Page loading... Please wait.
7|1|91 - णलुत्तमो वा
॥ तस्मै पाणिनये नमः ॥
7|1|91
SK 2283
णलुत्तमो वा   🔊
सूत्रच्छेदः
णल् (प्रथमैकवचनम्) , उत्तमः (प्रथमैकवचनम्) , वा (अव्ययम्)
अनुवृत्तिः
णित्  7|1|90 (प्रथमैकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
णल्-उत्तमः णित् वा
सूत्रार्थः
लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य णल्-प्रत्ययः केवलं विकल्पेन णित् भवति ।
लिट्-लकारस्य विषये परस्मैपदस्य प्रत्ययानाम् परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3|4|82 इत्यनेन भिन्नाः आदेशाः विधीयन्ते । अनेनैव सूत्रेण उत्तमपुरुष-एकवचनस्य मिप्-प्रत्ययस्य णल्-आदेशः भवति । अस्मिन् आदेशः णकारः इत्संज्ञकः अस्ति, अतः अयं आदेशः वस्तुतः "णित्" अस्ति, परन्तु वर्तमानसूत्रेण अस्य णित्वम् केवलं विकल्पेन भवति । णित्वाभावात् अचो ञ्णिति 7|2|115 इत्यनेन अजन्तस्य अङ्गस्य वृद्धि-एकादेशः, तथा अतः उपधायाः 7|2|116 इत्यनेन अङ्गस्य उपधा-अकारस्य वृद्धि-एकादेशः - द्वावपि न विधीयेते । उदाहरणानि एतानि -

1. पच्-धातोः लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य प्रक्रिया -
पच् + लिट् [परोक्षे लिट् 3|2|115 इति लिट्]
→ पच् पच् + लिट् [लिटि धातोरनभ्यासस्य 6|1|8 इति द्वित्वम्]
→ प पच् + लिट् [हलादि शेषः 7|4|60 इति चकारलोपः]
→ प पच् + मिप् [तिप्तस्झि... 3|4|78 इति मिप्-प्रत्ययः]
→ प पच् णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3|4|82 इति मिप्-इत्यस्य णल्-आदेशः]
→ प पाच्/पच् + अ [णलुत्तमो वा 7|1|91 इति वैकल्पिकम् णित्वम् । णित्वे अतः उपधायाः 7|2|116 इति अङ्गस्य उपधा-अकारस्य वृद्धिः आकारः]
→ पपाच / पपच

2. नी-धातोः लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य प्रक्रिया -
नी + लिट् [परोक्षे लिट् 3|2|115 इति लिट्]
→ नी नी + लिट् [लिटि धातोरनभ्यासस्य 6|1|8 इति द्वित्वम्]
→ नि नी + लिट् [ह्रस्वः 7|4|59 इति अभ्यासस्य ह्रस्वः]
→ नि नी + मिप् [तिप्तस्झि... 3|4|78 इति मिप्-प्रत्ययः]
→ नि नी णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3|4|82 इति मिप्-इत्यस्य णल्-आदेशः]
→ नि नै अ / नि ने अ [णलुत्तमो वा 7|1|91 इति वैकल्पिकम् णित्वम् । णित्वे अचो ञ्णिति 7|2|116 इति इकारस्य वृद्धिः ऐकारः । णित्वाभावे सार्वधातुकार्धधातुकयोः 7|3|85 इति इकारस्य गुणः एकारः]
→ निनाय / निनय [एचोऽयवायावः 6|1|78 इति आय्/अय्-आदेशः]

3. पू-धातोः लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य प्रक्रिया -
पू + लिट् [परोक्षे लिट् 3|2|115 इति लिट्]
→ पू पू + लिट् [लिटि धातोरनभ्यासस्य 6|1|8 इति द्वित्वम्]
→ पु पू + लिट् [ह्रस्वः 7|4|59 इति अभ्यासस्य ह्रस्वः]
→ पु पू + मिप् [तिप्तस्झि... 3|4|78 इति मिप्-प्रत्ययः]
→ पु पू णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3|4|82 इति मिप्-इत्यस्य णल्-आदेशः]
→ पु पौ अ / पु पो अ [णलुत्तमो वा 7|1|91 इति वैकल्पिकम् णित्वम् । णित्वे अचो ञ्णिति 7|2|116 इति उकारस्य वृद्धिः औकारः । णित्वाभावे सार्वधातुकार्धधातुकयोः 7|3|85 इति उकारस्य गुणः ओकारः]
→ पुपाव / पुपव [एचोऽयवायावः 6|1|78 इति आव्/अव्-आदेशः]

