Page loading... Please wait.
7|2|10 - एकाच उपदेशेऽनुदात्तात्‌
॥ तस्मै पाणिनये नमः ॥
7|2|10
SK 2246
एकाच उपदेशेऽनुदात्तात्‌   🔊
सूत्रच्छेदः
एकाचः (पञ्चम्येकवचनम्) , उपदेशे (सप्तम्येकवचनम्) , अनुदात्तात् (पञ्चम्येकवचनम्)
अनुवृत्तिः
इट्  7|2|8 (प्रथमैकवचनम्) , न  7|2|8 (अव्ययम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
उपदेशे अनुदात्तात् एकाचः अङ्गात् इट् न
सूत्रार्थः
यः धातु औपदेशिक-अवस्थायाम् अनुदात्त-एकाच्-अस्ति, तस्मात् परः इडागमः न भवति ।
अनेन सूत्रेण "अनिट्" धातोः व्याख्या दीयते । यस्मिन् धातौ औपदेशिक-अवस्थायाम् (इत्-संज्ञकं स्वरं विहाय) केवलं एकः एव स्वरः अस्ति, स च अनुदात्तः अस्ति, तादृशात् धातोः परः इडागमः न भवति । अतः एतादृशः धातुः "अनिट्" अस्ति इत्युच्यते ।

यथा -
1. डुकृञ् (करणे) इत्यत्र ककारात् परः ऋकारः अनुदात्तः अस्ति । अतः अस्मात् परः इडागमः न भवति । यथा - कृ + तृच् → कर्ता ।
2. वहँ (प्रापणे) इत्यत्र वकारात् परः अकारः अनुदात्तः अस्ति । अतः अस्मात् परः इडागमः न भवति । यथा - वह् + तृच् → वोढः ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
उपदेशे य एकाच् धातुरनुदात्तश्च तस्मादिडागमो न भवति। प्रकृत्याश्रयो ऽयं प्रतिषेधः। के पुनरुपदेशे ऽनुदात्ताः? ये तथा गणे पठ्यन्ते, त एव विस्पष्टार्थम् अनिट्कारिकासु प्रविभक्ताः प्रदर्श्यन्ते। अनिट्स्वरान्तो भवति इति दृश्यतामिमांस्तु सेटः प्रवदन्ति तद्विदः। अदन्तमृ̄दन्तमृतां च वृङ्वृञौ श्विडीङिवर्णेष्वथ शीङ्श्रिञावपि। गुणस्थमूदन्तमुतां च रुस्नुवौ क्षुवं तथोर्णोतिमथो युणुक्ष्णवः। इति स्वरान्ता निपुणं समुच्चितास्ततो हलन्तानपि सन्निबोधत। द्वये एव धातवः, स्वरान्ताः व्यञ्जनान्ताश्च। तत्र सर्वे स्वरान्ताः एकाचः अनुदात्ताः। अवधिष्ट। ऋ̄दन्तम् तरिता, तरीता। ऋतां च वृङ्वृञौ निर्वरिता, निर्वरीता। प्रवरिता, प्रवरीता। श्विडीङिवर्णेष्वथ शीङ्श्रिञावपि श्वयिता। उड्डयिता। शयिता। श्रयिता। गणस्थमूदन्तम् लविता। पविता। उतां च उर्स्नुवौ क्षुवं तथोर्णोतिमथो युणुक्ष्णवः रविता। प्रस्नविता। क्षविता। प्रोर्णविता। वाच्य ऊर्णोर्णुवद्भावो यङ्प्रसिद्धिः प्रयोजनम् इत्यतिदेशादेकाच्त्वम् ऊर्णोतेरस्ति इति उदात्त उपदिश्यते। यविता। नविता। क्ष्णविता। इति स्वरान्ता निपुणं समुच्चितास् ततो हलन्तानपि सन्निबोधत। शकिस्तु कान्तेष्वनिडेक इष्यते घसिश्च सान्तेसु वसिः प्रसारणी। घसिः प्रकृत्यन्तरम् अस्ति घस्ता। वसिः प्रसारणी वस्ता। प्रसारणी इति किम्? वसिता वस्त्राणाम्। वस निवासे इत्यस्य यजादित्वात् संप्रसारणं विहितम्, न तु वस आच्छादने इत्यस्य। सभिस्तु भान्तेष्वथ मैथुने यभिस्ततस्तृतीयो लभिरेव नेतरे। आरब्धा। यब्धा। लब्धा। यमिर्यमन्तेष्वनिडेक इष्यते रमिस्च यश्च श्यनि पठ्यते मनिः। नमिश्चतुर्थो हनिरेव पञ्चमो गमिश्च षष्ठः प्रतिषेधवाचिनाम्। यन्ता। रन्ता। मन्ता। श्यनि इति किम्? मनुतेः मनिता इत्येव भवति। नन्ता। हन्ता। गन्ता। दिहिर्दुहिर्मेहतिरोहती वहिर्नहिस्तु षष्थो दहतिस्तथा लिहिः। इमे ऽनिटो ऽष्टाविह मुक्तसंशया गणेषु हान्ताः प्रविभज्य कीर्तिताः। देग्धा। दोग्धा। मेढा। रोढा। वोढा। नद्धा। दग्धा। लेढा। मुक्तसंशयाः इति किम्? तन्त्रान्तरे चत्वारो ऽपरे पठ्यन्ते। सहिमुहिरिहिलुहयः। तत्र सहेर्विकल्पस्तकारादौ, मुहिरपि रधादौ पठ्यते, तेन तौ ससंशयौ सविकल्पौ। इतरौ तु धातुषु न पठ्येते, कैश्चिदभ्युपगम्येते इति स्वरूपेण एव ससंशयौ। दिशिं दृशिं दंशिमथो मृशिं स्पृशिं रिशिं रुशिं क्रोशतिमष्टमं विशिम्। लिशं च शान्ताननिटः पुराणगाः पठन्ति पाठेषु दशैव नेतरान्। देश्टा। द्रष्ता। दंष्टा। आम्रष्टा, आमर्ष्टा। स्प्रष्टा, स्पर्ष्टा। ऋदुपधानाम् उदात्तोपदेशानां मृजिदृशी वर्जयित्वा अनुदात्तस्य चर्दुपधस्य अन्यतरस्याम् 6|1|59 इति रमागमविकल्पः। रेष्टा। रोष्टा। क्रोष्टा। प्रवेष्टा। लेष्टा। रुधिः सराधिर्युधिबन्धिसाधयः क्रुधक्षुधी शुध्यतिबुध्यती व्यधिः। इमे तु धान्ता दश ये ऽनिटो मतास्ततः परं सिध्यतिरेव नेतरे। रोद्धा। राद्धा। योद्धा। बन्द्धा। साद्धा। क्रोद्धा। क्षोद्धा। शोद्धा। बोद्धा। व्यद्धा। सेद्धा। बुध्यतिसिध्यत्योः श्यना निर्देशात् न्याय्यविकरणयोर् बुद्धिसिध्योरिड् भवत्येव। बोधिता। सिधिता। निष्ठायामापि प्रतिषेधाभावात् बुधितम्, सिधितम् इत्येव भवति। शिषिं पिषिं शुष्यतिपुष्यती त्विषिं विषिं श्लिषिं तुष्यतिदुष्यती द्विषिम्। इमान्। दशैवोपदिशन्त्यनिड्विधौ गणेषु षान्तान् कृषिकर्षती तथा। शेष्टा। पेष्टा। शोष्ट। पोष्टा। त्वेष्टा। वेष्टा। श्लेष्ट। तोष्टा। दोष्टा। द्वेष्टा। क्रष्ट। कर्ष्टा। कृषेस्तौदादिकस्य भौवादिकस्य च कृषिकर्षती इति निर्देशः। तपिं तिपिं चापिमथो वपिं स्वपिं लिपिं लुपिं तृप्यतिदृप्यती सृपिम्। स्वरेण वीचेन शपिं छुपिं क्षिपिं प्रतीहि पान्तान् पठितांस्त्रयोदश। तप्ता। तेप्ता। आप्ता। वप्ता। स्वप्ता। लेप्ता। लोप्ता। तृप्यतिदृप्यत्योरनुदात्तत्वममागमार्थमेव। इट् त्वनयोः रधादिपाठाद् विकल्पेन भवति। त्रप्ता, तर्प्ता, तर्पिता। द्रप्ता, दर्प्ता, दर्पिता। तुदादिषु तु यौ तृपिदृपी तावुदत्तावेव। स्रप्ता, सर्प्ता। शप्ता। छोप्ता। क्षेप्ता। अदिं हदिं स्कन्दिभिदिच्छिदिक्षुदीन् शदिं सदिं स्विद्यतिपद् यती खिदिम्। तुदिं नुदिं विद्यति विन्त इत्यपि प्रतीहि दान्तान् दश पञ्च चानिटः। अत्ता। हत्ता। स्कन्ता। भेत्ता। छेत्ता। क्षोत्ता। शत्ता। सत्ता। स्वेत्ता। स्विद्यति इति श्यना निर्देशो ञिष्विदा इत्यस्य ग्रहणं मा भूतिति। उदात्त एव अयम्। पत्ता। खेत्ता। तोत्ता। नोत्ता। वेत्ता। विद्यति विन्त इत्यपि श्यना श्नमा च निर्देशो ऽन्यविकरणनिवृत्त्यर्थः। वेत्तिविन्दती