Page loading... Please wait.
7|1|59 - शे मुचादीनाम्
॥ तस्मै पाणिनये नमः ॥
7|1|59
SK 2542
शे मुचादीनाम्   🔊
सूत्रच्छेदः
शे (सप्तम्येकवचनम्) , मुचादीनाम् (षष्ठीबहुवचनम्)
अनुवृत्तिः
नुम्  7|1|58 (प्रथमैकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
मुचादीनाम् शे नुम्
सूत्रार्थः
मुचादि-अन्तर्गणस्य धातूनाम् श-प्रत्यये परे नुम्-आगमः भवति ।
"मुचादिगणः" नाम तुदादिगणस्य कश्चन अन्तर्गणः । अस्मिन् गणे अष्ट धातवः पाठिताः सन्ति, ये एकया कारिकया दीयन्ते -

मुञ्चतिर्लुम्पतिश्चैव विन्दतिर्लिम्पतिस्तथा । सिञ्चतिः कृञ्चतिश्चैव खिदिः पिशिर्मुचादयः ।

अस्याम् कारिकायाम् उक्ताः अष्ट धातवः (धातुपाठस्य क्रमाङ्कसहिताः) एते -
1430. मुच्ऌँ मोक्षणे
1431. लुप्ऌँ छेदने
1432. विद्ऌँ लाभे
1433. लिपँ उपदेेहे
1434. षिचँ क्षरणे
1435. कृतीँ छेदने
1436. खिदँ परिघाते
1437. पिशँ अवयवे
एतेषाम् सर्वेषाम् श-विकरणप्रत्यये परे नुमागमः भवति । . "नुम्" अयम् आगमः मित्-आगमः अस्ति, अतः मिदचोऽन्त्यात्परः 1|1|47 इत्यनेन अन्त्यात् अचः परः आगच्छति ।

यथा, मुच्-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -

मुच् + लट् [वर्त्तमाने लट् 3|2|123 इति लट्]
→ मुच् + तिप् [तिप्तस्.. 3|4|78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]
→ मुच् + श + तिप् [तुदादिभ्यः शः 3|1|77 इति श-विकरणप्रत्ययः]
→ मुन् च् + अ + तिप् [ शे मुचादीनाम् 7|1|59 इति नुमागमः]
→ मुं च् अ ति [नश्चापदान्तस्य झलि 8|3|24 इति अनुस्वारः]
→ मुञ्चति [अनुस्वारस्य ययि परसवर्णः 8|4|48 इति परसवर्णः ञकारः]

एवमेव अन्येषाम् धातूनाम् लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपाणि एतानि भवन्ति -
1. लुप् → लुम्पति / लुम्पते
2. विद् → विन्दति / विन्दते
3. लिप् → लिम्पति / लिम्पते
4. सिच् → सिञ्चति / सिञ्चते
5. कृत् → कृन्तति
6. खिद् → खिन्दति
7. पिश् → पिंशति । अत्र अनुस्वारस्य परसवर्णः न भवति यतः अत्र अग्रे यय्-वर्णः नास्ति ।

अत्र एकम् वार्तिकम् ज्ञातव्यम् - शे तृम्फादीनाम् उपसङ्ख्यानं कर्तव्यम्
"तृम्फादिगणः" इति तुदादिगणस्य कश्चन अन्यः अन्तर्गणः अस्ति । अस्मिन् गणे तुदादिगणस्य सर्वे अनिदितः धातवः समाविश्यन्ते । एतेषां सर्वेषाम् अनिदितां हलः उपधायाः क्ङिति6|4|24 इत्यनेन कित्/ङित् प्रत्यये परे नकारलोपे कृते अनेन वात्तिकेन श-विकरणे परे पुनः नुमागमः भवति । यथा, तृम्फ्-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -
तृन्फ् + लट् [वर्त्तमाने लट् 3|2|123 इति लट्]
→ तृन्फ् + तिप् [तिप्तस्.. 3|4|78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]
→ तृन्फ् + श + तिप् [तुदादिभ्यः शः 3|1|77 इति श-विकरणप्रत्ययः]
→ तृफ् + श + तिप् [शकारस्य सार्वधातुकमपित् 1|2|4 इत्यनेन ङित्वद्भावे कृते अनिदितां हलः उपधायाः क्ङिति6|4|24 इति नकारलोपः]
