Page loading... Please wait.
7|1|9 - अतो भिस ऐस्
॥ तस्मै पाणिनये नमः ॥
7|1|9
SK 203
अतो भिस ऐस्   🔊
सूत्रच्छेदः
अतः (पञ्चम्येकवचनम्) , भिस (षष्ठ्येकवचनम्) , ऐस् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
अतः अङ्गात् भिसः ऐस्
सूत्रार्थः
अदन्तात् अङ्गात् परस्य भिस्-प्रत्यस्य ऐस्-आदेशः भवति ।
अकारान्तशब्दात् तृतीया-बहुवचनस्य भिस्-प्रत्यये परे तस्य भिस्-प्रत्यस्य ऐस्-आदेशः भवति । अयम् आदेशः अनेकाल् अस्ति, अतः अनेकाल्शित्सर्वस्य 1|1|55 इत्यनेन सम्पूर्णस्य भिस्-प्रत्ययस्य स्थाने भवति । यथा -

राम + भिस्
→ राम + ऐस् [अतो भिस् ऐस् 7|1|9 इति भिस्-प्रत्ययस्य ऐस्-आदेशः]
→ रामैस् [वृद्धिरेचि 6|1|88 इति वृद्धि-एकादेशः]
→ रामैरुँ [ससजुषोः रुँ 8|2|66 इति रुँत्वम्]
→ रामैः खरवसानयोर्विसर्जनीयः 8|3|15 इति विसर्गः]

ज्ञातव्यम् - अस्मिन् सूत्रे "अतः" इत्यत्र तपरकरणम् कृतम् अस्ति, अतः आकारान्तशब्दानाम् विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - माला + भिस् → मालाभिः ।
One-line meaning in English
The भिस्-प्रत्यस्य following an अदन्त अङ्ग is converted to ऐस्.
काशिकावृत्तिः
अकारान्तादङ्गादुत्तरस्य भिसः ऐसित्ययम् आदेशो भवति। वृक्षैः। प्लक्षैः। अतिजरसैः। जरामतिक्रान्तैः इति विगृह्य समासे कृते ह्रस्वत्वे च भिस ऐसादेशो भवति। एकदेशविकृतमनन्यवद् भवति इति जरशब्दस्य जरसादेशः। सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति परिभाषा इयम् अनित्या, कष्टाय क्रमणे 3|1|14 इति निर्देशात्। अतः इति किम्? अग्निभिः। वायुभिः। तपरकरणं किम्? खट्वाभिः। मालाभिः। एत्वम् भिसि परत्वाच् चेदत ऐस् क्व भविष्यति। कृते ऽप्येत्वे भौतपूर्व्यादैस् तु नित्यस् तथा सति। अतः इत्यधिकारो जसः शी इति यावत्।
Text Unavailable. Please use feedback link below to provide the text if you have.
अतिजरसैरिति । अत्रैव चैकारस्य श्रवणार्थमैसादेशः कृतः । वृक्षैरित्यादावेसादेशेऽपि वृद्ध्या रुपं सिद्धम् । अतो गुणे इति पररुपं तु न भवति यदि स्यात, इसमेव विदध्यात् । परत्वादिति । एत्वस्यावकाशः - वृक्षेषु, ऐसोऽवकाशः कृत एत्वे, प्रागेत्वादुभयप्रसङ्गे परत्वादेत्वप्रसङ्ग इति चेन्मन्यसे, अत एस क्व भविष्यति एत्वे कृते मुख्यमकारान्त न भवतीति प्रश्नः कृत एत्वे भौतपूर्व्यादिति । भूतपूर्वस्य भावो भौतपूर्व्यम्, साम्प्रतिकाभावाद्भूतपूर्वगतिराश्रीयत इति भावः । एस् तु नित्यस्तथा सतीति । एवं हि सत्यैस्भावो नित्यः, कृताकृतप्रसङ्गित्वात् । एत्वं त्वैसि कृते न प्राप्नोति अझलादित्वात् । न च तत्र भूतपूर्वगतिः मुख्यस्यैव सम्भावात् । एतच्चोद्यपरिहारमुत्सर्गापवादभावमनाश्रित्य कृतं द्रष्टव्यम्, तदाश्रयणे हि नाप्राप्त एत्व आरम्भादैसपवाद इत्ययुक्तो विप्रतिषेधः स्यात् ॥
