Page loading... Please wait.
7|2|102 - त्यदादीनामः
॥ तस्मै पाणिनये नमः ॥
7|2|102
SK 265
त्यदादीनामः   🔊
सूत्रच्छेदः
त्यदादीनाम् (षष्ठीबहुवचनम्) , अः (प्रथमैकवचनम्)
अनुवृत्तिः
विभक्तौ  7|2|84 (सप्तम्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
त्यदादीनाम् अङ्गस्य विभक्तौ अः
सूत्रार्थः
त्यदादिगणस्य शब्दानाम् विभक्तिप्रत्यये परे अकारादेशः भवति ।
"त्यदादिगणः" नाम कश्चन गणः अस्ति । अस्मिन् गणे अष्ट शब्दाः समाविश्यन्ते - त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि । एतेषाम् सर्वेषाम् शब्दानाम् विभक्तिप्रत्यये परे अङ्गस्य अकारादेशः भवति । अलोऽन्त्यस्य 1|1|52 इत्यनेन अयम् अन्त्यादेशः भवति । कानिचन उदाहरणानि एतानि -

1. त्यद् + टा [तृतीया-एकवचनस्य प्रत्ययः]
→ त्यद् + इन [त्यदादीनामः 7|2|102 इत्यनेन त्यद्-इत्यस्य दकारस्य अकारादेशः]
→ त्य अ + इन [अतो गुणे 6|1|97 इति अकार-अकारयोः पररूपः अकारः]
→ त्य + इन [अतो गुणे 6|1|97 इति अकार-अकारयोः पररूपः अकारः]
→ त्येन [आद्गुणः 6|1|87 इति गुण-एकादेशः]

2. तद् + ङे [चतुर्थी-एकवचनस्य प्रत्ययः]
→ तद् + स्मै [सर्वनाम्नः स्मै 7|1|14 इति ङे-प्रत्ययस्य स्मै-आदेशः]
→ त अ स्मै [त्यदादीनामः 7|2|102 इत्यनेन तद्-इत्यस्य दकारस्य अकारादेशः]
→ तस्मै [अतो गुणे 6|1|97 इति अकार-अकारयोः पररूपः अकारः]

3. यद् + जस् [प्रथमा/बहुवचनस्य प्रत्ययः]
→ य अ +जस्[त्यदादीनामः 7|2|102 इत्यनेन यद्-इत्यस्य दकारस्य अकारादेशः]
→ य + जस् [अतो गुणे 6|1|97 इति अकार-अकारयोः पररूपः अकारः]
→ य + इ [जसः शी 7|1|17 इति शी-आदेशः]
→ ये [आद्गुणः 6|1|87 इति गुण-एकादेशः]

4. एतद् + भ्याम् [तृतीया-चतुर्थी-पञ्चमी-द्विवचनस्य प्रत्ययः]
→ एत अ भ्याम् [त्यदादीनामः 7|2|102 इत्यनेन एतद्-इत्यस्य दकारस्य अकारादेशः]
→ एत भ्याम् [अतो गुणे 6|1|97 इति अकार-अकारयोः पररूपः अकारः]
→ एताभ्याम् [सुपि च इति अकारस्य आकारः]

5. इदम् + भ्यस् [चतुर्थी-पञ्चमीबहुवचनस्य प्रत्ययः]
→ अम् + भ्यस् [<हलि लोपः>> 7|2|113 इति "इद्" इत्यस्य लोपः]
→ अ अ भ्यस् [त्यदादीनामः 7|2|102 इत्यनेन इदम्-इत्यस्य मकारस्य अकारादेशः]
→ अ भ्यस् [अतो गुणे 6|1|97 इति अकार-अकारयोः पररूपः अकारः]
→ ए भ्यस् [बहुवचने झल्येत् 7|3|103 इति अकारस्य एकारः]
→ एभ्यः [विसर्गनिर्माणम्]

6. अदस् + औ / औट् [प्रथमा/द्वितीया-द्विवचनस्य प्रत्ययः]
→ अद अ + औ / औट् [त्यदादीनामः 7|2|102 इत्यनेन अदस्-इत्यस्य सकारस्य अकारादेशः]
→ अद + औ / औट् [अतो गुणे 6|1|97 इति अकार-अकारयोः पररूपः अकारः]
→ अदौ [प्रथमयोः पूर्वसवर्णः 6|1|102 इति पूर्वसवर्णदीर्घे प्राप्ते नादिचि 6|1|103 इति तस्य निषेधः । अतः वृद्धिरेचि 6|1|88 इति वृद्धि-एकादेशः]
