्येवमादेर्निर्देशात्? प्रथमैकवचनस्यैव ग्रहण युक्तम्। `हे स, सा` इति। हे शब्दो निपातसमुदायोऽवधारणार्थे वत्र्तते। ननु च त्यदाद्यत्वमत्र बाधकं भविष्यति? नैतदस्ति; अनवकाशा हि विधयो बधका भवन्ति। सावकाशं चात्वम्। कोवकाशः? द्विशब्दः-द्वाविति। सत्यपि तस्मिन्नवकाशे यद्यपि सकरस्याप्यनन्त्योवकाशः, तथाप्यन्तस्य परत्वात्? सत्वं स्यात्। ततश्च हे स इत्यत्र `एङ् ह्यस्वात्? सम्बुद्धेः` 6|1|67 इति सोर्लोपो न स्यात्। तत्र हल्ङ्यादिलोपे कृते रुत्वविसर्जनीययोः कृतयोरनिष्टं रूपं स्यात्। सेत्यत्र तु `अजाद्यतष्टाप्` 4|1|4 इति स्त्रियां टाब्न स्यात्। तस्मात्? `अनन्त्ययोः` इति वक्तव्यम्॥
सौ, इति प्रथमैकवचनस्य ग्रहणम्, न सप्तमीबहुवचनस्य, स्यश्च्छन्दसि, सोऽचि लोपे चेत् इत्यादिनिर्देशात् । नाप्युभयोः तथाहि सति सि इत्येव ब्रूयात्, सकारादौ विभक्ताविति । अनन्त्ययोरिति किमिति । विशेषणविशेष्यभावे कामचारात्यदादिषु तकारान्तस्यासम्भावच्च त्यदादिभिस्तदोर्विशेषणादनन्त्ययोस्तावस्तावस्तिद्धम्, अन्त्यस्य तु त्यदाद्यत्वं भविष्यतीति प्रश्नः । अत्वस्य सोरन्यक्ष सावकाशत्वात्सौ परत्वादिदमेव स्यादित्युतरम् । तत्र केवले सौ पुंल्लिङ्गे विशेषाभावात् सम्बुद्धौ, स्त्रियां च प्रत्युदाहृतम् । किमर्थं पुनः तदोः इत्युच्यते, तवर्गग्रहणमेव क्रियेत - तोः सः सावनन्त्यस्य इति नकारस्यापि तर्हि प्राप्नोति तस्मान्नुडचि - अनेषः, तानयम्, अनसाविति । नुयं परादिस्तद्ग्रहणेन गृह्यते ॥
सिद्धान्तकौमुदी
त्यदादीनं तकारदकारयोरनन्त्ययोः सः स्यात्सौ परे । स्यः । त्यौ । त्ये । त्यम् । त्यौ । त्यान् । सः । तौ । ते । परमसः । परमतौ । परमते । द्विपर्यन्तानामित्येव । नेह । त्वम् । नच तकारोच्चारणसामर्थान्नेति वाच्यम् । अतित्वमिति गौणे चरितार्थत्वात् । संज्ञायां गौणत्वे चात्वसत्वे न । त्यद् । त्यदौ । त्यदः । अतित्यद् । अतित्यदौ । अतित्यदः । यः । यौ । ये । एषः । एतौ । एते । अन्वादेशे तु । एनम् । एनौ । एनान् । एनेन । एनयोः 2 ॥
तदोः सः सावनन्त्ययोः - तदोः सः सौ । त्यदादीनामिति । "त्यदादीनामः" इत्यतस्तदनुवृत्तेरिति भावः । तकारदकारयोरिति । सूत्रे तश्च द्चेति विग्रहः । तकारादकार उच्चारणार्थ इति भावः । सः स्यादिति । आदेशेऽपि अकार उच्चारणार्थः । त्यौ इति । सावित्युक्तेर्न सत्वमिति भावः । त्ये इति । सर्वनामत्वाज्जसः शीभाव इति भावः । स्मायादीमप्युपलक्षणमिदम् । त्यं त्यौ त्यान् । त्येन त्याभ्यां त्यैः । त्यस्मै त्याभ्यां त्येभ्यः २ । त्यस्मात् । त्ययोः २ । त्येषां । त्यस्मिन् त्येषु । एवं तद्शब्दः । परमस इति । अत्वादीनामाङ्गत्वात्तदन्तेऽपि