उदात्तौ एव। वेदिता विद्यानाम्। वेदिता धनानाम्। पचिं वचिं विचिरिचिरञ्जिपृच्छतीन् निजिं सिचिं मुचिभजिभञ्जिभृज्जातीन्। त्यजिं यजिं युजिरुजिसञ्जिमज्जतीन् भुजिं स्वजिं सृजिमृजी विद्ध्यनिट्स्वरान्। पक्ता। वक्ता। विवेक्ता। रेक्ता। रङ्क्ता। प्रष्टा। निर्णेक्ता। सेक्ता। मोक्ता। भक्ता। भङ्क्ता। भ्रष्टा, भर्ष्टा। त्यक्ता। यष्टा। योक्ता। रोक्ता। सङ्क्ता। मङ्क्ता। भोक्ता। परिष्वक्ता। स्रष्टा। मार्ष्टा। मृजिरयमूदित् पठ्यते, ततो ऽस्य विकल्पेन इटा भवितव्यम्। मार्ष्टा, मर्जिता इति, अमागमो ऽप्यस्य न दृश्यते? तदिह पाठस्य प्रयोजनं चिन्त्यम्। केचिदस्य स्थाने विजिं पठन्ति, सृजिं विजिं विद्ध्यनिट्स्वरानिति। निजादिषु यो विजिरसौ अनिडिष्यते। तथा च तन्त्रान्तरे निजिविजिष्वञ्जिवर्जम् इत्युक्तम्। एकाच इति किम्? अवधीत्। वृद्धिनिवृत्त्यर्थमदन्तो विधिरुपदिश्यते। उपदेशग्रहणं किम्? इह च यथा स्यात्, लविष्यति, पचिष्यति। इह च मा भूत्, कर्ता कटान्, कर्तुम् इति।
`अनुदात्तात्` इति। बहुव्रीहिरयम्--नास्योदात्तोऽस्तीत्यनुदात्तः। अन्वर्थशब्दोऽयमनुदात्तशब्दः। शास्त्रीये ह्रनुदात्ते गृह्रमाण एकवर्णा एव धातवो गृह्रेरन्। तथा चान्येवां धातूनामनुदात्तप्रतिज्ञानमनर्थकं स्यात्। इह चेकाज्ग्रहममुपदेशविशेषणम्। `उपदेशे` इति। प्रकृतिपाठ इत्यर्थः। `अनुदात्तश्च` इति। उपदेश इत्यपेक्षते; तेनोपदेशग्रहणमुभयविशेषणमिति दर्शयति। तस्य प्रयोजनं प्रत्युदाहरणेष्वाविष्करिष्यति। `ये तथा गणे पठन्ते` इति। एतेन गणपाठादेव ते वेदितव्या इति दर्शयति। `त एव` इत्यादिना द्वितीयं परिज्ञानहेतुमाह। काः पुनस्ता अनिट्कारिकाः? इत्याह--`अनिट्स्वरान्तः` इत्यादि। यावातन् कश्चित्? स्वरान्तोऽजन्तो धातुः स सर्वोऽनिङ्भवतोत्येतददृश्यताम्, अवगम्यताम्। अनिडिति बहुव्रीहिः--नास्मादिडस्तीति। `अनिट्? स्वरान्तः` इत्यस्योत्सर्गस्यापवादमाह--`इमांस्तु` इत्यादि। इमांस्त्वदन्तादीन्? वक्ष्यमाणान्? सेटः प्रवदन्ति। इटा सह वत्र्तन्त इति सेटः। के वदन्ति? तद्विदः सेडनिड्विद इत्यर्थः। `अदन्तम्` इति बहुव्रीहिः--अकारस्तपरोऽन्तो यसय स तथोक्तः। तपरकरणं दीर्घनिवृत्त्यर्थम्। `ॠदन्तम्` इति। अयमपि बहुव्रीहिः। तपरकरणमसन्देहार्थम्। रन्तमित्युच्यमाने, किमयं रेफस्य निर्देशः? उत्त ॠकारस्य? इति सन्देह--स्यात्। `ॠतां च` इति। ॠतामिति निर्धारणे षष्ठी। ऋकारान्तानां मध्ये वृङवृञो सेटौ प्रवदन्ति। तपरकरणं पादपरणार्थम्। पूर्वमृकारान्तग्रहणागेन हि ह्यस्वस्य ग्रहणमिहावसीयते। `इआडीङिवर्णेषु` इति। निर्घारणे सप्तमी। इवर्णान्तेषु, मध्ये इआडीङौ सेटौ प्रवदन्त। `टु ओइआ गतिवृद्ध्योः` (धातुपाठः-1010), `डीङ्? विहायसागतौ` (धातुपाठः-968)। `अथ शीङ्श्रिञावपि` इति। `अथेत्यानन्तर्ये। अनयोः पूर्वक्तयोरनन्तरं शीङ्श्रिञावपि सेटौ प्रवदन्ति। `घीङ्? स्वप्ने` (धातुपाठः-1032), `श्रिञ्? सेवायाम्` (धातुपाठः-897)। `गणस्थम्` इति। स्वरूपख्यानमेतत्, न तु विशेषणम्--गणनिवृत्त्यर्थमिति; तस्यासम्भवात्। `ऊन्तम्` इति। `लूञ्? छेदने` (दा।पा।1483), `पूञ्? पवने` (धातुपाठः-1482) इत्येवमादयः। `उत्ताञ्च` इति। निर्धारणषष्ठी। `रु शब्दे` (धातुपाठः-1034), `स्नु प्ररुआवणे`[ष्णु--धातुपाठः-] (धातुपाठः-1038)। `क्षुवं तथोर्णोतिम्` इत्यादि। `टु क्षु शब्दे` (धातुपाठः-1036), `ऊर्णुञ्? आच्छादने` (धातुपाठः-1039), `यु मिश्रण` (धातुपाठः-1033), [मिश्रणेऽमिश्रणे च--धातुपाठः-] `णु स्तुतौ` (धातुपाठः-1035), `क्ष्णु तेजने` (धातुपाठः-1037)। `आवधिष्ट` इति। आङ्पूर्वाद्धन्तेर्लुङ्, `आङोयमहनः` 1|3|28 इत्यात्मनेपदम्; `आत्मनेपदेष्वन्यतरस्याम्` 2|4|44 इति वधादेशः। स चावधीदित्यत्र वृद्धिर्मा भूदित्येवमर्थमदन्तः पठते। इट्, `अतो लोपः` 6|4|48 इत्यकारलोपः।अथ किमर्थमूर्णोतिरुदात्त उपदिश्यते? इट्प्रतिषेधो मा भूदिति चेत्? नैतदस्ति; एकाचो हीट्प्रतिषेध उच्यते, न चास्यैकाचत्वमस्ति? इत्यत आह--`वाच्य ऊर्णोर्णुवद्भावः` इति। `एकाच्त्वम्` इति। पदान्तस्यापि कुत्वाभावः, कुत्वस्यानित्यत्वात्। अनित्यत्वं तु `बह्वच्पूर्वपदात्` 4|4|64 , `अल्पाच्तरम्` 2|2|34 इति निर्देशाद्वेदितव्यम्। `इति` इत्येवमर्थः। `निपुणम्` इति। सम्यगविपरीतमित्यर्थः। क्रियाविशेषणञ्चैतत्। `समुच्चिताः` इति। उदात्तानुदात्तसङ्कीर्णाद्धातुराशेः पृथग्व्यवस्थिता इत्यर्थः। `ततः` इति। स्वरान्तधातुसमुच्चयनादुत्तरकालम्। `हलन्तानपि निबोधत`, अवगच्छतेत्यर्थः। `शकिस्तु` इत्यादि। `शक्लृ शक्तौ` (धातुपाठः-1261)। `घसिश्च` इत्यादि। ननु चादिं हदिमित्यादेः स्वरूपग्रहणे सति तस्य स्थाने `लुङ्सनोर्थस्लृ` 2|4|37 इति विहितस्य घस्लादेशस्यापि स्यानिवद्भावेनानिट्त्वं सिध्यत्येव, तत्किमर्थं घसिः पृथगुपादीयते? इत्याह--`घसिः प्रकृत्यन्तरमस्ति` इति। अन्यदेव हीदं धात्वन्तरं `घस्लु अदने` (धातुपाठः-715) इत्यदादौ पठते, तस्येदं ग्रहणम्, न त्वादेशस्य। `प्रसारणी` इति। प्रसारणम्=सम्प्रसारणम्, तदस्यास्तीति प्रसारणी। `वसिता` इति। `वस आच्छादने` (धातुपाठः-1023)। `वस निवासे` इत्यस्य सम्प्रसारणं विहितम्` इति। वाच्यादिसूत्रेण 6|1|15 । एतेन निवासार्थो वसिः प्रसारणी, न त्वाच्छादनार्थं इति दर्शयति। `रभिश्च` इत्यादि। `रभ राभस्ये` (धातुपाठः-974) `यभ मैथुने (धातुपाठः-980) `डु लभष्? प्राप्तो` (धातुपाठः-975)। `यमिञंमन्तेषु` इत्यादि। `ञम्` इति ञकारादारभ्य अमो मकारेण प्रत्याहरग्रहणम्। `यम उपरमे` (धातुपाठः-984), `रमु क्रीडायाम्` (धातुपाठः-853), `मन ज्ञाने` (धातुपाठः-1176), `णम प्रह्वत्वे शब्दे च` (धातुपाठः-981), `हन हिंसागत्योः` (धातुपाठः-1012), `गम्लृ सृप्लृ गतौ` (धातुपाठः-982,983)। `श्यनिपठते` इति। श्यन्ग्रहणेन