→ अमू [अदसोऽसेर्दादु दो मः 8|2|80 इति औकारस्य ऊकारः, दकारस्य च मकारः]

7. एक-शब्दस्य विषये अनेन सूत्रेण अकारस्य अकारादेशः एव विधीयते, अतः अस्य सूत्रस्य एक-शब्दस्य विषये किमपि प्रयोजनम् नास्ति ।

8. द्वि + ओस् [षष्ठी-सप्तमी-द्विवचनस्य प्रत्ययः]
→ द्व् अ + ओस् [त्यदादीनामः 7|2|102 इत्यनेन द्वि-इत्यस्य इकारस्य अकारादेशः]
→ द्वे +ओस् [ओसि च 7|3|104 इति ओकारादेशः]
→ द्वयोस् [एचोऽयवायावः 6|1|78 इति अय्-आदेशः]
→ द्वयोः [विसर्गनिर्माणम्]

ज्ञातव्यम् -

1. त्यदादिगणः वस्तुतः सर्वादिगणस्य एकः उपगणः अस्ति । अतः एतेषाम् शब्दानाम् सर्वनामसंज्ञा भवति चेदेव अस्य सूत्रस्य प्रयोगः भवति, न अन्यथा । यथा, कस्यचन व्यक्तेः नाम "त्यद्" इति अस्ति चेत् तस्य रूपाणि "त्यद् त्यदौ त्यदः" एतादृशानि एव भवन्ति ।

2. समस्तपदे त्यदादिगणस्य शब्दः प्रधानः अस्ति चेदेव अस्य सूत्रस्य प्रयोगः भवति, उपसर्जनः (=अप्रधानः) अस्ति चेत् न भवति । यथा -
अ) परमश्च तत् = "परमतद्" अस्मिन् समस्तपदे "तद्" इति प्रधानपदम् अस्ति, अतः अस्य रूपेषु वर्तमानसूत्रस्य प्रयोगं कृत्वा तद्-शब्दवदेव प्रक्रिया जायते - परमसः, परमतौ, परमते ।
आ) द्वौ अतिक्रान्तः = अतिद्वि । अत्र द्वि-शब्दः अप्रधानः अस्ति, अतः अत्र वर्तमानसूत्रस्य प्रयोगः न भवति, मुनि-शब्दवदेव रूपाणि जायन्ते । यथा - अतिद्विः, अतिद्वी, अतिद्वयः ।

3. प्राग्दिशो विभक्तिः 5|3|1 अनेन सूत्रेण केषाञ्चन तद्धित-प्रत्ययानाम् अपि विभक्तिसंज्ञा भवति । तेषां विषये अपि अस्य सूत्रस्य प्रसक्तिः अस्ति । यथा -
यद् + त्रल् [सप्तम्यास्त्रल् 5|3|10 इति त्रल-प्रत्ययः । प्राग्दिशो विभक्तिः 5|3|1 इति अस्य विभक्तिसंज्ञा]
→ य अ त्रल् [त्यदादीनामः 7|2|102 इत्यनेन यद्-इत्यस्य दकारस्य अकारादेशः]
→ यत्र [अतो गुणे 6|1|97 इति अकार-अकारयोः पररूपः अकारः]

4. सर्वनामशब्दानाम् अव्ययसर्वनाम्नाम् अकच् प्राक्टेः 5|3|71 अनेन सूत्रेण स्वार्थे "अकच्" प्रत्ययः विधीयते । अयं प्रत्ययः सर्वनामशब्दस्य "टि"-संज्ञकात् पूर्वम् आगच्छति । अस्मिन् प्रत्यये परे यत् प्रातिपदिकम् जायते, तस्यापि अनेन सूत्रेण अकारादेशः भवति । यथा, इदम्-शब्दात् "अकच्" प्रत्यये परे "इदकम्" इति प्रातिपदिकं सिद्ध्यति । तस्य तृतीयैकवचनस्य प्रक्रिया इयम् -
इदकम् + टा [तृतीयैकवचनस्य प्रत्ययः]
→ इदक अ + आ [त्यदादीनामः 7|1|102 इति मकारस्य अकारः]
→ इदक + आ [त्यदादीनामः 7|1|102 इति मकारस्य अकारः]
→ इमक + आ [दश्च 7|2|109 इति दकारस्य मकारादेशः]
→ इमक + इन [टाङसिङसामिनात्स्याः 7|1|12 इति टा-इत्यस्य इन-आदेशः]
→ इमकेन [आद्गुणः 6|1|87 इति गुण-एकादेशः]
One-line meaning in English
The words of त्यदादिगण get an अकारादेश when followed by a विभक्तिप्रत्यय.