→ तृन् फ् + श + तिप् [ शे तृम्फादीनाम् उपसङ्ख्यानं कर्तव्यम् अनेन वार्तिकेन पुनः नुमागमः]
→ तृं फ् अ ति [नश्चापदान्तस्य झलि 8|3|24 इति अनुस्वारः]
→ तृम्फति [अनुस्वारस्य ययि परसवर्णः 8|4|48 इति परसवर्णः मकारः]
तृम्फादिगणे समाविष्टाः धातवः तथा तेषाम् लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपाणि एतानि -
1308. तृम्फ् (तृप्तौ) - तृम्फति
1310. तुम्प् (हिंसायाम्) - तुम्पति
1312. तुम्फ् (हिंसायाम्) - तुम्फति
1314. दृम्फ् (हिंसायाम्) - दृम्फति
1316. ऋम्फ् (हिंसायाम्) - ऋम्फति
1318. गुम्फ् (ग्रन्थे) - गुम्फति
1320. उम्भ् (पूरणे) - उम्भति
1322. शुम्भ् (शोभायाम्) - शुम्भति
1350. तृन्ह् (हिंसायाम्) - तृंहति ।

ज्ञातव्यम् -
1. वर्तमानसूत्रेण निर्दिष्टः नुमागमः केवलं श-प्रत्यये परे एव भवति, अन्यत्र न । यथा, मुच्-धातोः क्त-प्रत्ययान्तरूपम् "मुक्तम्" इत्यत्र श-विकरणप्रत्ययः न आगच्छति, अतः अत्र नुमागमः न भवति ।
2. यद्यपि एते सर्वे धातवः अनिदितः सन्ति, तथापि अनेन सूत्रेण प्रोक्तस्य नुमागमस्य अनिदितां हलः उपधायाः क्ङिति6|4|24 इत्यनेन लोपः न जायते, यतः तादृशं कुर्मश्चेत् वर्तमानसूत्रस्य प्रयोजनमेव विनश्यति । अतः वर्त्तमानसूत्रस्य विधानसामर्थ्यात् एतेषाम् नुमागमस्य लोपः न करणीयः ।
One-line meaning in English
The verb roots that belong to the मुचादि-अन्तर्गण, get a नुम्-आगम when followed by "श" प्रत्यय.
काशिकावृत्तिः
शे प्रत्यये परतो मुचादीनम् नुमागमो भवति। मुच्लृ मुञ्चति। लुप्लृ लुम्पति। विद्लृ विन्दति। लिपि लिम्पति। सिच् सिञ्चति। कृती कृन्तति। खिद खिन्दति। पिश पिंशति। शे इति किम्? मोक्ता। मोक्तुम्। मोक्तव्यम्। मुचादीनाम् इति किम्? तुदति। नुदति। शे तृम्फादीनाम् उपसङ्ख्यानं कर्तव्यम्। के पुनः तृम्फादयः? तृफ तृम्फ तृप्तौ दृफ ड्र्म्फ उत्क्लेशे, गुफ गुम्फ ग्रन्थे, उभ उम्भ पूरणे, शुभ शुम्भ शोभार्थे इत्यत्र ये सानुषङ्गाः तृम्फादयः तेषाम् अनिदितां हल उपधायाः क्ङिति 6|4|24 इति अनुनासिकलोपे कृते नुम् विधीयते, स च विधानसामर्थ्यात् न लुप्यते। तृम्फति। दृम्फति। गुम्फति। उम्भति। शुम्भति। ये तु निरनुषङ्गाः तेषां तृफति, दृफति, गुफति, उभति, शुभति इत्येवं भवति।
मुचादयस्तुदादौ पठन्ते `मुच्लृ मोक्षणे` (धातुपाठः-1430) इत्यतः प्रभृत्या गणपरिसमाप्तेः।`मोक्ता` इति। तृच्, `एकाचः` 7|2|10 इतीट्प्रतषेधः, `चो कुः` 8|2|30 इति कुत्वम्। `के पुनस्तृम्फादयः` इति। एवं मन्यते--तृम्फादिषु तृफादयो निरनुषङ्गा अपि गणे पठन्ते--`तृफतृन्फ तृप्तौ` (धातुपाठः-1307,1308) इत्येवमादयः। तत्र यदि तेऽपि तृफादिग्रहणेन गृह्रेरन्, तृफतीत्यादि रूपं नोपपद्यत इत्यत आह--`ये तत्र सानुषङ्गाः पठन्ते, ते तृम्फादयः` इति। आदिशब्दोऽयं प्रकारार्थः, प्रकारस्तु सादृश्यम्, तस्मात्? तृम्फतिना सानुषङ्गेण ये सदृशाः, त एवादिग्रहणेनोपलक्ष्यन्त