4. कृ-धातोः लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य प्रक्रिया -
कृ + लिट् [परोक्षे लिट् 3|2|115 इति लिट्]
→ कृ कृ + लिट् [लिटि धातोरनभ्यासस्य 6|1|8 इति द्वित्वम्]
→ कर् कृ + लिट् [उरत् 7|4|66 इति ऋकारान्त-अभ्यासस्य ऋकारस्य अकारः । उरण् रपरः 1|1|51 इति सः रपरः]
→ क कृ + लिट् [हलादि शेषः 7|4|60 इति ककारलोपः]
→ च कृ + लिट् [कुहोश्चुः 7|4|62 इति ककारस्य चकारः]
→ च कृ + मिप् [तिप्तस्झि... 3|4|78 इति मिप्-प्रत्ययः]
→ च कृ णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3|4|82 इति मिप्-इत्यस्य णल्-आदेशः]
→ च कार् अ / च कर् अ [णलुत्तमो वा 7|1|91 इति वैकल्पिकम् णित्वम् । णित्वे अचो ञ्णिति 7|2|116 इति ऋकारस्य वृद्धिः कारः । णित्वाभावे सार्वधातुकार्धधातुकयोः 7|3|85 इति ऋकारस्य गुणः अकारः । उभयत्र उरण् रपरः 1|1|51 इति रेफः]

ज्ञातव्यम् - अनेन सूत्रेण केवलं लिट्लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य णल्-प्रत्ययस्य वैकल्पिकं णित्वम् भवति, प्रथमपुरुषैकवचनस्य णल्-प्रत्ययस्य न ।
One-line meaning in English
The णल्-प्रत्यय of लिट्लकार-परस्मैपद-उत्तमपुरुषैकवचन is only optionally णित्.
काशिकावृत्तिः
उत्तमो णल् वा णित् भवति। णित्कार्यं तत्र वा भवति इत्यर्थः। अहं चकर, अहं चकार। अहं पपच, अहं पपाच।
`णित्कार्यं वा भवतोत्यर्थः` इति। अनेन णित्कार्यस्य पक्षेऽबावाण्णिद्वा भवतीत्युच्यते, न तु णित्त्वस्यैव प्रतिषेध इति दर्शयति। न तु णल उपदेशावस्थायां सिद्धं णित्त्वं तद्वचनशतेनापि शक्यं तिषेद्धुमिति भावः। `चकार, चकर` इति। यदा णित्त्वं तदा `अचो ञ्णिति` 7|2|115 इति वृद्धिः, अन्यदार्धधातुकलक्षणो गुणः। `पपाच, पपच` इति। यदा णित्त्वं तदा `अकत उपधायाः` 7|2|116 इति वृद्धिः, अन्यदा तदभावः॥
णित्कार्यं वा तत्र भवतीत्यर्थं इति । एतेन पक्षे णित्कर्यस्याभावाद्वा णिद्ववतीत्युच्यते, न तु पक्षे णकारस्येत्संज्ञाप्रतिषेधादिति दर्शयति । एतच्च पूर्वत्र कार्यातिदेशाल्लभ्यते । चकारेति । णित्वपक्षे वृद्धिः, अन्यदा तदभावः ॥
सिद्धान्तकौमुदी
उत्तमो णल्वाणित्स्यात् । चखाद । चखद ॥
णलुत्तमो वा - णलुत्तमः । णित्स्यादिति ।गोतो णि॑त्यतस्तदनुवृत्तेरिति भावः । चखाद चखदेति । णित्त्वे उपधावृद्धिः । तदभावे न ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
उत्तमो णल् वा णित्स्यात्। जगाद, जगद। जगदिव। जगदिम। गदिता। गदिष्यति। गदतु। अगदत्। गदेत्। गद्यात्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.