साहचर्यात्? दिवादिर्लक्ष्यते। दिवादौ पठत इत्यर्थः। `प्रतिषेधदाचिनाम्` इति। प्रतिषेधं वक्तुं शीलं येषां ते तथोक्ताः धातव एव ह्रनुदात्तलिङ्गानुषक्ताः प्रतिषेधं प्रतिपादयन्तति प्रतिषेधवाचिन उच्यन्ते। अथ वा--इट्प्रतिषेधमात्मविषयमाचार्येण वाचयन्त्यभिधापयन्तीति प्रतिषेधवाचिन इत्युच्यन्ते। एवञ्चात्र सम्बन्धः कत्र्तव्यः--ञमन्तेषु मध्ये ये परतिषेधवाचिनो धातवस्तेषां मध्ये यमिरनिडिष्यते। `रमिश्च` इत्यादि। अथ वा--प्रतिषेधवाचिनामित्यत्र मतेनेत्यध्याहार्यम्। तत्रैवं सम्बन्ध कत्र्तव्यः--इट्प्रतिषेधवाचिनामाचार्याणां मतेन यमिर्ञमन्तेष्वनिडेक इष्यत इति। `मनुतेः` इति। `मनु अवबोधने` (धातुपाठः-1471) इत्येतस्य तानादिकस्य। `दिहिः` इत्यादि। `दिह उपचये` (धातुपाठः-1015), `दुह प्रपूरणे` (धातुपाठः-1014), `मिह सेचने` (धातुपाठः-992) `रुह जन्मनि प्रादुर्भावे` (दा।पा।859), `वह प्रापणे` (धातुपाठः-1004), `णह बन्धने` (धातुपाठः-1166), `दह भस्मीकरणे` (धातुपाठः-991), `लिह आस्वादने` (धातुपाठः-1016)। `मुक्तसंशयाः` इति। मुक्तः= त्यक्तः संशयो येषु यैर्वा ते तथोक्ताः। `प्रविभज्य कीर्त्तिताः` इति। सेडनिङ्विभागेन व्यवस्थाप्य कीर्त्तिता इत्यर्थः। `देग्धा, दोग्धा` इति। `दादेर्धातोर्धः` 8|2|32 इति धत्वम्, `झषस्तथोर्धोऽधः` 8|2|40 इति धत्वम्, `झलां जश्? झशि` 8|4|52 इति जश्त्वमित्येते विधयः कत्र्तव्याः। `मेढा, `आरोढा` इति। `हो ढः` 8|2|31 इति ढत्वम्, पूर्ववद्धत्वम्, `ष्टुन ष्टुः` 8|4|40 ष्टुत्वम्, `ढो ढे लोपः` 8|3|13 इति डलोपः। `वोढा` इति। पूर्ववड्ढत्वादि; `सहिवबोरोदवर्णस्य` 6|3|111 इत्योत्त्वम्। `नद्धा` इति। `नहो धः` 8|2|34 इति धत्वम्, पूर्ववज्जश्तवम्। `तन्नान्तरे` इति। आपिशले व्याकरणे। `सहेर्विकल्पस्तकरादौ` इति। `तीषसह` 7|2|48 इत्यादिना तकारादौ सहेर्विकल्प उक्तः। `मुहिरपि रधादौ पठते` इति। एतेन मुहेरपि `रधादिभ्यश्च` 7|2|45 इति विकल्पं दर्शयति। `तेन तौ ससंशयौ सविकल्पौ` इति। एतेन विकल्पात्मकेन संशयेन तौ ससंशयौ न तु सन्देहात्मकेनेति दर्शयति। `इतरौ` इति। रिहिलुही। `कैश्चिदभ्युपगम्येते` इति। आपिशलिप्रभृतिभिः। `स्वरूपेणैव ससंशयौ` इति। स्वरूपेणेति स्वभावेन। ससंशयौ=ससन्देहौ। संशयो ह्रतर सन्देहे वत्र्तते। सन्देहस्तु--धातुष्वपाठात्। अथ च कैश्चिदभ्युपगमाच्च। तयोश्चैको हिंसायां वत्र्तमानोऽब्युपगम्यते, अपरस्तु गाध्र्ये। `दिशिं दृशिम्` इत्यादि। `दिश अतिसर्जने` (धातुपाठः-1283) `दृशिर्? प्रेक्षणे` (धातुपाठः-988), `दन्श दशने` (धातुपाठः-981) `अथो शब्दः पादपूरणे। मृश आमद्र्दने` (धातुपाठः-1425),[`आमर्शने`--धातुपाठः-] `स्पृश संस्पर्शे`[`संस्पर्शने`--धातुपाठः-] (धातुपाठः-1422) `रुश रिश हिंसायाम्` (धातुपाठः-1419,1420), `क्रूश आह्वानेग रोदने च` (धातुपाठः-856), `विश प्रवेशने` (धातुपाठः-1424), `लिश अल्पीभावे` (धातुपाठः-1179)। `पुराणगाः` इति। पुराणम्=व्याकरणम्, चिरन्तनत्वात्ष तदगायन्त्यधीयते येते पुराणगाः। `पाठेषु` इति अनिट्कारिकापाठेषु, धातुपाठेषु वा। `नेतरान्` इति। `स्पश बाधनस्पर्शनयोः` (धातुपाठः-887) इत्येमादीनिति। `देष्टा` इति। व्रश्चादिसूत्रे 8|2|36 षत्वम्। `अनुदात्तस्य` 6|1|58 इत्यादिना मृशिप्रभृतीनामनुदात्तेट्प्रतिषेधादधिकं कथं दर्शयति।`रुधिः सराधिः` इत्यादि। सह राधिना वत्र्तत इति सराधिः। `रुधिर्? आवरणे` (धातुपाठः-1438), `राध साध संसिद्धौ` (धातुपाठः-1162,1163)। `राधोऽकर्मकाद्वृद्धौ` इति। द्वयोरपि ग्रहणमिष्यते, विशेषाभावात्। `युध सम्प्रहारे` (धातुपाठः-1190), `शुध शौचे` (दा।पा।1191), `बुध अवगमने` (धातुपाठः-1172), `व्यध ताडने` (धातुपाठः-1181), `सिधु संराद्धौ`[`षिधु`--धातुपाठः-] (धातुपाठः-1192)। `नेतरे` इति। इन्धिप्रभृतयः। `न्याय्यविकरणयोः` इति शब्विकरणयोरित्यर्थः। `बुध बोधने` (धातुपाठः-875), [`बुधिर्`--धातुपाठः-] `षिधु गत्याम्` (धातुपाठः-47)[`विध`--धातुपाठः-] इत्येतयोः। `निष्ठायामपि` इत्यादि। अथ कतं बुधेर्भौवादिकस्य प्रति,#एध आशङ्कितः? सिधेरुदित्त्वेन प्रतिषिद्धत्वात्। `उदित्तो वा` 7|2|56 इति कत्वाप्रत्यये विकल्पविधानात्? `यस्य विभाषा` 7|2|15 इति निष्ठायां प्रतिषेधेन भवितव्यमिति युक्ता प्रतिषेधाशङ्का। बुधेस्तु न किञ्चिन्निष्ठायां प्रतिषेधाशङ्काकारणमस्ति। तस्याप्यस्ति--इह भौवादिकदैवादिकयोर्बुध्योरर्थरूपे समाने, अतश्चार्थरूपसाम्यादुपजातभ्रान्तिः प्रतिपत्ता; एक एवायं धातुः, विकरणद्वयार्थमुभयोर्गणयोः पाठः, तस्य चाद्र्धधातुक इडप्युक्तः, अनेन सूत्रेणेट्प्रतिषेधोऽपीत्येकविषयत्वाद्विधिप्रतिषेधयोः पर्यायप्रतिपत्तो विभाषेट्त्वम्, अतः `यस्य विभाषा` 7|2|15 इति निष्ठायां प्रतिषेधे न भवितव्यमिति कैश्चिन्मन्यते। तस्मात्? तन्मतमाशङ्क्येदमुक्तम्--निष्ठायामपीत्यादि। एवं मन्यते--अन्य एव भौदादिको बुधिर्यस्येङविधिः, अन्यश्च वैवादिको यस्येट्प्रतिषेधः; तस्मात्? भिन्नविषयत्वाद्विधिप्रतिषेधयोर्विभाषेट्त्वं नोपपद्यत इति। अथ सिषेर्निष्ठाया प्रतिषेधाभावः कथमुक्तः, यावतीदिस्वात्? तस्य `उदितो वा` 7|2|56 इति विभाषेट्त्वात्? `यस्य विभाषा` 7|2|15 इति निष्ठायां भवितव्यमेव प्रतिषेधेन? एवं मन्यते--सिधेरुदित्त्वमनार्षमेव, यद तस्योदित्त्वं स्यात्, भ्वादौ पाठोऽनर्थकः स्यात्; यदनेन साध्यं रूपं तस्य `षिधू शात्रे` (धातुपाठः-48) [`शास्त्रे माङ्गल्ये च`--धा।