काशिकावृत्तिः
त्यदित्येवम् आदीनाम् अकारादेशो भवति विभक्तौ परतः। त्यद् स्यः, त्यौ, त्ये। तद् सः, तौ, ते। यद् यः, यौ, ये। एतद् एषः, एतौ, एते। इदम् अयम्, इमौ, इमे। अदस् असौ, अमू, अमी। द्वि द्वौ। द्वाभ्याम्। द्विपर्यन्तानां त्यदादीनामत्वमिष्यते। इह न भवति, भवत् भवान्। संज्ञोपसर्जनीभूताः त्यदादयः पाठादेव पर्युदस्ताः इति इह न भवति, त्यद्, त्यदौ, त्यदः। अतित्यद्, अतित्यदौ, अतित्यदः। त्यदादिप्रधाने तु शब्दे भवत्येव, परमसः परमतौ, पर्मते।
`स्यः` इति। `तदोः सः सावनन्त्ययोः` 7|2|106 इति तकारस्य सकारः। `त्यः` इति। `जसः सी` 7|1|17 इति शीभावः, `आद्गुणः` 6|1|84 । `इमौ` इति। `दश्च` 7|2|109 इति मत्वम्। `असौ` इति। `अदस औ सुलोपश्च` 7|2|107 । `अमू` इति। `अदसोऽसेर्दादु दो मः` 8.2.80) इति मत्वोत्वे, `प्रथमयोः पूर्वसवर्णः` 6|1|98 इति दीर्घः। `अमी` इति। `एत ईद्बहुवचने` 8|2|81 इतीत्त्वम्। अथेह कस्मान्न भवति--भवानिति? अत आह--`द्विपर्यन्तानाम्` इत्यादि। एतच्च `शेषे लोपः` 7|2|90 इत्यत्र प्राग्वि ज्ञापितम्। `भवान्` इति। `उगिदचाम्` 7|1|70 इति नुम्, `अत्वसन्तस्य चाधातोः` 6|4|14 इति दीर्घः। अथेह संज्ञोपसर्जनीभूतानामपि कस्मान्न भवति त्याददौ--त्यद्? अतिस्यद्, अतित्यदः? इत्यत आह--`संज्ञोपसरजनीभूताः` इत्यादि। सर्वाद्यन्तःपातिनस्त्यदादयः। सर्वादयश्चासंज्ञीभूता अनुपसर्जनीभूतश्च पठन्ते। तथा हि--तेषां `सर्वनामानि` 1|1|27 इति महत्याः संज्ञायाः करणस्यैतत्? प्रयोजनम्--सर्वेषां नामभूतानां संज्ञा यथा स्यात्। ये तु कस्याचिदेव संज्ञाभूता उपसर्जनीभूताश्च, तेषां मा भूदिति। तस्मात्? संज्ञोपसर्जनीभूतास्त्यदादयः पाठादेव पर्युदस्ताः, त्यदादिभ्यो बहिष्कृता इत्यर्थः। तस्मादत्यदादित्वात्? तेषां न भवति त्यदादिकार्यम्। `त्यदादिप्रधाने शब्दे तु भवत्येव` इति। त्यदादयः प्रधाना यस्मिन्? शब्दे स त्यदादिप्रधानः, तत्र भवत्येवात्त्वम्; तस्य पाठापदर्युदस्तत्वात्। अपर्युदस्तत्वं तु सर्वनामसंज्ञायस्तदन्तविधेः सर्वादेरभ्युपगमात्॥
द्विपर्यन्ता इत्यादि । इष्टिरेवेयम् । यतूच्यते - शेषेलोपवचनं ज्ञापकमिति, तदयुक्तम्, उपसर्जनार्थत्वादतियूयमतिवयमिति । यदा तु शेषे लोपष्टिलोपस्तदा तु सुतरामज्ञापकम् । पाठादेव पर्युदस्ता इति । तथा च सर्वादिसूत्रे वार्तिकम् संज्ञोपसर्जनानां प्रतिषेधः पाठात्पर्युदासः इति ए। तेन पाठोपजीवनेन प्रवर्तमानमिदमपि संज्ञोपसर्जनीभूतानां न भवति । त्यदादीति । त्यादादीनामर्थः प्रधानं यत्र समासे तत्रेत्यर्थः । न हि ते पाठात्पर्युदस्ताः ॥
