Page loading... Please wait.
7|2|103 - किमः कः
॥ तस्मै पाणिनये नमः ॥
7|2|103
SK 342
किमः कः   🔊
सूत्रच्छेदः
किमः (षष्ठ्येकवचनम्) , कः (प्रथमैकवचनम्)
अनुवृत्तिः
विभक्तौ  7|2|84 (सप्तम्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
किमः कः विभक्तौ
सूत्रार्थः
किम्-शब्दस्य विभक्ति-प्रत्यये परे "क" आदेशः भवति ।
"किम्" अस्य सर्वनामशब्दस्य विभक्तिसंज्ञके परे "क" इति आदेशः भवति । अनेकाल् शित् सर्वस्य 1|1|55 इति अयं सर्वादेशः । यथा -

1) किम् + सुँ [प्रथमैकवचनस्य प्रत्ययः । सुँ-प्रत्ययस्य सुपः 1|4|103 इति विभक्तिसंज्ञा ।]
→ क + सुँ [किमः कः 7|2|103 इति "क" आदेशः]
→ कः [विसर्गनिर्माणम्]

2) किम् + दा [सर्वैकान्यकिंयत्तदः काले दा 5|3|15 इति दा-प्रत्ययः । प्राग्दिशो विभक्तिः 5|3|1 इति विभक्तिसंज्ञा]
→ क + दा [किमः कः 7|2|103 इति "क" आदेशः]
→ कदा

