Page loading... Please wait.
7|1|84 - दिव औत्‌
॥ तस्मै पाणिनये नमः ॥
7|1|84
SK 336
दिव औत्‌   🔊
सूत्रच्छेदः
दिवः (षष्ठ्येकवचनम्) , औत् (प्रथमैकवचनम्)
अनुवृत्तिः
सौ  7|1|82 (सप्तम्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
दिवः अङ्गस्य सौ औत्
सूत्रार्थः
दिव्-शब्दस्य सुँ-प्रत्यये परे "औ" आदेशः भवति ।
"औत्" इत्यत्र तकारः उच्चारणार्थः । अतः अयम् एकाल् आदेशः अस्ति, अतः दिव्-शब्दस्य अन्तिमवर्णस्य स्थाने आगच्छति । प्रक्रियाः इयम् -

दिव् + सुँ
→ दि औ + सुँ [दिव औत् 7|1|84 इति औ-आदेशः]
→ द्यौ + सुँ [इको यणचि 6|1|77 इति यणादेशः]
→ द्यौः [ससजुषोः रुः इति रूत्वम् , 8|2|66, खरवसानयोर्विसर्जनीयः 8|3|15 इति विसर्गनिर्माणम्] ।

ज्ञातव्यम् -
1. "दिव् +सुँ" इत्यत्र हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6|1|68 इत्यनेन सुँप्रत्ययस्य लोपे प्राप्ते नित्यत्वात् परत्वात् च दिव औत् 7|1|84 इति औ-आदेशः भवति । अत्र हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6|1|68 तथा दिव औत् 7|1|84 एतयोर्मध्ये उत्सर्ग-अपवादसम्बन्धः नास्ति इति ज्ञातव्यम्, यतः औत्वम् "अङ्गस्य" विधीयते, सुँलोपः "प्रत्ययस्य" विधीयते । स्थानिनौ भिन्नौ स्तः । अतः किमपि सूत्रम् प्रथमम् आगन्तुम् शक्नुयात् । परन्तु नित्यत्वात् औत्-आदेशः प्रथमं भवति । सुँलोपे कृते अकृते च औत्वम् भवत्येव, परन्तु औत्वे कृते सुँलोपः न भवितुमर्हति । अतः औत्वम् नित्यम् अस्ति, सुँलोपः अनित्यः अस्ति । अतः नित्यत्वात् औत्-आदेशः प्रथमं भवति ।

2. "द्यौ + सुँ" इत्यत्र अल्विधिः अस्ति, अतः स्थानिवद्भावः न भवति । अतः हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6|1|68 इत्यनने सुँ-प्रत्ययस्य लोपः भवितुं न अर्हति ।