प्रवृत्तेरिति भावः । ननु युष्मच्छब्दस्यापि त्यदादित्वात्तस्य प्रथमैकवचने त्वमित्यत्र "तदोः सः सौ" इति सत्वं कुतो न स्यादित्यत आह — द्विपर्यन्तेति । "त्यदादीनामः" इत्यत्र पठितंद्विपर्यन्तानामेवेष्यते॑ इति वार्तिकं "तदोः सः सौ" इत्यत्राप्यनुवर्तते एवेत्यर्थः । ततः किमित्यत आह — नेहेति । इहशब्दविवक्षितमाह — त्वमिति । युष्मच्छब्दस्य द्विशब्दादुपर्येव सर्वादिगणे पाठादिति भावः । ननु "त्वाहौ सौ" इति तकारोच्चारणसामथ्र्यादेव त्वमित्यत्र सत्वं न भवति, अन्यथा "स्वाहौ सौ" इत्येव ब्राऊयात् । अतो द्विपर्यन्तानामित्यनुवृत्तिरिह व्यर्थेत्याशङ्क्य निराकरोति - न चेति । तकारोच्चारणसामथ्र्यादिह सत्वं नेति न वाच्यमित्यन्वयः । अतित्वमिति ।द्विपर्यन्ताना॑मित्यननुवृत्तौत्व॑मित्यत्रापि सत्वं स्यात् । न च "त्वाहौ सौ" इति तकारोच्चारणानर्थक्यं, त्वामतिक्रान्तोऽतित्वमिति गौणे युष्मच्छब्दस्य त्वादेशे त्वाहाविति तकारोच्चारणस्य लब्धप्रयोजनत्वादित्यर्थः । नच अतित्वमित्यत्रापि सत्वप्रवृत्तेर्दुर्वारत्वात्त्वाहाविति तकारोच्चारणानर्थक्यं दुर्वारमिति वाच्यम्, सत्वस्य सर्वाद्यन्तर्गणकार्यत्वेन गौणे तस्याऽप्रवृत्तेः । अत एवाह-संज्ञायामिति । त्यदिति । कस्यचिन्नामेदम् । अतित्यदिति । त्यमतिक्रान्त इति विग्रहः । य इति । यच्छब्दस्य त्यदाद्यत्वे पररूपत्वे सर्वशब्दवद्रूपाणि । तकाराऽभावान्न सत्वम् । एष इति । एतच्छब्दस्य त्यदाद्यत्वे पररूपत्वे सर्ववदेव रूपाणि । सौ तु तकारस्य सत्वमिति विशेषः । अन्वादेशे त्विति ।द्वितीयाटौस्स्वेनः॑ इत्यस्य एतच्छब्देऽपि प्रवृत्तेरिति भावः ।
तदोः सः सावनन्त्ययोः - तदोः सः सावनन्त्ययोः ।त्यदादीनामः॑ इत्यतोऽनुवर्तनादाह — त्यदादीनामिति । त्यदादीनामिति किम् । आतपः । तारकः । तदोरिति किम् । यः । अनन्त्ययोः किम् । हे स.अत्र परत्वात्त्यदाद्यत्वं बाधित्वा दस्य सकारे सति हल्डआदिना सुलोपे रुत्वविसर्गौ स्याताम्, तथाचहे सः॑इति रूपं सयात् ।किञ्च स्त्रियांस्ति रूपं न स्यात् । यदा त्वन्त्यस्य सकारे जातेऽपि पुनःप्रसङ्गविज्ञानात्त्यदाद्यत्वं सकारस्य स्वीक्रियते, तदा न किंचिदनिष्टमित्यनन्त्ययोरिति त्यक्तुंशक्यम् । यदि तुतदोः सः सा॑ — वित्यस्यानन्तरम्अदस औ सुलोपश्चे॑त्यत्रअदसः॑इति योगं विभज्याऽदस एव दकारस्य सत्वं नान्यस्य दस्ये॑ति नियमः [स्वी]क्रियते, तदा तुसकृद्गता ॑विति न्यायेप्यनन्त्ययोरिति त्यक्तुं शक्यम् । न चैवं द्वावात्मन इच्छतिद्वीयति॑, ततः क्विपिस्व॑इति रूपं नस्यात्, किंतुद्व॑इति रूपं स्यादिति फले भेदान्नियमपक्षो न संभवतीति वाच्यं, — गौणे अत्वसत्वयोरसंभवेद्वी॑रित्यस्यैव रूपस्य न्याय्यत्वादिति मनोरमायामुक्तत्वात् । सौ किम् । तौ ते तं तौ तान् । ननुतोः सः सौ॑इत्येव सूत्रमस्तु, किमनेनतदो॑रिति पृथग्ग्रहणेनेति चेन्मैवम्,अनेष॑इत्यत्र नकारस्य सत्वप्रसङ्गात् ।