सिद्धान्तकौमुदी
अकारान्तादङ्गाद्भिस ऐस् स्यात् । अनेकाल्त्वात्सर्वादेशः । रामैः ॥
अतो भिस ऐस् - अतो भिस ऐस् । "अत" इति पञ्चमी ।अङ्गस्ये॑त्यधिकृतंपञ्चम्या विपरिणम्यते । "अत" इति च तस्य विशेषणम् । विशेषणत्वाच्च त्तदन्तविधिः । तदाह — अकारान्तादिति । रुत्वविसर्गौ सिद्धवत्कृत्याह — रामैरिति । यद्यपि एसि विहितेऽपि वृद्धौ रामैरित्यादि सिद्धम् । नच अतो गुण इति पररूपं शङ्क्यम्, एकारोच्चारणसामथ्र्यादेवतदसम्भवात् । अन्यथा इसमेव विदध्यात् । तथापि एदैतोर्द्विमात्रत्वाऽविसेषात्प्रक्रियालाघवाच्च ऐसो विधिः । अलोऽन्त्यस्येत्यन्तादेशमाशङ्क्याह-अनेकाल्त्वादिति । अथ चतुर्थीविभक्तिः । तत्र ङे इति ङकारस्य लशक्केतीत्संज्ञायां लोपः । तदुच्चारणं तु घेर्ङितीत्याद्यर्थम् । राम-ए इति स्थिते ।
अतो भिस ऐस् - अतो भिस ऐस् । ननुए॑सित्येवास्तु । न चअतो गुणे॑ इति पररूपापत्तिः । एकारोच्चारणवैयथ्र्यापत्तेः । अन्यता इसमेव विदध्यादिति चेत्सत्यम् । एदैतोर्द्विमात्रत्वाऽविशेषेण गौरवाऽभावात् ।बहुलं छन्दसि॑ इत्यत्रअनतोऽपि भवति नद्यै॑रिति काशिकोदाह्मतप्रयोगस्य ऐस्करणं विना अनिर्वाहाच्च । केचिदैस्करणं निर्जरसैरित्यैकारश्रवणार्थमिति व्याचख्युः, तच्चिन्त्यम् । संनिपातपरिभाषया जरसादेशाऽप्रवृत्तेर्निर्जरैरित्येव भाष्ये सिद्धान्तितत्वात् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अतो भिस ऐस् इह वृक्षैः ल्पक्षैरिति परत्वादेत्त्वं प्राप्नोति । (एत्वे कृते(3) विहतनिमित्तत्वादैस्त्वं न भविष्यति । ।। एत्वं(1) भिसि परत्वाच्चेदतऐस् क्व भविष्यति ? ।। ) ऐस्भाव इदानीं क्व भविष्यति ? ।। कृते एत्वे भौतपूर्व्यात् ।। कृते एत्वे भूतपूर्वमकारान्तमिति ऐस् भविष्यति ।। ऐस्तु नित्यस्तथा सति ।। एवं सति नित्य ऐस्भावः, कृतेऽप्येत्वे प्राप्नोत्यकृतेऽपि प्राप्नोति । नित्यत्वादैस्त्वे कृते विहतनिमित्तत्वादेत्वं न भविष्यति ।। ।। एत्वं भिसि परत्वाच्चेदत ऐस् क्व भविष्यति ? कृते एत्वे भौतपूर्व्यादैस्तु नित्यस्तथा सति ।। 7-1-10- बहुलं छन्दसि वेत्तेर्विभाषा ।। बहुलं छन्दसि ।। अतो भिस ऐस् ।। इदं(1) द्विःक्रियते एकं शक्यमकर्त्तुम् ।। इदं बहुलं छन्दसीति द्विःक्रियते एकं शक्यमकर्तुम् ।। कथम् ? ।। यदि तावत्पूर्वं क्रियते परं न करिष्यते, अतो भिस ऐसित्यत्र बहुलं छन्दसीत्येतदनुवर्तिष्यते । अथ परं क्रियते पूर्वं न(2) करिष्यते, बहुलं छन्दसीत्यत्र रुडप्यनुवर्त्तिष्यते ।। अपर आह ‐ (।। उमे(1) बहुलग्रहणे एकं छन्दोग्रहणं शक्यमकर्त्तुम् ।।) उभे बहुलग्रहणे एकं छन्दोग्रहणं शक्यमकर्तुम् ।। कथम् ? ।। इदमस्ति वेत्तेर्विभाषा । ततः छन्दसि । छन्दसि च विभाषा । ततः (ठअतो भिस(3) ऐस् ।) अतो भिस ऐस् भवति । छन्दसि विभाषेति ।।