Page loading... Please wait.
7|1|60 - मस्जिनशोर्झलि
॥ तस्मै पाणिनये नमः ॥
7|1|60
SK 2517
मस्जिनशोर्झलि   🔊
सूत्रच्छेदः
मस्जि-नशोः (षष्ठीद्विवचनम्) , झलि (सप्तम्येकवचनम्)
अनुवृत्तिः
नुम्  7|1|59 (प्रथमैकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
मस्जि-नशोः नुम् झलि
सूत्रार्थः
मस्ज्-धातोः नश्-धातोः च झलादि-प्रत्यये परे नुमागमः भवति ।
टुमस्जोँ (शुद्धौ) अयम् तुदादिगणस्य धातुः । तथा, णशँ (अदर्शने) अयम् दिवादिगणस्य धातुः । एतयोः धात्वोः झलादि-प्रत्यये परे नुमागमः भवति । यथा -

1. मस्ज् + तृच् [ण्वुल्तृचौ 3|1|133 इति तृच्-प्रत्ययः]
→ मन् स्ज् + तृ [मस्जिनशोर्झलि 7|1|60 इति तकारे परे नुमागमः]
→ मन् ज् तृ [स्कोः संयोगाद्योः अन्ते च 8|2|29 इति सकारलोपः]
→ मन् ग् तृ [चोः कुः 8|2|31 इति कुत्वम्]
→ मं ग् तृ [नश्चापदान्तस्य झलि 8|3|24 इति अनुस्वारः]
→ मं क् तृ [खरि च 8|4|55 इति चर्त्वम्]
→ मङ्क्तृ [अनुस्वारस्य ययि परसवर्णः 8|4|58 इति परसवर्णः ङकारः]

2. मस्ज् + क्त [निष्ठा 3|2|102 इति क्त-प्रत्ययः]
→ मन् स्ज् त [मस्जिनशोर्झलि 7|1|60 इति तकारे परे नुमागमः ]
→ म स्ज् त [अनिदितां हलः उपधायाः क्ङिति 6|4|24 इति कित्-प्रत्यये परे अनिदित्-धातोः नकारलोपः]
→ मन् ज् त [स्कोः संयोगाद्योः अन्ते च 8|2|29 इति सकारलोपः]
→ मग् त [चोः कुः 8|2|31 इति कुत्वम्]
→ मग्न [ओदितश्च 8|2|45 इति निष्ठातकारस्य नकारः]

3. नश् + तव्यत् [तव्यत्तव्यानीयरः 3|1|96 इति तव्यत्-प्रत्ययः]
→ नन् श् + तव्य [मस्जिनशोर्झलि 7|1|60 इति तकारे परे नुमागमः ]
→ नन् ष् + तव्य [व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8|2|36 इति झलि परे शकारस्य षकारः]
→ नं ष् तव्य [नश्चापदान्तस्य झलि 8|3|24 इति अनुस्वारः]
→ नं ष् टव्य [ष्टुना ष्टुः 8|4|41 इति तकारस्य ष्टुत्वम् टकारः]
→ नंष्टव्य

