Page loading... Please wait.
7|1|78 - नाभ्यस्ताच्छतुः
॥ तस्मै पाणिनये नमः ॥
7|1|78
SK 427
नाभ्यस्ताच्छतुः   🔊
सूत्रच्छेदः
(अव्ययम्) , अभ्यस्तात् (पञ्चम्येकवचनम्) , शतुः (षष्ठ्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अभ्यस्तादङ्गादुत्तरस्य शतुः नुम् न भवति। ददत्, ददतौ, ददतः। दधत्, दधौ, दधतः। जक्षत्, जक्षतौ, जक्षतः। जाग्रत्, जाग्रतौ, जाग्रतः। शतुरनन्तर ईकारो न विहितः इति व्यवहितस्य अपि नुमः प्रतिषेधो विज्ञायते।
`उदत्त, ददत्तौ` इति। `श्नभ्यस्तयोरात्तः` 6|4|112 इत्याकारलोपः। अक्षितिजागर्त्त्याः `जक्षित्यादयः षट्` 6|1|6 इत्यभ्यस्तसंज्ञा। कथं पुनरयं नुमः प्रतिषेधो विज्ञायते, यावता `अनन्तस्य विधिर्वा भवति प्रतिषेधो षा` (व्या।प।19) इतीकारस्य प्रतिषेधो युक्तः? इत्याह--`शतुरनन्तरः` इत्यादि। लक्षणान्तरेण विहितस्य प्रतषेधो भवति, न तु शतुरनन्तर ईकारः केनचिद्विहितः। अङ्गस्येति वत्र्तते, न च नुमोऽन्यत्? कार्यं शतुः सम्भवति। अतः सामथ्र्याद्व्य वहितस्यापि `उगिवचाम्` 7|1|70 इति नुमः प्रतिषेधो विज्ञायत इति॥
दददिति । श्नाभ्यस्तयोरातः इत्यकारलोपः । जक्षदित्यादौ जक्षित्यादयः षट् इत्यभ्यस्तसंज्ञा । कथं पुनश्चतुर्भिर्योगैर्व्यवहितस्य नुमः प्रतिषेधः शक्यो विज्ञातुम् इत्याह - शतुरन्तरो न विहित इति । अनन्तर ईकारः शत्रन्तस्य न विहितः, एवं तदनन्तर इति यावद्विहितान्वेषणे नुमि पर्यवसानम् ॥
सिद्धान्तकौमुदी
अभ्यस्तात्परस्य शतुर्नुम् न स्यात् । ददत् । ददद् । ददतौ । ददतः ॥
नाभ्यस्ताच्छतुः - नाभ्यस्ताच्छतुः ।इदितो नुम् धातो॑रित्यतो नुमित्यनुवर्तते । तदाह — अभ्यस्तादित्यादिना । दददिति । ददत्शब्दात्सुः । हल्ङ्यादिलोपः ।नाभ्यस्ता॑दिति निषेधात् "उगिदचाम्" इति नुम् न । अत्वन्तत्वाऽभावाच्च न दीर्घ इति भावः ।जक्ष भक्षहसरनयोः॑,जागृ निद्राक्षये॑,दरिद्रा दुर्गतौ॑,चकासृ दीप्तौ॑, "शासु अनुशिष्टौ"दीधीङ् दीप्तिदेवनयोः॑,वेवीङ् वेतिना तुल्ये॑ इति सप्त धातवोऽदादौ पठिता सुग्विकरणाः । तेभ्यो लटः शत्रादेशे शब्लुकिं सुबुत्पत्तौ "नाभ्यस्ताच्छतुः" इति निषेध इष्यते ।
नाभ्यस्ताच्छतुः - नाभ्यस्ताच्छतुः । व्यवहितोऽपि नुमेवाऽत्र निषिध्यते, अन्येषामप्रसक्तेरित्यभिप्रेत्याह — -नुम्न स्यादिति । दददिति । ददातीति ददत् । दाञो लटः शत्रादेशः । शपः श्लुः ।श्लौ॑इति द्वित्वम् । अभ्यासस्य ह्यस्वः ।श्नाभ्यस्तयोरातः॑इत्यलोपः । जक्षित्यदयः षट् ।ज॑क्षिति पृथक् पदम् ।इति॑शब्देन जक्षिरेव परामश्यते । इति आदिर्येषामित्यतद्गुणसंविज्ञानबहुव्रीहिस्तदेतदाह — षड्धातवोऽन्ये इति । इति तान्ताः । गोपायतीति गुप् । क्विपि विवक्षितेआयादय आर्धधातुके वे॑ति वैकल्पिकत्वादिहाऽ‌ऽयप्रत्ययाऽभावः । आयप्रत्ययपक्षे त्वतो लोपे यलोपे चगोपा॑इति रूपं बोध्यम् । इति पान्ताः ।
लघुसिद्धान्तकौमुदी
अभ्यस्तात्परस्य शतुर्नुम् न। ददत्, ददद्। ददतौ। ददतः॥ ,
महाभाष्यम्
नाभ्यस्ताच्छतुः कस्याऽयं प्रतिषेधः ? ।। नुम इत्याह(1) ।। तन्नुमो ग्रहणं कर्तव्यम् ? ।। न कर्तव्यं, प्रकृतमनुवर्तते ।। क्व प्रकृतम् ? ।। इदितो नुम्धातोरिति ।। तद्वै अनेकग्रहणेन(2) व्यवच्छिन्नमशक्यमनुवर्तयितुम् ।। एवं तर्हि सर्वनामस्थान इति वर्तते, सर्वनामस्थाने यत्प्राप्नोति तस्य प्रतिषेधः ।। तद्वै बहुतरकेण(3) ग्रहणेन व्यवच्छिन्नमशक्यमनुवर्तयितुम् । अथेदानीं व्यवहितमपि शक्यतेऽनुवर्तयितुं, ‐ नुमेवानुर्वत्यः ‐ इहार्थमुत्तरार्थं च । इह(4) चैव प्रतिषेधः सिद्धो भवति, इह च आच्छीनद्योर्नुमिति नुम्ग्रहणं न कर्तव्यं भवति ।। (नाभ्यस्ता)