इत्यभिप्रायः। `सानुषङ्गाः` इति। नकारोऽनुषङ्गः, तेन सह वत्र्तन्त इति सदृशाः, त एवादिग्रहणेनोपलक्ष्यन्त इत्यभिप्रायः। `सानुषङ्गाः` इति नकारोऽनुषङ्गः, तेन सह वत्र्तन्त इति सानु,ङ्गाः। यदि तर्हि ये सानुवङ्गाः पठन्ते ते तृम्फादयः, तेषां नुमि कृते परस्यानुस्वारे कृते तस्य परसवर्णे द्वयोर्नकारयोः श्रवणं प्राप्नोति? इत्यत आह्म--`तेषाम्` इत्यादि। कृते हि नकारलोपे नुम्? विधीयते। अतो न भवत्येव दोष इति भावः। अथ सोऽपि नुम्? कस्मान्न लुप्यते? इत्याह--`स च` इत्यादि। यदि सोऽपि लुप्येत, नुमो विधानमनर्थकमेव स्यादिति मन्यते। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम्--`धातोः` 7|1|58 इत्यनुवत्र्तते, `शे` इति योगविभ#आगः क्रियते, तेन तृ-म्फादीनाञ्च नुम्? भविष्यति। मुचादीनामित्येवमनर्थकं स्यात्, `शे` इत्यनेन सिद्धत्वात्? नानर्थकम्, `शे` इत्यस्यासर्वविषयत्वज्ञापनार्थत्वात्। एवपं ह्रतिप्रसङ्गो न भवति। कथं मुचादिष्वेव तृम्फादयो न पठिताः? येऽत्र निरनुषङ्गाः पठन्ते तेषां नुमागमो मा भूदित्येवमर्थम्॥
मुचादयः मुच्लृ मोक्षणे इत्यारभ्य तुदादिष्वा गणान्ताद्वेदितव्याः । के पुनस्तृफादय इति । व्यवस्थावाचिन्यादिशब्दे निरनुषङ्गाणामपि ग्रहणप्रसङ्गादिति प्रश्नः । प्रकारवाची आदिशब्दः, प्रकारश्च सादृश्चम्, तच्च नकारानुषक्ततयेत्युतरम् । यदि सानुषाङ्गणां पुनर्नुम् विधीयते, एषं सति परस्य नकारस्यानुस्वारपरसवर्णयोः कृतयोर्नकारमकारयोः श्रवणप्रसङ्गः इत्यत आह - तेषामिति । अथास्य नुमोऽपि लोपः कस्मान्न भवति तत्राह - चेति । विधानसामर्थ्यादिति । अयं च मुचादिष्वेव एलोपाभावस्य हेतुः । तृम्फादिषु तु परनकारलोपस्य चिणो लुग्न्यायेनासिद्धत्वादेव पूर्वनकारस्य लोपाभावः सिद्धः । अथ मुचादिष्वेव तृम्फादयः कस्मान्न पठिताः इत्यत आह - ये त्विति । अयमभिप्रायः - सानुषाङ्गाणां निरनुषङ्गाणां च तन्त्रेणार्थनिर्देशः । तत्र यदि सर्वे मुचादिषु पठ।लेरन्, निरनुषङ्गाणामपि नुम्प्रसङ्गः । सानुषाङ्गाणां निष्कृष्य पाठे द्विरर्थनिर्द्देशेन गौरवप्रसङ्ग इति ॥
सिद्धान्तकौमुदी
नुम् स्यात् । मुञ्चति । मुञ्चते । मोक्ता । मुच्यात् । मुक्षीष्ट । अमुचत् । अमुक्त । अमुक्षाताम् । 1432 लुपॢ छेदने । लुम्पति । लुम्पते । अलुपत् । अलुप्त । 1433 विद्लृ लाभे । विन्दति । विन्दते । विवेद । विविदे । व्याघ्रभूत्यादिमते सेट्कोऽयम् । वेदिता । भाष्यादिमतेऽनिट्कः । वेत्ता । परिवेत्ता । परिर्वर्जने । ज्येष्ठं परित्यज्य दारानग्नींश्च लब्धवानित्यर्थः । तृन्तृचौ । 1434 लिप उपदेहे । उपदेहो वृद्धिः । लिम्पति । लिम्पते । लेप्ता । लिपिसिचि---(कौमुदी-2418) इत्यङ् । तङि तु वा । अलिपत् । अलिपत । अलिप्त । 1435 षिच क्षरणे । सिञ्चति । सिञ्चते । असिचत् । असिचत । असिक्त । अभिषिञ्चति । अभ्यषिञ्चत् । अभिषिषेच ॥ अथ त्रयः परस्मैपदिनः ॥ 1436 कृती छेदने । कृन्तति । चकर्त । कर्तिता । कर्तिष्यति । कर्त्स्यति । अकर्तीत् । 1437 खिद परिघाते । खिन्दति । चिखेद । खेत्ता । अयं दैन्ये दिवादौ रुधादौ च । 1438 पिश अवयवे । पिंशति । पेशति । अयं दीपनायामपि । त्वष्टा रूपाणि पिंशतु । वृत् । मुचादयो वृत्ताः तुदादयश्च ॥ । इति तिङन्ततुदादिप्रकरणम्‌ ।