पा] इत्यनेनैव सिद्धत्वात्। अनुदित्त्वे तु तस्य सिधितमित्येतत्सिद्धयेऽर्थवान्? पाठो भवति। न ह्रेतत्? `षिधू शास्त्रे` इत्यतेन सिध्यतीति। ऊदित्त्वेनास्य `स्वरितसूति` 7|2|44 इत्यादिना विभाषितेटः `यस्य विभाषा` 7|2|15 इति निष्ठायामिट्प्रतिषेधात्। तस्माद्? भ्वादिपाठादेव सिद्धे सिधेरुदित्त्वमनार्षमेव। `शिर्षि पिषिम्` इत्यादि। `शिष्लृ विशरणे` (धातुपाठः-1451), [`विशेषणे`--धातुपाठः-] `पिष्लृ सञ्चूर्णने` (धातुपाठः-1452), `शुष शोषणे` (धातुपाठः-1183), `पुष पुष्टौ` (धातुपाठः-1182), `त्विष दीप्तौ` (धातुपाठः-1001)। `जिषु विषु मिषु सेचने` (धातुपाठः-697,698,699), `श्रिषु श्लिषु प्रषु प्लुषु दाहे` (धातुपाठः-701-704)--द्वयोरपि ग्रहणम्। `तुष तुष्टौ` (धातुपाठः-1184), [`प्रीतौ`--धातुपाठः-(तूष तुष्टो--धातुपाठः-674)] `दुष वैकृत्ये` (धातुपाठः-1185), `द्विष अप्रीतौ` (धातुपाठः-1013), `कृष विलेखने` (धातुपाठः-1286)--भौवादिकतौदादिकौ। `पुष्यति` इति। श्यना निर्देशो भौवादिककैयादिकयोर्निवृत्त्यर्थः। शुष्यतिप्रभृतीनां तु वृत्तभङ्गपरिहारार्थः। `क्रष्टा, कर्ष्टा` इति। पूर्ववद्विकल्पेनामागमः। `तपिं तिपिम्` इत्यादि। `तप सन्तापे` (धातुपाठः-985), `तप ऐश्यर्ये` [दाहे ऐआर्ये वा---धातुपाठः-] (धातुपाठः-984)--द्वयोरपि ग्रहणम्। `तिपृ तेपृ ष्टेपृ क्षरणार्थाः, (धातुपाठः-362,363,365), `आप्लृ व्याप्तौ` (धातुपाठः-1260), `टु वपबीजतन्तुसन्ताने` (धापा।1003),[डु वप बीजतन्तुसन्ताने, छेदनेऽपि--धातुपाठः-] `ञि ष्वप्? शये` [`ष्वप`--धातुपाठः-] (धातुपाठः-1068), `लिप उपदाहे` (धातुपाठः-1433), `लुप्लू छेदने` (धातुपाठः-1431), `तृप पीणने` (धातुपाठः-1195), `हप हर्णणमोचनयोः` (धातुपाठः-1196), [`हर्षमोहनयो-धातुपाठः-] `गम्लृ सृप्लृ गतौ` (धातुपाठः-982,983)। `स्वरेण नीचेन` इति। अनुदात्तेनेत्यर्थः। `शप आक्रोशे` (धातुपाठः-1000), `शप उपालम्भे` [`आक्रोशे`--धातुपाठः-] (धातुपाठः-1168)--उभयोरपि ग्रहणम्। `छुप स्पर्शे` (धातुपाठः-1418), `क्षिप प्रेरणे` (धातुपाठः-1285)। तृप्यति दृप्यत्योरनुदात्तेत्त्वममागमार्थम्, `अनुदात्तस्य` 6|1|58 इत्यादिना पक्षेऽमागमो यथा स्यात्। इद्प्रतिषेधार्थं कस्मान्न भवति? इत्याह--`इट्? त्वनयोः` इत्यादि। `तुदादिषु यौ तृपिदृपी` इति। `तृप तृम्प तृप्तौ`[`तृन्फ`--धातुपाठः-] (धातुपाठः-1307,1308), दृप उपक्लेशे`[`उल्लकेशे--धातुपाठः-] (धातुपाठः-1313) इत्येतौ। `अदिं हदिम्` इत्यादि। `अद भक्षणे` (धातुपाठः-1011),`हद पुरोषोत्सर्गे` (धातुपाठः-977), `स्कन्दिर्गतिशोषणयोः` (धातुपाठः-959), `भिदिर्? विदारणे` (धातुपाठः-1439), `छिदिर्? द्वैधीकरणे` (धा।श।1440), `क्षुदिर्? सम्पेषणे` (धातुपाठः-1443), `शद्लु शातने` (धातुपाठः-855), `षद्लृ विशरणगत्यवसादनेषु` (धातुपाठः-854), `ञि ष्विदा गात्रप्रक्षरणे` (धातुपाठः-1188), `पद गतौ` (धातुपाठः-1169)। `खिद दैन्ये` (धातुपाठः-1170), `खिद परिद्याते` (धातुपाठः-1282), `विद सत्तायाम्` (धातुपाठः-1188), `पद गतौ` (धातुपाठः-1169), `विद विचारणे` (धातुपाठः-1450)। `ञिष्विदेत्यस्य ग्रहणं मा भूत्` इति। `ञिष्विदा स्नेहमोचनयोः (धातुपाठः-744) [`स्नेहनमोचनयोः--धातुपाठः-] इत्यस्य। `अन्यविकरणनिवृत्त्यर्थः` इति। `विद ज्ञाने` (धातुपाठः-1064) इति लग्विकरणस्य, `विद्लृ लाभे` (धातुपाठः-1432) इत्यस्य शविकरणस्य च निवृत्त्यर्थः। `विद वेदनाख्यानविवासेषु` (धातुपाठः-1708) [`चेतनाख्यानविवासेषु`--धातुपाठः-] इत्यस्य चौरादिकस्यानेकाच्त्वा देवाप्रसङ्गः। `पचिं वचिम्` इत्यादि। `डु पचष्? पाके` (धातुपाठः-996)। `वच परिभाषणे` (धातुपाठः-1063), `व्रुवो वचिः` 2|4|53 इति च द्वयोरपि ग्रहणम्। सौत्रोऽप्युपदेशो भवत्येव। `विचिर्? पृथग्भावे` (धातुपाठः-1442), `विचिर्? विवेचने` (धा।1094), [`विजिर्? पृथग्भावे`--धातुपाठः-] `रन्ज रागे` (धातुपाठः-999), `प्रच्छ ज्ञीप्सायाम्` (धातुपाठः-1413), `णिजिर्? शौचपोषणयोः` (धातुपाठः-1093), `षिचिर्? क्षरणे` (धातुपाठः-1434),[`षिच`--धातुपाठः-] `मुच्लृमोक्षणे` (धातुपाठः-1430), `भज सेवायाम्` (धातुपाठः-998), `भन्जो आमर्दने` (धातुपाठः-1453), `भ्रस्ज पाके` (धातुपाठः-1444), `युज समाधौ` (धातुपाठः-1177)--द्वयोरपि ग्रहणम्। `रुजो भङ्गे` (धातुपाठः-1416), `षन्ज सङ्गे` (धातुपाठः-987), `टु मस्जो शुद्धौ` (धातुपाठः-1415)। `भुज पालनाभ्यवहारयोः` (धातुपाठः-1454), `भुजो कौटिल्य` (धातुपाठः-1417)--द्वरोरपि ग्रहणम्। `ष्वञ्ज परिष्वङ्गे` (धातुपाठः-976)। कृतानुनासिकलोपस्य निर्देशो वृत्तभङ्गपरीहारार्थः। `सृज विसर्गे` (धातुपाठः-1414)। `मृजू शुद्धौ` (धातुपाठः-1066) आदादिकः। `मृज शौचालङ्कारयोः` (धातुपाठः-1848) [`मृजू`--धातुपाठः-] इति चौरादिकोप्यस्ति, सोऽपि यदा `आ धुषाद्वा` (धातुपाठः-1805) अनन्तरम्) इति णिजनास्त#इ, तदा शक्य एव ग्रहीतुम्। यदा त्वस्ति, तदाऽनेकाच्त्वादेवेट्प्रतिषेधाप्रसङ्गः। `मृजिरयम्` इत्यादिनप्रतिषेधार्थतां मृजेरिह निरस्यति। `अमागमोऽप्यस्य` इत्यादि। अनेनामागमार्थताम्। `तदिह` इत्यादि। यत एव हि प्रयोजनद्वयं न सम्भवति, तत्समादिहास्य पाठे प्रयोजनं चिन्त्यम्। तत्र केचिदाहुः--यद्यप्यमागमो न दृश्यते, तथाप्यसौ कत्र्तव्य एव अन्यथा ह्रस्य पाठोऽनर्थकः स्यात्। न हि यन्न दृश्यते तेन न भवितव्यमेव, अन्यता हि `यथालक्षणमप्रयुक्तेषु` इत्येतद्वचनमप्रयुज्यमानं स्यात्। अन्ये तु वर्णयन्ति--मृजेनिरुपपदात्, क्विबन्ताद्विकारावयवविवक्षायां माजं इति `अनुदात्तादेरञ्` 4|2|44 इत्यञ्? यथा स्यात्--इत्येतत्? प्रयोजनमिति; एतच्चायुक्तम्; एकाच्त्वाद्धि नित्यं मयटा भवितव्यम्। तथा हि--`नित्यं वृद्धञरादिभ्यः` 4|3|142 इत्यत्र नित्यग्रहणं किमर्थम्, यावताऽ‌ऽरम्भसामथ्र्यादेव नित्यं भविष्यति? इति चोदेते, इदमुक्तम्--`एकाचो नित्यं मयटमिच्छन्तीति तदर्थमेतत्? क्रियते--त्वङ्मयं वाङ्मयम्` इति। `केचित्` इत्यादि। केचित्? प्रयोजनमपश्यन्तो मृजेः स्थाने विजिं पठन्ति। किं करणमित्याह--`निजादिषु