सिद्धान्तकौमुदी
एषामकारोऽन्तादेशः स्याद्विभक्तौ ॥द्विपर्यन्तानामेवेष्टिः (वार्तिकम्) ॥ द्वौ 2 । द्वाभ्याम् 3 । द्वयोः 2 । द्विपर्यन्तानां किम् । भवान् । भवन्तौ । भवन्तः । संज्ञायामुपसर्जनत्वे च नात्वम् । सर्वाद्यन्तर्गणकार्यत्वात् । द्विर्नाम कश्चित् । द्विः । द्वी । द्वावतिक्रान्तोऽतिद्विः । हरिवत् । प्राधान्ये तु परमद्वावित्यादि ॥ औडुलोमिः । औडुलोमी । बहुवचने तु उडुलोमाः ॥ ।लोम्नोऽपत्येषु बहुष्वकारो वक्तव्यः (वार्तिकम्) ॥ बाह्वादीञोऽपवादः । औडुलोमिम् । औडुलोमी । उडुलोमान् ॥ इतीदन्ताः ॥ वातप्रमीरित्युणादिसूत्रेण माङ ईप्रत्ययः स च कित् । वातं प्रमिमीते वातप्रमीः । दीर्घज्जसि च । वातप्रम्यौ । वातप्रम्यः । हे वातप्रमीः । अमि पूर्वः (कौमुदी-194) । वातप्रमीम् । वातप्रम्यौ । वातप्रमीन् । वातप्रम्या । वातप्रमीभ्याम् 3 । वातप्रम्ये । वातप्रम्यः 2 । वातप्रम्योः 2 । वातप्रम्याम् । दीर्घत्वान्न नुट् । ङौ तु सवर्ण दीर्घः । वातप्रमी । वातप्रमीषु । एवं ययीपप्यादयः । यान्त्यनेनेति ययीर्मार्गः । पाति लोकमिति पपीः सूर्यः । यापोः किद्द्वे च उ. (कौमुदी-439)इति ईप्रत्ययः । क्विबन्तवातप्रमीशब्दस्य तु अमि शसि ङौ च विशेषः । वातप्रम्यम् । वातप्रम्यः । वातप्रम्यि । एरनेकाचः (कौमुदी-272) इति वक्ष्यमाणो यण् प्रधीवत् । बह्वयः श्रेयस्यो यस्य स बहुश्रेयसी । दीर्घङ्यन्तत्वात् हल्ङ्याब् (कौमुदी-252)इति सुलोपः ॥
त्यदादीनामः - द्वि-औ इति स्थिते- । त्यदादीनामः ।अष्टन आ विभक्ता॑वित्यतो विभक्तावित्यनुवर्तते । एषामिति । त्यदादीनामित्यर्थः । त्यदादिर्येषामिति विग्रहः । "अन्तादेशः" इत्यलोऽन्त्यपरिभाषालभ्यः । विभक्तौ किम् । तत्फलम् ।स्वमोर्नपुंसका॑दिति लुकि अत्वं न । द्विपर्यन्तानामिति । सर्वादिगणे ये त्यदादयः पठितास्तेषामिह द्विपर्यन्तानामेव ग्रहणे भाष्यकारस्येच्छत्यर्थः । द्विशब्दस्य द्विवचनेषु परतोऽत्वे कृते रामशब्दवद्रूपाणीत्याह-द्वावित्यादि । द्विपर्यन्तानामिति किमिति । युष्मदस्मदोरात्वयवत्वयलोपैर्बाधात्, किमः कादेशविधानाच्च तेषां त्यदादिष्वन्तर्भावेऽपि न दोष इति प्रश्नः । भवान् भवन्ताविति । भवत्-सिति स्थितेउगिदचा॑मिति नुमि हल्ङ्यादिलोपे संयोगान्तलोपेअत्वसन्तस्य चे॑ति दीर्घेभवा॑निति रूपम् । द्विपर्यन्ताना॑मित्यभावे तु भवत्-सिति स्थिते तकारस्य त्वे कृते "अतो गुणे" इति पररूपेउगिदचा मिति नुमि "सर्वनामस्थाने" इति दीर्घे सुलोपे नलोपे "भवा" इति स्यात् । तथा॒भवत्-औ॑ इति स्थिते पूर्ववत्तकारस्याऽत्वे नुमि दीर्घे चभवाना॑विति स्यादिति भावः । अथ यदुक्तंसंज्ञो पसर्जनीभूतानां सर्वादिगणकार्यमन्तर्गणकार्यं च न भवती॑ति तत्स्मारयति — संज्ञायामित्यादिना । द्विर्नामेति ।