शे मुचादीनाम् - अचि विभाषा ।ग्रो यङी॑त्यतो ग्र इत्यनुवर्तते । "कृपो रो लः" इत्यतो रो ल इति । तदाह — गिरतेरिति । अजादाविति ।धातोः कार्यमुच्यमानं तत्प्रत्यये भवतीति परिभाषालब्धस्य प्रत्ययस्य अचा विशेषणात्तदादिविधिः । तेन गिरावित्यादौ नेतिमृजेर्वृद्धि॑रिति सूत्रभाष्ये स्पष्टम् । दृङ् आदरे इति । ह्यस्वान्तोऽयम् ।उश्चे॑ति कित्त्वान्न गुणः । आदृतेति ।ह्यस्वादङ्गा॑दिति सलोपः । प्रच्छ ज्ञीप्सायामिति । ज्ञातुमिच्छा - ज्ञीप्सा । अनिडयम् । पृच्छतीति । शस्य ङित्त्वात्ग्रहिज्ये॑ति रेफस्य संप्रसारणमृकारः, पूर्वरूपं चेति भावः । पप्रच्छतुरिति । संयोगात्परत्वेन कित्त्वाऽभावान्न संप्रसारणमिति भावः । भारद्वाजनियमात्थलि वेडिति म्तवाह — पप्रच्छिथ पप्रष्ठेति । इडभावपक्षे व्रश्चादिना छस्य षः, थस्य ष्टुत्वेन ठ इति भावः । पप्रच्छिव । प्रष्टेति । छस्य व्रश्चेति । सूत्रे सतुक्कस्य छस्य ग्रहणात् । किरादयो वृत्ता इति । नचैवं सति "किरश्च पञ्चभ्यः" इत्यत्र पञ्चग्रहणं व्यर्थं, किरादीनां पञ्चत्वादिति वाच्यं, स्यरुदादिभ्यः सार्वधातुके॑ इत्युत्तरार्थत्वात् । सृज विसर्गे । अनिट् । सृजति.ससर्ज । ससृजतुः । अजन्ताऽकारवत्त्वाऽभावेऽपिविभाषा सृजिदृशो॑रिति थलि वेडिति मत्वाह — ससर्जिथ सरुआष्ठेति । इडभावेव्रश्चे॑तिजस्यषः, थस्य ष्टुत्वेन ठः, पित्त्वेनाऽकित्त्वात्सृजिदृशो॑रित्यमागम इति भावः । ससृजिव । टु मस्जो । मज्जतीति । सस्य श्चुत्वेन शः, तस्य जश्त्वेन ज इति भावः । ममङ्क्थेति । मस्जेर्द्वित्वे हलादिशेषे ममस्ज् थेति स्तितेस्को॑रिति सकारलोपे ममज् थ इतिस्थिते जस्य कुत्वेन गकारे,मस्जिनशो॑रिति नुमि, तस्यानुस्वारे, तस्य परसवर्णो ङकारः, गस्य चर्त्वेन क इति बोध्यम् । यद्यपि अकारात्परत्र नुमि सत्यपि इदं सिध्यति, तथापिअन्त्यात्पूर्वो नु॑मित्यस्य॑ "मग्न" इत्यादौ नलोपः फलम् । अन्यथा उपधात्वाऽभावान्नस्य लोपो न स्यादिति भावः । एवं - मङ्क्तेति । मङक्ष्यतीत्यत्र तु सस्य षत्वं विशेषः । "रुजो भङ्गे" इत्यारभ्य "विच्छ गतौ" इत्यतः प्रागनिटः ।अनुदात्तस्य चर्दुपधस्ये॑त्यम्विकल्पं मत्वाह - स्प्रष्टा स्पर्ष्टेति । णुद प्रेरणे । णोपदेशोऽयम् । "विश प्रवेशने" इत्यारभ्य "सद्लृ शातने" इत्यन्ता अनिटः । तत्र अदुपधस्य थलि वेट् । अन्यस्य तु नित्यमेवेट् । मृशेः "अनुदात्तस्य चे" त्यम्विकल्पः । तदाह - अम्राक्षीत् - अमर्क्षीदिति ।