हि` इत्यादि। `विजिर्? प्रथग्भावे` (धातुपाठः-1094) इति निजादिषु विजिः पठते, स यस्मादनिडिष्यते तस्मान्भृजिमपनीय तस्य स्थाने विजिं पठन्ति। कथं ज्ञायतेऽसावनिडिष्यते? इत्याह--`तथा च` इत्यादि। `तन्त्रान्तरे`[`ग्रन्थान्तरे--इति पाठान्तरम्] इति। आपिशलिष्याकरणे। अथ `सुजिविजी` इत्यस्मिन्? पाठे `ओविजी भयचलनयोः` (धातुपाठः-1289) इत्यस्य ग्रहणं कस्मान्न भवति? ईदित्त्वात्। तद्ध्येवमर्थं क्रियते--`आओदितो निष्ठायाम्` 7|2|14 इतीट्प्रतिषेधो यथा स्यात्। यदि च तस्यापीह ग्रहणं स्यादनेनैव सिद्धत्वादीदित्त्वमनर्थकं स्यात्। `अवधीत्` इति। `लुङि च` 2|4|43 इति वाधादेशोऽदन्तः। स चानुदत्तस्यादेशः स्थानिवद्भावेनैव भवति। उपदेशेऽनुदात्त एकाच उपदेशो न भवतीति न भवति प्रतिषेधः। कथं पुनरयमेकाज्भवति? इत्याह--`वृद्धिनिवृत्त्यर्थम्` इत्यादि। यदि ह्रदन्तो वधिर्नोपदिश्येत, `अतो हलादेर्लघोः` 7|2|5 इति विकल्पेन वृद्धिः स्यात्। अदन्ते तु सति न भवति, तत्र `येन च्यवधानमाश्रियम्। अदन्तत्वे तु सति वधेरकारलोपस्य पुर्वविधौ स्थानिवद्भावेनापि व्यवधानं भवति, न केवलं हलैव। याऽपि हलन्तलक्षणा वृद्धिः, साऽप्यदन्तत्वे सति न भवत्येव;अकारलोपस्य स्थानिवद्भावादहलन्तत्वात्। तस्माद्वृत्त्यर्थमदन्तो वधिरुपदिश्यते। ननु यद्यप्यदन्त उपदिश्यते, तथापि स्थानिवद्भावेनैकाजिति व्यपदेशे सति भवितव्यमेव प्रतिषेधेन? `नतदस्ति; एवं ह्रेकाज्ग्रहणमनर्थकं स्यात्। तथा हि--जागृदरद्राचकात्प्रभृतीनामुदात्तत्वात्? नैकाज्ग्रहणं ते प्रयोजयन्ति। सनाद्यन्तानां धातूनामुपदेशत्वं नास्ति; लाक्षणिकत्वात्समुदायसय। न चान्योऽनेकाज्? धातुरूपदेशेऽनुदात्तोऽस्ति य एकाज्ग्रहणं प्रयोजयति। न चास्मिन्? व्यपदेशे कत्र्तव्ये स्थानिवद्भावेऽस्ति; अल्विधित्वात्। `इह च यता स्यात्` इति। असत्युपदेशग्रहणे` एकाचो धातोरनुदात्तादिडागमो न भवतीत्येव सूत्रार्थः; एवञ्च लविष्यति, पविष्यतीत्यत्रेडागमो न स्यात्। भवत्यत्र प्रत्ययस्वरे कृते शेषानुदात्तत्वे धातुरनुदात्तः। तथा च--कत्र्ता कटान्, कर्त्तुमिच्छतीत्यत्र त्विडागमः स्यादेव; तृनि तुमुनि च कृते नित्स्वरेण धातोरुदात्तत्वात्। उपदोशग्रहणे तु सति तेनाद्यावस्था विशेष्यत इति न भवत्येव दोषप्रसङ्गः। यद्यप्युत्तरकालं लुनातिपुनाती अनुदात्तौ, तथाप्युपदेशावस्थायामुदात्तावेव। तथा यद्यप्यत्तरकालं करोतिरुदात्तः, तथाप्युपदेशवस्थायामनुदात्त एव। अथ बिभिच्छब्दस्य प्रकृतेपाठो नास्ति, नाप्येकाच्त्वम्; तथापि भिदेस्तूभयमिदमस्ति। `द्विष्प्रयोगो द्विर्वचनम्` इत्ययमपि तत्र पक्ष आश्रितः, तेन भिदिरेव तत्र द्विरुच्यते, तस्य चोभयविशेषणविशिष्टत्वात्? सिध्यत्येव प्रतिषेधः॥
अनुदातादिति बहुव्रीहिः न विद्यते उदातो यस्मिन् सोऽयमनुदातः । पारिभाषिके त्वनुदातेऽज्मात्राणामिणादीनामेव ग्रहणं स्यात्, नाज्झल्समुदायरुपाणं पचिप्रभृतीनाम । ततश्च तेषामनुदातोपदेशोऽनर्थकः स्यात् । अथ वा - अनुदातच्कत्वात्समुदाय एवानुदात तैत्युच्यते, यथा अनुदातं पदम् इति । उपदेशः - प्रकृतिपाठः । अनुदातश्चेति । उपदेशे इत्यपेक्षते । उभयविशेषणं चैतदिष्यते । अन्यतरविशेषणं तु यदि विज्ञायेत - उपदेश एकाचः सम्प्रत्यनुदातादिति, तथैहापि च प्रसज्येत - लविष्यति, पविष्यतीति, भवति ह्यएतत् प्रत्ययस्योदातत्वे शेषनिघातेन सम्प्रत्यनुदातम् थैह च न स्यात् - कर्ता, कर्तुम्, नित्स्वरेण सम्प्रत्युदातत्वात् प्रकृतिपाठे चैषामनुदातोपदेशोऽनर्थकः स्यात् । अथ विज्ञायेत - उपदेशे।ःनुदातादेकाचः श्रूयमाणादिति क्रादिसूत्रे नियमो नोपपद्येत चकृव, चकृमेत्यादौ श्रूयमाणरुपस्यानेकाच्त्वाद्विधिरेव स्यात्, तत्र को दोषः बिभिदिव, बिभिदिम अत्रेडागमो न स्यात् । ननु च सम्प्रत्यनेकाच्त्वादत्र प्रतिषेधास्याप्रसङ्गादेवेड् भविष्यति इह तर्हि पेचिव, पेचिम्, एत्वाभ्यासलोपयोः कृतयोरेकाचः श्रूयमाणादिट्प्रतिषेधः प्राप्नोति । परत्वादिटि कृते एतवाभ्यासलोपौ भविष्यतः नित्यावेत्वाभ्यासलोपौ कृतेऽपीटि प्रप्नतोऽकृतेऽपि इट् पुनरनित्यः - कृतयोस्तयोरेकाच्छः श्रूयमाणादिति प्रतिषेधात् । एवं तर्हि थलि च सेटि इत्यत्र सेट्ग्रहणं कालवाधारणार्थं भविष्यति, कथम् तत्र थल्ग्रहणं न कर्तव्यम्, सेटीत्येतावता सिद्धम्, अत एकहल्मध्ये इत्यादि सर्वमनुवर्तेते, किद्ग्रहणमेकं निवृतम्, न च थलोऽन्यः सेट् किल्लिट् सम्भवति । सोऽयमेषं सिद्धे यत्थल्ग्रहणं करोति तस्यैतत्प्रयोजनम् - किता सह समुच्चयार्थम्, थलि च किति च सेटि एत्वाअभ्यासलोपौ भवत इति । तत्र किति पूर्वेणैव सिद्धे कालावधारणार्थमिदं वचनमिति कृते थएत्वाभ्यासलोपौ यथा स्याताम्, अकृते मा भूतामिति, यथा - निष्ठायां सेटि इत्यत्र । एवमपि विधित्सति, चिच्छित्सतीत्यत्र नित्यत्वाद् द्विर्वचने कृते एकाचः श्रूयमाणादिति प्रतिषेधो न स्यात् तस्मादुभयविशेषणमुपदेशग्रहणम्, तात एवेदं मध्ये पठितम् । यद्यौभयविशेषणम्, बेभिदिता, चेच्छिदिता - अत्रापि प्राप्नोति अल्लोपस्य पूर्स्मादपि विधौ स्थानिवद्भावान्न भविष्यति । यङ्लुगन्त तर्हि प्राप्नोति - बेभेदिता, चेच्छिदिता यत्रैकाज्ग्रहणं किञ्चित्पञ्चैतानि न यङ्लुकि इति वचनान्न भविष्यति । के पुनरिति । पाठे सङ्करसम्भवात्प्रश्नः । असङ्करेण पठितव्याः इत्युतरम् । प्रविभक्ता इति । स्वरान्तहलन्तककारादिवर्णभेदेनेत्यर्थः । श्लेकेष्वनिडग्रहणमनुदातोपलक्षणम् । षष्ठीसप्तम्यश्च धातुविषयनिर्धारणे द्रष्टव्याः । श्विडीडिति । समाहारद्वन्द्वे द्वितीयान्तम् । गणस्थमिति । श्लोकपूरणार्थम् । स्वभावकथनमेतत् । मत् मतः निबोधत, अवगच्छत । द्व्येत्यादिश्लोकर्योर्द्धयोर्विवरणम् । इति स्वरान्ता इति । अस्य पुनः पाठो निगदव्याख्यानतां दर्शयतुं द्रष्टव्यः । अन्ये तु पूर्व न पठन्ति । यमिर्यमन्तेष्विति । श्यनि पठ।