3. अनया परिभाषया पदाधिकारे अङ्गाधिकारे च ये आदेशाः विधीयन्ते, ते "तदन्तस्य" अपि भवन्ति । अतः दिव्-इत्यस्य विहितः अयम् आदेशः "सुदिव्", इत्यस्य कृते अपि भवति ।
One-line meaning in English
The word दिव् gets the "औ" आदेश in presence of the प्रत्यय सुँ ।
काशिकावृत्तिः
दिवित्येतस्य सौ परतः औतित्ययम् आदेशो भवति। द्यौः। दिविति प्रातिपदिकम् अस्ति निरनुबन्धकम्। धातुस् तु सानुबन्धकः, स इह न गृह्यते, अक्षद्यूः।
`द्यौः` इति। औत्त्वे कृते यणादेशः। इहाक्षद्यूरित्यक्षैर्दीष्यतीति क्विपि कृते तदाश्रये चान्तरङ्गत्वात्? `च्छ्वोः शूजनुनासिके च` 6|4|19 इत्युठ्। एकदेशविकृतसयानन्यत्वाद्दिव्शब्दं एवायमित्यूकगारस्योत्त्वं प्राप्नोति, तत्? कस्मान्न भवति? इत्याह--`दिविति प्रातिपदिकम्` इत्यादि। अस्त्येवायं दिव्शब्दो धातुः, अस्ति चाव्युत्पन्नं प्रातिपदिकम्। तत्र धातुः सानुबन्धकः, अस्य `उदितो वा` 7|2|56 इत्युदित्कार्यम्। प्रातिपदिकं तु निरनुबन्धकम्, न हि तस्य किञ्चिदनुबन्धकार्यमस्ति। तत्र निरनुबन्धकपरिभाषया (व्या।प।56) धातुरिह गृह्रते। तेनान्नद्युरित्यत्र न भवत्योत्त्वप्रसङ्गः। तकारो मुखसुखार्थः॥
धातोः प्रतिषेधो वक्तव्यः - अक्षद्यौउरिति, एकदेशविकृतस्यानन्यत्वादूठि कृते दिवशब्द एवायमिति प्रसङ्ग इति अधात्वधिकारात्सिद्धम्, अधातोः इत्यनुवर्तते, क्व प्रकृतम् उग्दिचां सर्वनामस्थानेऽघातोः इति ।यदि तदनुवर्तेत, नपुंसकस्य झलचः इत्यत्रापि सम्बध्येत, ततश्च काष्टतङ्क्षि ब्राह्मणकुलानीत्यत्र न स्यात् । तस्मादशक्यं तदनुवर्तयितुम् ततश्च धातोः प्रतिषेधो वक्तव्य एव इत्याशङ्क्याह - दिविति प्रातिपदिकमित्यादि ॥
सिद्धान्तकौमुदी
दिविति प्रातिपदिकस्य औत्स्यात्सौ परे । अल्विधित्वेन स्थानिवत्त्वाभावात् हल्ङ्याप् (कौमुदी-252) इति सुलोपो न । सुद्यौः । सुदिवौ । सुदिवः । सुदिवम् । सुदिवौ ॥
दिव औत् - दिव औत् । "सावनडुहः" इत्यतः "सौ" इत्यनुवर्तते । "दिव" इति षष्ठन्तम् । "दिवेर्ङिविः" इत्यौणादिकमव्युत्पन्नं वा प्रातिपदिकं गृह्रते, नतु "दिवुक्रीडादौ" इति धातुः,निरनुबन्धग्रहणे न सानुबन्धकस्ये॑ति न्यायात् । तदाह — दिविति प्रातिपदिकस्येति । औदिति तकार उच्चारणार्थो नत्वादेशे तकारः श्रूयते । एवं चानेकाल्त्वप्रयुक्तं सर्वादेशत्वं न । तकारस्य इत्संज्ञा तु न, फलाऽभावात् । तित्स्वरितस्य तु नात्र सम्भवः,तितिप्रत्ययग्रहण॑मिति वार्तिकात् । ननु सुदिव् सित्यत्र वकारस्यौत्त्वे इकारस्य यणि औकारस्य स्थानिवत्त्वेन हल्त्वाद्धल्ङ्यादिना सुलोपः स्यादित्यत आह्म — अल्विधित्वेनेति । औकारादेशस्थानिभूताद्वकारात्मकहलः परत्वमाश्रित्य प्रवर्तमानस्य सुलोपस्याऽल्विधित्वादिति भावः । सुद्यौरिति । आङ्गत्वात्तदन्तस्याप्यौत्त्वे यण् । रुत्वविसर्गौ । सुदिवाविति । अजादिषु सुदिव्शब्दोऽविकृत एवेति भावः ।
दिव औत् - दिव औत् । तकार उच्चारणार्थः । प्रतिपदिकस्येति । अव्युत्पन्नस्य,दिवेर्डिवि॑रिति न्यासोहितसूत्रेण व्युत्पन्नस्य वा ग्रहणं, नतुदिवु क्रीडादौ॑इति धातोः,निरनुबन्धकग्रहणे न सानुबन्धकस्ये॑ति परिभाषया । तेनाक्षद्यूरित्यादौ न भवति । न च तत्रान्तरङ्गत्वादूठेव स्यान्न तु औत्वप्रसक्तिरिति वाच्यम्, ऊठि कृतेऽप्येकदेशविकृतन्यायेनदिव औ॑दित्यास्यापि प्रसक्तिसंभवादिति दिक् ।
लघुसिद्धान्तकौमुदी
दिविति प्रातिपदिकस्यौत्स्यात्सौ। सुद्यौः। सुदिवौ॥
महाभाष्यम्
दिव औत् ।। दिव औत्त्वे धातुप्रतिषेधः(4) ।। दिव औत्त्वे धातोः प्रतिषेधो वक्तव्यः, अक्षद्यूरिति ।। अधात्वधिकारात्सिद्धम् ।। अधातोरिति वर्तते ।। क्व प्रकृतम् ? ।। उगिदचां सर्वनास्थानेऽधातोरिति वर्तते।।।।। । अधात्वधिकारात्सिद्धमिति चेन्नपुंसके दोषो भवति । काष्ठतडि्क्ष कूटतडि्क्ष । नपुंसकस्य झलचः ‐ अधातोरिति, प्रतिषेधः प्राप्नोति ।। उक्तं वा ।। किमुक्तम् ? ।। अननुबन्धकग्रहणे हि न सानुबन्धकस्ये ति ।। अथ वा संबन्धमनुवर्तिष्यते (ःथ्द्य;ति(5)) ।। (दिवऔत्) ।।