स्पृशमृशे॑ति सिज्वेति भावः । सिजभावेशल इगुपधा॑दिति क्सं मत्वाह — अमृक्षदिति । णुदधातुर्णोपदेशः । ननु तनादिगण एवाऽस्मिन्स्वरितेत्सु पठितस्य किमर्थमिह पाठ इत्यत आह - कत्र्रभिप्रायेऽपीति । षद्लृधातोर्भ्वादौ पठितादेव सीदतीत्यादिसिद्धेरिह पाठो व्यर्थ इत्यत आह - इह पाठ इति । सीदन्तीति । शविकरणाच्छत्रन्तान्ङीपिआच्छीनद्यो॑रिति नुम्विकल्पार्थ इह पाठ इत्यर्थ- । भ्वादावेव पाठे तुशप्श्यनोर्नित्य॑मिति नित्यो नुम् स्यादिति भावः ।तर्हि भ्वाद्यन्तर्गणे ज्वलादावस्य पाठो व्यर्थ इत्यत आह - ज्वलादाविति । "ज्वलितिकसन्तेभ्यः" इति कर्तरि णप्रत्ययार्थ इति भावः । तदुदाह्मत्य दर्शयति - साद इति । उभयत्र पाठस्य फलान्तरमाह - स्वरार्थश्चेति । तदेव विशदयति - शबनुदात्तैति ।अनुदात्तौ सुप्पितौ॑ इति पित्स्वरेणेति भावः । शस्तूदात्त इति । "प्रत्ययः"आद्युदात्तश्चे॑त्यनेनेति भावः । ननु "शद्लृ शातने" इत्स्य भ्वादौ पाटादेव सिद्धे इह पाठो व्यर्थ इत्यत आह - स्वार्थ एवेति । प्रागुक्तपित्त्वाऽपित्त्वकृतस्वरभेदार्थ एवेत्यर्थः । मुच्लृ मोक्षणे ।
शे मुचादीनाम् - षिच क्षरणे ।षिचि॑रिति केचिदिरतं पठन्ति । तत्तु फलाऽभावादुपेक्ष्यम् । इहलिपिसिचिश्चे॑ति च्लेरङ् विधीयते, सचाऽप्राप्तविधिः । इरित्त्वे तु विकल्पेन प्राप्तौ नित्यार्थो विधिरिति फलाऽभावः । पिंशत्विति । दीपयत्वित्यर्थः ।इति तत्त्वबोधिन्याम् तुदादयः ।अथ प्रथमपादः । अथोणादयः । कृवापा । डुकृञ् करणे, वा गतिगन्धनयोः, पा पाने, पा रक्षणे, जि अभिभवे, डुमिञ् प्रक्षेपणे, स्वद आस्वादने, साध संसिद्धौ,अशू व्याप्तौ ।विआकर्मणि ना कारुस्त्रिषु कारकशिल्पिनोः॑ इति मेदिनीकोशः ।कारुः शिल्पिनि कारके॑ इति धरणिकोशस्तदेतदभिप्रेत्याह — कारुरित्यादि । आद्ये योगरूढिद्वितीये तु योगमात्रमिति विवेकः । अतएव द्वितीये धात्वर्थं प्रति कारकान्वयो भवत्येव । तथा च भट्टिः — राघवस्य ततः कार्यं कारुर्वानरपुङ्गवः । सर्ववानरसेनानामाआआगमनमादिश॑दिति । पिबत्यनेन तैलादिकमिति पायुर्गुदस्थानम् ।गुदं त्वपानं पायुर्ना॑ इत्यमरः । पाति रक्षतीति विग्रहे रक्षकोऽपि । तथा च मन्त्रःभुवस्तस्य स्वतवाँ#ः पायुरग्ने॑ इति ।स्वतवान् पायौ॑ इति नस्य रुत्वम् ।अगदोजायुरित्यपि॑ इत्यमरः । पुंलिङ्गसाहचर्याज्जायुः पुंसि ।मायुः पित्तं कफः श्लेष्मा॑ इत्यमरः । गोपूर्वाद्गां वाचं विकृतामिनोति प्रक्षिपतीति गोमायुः शृगाल इत्युज्जलदत्तः । वस्तुतस्तु मायुः शब्दः,यत्पशुर्मायुमकृत॑गोमायुरेकोऽजमायुरेकः॑ इत्यादौ वेदभाष्याकारदिभिस्तथैव व्याख्यातत्वात् । स्वदते रोचते इति स्वादुः । विशेष्यनघ्नोऽयम् । एवं साधुरपि । आशु शीघ्रमिति । विलम्बाऽभावमात्रे क्लीबं ,तद्विशिष्टद्रव्यपरत्वे तु त्रिलिङ्गम् ।अथ शीघ्रं त्वरित॑मित्युपक्रम्यक्लीबे शीघ्राद्यसत्त्वे स्यात्रिष्वेषां भेद्यगामि य दित्यमरः । व्रीहौ पुंस्येव ।उणादयो बहुल॑मिति बहुलवचनादन्यस्मादप्युण्भवति । रह त्यागे । गृहीत्वा चन्द्रं रहति त्यजतीति राहुः । वस निवासे । वसत्यस्मिन्सर्वमिति, सर्वत्रासौ वसतीति वा वासुः । वासुश्चासौ देवश्च वासुदेव- । वसुदेवस्यापत्यमित्यस्मिन्नर्थेऋष्यन्धकवृष्णिकुरुभ्यश्चे॑त्यणि कृते वासुदेव इति व्युत्पत्त्यन्तरमिति दिक् ।