ल्त इति । दिवादौ पठ।ल्त तित्यर्थः । प्रतिषेधवाचिनामिति । इट्प्रतिषेधं कुर्वतामाचार्याणां मतेनेत्यर्थः । दिहिर्दुहिरिति । यद्विषयः संशयः पुरुषाणां नास्ति ते मुक्तसंशयाः । तन्त्रान्तरम् - व्याकरणान्तरम्, आपिशलादि । सहेर्विकल्प इति । तीषसह इत्यादिना । सविकल्पाविति । विकल्पस्तद्विषयः संशय इत्यर्थः । स्वरुपेणैव ससंशयाविति । तौ स्तो न इत्यपि संशयस्तत्रेत्यर्थः । दिशि दृशिमिति । पुरणम् - चिरन्तनं व्याकरणं येऽधीयते ते पुरणगाः । पाठेषु, धात्वादिषु । ऋदुपधानामित्यादिना तेष्वनुदातोपदेशस्य प्रयोजनान्तरं समुच्चिनोति । एवं च श्लोकेष्वनिट एइत्यस्यानुदातोपलक्षणत्वं निश्चितम् । रुधिः सराधिरिति । न्याय्यविकरणयोरिति । न्याय्यः - उत्सर्गः, शब्विकरणयोरित्यर्थः ।क्वचितु तथैव पाठः केचिद्भौवादिकं सिधिमुदितं पठन्ति - षिधु गत्याम् इति, तेन तस्य क्त्वायां विकर्ल्पितेट्कत्वान्निष्ठायाम् यस्य विभाषा इति प्रतिषेधेन भवितव्यम् । तथा दैवादिकस्य भौवादिकस्य च बुधेरर्थे रुपे वा विशेषो नास्ति, ततश्चैक एवायं बुधिः, विकरणद्वयार्थं तु द्वयोर्गणयोः पाठः, तस्य चार्धधातुकलक्षण इडप्युक्तः, प्रतिषेधोऽपीत्येकविषयत्वाद्विभाषितेट्कत्वम्, ततश्च तस्यापि निष्ठायां प्रतिषेधेन भवितव्यमिति मन्यमानं प्रत्याह - निष्ठायामपीति । सिधेरुदित्वं तावदनन्यार्थम् । न च यथाकथञ्चिदिटो भावाभावौ निष्ठायां निषेधस्य निमितम्, किं तर्हि विकल्पवाचिना विभाषादिशब्देन विकल्पितेट्त्वमिति भावः । तपि तिपिमिति । तिपिक्षपी इति पाठः । नीचेन स्वरेणानुदातेन पठितान्प्रतीहि निबोधतेति । प्रस्तावातप्रतीतेति पाठः, प्रतीहीति पाठे उतरानुरोधः - विद्ध्यनिट्स्वरानिति । तेप्तेति । तिपृ तेपृ ष्टिपृ ष्टेपृ क्षरणे । छाएप्तेति । छुप स्पर्शने । पचि वचिमिति । सृजिमृजीति । समाहारद्वन्द्वः । अनिट्त्वस्य हेतुः स्वरो येषां तेऽनिटट्स्वराः । ततोऽस्य विकल्पेन भवितव्यमिति । तेनानिट्स्वरार्थोऽनुदातपाठो न भवति । अमागमोऽपीति । तेन तदर्थोऽप्युदातपाठो न भवति । तत्कस्मादिहानिट्कारिकासु पठ।ल्ते इत्यत आह - केचिदित्यादि । युक्तं चैतदित्याहनिजादिषु हीति । णिजां त्रयाणां गुणः श्लौ इत्यत्र पठिता निजादयः । अत्रैव व्याकरणान्तरानुमतिं दर्शयति - तथा चेति । अवधीदिति । किं पुनरयमुपदेशेऽनुदातः ओमित्याह । क्व पुनरस्योपदेशः हनो वध लिङ् ईति । किमेकाज्ग्रहणं न निवर्तयिष्यामीत्यनुदात उपदिश्यते, न ह्यस्यान्यदनुदातत्वे प्रयोजनम् न ब्रूमः - अस्मिन्नुषदेशेऽयमनुदात इति, हन्तिरनुदातस्तस्य स्थाने भवन्स्थानिवद्भावेनानुदातः । क्रियमाणेऽपि तर्ह्येकाज्ग्रहणे यावता स्थानिवद्भावः कस्मादस्य परतिषेधादिति चेत् हन्तैवमनुदातव्यपदेशेऽपि स्थान्यलाश्रयत्वात्कथमिवास्य साय्त् स्यादेतत् । नात्र स्थानिवद्भावेन प्रसङ्गः, किं तर्हि उपदेशग्रहणेन, यथा - कर्ता, कर्तुमित्यादौ रुपभेदे स्वरभेमे च भवति । तत्कस्य हेतोः यः स उपदेशेऽनुदातः स एवेमामवस्थामापन्न इति कृत्वा, न तु स्थानिवद्भावात् एवमिहापि य उपदेशेऽनुदातो हन्तिः स एवायमिति उपदेशग्रहणात्प्रसङ्ग इति । क्रियमाणेऽपि तर्ह्येकाज्ग्रहणे कथमिवास्य व्यावृत्तिः, यावता उपदेशग्रहणस्योभाभ्यां सम्बन्धः - य उपदेशे एकाच् स एवायमिति स्यादेव प्रसङ्गः तस्माद्वधेराद्यौदातनिपातनं कर्तव्यम्, तत्सामर्थ्याद्धन्त्युपदेशविषयानुदातत्वश्रयोऽपि प्रतिषेधो न भवति । न ह्यएतदाद्यौदातत्वं प्रयोगसमवायि, प्रत्ययस्वरेण बाधितत्वादित्येवमत्र हारो बाच्यः । एकाज्ग्रहणमुतरार्थम् ॥
सिद्धान्तकौमुदी
उपदेशे यो धातुरेकाजनुदात्तश्च ततः परस्य वलादेरार्धधातुकस्येट् न स्यात् । उपदेशे इत्युभयान्वयि । एकाच इति किम् । यङ्लुग्व्यावृत्तिर्यथा स्यात् । स्मरन्ति हि-- [(परिभाषा - ) श्तिपा शपाऽनुबन्धेन निर्दिष्टं यद्गणेन च । यत्रैकाज्ग्रहणं चैव पञ्चैतानि न यङ्लुकि] ॥ 1 ॥ इति । एतच्चेहैवैकाज्ग्रहणेन ज्ञाप्यते । अच इत्येवैकत्वविवक्षया तद्वतो ग्रहणेन च सिद्धे एकग्रहणसामर्थ्यादनेकाच्कोपदेशो व्यावर्त्यते । तेन वधेर्हन्त्युपदेशे एकाचोऽपि न निषेधः । आदेशोपदेशेऽनेकाच्त्वात् । अनुदात्ताश्चानुपदमेव संग्रहीष्यन्ते । एधांचकृषे । एधांचक्राथे ॥
एकाच उपदेशेऽनुदात्तात् - अथ लिटि थासः सेभावे "कृ" इत्यस्य द्वित्वादौ एधां च कृ से इति स्थितेआद्र्धधातुकस्येड्वलादे॑रितीडागमे प्राप्ते — -एकाच उपदेशे । "ऋत इद्धातो" रित्यतो धातुरित्यनुवर्तते ।नेड्वशि कृती॑त्यतो नेति च । तदाह — उपदेशे यो धातुरेकाजिति । #एकोऽच् यस्येति बहुव्रीहिः । आर्धधातुकस्येति । यद्यपीदं न श्रुतं, नाप्यनुवृत्तलभ्यं, तथाप्यार्थिकमिदम्, आद्र्धधातुकस्यैवेटः प्राप्तेः । वृत्तिग्रन्थे तु आद्र्धधातुकस्येति नोपात्तम् । नन्वेकाच उपदेशेऽनुदात्तादित्यत्र यदि उपदेशे इत्येतदेकाच इत्यत्रान्वेति तदा कर्तु मित्यत्र इण्निषेधो न स्यात्, कृञ्धातोरूदृदन्तैरित्यादिनाऽनुदात्तत्वस्य वक्ष्यमामत्वेऽपि तुमुन्प्रत्यये कृतेञ्नत्यादिर्नित्य॑मित्याद्युदात्तत्वात् । यदि तूपदेशे इत्येतदनुदात्तादित्यनेनान्वेति तदा यद्यपि नायं दोषः, कृते तुमुन्प्रत्यये उदात्तत्वेऽपि दातूपदेशकालेऽनुदात्तत्वेन तत्र इण्निषेधस्य निर्बाधत्वात्तथापि एधांचकृषे इत्यादाविण्निषेधो न स्यात्, द्वित्वे कृतेऽकाच्त्वादित्यत आह — उपदेश इत्युभयान्वयीति । "उपदेश" इत्येतत्एका॑जित्यत्र, "अनुदात्ता" दित्यत्र चान्वेति, मध्यममिन्यायादिति भावः । ननूदृदन्तैरित्यादिना परिगणितानामनुदात्तोपदेशधातूनामेकाच्त्वाऽव्यभिचारादेकाज्ग्रहणं मास्तु, उपदेशेऽनुदात्तादित्येवास्तु, #एतावतैव कर्तुं चकृष इत्यादाविण्निषेधसिद्धेरिति पृच्छति — एकाचः किमिति । यङ्लुग्व्यावृत्तिरिति । यङ्लुकि चर्करितेत्यादौ इण्निषेधव्यावृत्तये एकाज्ग्रहममित्यर्थः । ननु कृतेऽप्येकाज्ग्रहणे कथं यङ्लुग्व्यावृत्तिः, श्तिपा शपेत्यादेरुदाहरणानि यङ्लुङ्निरूपणे स्पष्टीभविष्यन्ति । नन्विह एकाज्ग्रहणाद्यङ्लुकीण्निषेधस्य व्यावृत्तावपि श्तिबादिनिर्दिष्टानां यङ्लुकि व्यावृत्तिः प्राचीनाचार्यसंमताऽपि पाणिनेरसंमतैवेत्यत आह — एतच्चेति । एतत् = श्तपा शपेति श्लोकसिद्धं सर्वमपि, इह = सूत्रे ,एकाज्ग्रहणेनैव एकदेशानुमत्या ज्ञाप्यत इत्यर्थः । ननु "हनो वध लिङि"लुङि चे॑ति आह — अच इत्येकत्वेत्यादि व्यावर्त्त्यत इत्यन्तम् ।