नलोपो नञः॒॑तस्मान्नडचि॑इत्यजाद्युत्तरपदस्यएष॑इत्यस्य नुङ्विधानेन त्यदादितवर्गत्वान्नतारस्य । न च सत्वे सति नुङ्विधानं व्यर्थमिति वाच्यम्,अनआ॑इत्यादौ सावकाशत्वात् । तथाचतदौ॑रित्येव सूत्रं युक्तम् । ननुतस्मान्नुडची॑ति सूत्रे ॑तस्मादिति पदं परित्यज्य लाङवात्नुगची॑त्येवोच्यतां, तथाच अजाद्युत्तरपदे परे नञ एव नुगागम इत्यनेष इत्यत्रनोक्तदोष इति चेत्ेवं तर्हिनलोपः प्रातिपदिकान्तस्ये॑ति सूत्रे पञ्चम्यन्तमावश्यकमेव टिदनुबन्धश्चेति ।तदो॑रिति सूत्रे तोरिति वक्तुमशक्यम् ।अने,॑इत्यत्रोक्तदोषात् । अत्र कैयटः — ॒तो॑ — रित्युक्तेऽप्यनेष इत्यत्र सत्वं न भवेत्, नुडागमस्य पदद्वयाश्रितत्वेन बहिरङ्गत्वादन्तरङ्सत्वद्दष्टआ असिद्धत्वादिति । उत्ररपदाधिकारस्थाकार्ये बहिरङ्गपरिभाषाऽभावस्यइच एकाचोऽम् — ॑इत्यत्र भाष्ये उक्तत्वादयं कैयटश्चिन्त्यः । गौणेचरितार्थत्वादिति । गौणे हि अन्तर्गणकार्यत्वात्सत्वं न प्रवर्तते ।स्वाहौ सा॑वित्युक्ते तुअतिस्व॑मिति स्यादिति भावः । अत्वसत्वे नेति । तयोः सर्वाद्यन्तर्गणकार्यत्वादिति भावः ।अतित्यदिति । त्यमतिकान्तोऽतित्यद् ।
लघुसिद्धान्तकौमुदी
त्यदादीनां तकारदकारयोरनन्त्ययोः सः स्यात्सौ। स्यः। त्यौ। त्ये॥ सः। तौ। ते॥ यः। यौ। ये॥ एषः। एतौ। एते॥
महाभाष्यम्
तदोः सः सावनन्त्ययोः किमर्थमनन्त्ययोरित्युच्यते ? ।। अन्त्ययोर्मा(2) भूदिति ।। नैतदस्ति प्रयोजनम्, अत्वमन्त्ययोर्बाधकं भविष्यति ।। अनवकाशा विधयो बाधका भवन्ति, सावकाशं चाऽत्वम् ।। कोऽवकाशः ? ।। द्विशब्दः ।। सत्वमपि सावकाशम् ।। कोऽवकाशः ? ।। अनन्त्यः(3) । कथं पुनः सत्यन्त्येऽनन्त्यस्य(1) सत्वं स्यात् ? ।। भवेद्यस्तकारदकाराभ्यामङ्गं विशेषयेत्तस्याऽनन्त्ययोर्न स्याद्वयं तु खल्वङ्गेन तकारदकारौ विशेषयिष्यामः(2) ।। एवमप्युभयोः सावकाशयोः परत्वात्सत्वं प्राप्नोति ।। किं च स्याद्यद्यन्तयोः(3) सत्वं स्यात् ? ।। इह हे स इति; एङ्ह्रस्वादिति संबुद्धिलोपो न स्यात् । इह च या सा ; अत इति डाब्न स्यात् । तस्मादनन्त्ययोरिति वक्तव्यम् ।। न वक्तव्यम् ।। एवं वक्ष्यामि(4) ‐ तदोः सः सौ । ततो ऽदसः । अदसश्च दकारस्य सो भवतीति ।। इदमिदानीं किमर्थम् ? ।। नियमार्थम् ‐ अदस एव दकारस्य नान्यस्य दकारस्येति ।। यदि नियमः क्रियते ‐ द्वीयतेरप्रत्ययो(5) द्व इति प्राप्नोति स्व इति चेष्यते ।। यथालक्षणमप्रयुक्ते ।। (तदोः स सौ)