छन्दसीणः । उणनुवर्तते । एति गच्छतीत्यायुः । मा न आयौ इति । आयुशब्दो मनुष्यपर्यायेषु वैदिकनिघण्टौ पठितः । अत एवत्वामग्ने प्रथममायुमायवे॑मा नस्तोके तनये मा न आयौ॑ इत्यादिमन्त्रेषु वेदभाष्ये तथैव व्याख्यातम् । अर्वाचीनास्तुछन्दसीणः॑ इति सूत्रं बहुलवचनाद्भाषायामपि प्रवर्तत इति स्वीकृत्यआयुर्जीवितकालो ना॑ इत्यमरग्रन्थे आयुशब्दमुकारान्तं व्याचख्युः । ननुएतेर्णिच्चे॑ त्युस्प्रत्यये सकारान्तो वक्ष्यमाण आयुःशब्दस्तु लोकवेदयोर्नर्विवाद एव, अत एव जटा आयुरस्येति विग्रहेगृध्नं हत्वा जटायुष॑मिति रामायणप्रयोगः,यहि त्रिलोकी गणनापरा स्यात्तस्याः समाप्तिर्यदि नायुषः स्यादिति श्रीहर्षप्रयोगश्च सङ्गच्छते । तथा चआयुर्जीवितकालो ना ॑ इत्यत्रायुः शब्दः सकारान्त इत्येव व्याख्यायतां किमुकारान्ताभ्युपगमेनेति चेत् । अत्राहुः — सकारान्त आयुःशब्दो नपुसंक इति तस्य पुँल्लिङ्गता नेत्याशयेन तथोक्तमिति । अन्ये तुछन्दसीणः॑ इति सूत्रस्य भाषायां प्रवृत्त्यभावेमा वधीष्ट जटायुं मा ॑ मिति भट्टिप्रयोगः,तटीं विन्ध्यस्याऽद्रेरभजत जटायोः प्रथमजः॑ इति विन्ध्यवर्णने अभिनन्दोक्तप्रयोगश्च न सङ्गच्छेतेत्याहुः । वस्तुतस्तु जटां याति प्राप्नोतीति जटायुः । मृगय्वादित्वात्कुः । आयातीत्यायुः । एवं चजटायुषा जटायुं च विद्यादायुं तथायुषा॑इति द्विरूपकोशः,वायुना जगदायुना॑ इति वर्णविवेकश्च सुसाध इति दिक् । दसनि । दृ विदारणे, षणु दाने,जन जनने, चर गतौ, चट भेदने । दार्विति ।काष्ठं दार्विन्धनं त्वेधः॑ इत्यमरः । चाट्विति ।चटु चाटु प्रियं वाक्य॑मिति हट्टचन्द्रः ।चाटुर्नरि प्रियोक्तिः स्यात् इति रत्नमालाकोशः । नरि = पुंसि ।चकर च बहु चाटून् प्रौढयोषिद्वदस्य॑इति माघः । माघे तु नपुंसकमपि दर्शितम् ।चाटु चाऽकृतकसंभ्रममासा॑मिति । किंजरयोः । शृ हिंसायाम्, इण् गतौ, आभ्यामुण् स्यात् । सस्येति ।किंशारुर्ना सस्यशूके विशिखे कङ्कपक्षिणि॑ इति मेदिनीकोशः । त्रो रश्च लः । तृ प्लवनतरणयोः । त्रः रश्चेति च्छेदः । केचित्तुतृ॑ऋ॑ इति प्रश्लिष्य द्वयोरपि सवर्णदीर्घे त्रौ, तयोरुआओरित्युक्त्वा ऋ गतावित्यस्मादपि ञुण् रस्य ल इति व्याख्याय इयर्ति अर्यते वा आलुः साकविशेषो, घटी चेत्याहुः ।कर्कर्यालुर्गलन्तिका॑ । भृमृशी । भृञ् भरणे, मृङ्प्राणत्यागे, शीङ् स्वप्ने,तृ प्लवनतरणयोः,चर गतौ, अयं भक्षणेऽपि, त्सर छद्मगतौ, तनु विस्तारे , धन धान्ये , डुमिञ् प्रक्षेपणे, टुमस्जो शुद्धौ । भरुरिति ।भरुः स्वर्णे हरे पुंसि॑ इति मेदिनी ।भरुर्भर्तृकनकयोः॑ इसि हेमचन्द्रः । शयुरिति ।अजगरे शयुर्वाहस इत्युभौ॑ इत्यमरः । तरुरिति । तरन्ति नरकमनेन रोपकाः । चरुरिति । अनवस्त्राविताऽन्तरूष्मपक्व ओदन इति याज्ञिका । तृवृञ्चर्वधिकरणेऽप्येवमुक्तम् ।उगवादिभ्यो य॑दिति सूत्रे कैयटस्त्वाह — स्थालीवाची चरुशब्दस्तात्स्थ्यादोदने भाक्त इति ।