एकाच उपदेशेऽनुदात्ता॑दित्यत्र हि एकग्रहणमपनीयाऽच इत्युक्तेऽपि एकाऽच्कादिति लभ्यते, एकवचनोपात्तस्यैकत्वस्य त्यागे प्रमाणाऽभावात् । न चैवं सति एकत्वविशिष्टादचः परस्येत्येव लभ्येत,नत्वेकाच्कादिति बहुव्रीह्रर्थ इति वाच्यम्, अनुदात्तोपदेशेपरिगणने शक्लृपचिमुच्यादीनां परिगणनसामर्थ्येन "अच" इत्यस्य मत्वर्थलक्षणामाश्रित्य एकाज्वतो ग्रहणसंभवात् । तदेवमच इत्यनेनैव एकाच्कादिति सिद्धे यदेकग्रहणं करोति तत्सामथ्र्यादुपदेशे सर्वत्र एकाजेव न तु कस्मश्चदप्युपदेशे अनेकाजित्यर्थकल्पनया कदाचिदनेकाच्कोपदेशधातुव्र्यावत्र्यत इत्यर्थ- । तेनेति । उपदेशे सर्वत्र एकाजेवेत्यर्थलाभेन, हन्त्युपदेशे — हनिति स्थान्युपदेशे — एकाचोऽपि सतो हनिति धातोरादेशस्य वधेः परस्य इण्निषेधो नेत्यर्थ- । कुत इत्यत आह — आदेशोपदेश इति ।अवधी॑दित्यत्र "अतो हलादेर्लघो" रिति वृद्धिनिवृत्तये हनो वधादेशस्य अदन्तताया भाष्ये उक्तत्वादिति भावः । ननु के तेऽनुदात्ता धातव इत्यत आह — अनुदात्तास्त्वनुपदमेवेति । पदस्य पश्चादनुपदम् । पदमात्रे अतीते सतीत्यर्थः । अनन्तरमेवेति यावत् । एधांचकृषे इति । इडभावे प्रत्ययावयवत्वात्षत्वम् । एधांचक्राथे इति । लिट आथामादेशः । टेरेत्वंद्वित्वादि पूर्ववत् । लिटो धवमष्टेरेत्वे द्वित्वादौ एधाचकृ — ध्वे इति स्थिते ।
एकाच उपदेशेऽनुदात्तात् - उभयान्वयीति । मध्ये पाठाद्देहलीदीपन्यायेन पूर्वोत्तराभ्यां संबध्यत इत्यर्थः । तत्रोत्तरान्वयस्य कर्तुं गन्तुमित्यादाविण्निषेधः फलम् ।नित्स्वरेण संप्रत्युदात्तत्वात् । पिपक्षतिबिभत्सतीत्यादाविण्निषेधस्तु पूर्वान्वयस्य फलम् । द्वित्वे कृतेऽनेकाच्त्वात् । नन्वेकाच इत्युक्ते ह्रुपदेशपदेनाऽप्यन्वयः स्वीकर्तव्यस्तदेव मास्तु, उपदेशेऽनुदात्तादित्यनेनैवेष्टसिद्धेरिति शङ्कते- एकाचः किमिति । पिपक्षतीत्यादाविव यङ्लुक्यपीण्निषेधः स्यादेवेत्याशङ्कायायमाह णत्वं न । शपा यथा — भरेति । तेन बिभर्तेः सनि बिभरिषतीत्यत्रसनीवन्तर्दे॑तीड्विकल्पो न, किंतु नित्यमेवेट् ।एकाच॑ इति निषेधाऽप्रवृत्तेः । अनुबन्धेन निर्देशो द्विधा, स्वरूपेणेत्संज्ञकत्वेन च । स्वरूपेण यथा — शीङः सार्वधातुके गुणः॑,दीङो युडचि॑इति । शेशितः । देद्यितः । तसि क्तप्रत्यये चेमे क्रमेणोदाहरणे । इत्संज्ञकत्वेन यथा — अनुदात्तहितः॑ इति । तेन स्पर्धशीङादिभ्यःअनुदात्तङितः॑ इत्यात्मनेपदं न । पास्पर्धीति । शेशयीति । गणेन यथा — बेभिदीति ।रुधादिभ्यः॑ इति श्नम्न । एकाज्ग्रहणं प्रकृतसूत्रे । तेन बेभेदिता चेच्छेदितेत्यादाविण् निषेधो न । एतच्चेति । न च श्तिपा शप#आद्यंशे कथमिदं ज्ञापकमिति शङ्क्यम्, एकादेशानुमतिद्वारा सर्वत्र ज्ञापनस्यउपपदमति॑ङित्यादौ दृष्टत्वात् । अत एव तत्रगतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्ते॑रिति सिद्धमित्युक्तम् । अनन्यार्थैः स्यतिहन्तिभरेत्यादिभिः श्तिप्शबादिभिरेव ज्ञापनसंभवाच्च ।अपरस्पराः॑ इति सूत्रे सातत्यग्रहणेन एकदेशानुमत्यालुम्पेदवश्यमः कृत्ये॑ इत्यादिपूर्वाचार्यश्लोको ज्ञापित इति तु तत्रैवाऽवोचाम । मनोरमायां त्वेकदेशानुमतिद्वारा पूर्वाचार्यपठितपरिभाषाया ज्ञापनस्यगतिकारकोपपदाना॑मित्यादौ दृष्टत्वादित्युक्तं, तदयुक्तमिति नव्याः ।गतिकारकोपपदाना॑मित्याद्येव हि पूर्वाचार्याणां परिभाषा । न च तज्ज्ञापनं तत्रैव दृष्टमिति युज्यते वक्तुमिति । तद्वत इति । न च मत्वर्थलक्षणायां मानाऽभावः, वसत्यादीनामनुदात्तपाठस्यैव तत्र मानत्वात् । न चेदानीमनुदात्तपाठ परिभ्रष्टः, आधुनिकानां वसतिशल्कित्यादिपाठस्त्वनार्षत्वान्न मानमिति शङ्क्यं, पाणिनिना पठितानामेवानुदात्तधातूनामाधुनिकैव्र्याख्यातृपरम्परया सङ्गृहीतत्वात् । अन्यथा एकोऽच् यस्येति बहुव्रीहिलाभार्थमेकग्रहणे कृतेऽप्यनुदात्तपाठस्य परिभ्रष्टत्वाद्वसतिशक्लादयोऽनुदात्ताः, न तु भ्वेधादय इति निर्धारणं न स्यात् । एकग्रहणेति । नन्वेकाज्ग्रहणं यङ्लुग्व्यावृत्त्यर्थमित्युक्त्वा पुनरेकग्रहणसामथ्र्यादित्यक्तौ परस्परव्याघातः स्यादिति चेत् । अत्राहुः — - एकाच्शब्देनैकाज्ग्रहणं यङ्लुग्व्यावृत्त्यर्थमिति नार्थः, किं तु वस्तुगत्यैवैकाज्ग्रहणं, तच्चैकग्रहणं विनैव लभ्यत इत्यदोष इति । वधेरिति । यस्तु तद्व्यावृत्तयेऽनिट्कारिकास्वदन्तपर्युदास उक्तो व्याघ्रभूतिना, स एव प्राचाऽनुसृतः ।अदूदृदन्तरुरुआउक्ष्णुशीयुनुक्षुइआडीङ्श्रिभिः । वृङवृञ्भ्यां च विनैकाचः स्वरान्ता धातवोऽनिटः॑ इति । स चादन्तपर्युदास इहोपेक्षितः । सूत्राननुगुणत्वात् । तथाहि — सर्वे सर्वपदादेशाः॑ इति न्यायेनकृ॑इत्यादेः करित्यादिरादेशस्तस्य यथा स्थान्युपदेशं गृहीत्वा कर्ता हर्तेत्यादौ निषेधः प्रवर्तते तथैव वधादेशेऽपि प्रवर्तमानः केन वार्यताम् । अदन्तपर्युदाससामथ्र्यादिति चेन्न, सूत्रकारेणाऽपर्युदस्तत्वादिति भावः ।
लघुसिद्धान्तकौमुदी
ऋतो हन्तेश्च स्यस्येट्। ह्वरिष्यति। ह्वरतु। अह्वरत्। ह्वरेत्॥
महाभाष्यम्