ज्ञातव्यम् -
1. "नुम्" अयम् आगमः मित्-आगमः अस्ति, अतः मिदचोऽन्त्यात्परः 1|1|47 इत्यनेन अन्त्यात् अचः परः आगच्छति ।
2. यस्मिन् विधिः तदादौ अल्ग्रहणे अनया परिभाषया "झलि" इत्यस्य अर्थः "झलादौ" इति क्रियते ।
One-line meaning in English
The verb roots मस्ज् and नश् get a नुमागम when followed by a झलादि प्रत्यय.
काशिकावृत्तिः
मस्जि नशि इत्येतयोरङ्गयोः झलादौ प्रत्यये नुमागमो भवति। मङ्क्ता। मङ्क्तुम्। मङ्क्तव्यम्। नंष्टा। नंष्टुम्। नंष्टव्यम्। झलि इति किम्? मज्जनम्। नशनम्। मस्जेरन्त्यात् पूर्व नुमम् इच्छन्ति अनुषङ्गादिलोपार्थम्। मग्नः। मग्नवन्।
`मङ्क्ता` इति। `टुमस्जो शुद्धौ` (धातुपाठः-1415), तृच्, पूर्ववदिडभावः, कुत्वञ्च, अन्त्याज्जकारात्? पूर्वो नुम्, `स्कोः` 8|2|29 इत्यादिना सकारलोपः, अनुस्वत्रपरसवर्णो। `नेष्टा` इति। `रधादिभ्यश्च` 7|2|45 इति यदेण्नास्ति तदायं नुम्, व्रश्चादिसूत्रेण 8|2|36 षत्वम्, ष्टुत्वम्। इट्पक्षे झलादित्वाभावान्नुम्? नास्ति--नशितेति। `मज्जनम्, नशनम्` इति। ल्युट्, `झलां जश्? झशि` 8|4|52 इति जश्त्वम्--सकारस्य दकारः, तस्य चत्वं जकार-। `मस्जेः` इत्यादि। यदि मस्जेरन्त्यादचः परो नुम्? स्यात्, असंयोगदित्वात्? मलोपो न प्राप्नोति, अनुपधत्वान्न नलोपः, स चेष्यते; अन्यथा मग्नो मानवानिति न सिध्यत्। तस्मादन्त्यात्पूर्वमाचार्या मस्जेर्नुममिच्छन्ति। कथं पुनरिष्यमाणोऽप्ययमर्थो लभ्यते? नशेरल्पाच्तरस्य पूर्वनिपातलक्षमव्यभिचारचिह्नात्। स हि लक्षणनिरपेक्षतां सूचयन्? `मिदयोऽन्त्यात्परः` 1|1|46 इत्येतदपीह लक्षणं नापेश्रत इति सचयति। तस्मश्चानपेक्षिते लक्ष्यानुरोधाद्यत्र मस्जेर्नुमि कृते सतीष्टं सिध्यति तत्रैव विधीयते। तेन मस्जेरन्त्यास्पर्वं नुम्? सिद्धो भवति। `मग्नः` इति। `ओदितश्च` 8|2|45 इति निष्ठानत्वम्॥
टुअमस्जो शुद्धौ तृच्, एकाचः, इतीट्प्रतिषेधः, अन्त्याज्जकारात्पूर्वो नुम्, स्कोः संयोगाद्योरन्ते च इति सलोपः, कुत्वम्, अनुस्वारपरसवर्णौ । नंष्टेति । रधादिभ्यश्च इतीडभावपक्षे नुम् । मज्जनमिति । जकारे परतः सकारस्य श्चुत्वे च प्राप्ते जश्त्वस्यासिद्धत्वात् श्चुत्वम्, शकारस्य जश्त्वम् - जकारः । मस्जेरित्यादि । यद्यन्त्यादचः परः स्यातदा नसजानां समुदायस्यैका संयोगसंज्ञेति सकारस्यासंयोगादित्वाल्लोपो न स्यात् । अथापि सजयोः पृथक्संयोगसंज्ञामाश्रित्य लोपः स्याद् एवमपि तस्य लोपस्यासिद्धत्वान्नकार उपधा न भवतीति तस्य लोपो न स्यात् । तस्मादन्त्याज्जकारात्पूर्वः सजयोर्मध्ये नुमेषितव्यः ॥
सिद्धान्तकौमुदी
नुम् स्यात् । ननष्ट । नेशिव । नेश्व । नेशिम । नेश्म । नशिता । नंष्टा । नशिष्यति । नङ्क्ष्यति । नश्येत् । नश्यात् । अनशत् । प्रणश्यति ॥
मस्जिनशोर्झलि - नुम् स्यादिति ।इदितो नु॑मित्यतस्तदनुवृत्तेरिति बावः । ननंष्ठेति । व्रश्चादिषत्वम् । ष्टुत्वम् । प्रणश्यतीति ।उपसर्गादसमासे॑इति णत्वम् ।
मस्जिनशोर्झलि - नष्टेति ।नशेर्वा॑ इति कुत्वमिहन शङ्क्यं, पदान्त एव तद्विधानात् । अन्यथा नष्टं नष्टिरित्यादि न सिध्येत् । प्रणश्यतीति ।उपसर्गादसमासेऽपी॑ति णत्वम् ।
लघुसिद्धान्तकौमुदी
नुम् स्यात्। ननंष्ठ। नेशिव, नेश्व। नेशिम, नेश्म। नशिता, नंष्टा। नशिष्यति, नङ्क्ष्यति। नश्यतु। अनश्यत्। नश्येत्। नश्यात्। अनशत्॥ षूङ् प्राणिप्रसवे॥ 13॥ सूयते। सुषुवे। क्रादिनियमादिट्। सुषुविषे। सुषुविवहे। सुषुविमहे। सविता सोता॥ दूङ् परितापे॥ 14॥ दूयते॥ दीङ् क्षये॥ 15॥ दीयते॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.