तनुः काये त्वचि स्त्री स्यात्रिष्वल्पे विरले कृशे॑ इति मेदिनी ।धनुः पुमान् प्रियालद्रौ राशिभेदे शरासने॑ इति नान्ते मेदिनी । विआप्रकाशमुदाहरति — धनुषा चेत्यादि । धनुषा सार्धं धनुं विदुरित्यर्थः ।स्यात्तनुस्तनुषा सार्धमित्यतः सार्धमित्यनुषज्यते ।शुद्धवंशजनितोऽपि निर्गुणः किं करिष्यती॑ति धन्वन्तरिः । इह पूर्वत्र च धनुरिति उकारान्तः सकारान्तो वा बोध्यः । न च सकारान्तधनुः शब्दो नपुंसक एवेति शङ्क्यम् ।अथाऽस्त्रियाम्,धनुश्चापौ॑ इत्यमरोक्त्या तस्यापि पुंस्त्वात् । किंनर इति ।तुरंगवदनो मयुः॑ इत्यमरः ।मीनातिमिनोती॑त्यात्वं तु नेह, बाहुलकात् ।मयुस्तुरंगवदनो मृगेऽपि मयुरिष्यते॑ इति विआः । मज्जति पानीये इति मद्गुः ।अणश्च । अण शब्दे अस्मादुप्रत्ययः स्यात् । चादिति । कटे वर्षादौ, वट वेष्टने । कटति रसनामिति कटुः ।कटुः स्त्री कटुरोहिण्यां लताराजिकयोरपि । नपुंसकमकार्ये स्यात्पुंलिङ्गो रसमात्रके । त्रिषु तद्वत्सुगन्ध्योश्च मत्सरेऽपि स्वरेऽपि च॑ इति मेदिनी । वटुरिति । वटतीति वटुः ।वटुर्द्विजसुतः स्मृतः॑ इति संसारावर्तः । नटवटुरिति तूपचारात् । अभिव्याप्तेति । यद्यपिफलिपाटी॑ति सूत्रं यावदनुवर्तत इति न्यासग्रन्थेन मर्यादीकृत्येत्यपि प्रतीयते तथाप्यभिव्याप्येत्येवोचितम् ।पिबतं सौम्यं मधु॑ इत्यादौ मधुशब्दस्यादात्ततादर्शनात् ।वोतो गुणवचना॑दिति सूत्रे हरदत्तेनाप्यभिव्याप्येति स्पष्टमभिधानाच्चेति भावः । शृस्वृस्निहि । शृ हिंसायाम्, स्वृ शब्दोपतापयोः, स्निह उपतापे, त्रपूष् लज्जायाम्, असु क्षेपणे, वस निवासे , हन हिंसागत्योःष क्लिदू आद्र्रीभावे, बन्ध बन्धने, मन ज्ञाने । शरुरिति ।शरुः कोपे शरे वज्रे॑ इति हेमचन्द्रः । स्वरुर्वज्रमिति ।शतकोटिः स्वरुः शम्बः॑ इत्यमरः । त्रपु सीसमिति । तद्धि अग्न दृष्ट्वा त्रपते = लज्जत इव ।रङ्गसीसकयोरुआपु॑ इति मेदिनी । अस्यन्ति क्षिपन्ति शरीरमित्यसवः प्राणाः । हनुरिति ।हनुः पुमान्परो गण्डा॑दिति वररुचिकोशः । स्त्रिलिङ्गोऽप्ययम् ।हनुर्हट्टविलासिन्यां नृत्यारम्भे गदे स्त्रियाम् । द्वयोः कपोलावयवे॑ इति मेदिनीकोशः । अतिशायने मतुप् । हनुमान् ।अन्येषामपि दृश्यते॑ इति दृशिग्रहणात्पाक्षिको दीर्घः । हनूमान् । स्नेहेन बध्नातीति बन्धुः । प्रज्ञादित्वाद्बान्धवः ।बन्धुर्बन्धूकपुष्पे स्याद्वन्धुभ्र्रातरि बान्धवे॑ इति विआः । मनुरादिराजो, मन्त्रश्च ।स्यन्दू प्ररुआवणे । उन्देः । उन्दी क्लेदने । ईषेः । ईष गतिहिंसादानेषु । स्कन्देः । स्कन्दिर् गतिशोषणयोः । कन्दुरिति । स्कन्दत्यस्मिञ्जनताप इति व्युत्पत्त्या भोगस्थानमिति केचित् । अन्ये तु स्कन्दति शोषयति कन्दुर्लोहादिपात्रमित्याहुः । अत एवक्लीबेऽम्बरीषं ब्राआष्ट्रो ना कन्दुर्वा स्वेदनी स्त्रिया॑मित्यमरः ।कन्दुर्वा ना॑ इति पूर्वेणान्वयाद्वा पुमानित्यर्थः ।सृजेः । सृज विसर्गे । सृजतीति रज्जुः स्त्रियाम् । आगमसकारस्य श्चुत्वेन शः । जश्त्वेन जः ।