एकाच उपदेशेऽनुदात्तात् एकाज्ग्रहणं किमर्थम् ? ।। एकाज्ग्रहणं जार्गत्यर्थम् ।। एकाज्ग्रहणं क्रियते ।। (किं प्रयोजनम् ? ।। जार्गत्त्यर्थम् ।) जागर्तेरिट्प्रतिषेधो मा भूदिति(7) । जागरिता जागारतुम् ।। नैतदस्ति प्रयोजनम् ‐ उपदेशेऽनुदात्तादित्युच्यते जागर्तिश्चोपदेशे उदात्तः ।। न ब्रूम इहार्थं जार्गत्त्यर्थमेकाज्ग्रहणं कर्तव्यमिति ।। किं तर्हि ? ।। उत्तरार्थम् । ।। श्र्युकः कितीतीट्प्रतिषेधं वक्ष्यति स जागर्तेर्मा भूदिति, ‐ जागरितः जागरितवानिति ।। एतदपि नास्ति प्रयोजनं ‐ जागर्तेर्गुण उच्यते(1) वृद्धिविषये प्रतिषेधविषये च स बाधको भविष्यति । तत्र गुणे कृते रपरत्वे(2) च कृतेऽनुगन्तत्वादिट्प्रतिषेधो न भविष्यति ।। ननु चोपदेशाधिकारात्प्राप्नोति ।। उपदेशग्रहणं निवर्तयिष्यते ।। यदि निर्वत्त्यते(3) ‐ स्तीर्त्वा पूर्त्वा ‐ इत्त्वोत्त्वयोः कृतयो रपरत्वे चाऽनुगन्तत्वादिट्प्रतिषेधो न प्राप्नोति ।। नैषः दोषः ‐ आनुपूर्व्या सिद्धमेतत्(4) ।। नात्राऽकृत इट्प्रतिषेधे इत्त्वोत्त्वे प्राप्नुतः ।। किं कारणम् ? ।। न क्त्वा सेडिति कित्त्वप्रतिषेधात् ।। इदं तर्हि ‐ - आतिस्तीर्षति निपुपूर्षति । इत्त्वोत्वयोः कृतयो रपरत्वे चाऽनुगन्तत्वादिट्प्रतिषेधो न प्राप्नोति ।। मा भूदेवं ‐ श्र्युकः कितीति, इट्सनि वेत्येवं भविष्यति ।। इदं तर्हि प्रयोजनम्(1) ‐ आस्तीर्णं निपूर्ताः पिण्डाः । इत्त्वोत्त्वयोः कृतयोः रपरत्वे चाऽनुगन्तत्वादिट्प्रतिषेधो न प्राप्नोति ।। मा भूदेवम्, इट्सनि वेति सनि विभाषा, यस्य विभाषेति प्रतिषेधो भविष्यति ।। इहार्थमेव तर्हि ‐ ।। वध्यर्थमेकाज्ग्रहणम्(1) ।। (वध्यर्थमेकाज्ग्रहणं कर्त्तव्यम् ) ।। वध इट्प्रतिषेधो मा भूदिति ‐ वधिषीष्टेति ।। एतदपि नास्ति प्रयोजनं, क्रियमाणेऽपि एकाज्ग्रहणे वध इट्प्रतिषेधः प्राप्नोति, ‐ वधिषीष्टेति ।। किं कारणम् ? ।। वध इटप्रतिषेधः सन्निपात एकाच्त्वात्प्रकृतेश्चानुदात्तत्वात् ।। संनिपाते चैव हि वधिरेकाच्श्रूयते प्रकृतिश्चास्याऽनुदात्ता ।। किं पुनः कारणमेवं विज्ञायते ‐ उपदेशेऽनुदात्तादेकाचः श्रूयमाणादिति ।। यङ्लोपार्थम् ।। यङ्लोपे मा भूदिति । बेभिदिता बेभिदितुम् । चेच्छिदिता चेच्छिदितुम् । ।। एकाच उपदेशेऽनुदात्तादित्युपदेशवचनमनुदात्तविशेषणं चेत्कृञ्ञादिभ्योलिटि नियमाऽनुपपत्तिरप्राप्तत्वात्प्रतिषेधस्य ।। एकाच उपदेशेऽनुदात्तादित्युपदेशवचनमनुदात्तविशेषणं चेत्कृञ्ञादिभ्यो लिटि नियमस्याऽनुपपत्तिः ।। किं कारणम् ? ।। अप्राप्तत्वात्प्रतिषेधस्य । द्विर्वचने कृते उपदेशेऽनुदात्तादेकाचः श्रूयमाणादितीट्प्रतिषेधो न प्राप्नोति । असतीट्प्रतिषेधे नियमो नोपपद्यते ।। असति नियमे को दोषः ? ।। तत्र पचादिभ्य इड्वचनम् ।। तत्र पचादिभ्य इड्वक्तव्यः । पेचिव । शेकिम ।। सनश्चेट्प्रतिषेधः ।। सनश्चेट्प्रतिषेधो वक्तव्यः बिभित्सति चिच्छित्सति । द्विर्वचने कृते उपदेशेऽनुदात्तादेकाचः श्रूयमाणादितीट्प्रतिषेधो न प्राप्नोति । इह च नीत्तः ‐ तत्वे कृतेऽनच्कत्वादिट्प्रतिषेधो(1) न प्राप्नोति ।। नैषः दोषः । आनुपूर्व्या सिद्धमेतत् । नात्राऽकृते इट्प्रतिषेधे तत्वं प्राप्नोति।। किं कारणम्(1) ।। ति कितीत्युच्यते ।। यदप्युच्यते ‐ -एकाच उपदेशेऽनुदात्तादित्युपदेशवचनमनुदात्तविशेषणं चेत्कृञ्ञादिभ्यो लिटि नियमानुपपत्तिरप्राप्तत्वात्प्रतिषेधस्येति, मा भून्नियमः ननु चोक्तं ‐ तत्र पचादिभ्य इड्वचनमिति ।। नैषः दोषः ‐ उक्तं तत्र थल्ग्रहणस्य प्रयोजनम् ।। (किम्(1) ?) ।। समुच्चयो यथा विज्ञायेत(2) ‐ थलि च सेटि, क्ङिति च सेटीति ।। यदप्युच्यते सनश्चेट्प्रतिषेध इति ।। उभयविशेषणत्वात्सिद्धम् ।। उभयमुपदेशग्रहणेन विशेषयिष्यामः ‐ उपदेशेऽनुदात्तादुपदेशे एकाच इति ।। यङ्लोपे कथम्(2) ? ।। यङ्लोपे च(3) तदन्तद्विर्वचनात् ।। सन्यङन्तस्य स्थाने द्विर्वचनं तत्र संप्रमुग्धत्वात्प्रकृतिप्रत्ययस्य नष्टः स भवति यः स एकाजुपदेशेऽनुदात्तः ।। अथापि द्विःप्रयोगो द्विर्वचनमेवमपि न दोषः ।। न ह्यस्य भिद्युपदेश उपदेशः ।। किं तर्हि ? ।। बेभिद्युपदेश उपदेशः ।। अथापि भिद्युपदेश उपदेश एवमपि न दोषः ‐ -अकारेण व्यवहितत्वान्न भविष्यति ।। ननु च लोपे कृते नास्ति व्यवधानम् ? ।। स्थानिवद्भावाद्व्यवधानमेव ।। न सिध्यति । पूर्वविधौ स्थानिवद्भावो न चाऽयं पूर्वविधिः ? ।। एवं तर्हि(1) ‐ पूर्वस्मादपि विधिः पूर्वविधिः ।। कः पुनरुपदेशो न्याय्यः ? ।। यः कृत्स्नः ।। कश्च कृत्स्नः ? ।। य उभयोः ।। यदि तर्हि य उभयोः स कृत्स्नः स च न्याय्यो वध इट्प्रतिषेधः प्राप्नोति ‐ -आवधिषीष्टेति ।। नैषः दोषः ‐ -आद्युदात्तनिपातनं करिष्यते स निपातनस्वरः प्रकृतिस्वरस्य बाधको भविष्यति(2) ।। एवमपि उपदेशिवद्भावो वक्तव्यो यथैव हि स निपातनस्वरः प्रकृतिस्वरं बाधते एवं प्रत्ययस्वरमपि बाधेत ‐ -आवधिषीष्टेति ।। नैषः दोषः ‐ -आर्धधातुकीयाः सामान्येन भवन्त्यनवस्थितेषु प्रत्ययेषु । तत्रार्धधातुकसामान्ये वधिभावे कृते सति शिष्टत्वात्प्रत्ययस्वरो भविष्यति ।। अथ के पुनरनुदात्ताः ? ।। आदन्ताः ‐ अदरिद्राः । इवर्णान्ताश्चाऽश्रिश्विडीशीदीधीवेवीङः(3) । उवर्णान्ताः ‐ -युरुणुक्षुक्ष्णुस्नूर्णुवर्जम्(4) । ऋदन्ताश्चाऽजागृवृङवृञ्ञः(5) शकिः ‐ कवर्गान्तानाम् । पचिवचिसिचिमुचिरिचिविचिप्रच्छियजिभजिसृजित्यजिभुजिभ्रस्जिमस्जिरुजियुजिणिजिविजिसञ्ञ्जिस्वञ्ञ्जयश्चवर्गान्तानाम्। अ(6)दिसदिशदिह(7)दिछिदितुदिनु(6)दिस्विदिभिदिस्कन्दिक्षुदिखिद्यतिविन्दि(7)(विन्ति(8))विद्यतिराधियुधि(8)बुधिशुधि(8)क्रुधिरुधिसाधिव्यधिबन्धिसिध्यतिहनिमन्यतयस्तवर्गान्तानाम् । तपितिपिवपिशपिछु(1)पिलुपिलिपिस्वप्यापिक्षिपिसृपितृपिदृपियभिरभिलभियमिरमिनमिगमयः ‐ पवर्गान्तानाम् । रुशिरिशिदिशिविशिलिशिस्पृशिदृशिक्रुशिमृशिदंशित्विषिमृषिकृषिश्लिषिविषिपिषितुषिदुषिद्विषिघसिवसिदहिदिहिवहिदुहिनहिरुहि(वहि(2))लिहिमिहयश्चोष्मान्तानाम्(3) । वसिः प्रसारणी ।। ( एकाच उपदेशे )