नामे॑त्यव्ययं प्रसिद्धौ ।द्वि॑रिति प्रसिद्धः कश्चिदित्यर्थः । अत्र च संज्ञाभूतस्य द्विशब्दस्य एकद्विबहुवचनानि सन्ति, एकद्वित्र्यादिष्वपि द्विसंज्ञकत्वसंभवादित्यभिप्रेत्य आह — द्विः द्वी द्वय इति । अतिद्विरिति । "अत्यादयः" इति समासः । परमद्वाविति । कर्मधारयोऽयम् । संज्ञोपसर्जनत्वाभावादिहाऽत्वं भवत्येव । आङ्गत्वेन पदाङ्गाधिकारपरिभाषया तदन्तग्रहणादिति भावः । उडूनि नक्षत्राणीव लोमानि यस्य स उडुलोमा । तस्यापत्यमौडुलोभिः ।बाह्वादिभ्यश्चे॑ति इञ् । "नस्तद्धिते" इति टिलोपः । आदिवृद्धि अस्य एकवचनद्विवचनयोः सर्वत्र हरिवद्रूपम् । तदाह औडुलोमिरौड्डलोमी इति । बहुवचने तूडुलोमा इति । ननु तथा रूपं कथं, बाह्वादिगणस्थत्वेन इञः प्रसङ्गादित्यत आह — लोम्नोऽपत्येषु । लोमन्शब्दाद्बहुष्वपत्येषु विवक्षितेष्वकारः प्रत्ययो वक्तव्य इत्यर्थः । बाह्वादीञ इति । बाह्वादिगणाद्विहितस्य इञोऽपवाद इत्यर्थः । "उडुलोमन्-अ" इति स्थिते "नस्तद्धिते" इति टिलोपः । ञ्णित्त्वाऽभावात्कित्त्वाऽभावाच्च नादिवृद्धिः ।उडुलोम॑शब्दोऽकारान्तः । तस्य सर्वत्र बहुवचनेषु रामवद्रूपमिति भावः । इति इदन्तप्रकरणम् । अथेदानीमीकारान्ता निरूप्यन्ते । तत्र वातप्रमीशब्दो द्विधा ।माङ्भाने॑इति धातोरीप्रत्ययान्तः क्विबन्तश्च । तत्र प्रथमं व्युत्पादयति — वातप्रमीरित्यादिना ।कि॑दित्यनन्तरं "निपात्यते" इति शेषः । वातमिति वातमित्युपपदे कर्तरि माङ्धातोरीप्रत्यये कित्त्वात्आतो लोप इटि चे॑त्यल्लोपेउपपदमतिङि॑ति समासे तस्मात्सुबुत्पत्तौवातप्रमी॑रिति प्रथमैकवचनम् । अङ्यन्तत्वान्न सुलोपः । एतदर्थमेव हल्ङ्यादिसूत्रे सत्यपि दीर्घग्रहणे ङीब्ग्रहणमिति भावः । दीर्घादिति । वातप्रमी-औ इति स्थितेदीर्घाज्जसि चे॑ति पूर्वसवर्णदीर्घे निषिद्धेइको यणची॑ति यणि वातप्रम्याविति रूपमित्यर्थः । हे वातप्रमीरिति । दीर्घान्तत्वात् । "ह्यस्वस्य गुणः" इति न । अमीति । वातप्रमी — अम् इति स्थिते "अमि पूर्वः" इति पूर्वरूपेवातप्रमी॑मिति रूपमित्यर्थः । "एरनेकाचः" इति यण्तु न, ईप्रत्ययान्तस्य धातुत्वाऽभावात् । वातप्रमीनिति । पूर्वसवर्णदीर्घे "तस्माच्छसः" इति नत्वम् । वातप्रम्येति । अघित्वात् "आङो नाऽस्त्रिया" मिति नाभावस्याऽभावे यण् । वातप्रम्ये इति अघित्वान्हेङसिङस्सुघेर्ङिती॑ति गुणो न । वातप्रम्यामिति । आमि यणादेशे रूपम् । दीर्घत्वान्न नुट्, "ह्यस्वनद्यापः" इति ह्यस्वग्रहणादिति भावः । ङौ त्विति । "वातप्रमी — इ" इति स्थिते परत्वाद्यणादेशं बाधित्वा सवर्णदीर्घेवातप्रमी॑ति रूपम् । अघित्वादिदुदन्तत्वाऽभावाच्चअच्च घे॑रिति,औ॑दिति च न भवति । वस्तुतस्तुईदूतौ च सप्तम्यर्थे॑ इति सूत्रेसप्तम्यन्तमीदूदन्तं लोके नास्ति । अतःसोमो गौरी अधिश्रितः॑ "मामकी तनू" इति वेद एव तदुदाहरण॑मिति भाष्यविरोधाद्वातप्रमी इति सप्तम्यन्तस्य लोके प्रयोगो नेत्यनुमीयत इति शब्देन्दुशेखरे स्पष्टम् । यापोरिति ।पापोः किद्द्वोषेचे॑त्यौणादिकसूत्रम् । याधातोः, पाधातोश्च ईप्रत्ययः स्यात्, सच कित् । प्रकृतिभूतयोस्तयोर्द्वित्वं चेत्यर्थः । कित्त्वादातो लोप इटि चेत्याल्लोपः । अभ्यासह्यस्वः । क्विबन्तवातेति । "माङ् माने" इत्यस्मात्कर्तरि क्विपिघुमास्थे॑तीत्त्वेवातप्रमी॑शब्द इति केचित् । तन्न, "ईत्त्वमवकारादौ" इति वार्तिकविरोधात् ।मीञ् हिंसाया॑मिति मीधातोः क्विपि तुवातप्रमी॑शब्दो निर्बाधः । वक्ष्यमाणो यणिति । अमिपूर्वरूपं, शसि पूर्वसवर्णदीर्घः, ङौ सवर्णदीर्घं च बाधित्वा परत्वात् "एरनेकाचः" इति यण्, ईकारान्तधातुत्वादिति भावः । प्रधीवदिति । प्रकृष्टं ध्यायतीति प्रधीः ।ध्यायतेः संप्रसारणं चे॑ति क्विपि यकारस्य संप्रसारणमिकारः ।संप्रसारणाच्चे॑ति पूर्वरूपम् । "हलः" इति दीर्घः । अस्य च ईकारान्तधातुत्वादमि ङसि ङौ च "एरनेकाचः" इति यणादेशः । बह्वय इति ।बह्वादिभ्यश्चे॑ति ङीष् । श्रेयस्य इति । अतिप्रशस्ता इत्यर्थः ।द्विवचनविभज्योपपदे॑ इति ईयसुन् । "प्रशस्यस्य श्रः" इति श्रः ।उगितश्चे॑ति ङीप् । बहुश्रेयसीति ।स्त्रियाः पुंव॑दिति पुंवत्त्वम् ।गोस्त्रियोरि॑ति ह्यस्ववस्तु न,ईयसोबह#उव्रीहेर्नेति वाच्य॑मिति तन्निषेधात् । बहुश्रेयसी-सिति स्थिते प्रक्रियां दर्शयति — दीर्घङ्यन्तत्वादिति । ननु श्रेयसीशब्द एव ङ्यन्तः, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणात् । नचस्त्रीप्रत्यये न तदादिनियमः॑ इति निषेधान्नेह तदादिनियम इति वाच्यम्, अनुपसर्जन एव स्त्रीप्रत्यये हि न तदादिनियम इति प्रतिषेधः । इह तूपसर्जनन्वात्तदादिनियमोऽस्त्येवेति चेत्, अस्तु श्रेयसीशब्दस्यैव ङ्यन्तत्वम्, नतु बहुश्रेयसीशब्दस्य । तथापि