स्मर्तव्यम् - किम्-सर्वनाम्नः अव्ययसर्वनाम्नामकच्प्राक्टेः 5|3|71 इत्यनेन अकच्-प्रत्यये कृते "ककिम्" इति प्रातिपदिकस्य विषये अपि वर्तमानसूत्रस्य प्रसक्तिः अस्ति । यथा -
किम् + अकच् + सुँ [अव्ययसर्वनाम्नामकच्प्राक्टेः 5|3|71 इत्यनेन अकच्-प्रत्ययः, प्रथमैकवचनस्य "सुँ" प्रत्ययः]
→ ककिम् + सुँ
→ क + सुँ [किमः कः 7|2|103 इति "क" आदेशः]
→ कः
One-line meaning in English
The word किम् is converted to "क" in presence of a विभक्ति प्रत्यय.
काशिकावृत्तिः
किम् इत्येतस्य कः इत्ययम् आदेशो भवति विभक्तौ परतः। कः, कौ, के। साकच्कस्य अप्ययम् आदेशो भवति, तेन अकार एव किमो न विधीयते किमो ऽत् 5|3|12 इति।
अथाकार एव किमः कस्मान्न विधीयते, एवं हि लघु सूत्रं भवति, अकारो हि प्रकृतोऽनुवत्र्तत इति, तत्रैवं सुत्रं कत्र्तव्यम्, `किमोऽत्` इति? अत आह--`साकच्कस्यादेशो भवति` इति। तेनाकारः किमो न विधीयते` इति। अयं ह्रादेशः `तन्मध्यपतितस्तद्ग्रहणेन गृह्रते` (व्या।पा।21) अकचश्च किम्ग्रहणेन ग्रहणात्? साकच्कस्यापि भवति; तेनाकार एव किमः स्थाने न विधीयते। यदि हि विधीयेत, तदाऽनकच्कस्यादेशे कृते यश्चादकचि कक इत्यनिष्टं रूपं स्यादित्यभिप्रायः। कथं पुनः किमोऽत्त्वे कृते क इति भवति, यावता मकारस्यात्त्वे कृते सतकारस्य यणादेशे कृते क्य इति स्यात्? नैष दोष; इकारस्यापि ह्रत्त्वं विधीयते, यदिह पूर्वसूत्रात्? `अः` इत्यनुवत्र्तते। नालोऽन्त्यस्यात्वं भवति यत्? पुनरिहाकारग्रहणं क्रियते। तेन `अनन्त्यविकारेऽन्त्यसदेशस्य` (व्या।प।63) इतीकारसय, तत्र द्वयोरकारयोः परपूर्वत्वे क इति सिद्धम्। क्यचित्? पाठः `इमः` इति। तत्रायं पूर्वपक्षः--अथाकार एवेमः कस्मान्न विधीयते? लघु ह्रेवं सूत्रं भवति; प्रकृतस्याकारस्येहानुवृत्तेः, तत्रैवं तावत्? सूत्रं कत्र्तव्यम्--`इमः` इति। न चैवं सति `तिम ष्टिम आद्रीभावे` (धातुपाठः-1123,1124) इत्यस्य क्विबन्तस्य तीन्, तिमौ, तिम इत्यत्रापि प्रसज्येत, त्यदादिभिरिमो विशेषणात्--त्यदादीनां य इमिति? न; `दश्च` 7|2|109 इति मत्वे कृत इदम इमौ इम इत्यत्रापि प्रसज्येत। लक्षणप्रतिपदोक्तपरिभाषया (व्या।प।3) नापीम इत्युचयमाने `अलोऽन्त्यस्य` 1|1|51 इति प्रसज्येतेत्याशङ्कनीयम्, यस्मान्नानर्थकेऽलोन्त्यविधिः (व्या।प।62)? इत्यत आह--`साकच्कस्यापि` इत्यादि। पूर्व एव पाठः साधुतरः। इतरत्र तु पाठ उत्तरसूत्रेण क्वादेश इमः कृते द्वयोः ककारयोश्च संयुक्तयोः श्रवणं प्रसज्येत, तच्चानिष्टम्॥
तेनाकार एव किमो न विधीयत इति । कथं पुनरकारविधाने कः इत्यादिरूपसिद्धिः, यावतान्त्यस्य प्राप्नोति, न चान्त्यस्य पूर्षेण सिद्धः, द्विपर्यन्तास्त्यदादयः इत्युक्तत्वात् अपरे पुनरेतच्चोद्यभयादेवं पठन्ति - तेनाकार एव इमो न विधीयत इति । अयमर्थः - इमः इत्येतावत्सूत्रमस्तु, त्यदादीनामः इत्येव त्यदादीनां सम्बन्धिन इमोऽकारो भवति तत्र नानर्थकेऽलेन्त्यविधिः इति सर्वस्यैवेमोऽकारो भवति । तेषामेवं पठतामुतरत्र किमो ग्रहणं कर्तव्यम् न कर्तव्यम् उति होः इति वक्ष्यामि इमः इत्येव्र, ततो वाति इमः इत्येव, इमो वकारादेशो भवति । तस्मात्साकच्कार्थमेव कादेशो विहितः ॥
सिद्धान्तकौमुदी
किमः कः स्याद्विभक्तौ । अकच्सहितस्याप्ययमादेशः । कः । कौ । के । कम् । कौ । कान् । इत्यादि सर्ववत् ॥
किमः कः - तस्य विशेषमाह-किमः कः । विभक्ताविति । "अष्टन आ विभक्तौ" इत्यतस्तदनुवृत्तेरिति भावः । ननु "इमः" इत्येव सूत्र्यतां । "त्यदादीनाम" इत्यनुवृत्तौ त्यदादीनामिमोऽकारः स्यादित्यर्थलाभात् ।द्विपर्यन्ताना॑मिति तु न सम्बध्यते, द्विपर्यन्तेषु त्यदादिषु इमोऽसम्भवात् । एवं च किंशब्दे "इम्" इत्यस्य स्थाने अकारे सति "क" इत्यदन्तत्वं सिध्यति । नचअलोऽन्त्यस्ये॑ति किंशब्दे इमोमकारस्यैव अकारः स्यात् । ततश्च इकारस्य यणि क्य इति स्यादिति वाच्यम्,नानर्थकेऽलोन्त्यविधिः॑ इति निषेधेन अलोऽन्त्यपरिभाषाया अप्रवृत्तौ इमः कृत्स्नस्य स्थाने अकारे सति "क" इत्यस्य सिद्धेरित्यत आह-अकच्सहितस्येति । त्यदादेरिमोऽकारविधौअव्ययसर्वनाम्ना॑मिति किंशब्दस्य अकचि कृते ककिमिति स्थिते इमोऽकारे कृते "कक" इति रूपं स्यात् । "किमः कः" इत्युक्तौ तु साकच्कस्यापि किंशब्दस्यतन्मध्यपतितस्तद्ग्रहणेन गृह्रते॑ इति न्यायेन किंशब्दत्वात्तस्य कादेशे सति "क" इत्येव रूपं सिध्यतीति भावः । अत्र त्यदादीनामित्यनुवर्त्त्य वचनविपरिणामेन त्यदादेः किमः क इति व्याख्येयम् । अतः सर्वाद्यन्तर्गणकार्यत्वादुपसर्जनत्वे कादेशो न भवति । एवं च विभक्त्युत्पत्तौ कादेशे सर्वशब्दवद्रूपाणीत्याह-कः कावित्यादि । मारुते वेधसि ब्राध्ने पुंसि कः, कं शिरोऽम्बुनोः॑ इत्यमरः । तत्र कशब्दस्य किंशब्दत्वाऽभावान्न सर्वनामत्वम् । वेधसि तु किंशब्दोऽप्यस्ति । तस्य सर्वनामत्वमस्ति नास्तीति पक्षद्वयं "कस्येत्" इति सूत्रे भाष्ये स्थितम् । कायं हविरित्यत्र यदि किमः कादेशो, यदि वा शब्दान्तरम्, उभयथापिकस्मा अनुब्राऊही॑ति भवितव्यम् । सर्वस्य सर्वनामसंज्ञा । सर्वश्च प्रजापतिः । प्रजापतिश्च कः । अपर आह — उभयथापि कायानुब्राऊहीत्येव संज्ञैषा तत्रभवत इति ।
किमः कः - किमः कः ।कायतोर्डिमि॑रिति डिमिप्रत्यये निष्पन्नः किंशब्दः । विभक्ताविति ।अष्टन आ विभक्ता॑वित्यतोऽनुवर्तत इति बावः । नन्वत्र॒इमः॑इत्येव सूत्र्यताम्स तेन तिमष्ठिमादीनां क्विबन्तानामतिप्रसङ्गवारणाय त्यदादीनामित्यनुवर्त्त्यत्यदादीनामिमः अः स्या॑दिति व्याख्यास्यते द्विशब्दात्प्राक्कशब्दस्य पाठः कर्तव्यः ।नानार्थके॑इति निषेधादारम्भसामथ्र्याच्चालोन्त्यविधिर्न भविष्यति, तत्क कादेशेनेत्यत आह — अकच्सहितस्यापीति । इमोऽकारविधौ तु साकच्कस्यकक॑इति रूपं स्यादिति भावः । नन्वेवं गणकार्यत्वाऽभावादुपसर्जनत्वेऽपि स्यात्, मैवम्,त्यदादीना॑मित्यनुवर्त्त्य॒त्यदादीनां किम॑इति व्याख्यानात् ।
लघुसिद्धान्तकौमुदी
किमः कः स्याद्विभक्तौ। कः। कौ। के इत्यादि। शेषं सर्ववत्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.