हल्ङ्यादिलोपोऽत्र निर्बाधः । सोङ्र्यन्तात् श्रेयसीशब्दात्परत्वस्याऽनपायात् । नहि॒हल्ङ्याब्भ्य॑ इति विहितविशेषणं, प्रमाणाऽभावात् । या सा केत्यादावव्याप्तेश्च, तत्र सोष्टाबन्ताद्विहितत्वाऽभावात् । नहि॒हल्ङ्याब्भ्य॑इति विहितविशेषणं, प्रमाणाऽभावात् । या सा केत्यादावव्याप्तेश्च, तत्र सोष्टाबन्ताद्विहितत्वाऽभावात्, यत्त्त्किमिति हलन्तेभ्यः सुबुत्पत्तौ त्यदाद्यत्वे सत्येव टापः प्रवृत्तेः । नच तत्र हलन्ताद्विहितत्वेन निर्वाहः शङ्क्यः, यः सः क इत्यादावतिव्याप्तेः, कर्ता सखेत्यादावव्याप्तेश्चेत्यास्तां तावत् ।दीर्घाज्झसि चे॑ति पूर्वसवर्णदीर्घनिषेधे यणि बहुश्रेयस्यौ । बह#उश्रेयस्यः ।
त्यदादीनामः - त्यदादिनामः ।अष्टन आ विभक्तौ॑इत्यतोऽनुवर्तनादाह-विभक्ताविति किम् । तद् ।यद् । सोर्लुका लुप्तत्वात्प्रत्ययलक्षणं न ।द्विपर्यन्तानां किमिति । युष्मदस्मच्छब्दयोरिष्टआभावेऽपि दोषो नास्ति, आत्वयत्वलोपैर्विशेषविहितैरत्वस्य बाधनात् । तथा किंशब्देऽपि न दोषः, किमः कादेशस्य विशिष्टस्य विधानादिति प्रश्नः । भवानिति । भवत्-सु इति स्थिते तकारस्थाने अत्वे कृतेअतो गुणे॑ इति पररूपेउगिदचाम् — — ॑इति नुमि सतिसर्वनामस्थाने॑इत्यनेन दीर्घे सुलोपे नलोपे च सतिभवा॑इति रूपं स्यादिति भावः । भवन्ताविति । पूर्ववत्तकारस्याऽत्वे पररूपे नुमि दीर्घेभवाना॑विति रूपं स्यादिति भावः । उडूनीव लोमानि यस्य तस्यापत्यमौडुलोमिः ।इञोऽपवाद इति । तथा च बहुत्वे अकारान्तोऽयमुडुलोमशब्दः, स औडुलोमिशब्दादन्य एव, तस्य च इकारान्तेषु व्युत्पादनं प्रासङ्गिकमिति बोध्यम् । इति इदन्ताः । किदिति । तेनआतो लोप इटि चे॑ त्यालोप इति भावः । क्विबन्तवातप्रमीति । माङ्धातोः क्किपिईत्त्वमवकारादौ॑इति निषेधादीत्त्वं नेति शङ्क्यायां मीनातेरेव क्किब्बोध्यः । यद्वा ईप्रत्ययान्तवातप्रमीशब्दादाचारक्किबन्तात्कर्तरि क्किबोध्यः । श्रेयस्य इति ।प्रशस्यश्रः॑इतीयसुनि श्रादेशः ।उगितश्चे॑ङीप् । बहुश्रेयसीति ।स्त्रियाः पुंवत् — ॑इति पुंवद्भावः ।ईयसश्चे॑ति न कप् । नाऽप्युसर्जनह्यस्वः,ईयसो बहुव्रीहिर्ने॑ति निषेधात् ।
लघुसिद्धान्तकौमुदी
एषामकारो विभक्तौ। (द्विपर्य्यन्तानामेवेष्टिः)। द्वौ 2। द्वाभ्याम् 3। द्वयोः 2॥ पाति लोकमिति पपीः सूर्यः॥
महाभाष्यम्
त्यदादीनामः ।। त्यदादीनां द्विपर्यन्तानामकारवचनम् ।। त्यदादीनां द्विपर्यन्तानामत्वं वक्तव्यम् ।। किं प्रयोजनम् ? ।। युष्मदस्मदन्तानां भवदन्तानां वा मा भूदिति ।। तत्तर्हि वक्तव्यम् ? ।। न वक्तव्यम् ।। ।। त्यदादीनामकारेण(1) सिद्धत्वाद्युष्मदस्मदोः । शेषे लोपस्य लोपेन ज्ञायते प्राक्ततोऽदिति ।। यदयं त्यदादीनामत्वेन(2) सिद्धे युष्मदस्मदोः शेषे लोपं शास्ति(3) तज्ज्ञापयत्याचार्यः ‐ प्राक्ततोऽत्वं भवतीति, न सर्वेषामिति । ।। अपि वोपसमस्तार्थमत्वाऽभावात्कृतं भवेत् ।। नैतदस्ति ज्ञापकम्, उपसमस्तार्थमेतत्स्यात् ‐ अतियूयम् अतिवयम् । उपसमस्तानां हि त्यदादीनामत्वं नेष्यते, ‐ -अतितत् अतितदौ अतितदः ।। ।। टिलोपष्टाबभावाऽर्थः कर्तव्य इति तत्स्मृतम् ।। यस्तु शेषे लोपष्टिलोपः स वक्तव्यः किं प्रयोजनम् ? ।। टाप्प्रतिषेधार्थम् । टाम्मा भूदिति ।। स तर्हि टिलोपो वक्तव्यः ? ।। न वक्तव्यः । ।। अथ वा शेषसप्तम्या शेषे लोपो विधीयते ।। इह युष्मदस्मदोर्लोप इतीयताऽन्त्यस्य लोपः सिद्धः, सोऽयमेवं सिद्धे सतियच्छेषग्रहणं करोति तस्यैतत्प्रयोजनम् ‐ अवशिष्टस्य लोपो यथा स्यादिति । ।। लुप्तशिष्टे हि तस्याहुः कार्यसिद्धिं मनीषिणः ।। एवं तर्ह्यचार्यप्रवृत्तिर्ज्ञापयति ‐ न सर्वेषां त्यदादीनामत्त्वं भवतीति यदयं ‐ किमः कः इति कादेशं शास्ति । इतरथा हि किमोऽद्भवतीत्येव ब्रूयात् ।। सिद्धे विधिरारभ्यमाणो ज्ञापकार्थो भवति, न च किमोऽत्वेन सिध्यति । अत्वे हि सत्यन्त्यस्य प्रसज्येत ।। सिद्धमन्त्यस्य पूर्वेणैव, तत्रारम्भसार्मथ्यादिकारस्य भविष्यति ।। कुतो नु खल्वेतत् ‐ अनन्त्यार्थ आरम्भे सतीकारस्य भविष्यति न पुनः ककारस्य स्यात् ? ।। यत्तर्हि किमो ग्रहणं करोति । इतरथा हि कादद्भवतीत्येव ब्रूयात् ।। एवमपि ककारमात्रात्परस्य प्राप्नोति ।। त्यदादीनामिति वर्तते, न चाऽन्यत्किमस्त्यदादिषु ककारवदस्ति ।। एवमप्यनैकान्तिकं ज्ञापकम् । एतावन्नु(1) ज्ञाप्यते ‐ न सर्वेषां त्यदादीनामत्वं भवतीति ; तत्र कुत एतद् ‐ द्विपर्यन्तानां भविष्यति न पुनर्युष्मदस्मददन्तानां वा स्याद्भवदन्तानां वा ! ।। किञ्ञ्चाऽवश्यं खल्वप्युत्तरार्थं किमो ग्रहणं कर्तव्यं ‐ कु तिहोः क्वातीति ।। कादेशः खल्वप्यवश्यं साकच्कार्थो वक्तव्यः ‐ कः कौ के इत्येवमर्थम् । तस्माद्विपर्यन्तानामत्त्वं(2) वक्तव्यम् ।। ।। त्यदादीनामकारेण सिद्धत्वाद्युष्मदस्मदोः । शेषे लोपस्य लोपेन ज्ञायते प्राक्ततोऽदिति ।। 1 ।। अपि वोपसमस्तार्थमत्वाऽभावात्कृतं(3) भवेत् । टिलोपष्टाबभावार्थः कर्तव्य इति तत्स्मृतम् ।। 2 ।। अथ वा शेषसप्तम्या शेषे लोपो विधीयते ।। लुप्तशिष्टे हि तस्याहुः कार्यसिद्धिं मनीषिणः ।। 3 ।।