सृजेरजुम् चे॑ ति सुवचमिति नव्याः ।रज्जुर्वेण्यां गुणेऽपि॑ च इति मेदिनी । कृतेराद्यन्त । कृती छेदने । तर्कुरिति । कृन्त्यतेऽनेनेति तर्कुः सूत्रवेष्टनयन्त्रविशएषः । तर्कुटी सूत्रला तर्कुः॑ इति हारावली । नावञ्चेः । अञ्चु गतौ ।न्यङ्कुर्मुनौ मृगे पुंसि॑ इति मेदिनी ।फलिपाटि । फल निष्पत्तौ, पटगतौ, ण्यन्तः । णम प्रह्वत्वे शब्दे, मन ज्ञाने, जनी प्रादुर्भावे, एभ्य उः स्यादेषां च यथाक्रमं गुगागमः पटि नाकि ध त इत्यादेशाश्च भवन्ति । इह एकापि षष्ठी विषभेदाद्भिद्यते । गुगागमे हि फलेरवयवषष्ठी, पठआद्यादेशचतुष्टयविधौ तु पाठआदिभ्यः स्थानषष्ठी । सापि धतयोर्विधौ अन्तेऽप्युपसंह्यियत इति विवेकः । अनागमकानां सागमका आदेशा इति पक्षे तु स्थानषष्ठएवेति बोध्यम् ।फल्ग्वसारेऽभिधेयवत् । नदीभेदे मलय्वां स्त्री॑ इति मेदिनी । नाकुर्वल्मीकमिति ।वामलूरश्च नाकुश्च वल्मीकं पुंनपुंसकम् इत्यमरः । मध्विति ।मधुश्चैत्रे च दैत्ये च मद्ये पुष्परसे मधु॑ इति हट्टचन्द्रः ।मकरदन्दस्य मद्यस् माक्षिस्यापि वाचकः । अर्धर्चादिगणे पाठात्पुंनसकयोर्मधुःर॑ इति शाआतः । बल संवरण इति दन्त्योष्ठआदिः ।वल्गुः स्याच्छगले पुंसि सुन्दरे चाभिदेयव॑दिति मेदिनी । यत्तु उज्ज्वलदत्तेनबलेर्गुक् चे॑ति ओष्ठआदिं पाठित्वा बल प्राणने इत्युपन्यस्तं तल्लक्ष्यविरोदादुपेक्ष्यम् ।यं नाभावदति वल्गु वो गृहे॑ इत्यादौ दन्त्योष्ठपाठस्य निर्विवादत्वात् । शः कित् । शो तनूकरणे अस्मादुप्रत्ययःआदेच उपदेशे॑ इत्यात्वं द्वित्वंसन्यतः॑ इत्यभ्यासस्येत्वम् ।आतो लोप इटि चे॑ त्याकारलोपः । शिशुः । यो द्वे च । या प्रापणे । कुभ्र्रश्च । भृञ् भरणे अस्मात्कुप्रत्ययो दातोद्र्वत्वं च । भरतीति बर्भ्रुः । धरणिकोशस्थमाह — बभ्रुरित्यादि ।बभ्रुर्वैआआनरे शूलपाणौ च गरुडध्वेजे । विशाले नकुले पुंसि पिङ्गले त्वभिधेयवत् इति मेदिनीकोशः । चादन्यतोऽपीति ।भ्रः कुश्चे॑ति वक्तव्ये प्राक् प्रत्ययनिर्देशादित्येके ।भ्रश्चे॑ ति प्रकतिसंसृष्टेन चकारेण प्रकृत्यन्तरसमुच्चयादित्यन्ये । पृभिदि । पृ पालनपूरणयोः, भिदिर् विदारणे, व्यध ताडने, गृधु अभिकङ्क्षायाम्, ञिधृषा प्रागल्भे । पुरुरिति । कुप्रतत्यये परतःउदोष्ठपूर्वस्ये॑त्युत्वे रपरत्वम् ।पुरुः प्राज्येऽभधेयवत् । पुंसि स्याद्देवलोके च नृपभेदपरागयोः॑ राहवोऽपि ह्मषवः॑ इति केचित् । डुकृञ् करणे,गृ शब्दे, आभ्यां कुः स्यादुकारोऽन्तादेशश्च ।उरण् रपरः॑ ।कुरुर्नृपान्तरे भक्ते पुमान् पुंभूम्नि नीवृति॑ इति मेदिनी । अपदुःसु । ष्ठा गतिनिवृत्तौ । सुषामेत्यादि । एतच्च न्यासाद्यनुरोधेनोक्तम् । वार्तिककृता तु स्थास्थिन्स्थृणामित्युपसंख्यातम् ।अपष्ठुः पुंसि बाले च वामे स्यादन्यलिङ्गकः॑ इति मेदिनी । वामे = प्रतिकूले । एषां त्रयाणां मृगय्वादिपाठेन सिद्धत्वात्सूत्रमिदं न्यासकारस्य न संमतमिति रक्षितः । अर्जिदृशि । अर्ज अर्जने अस्य ऋजिरादेशः, दृशेः पशिरादेशः, कमेस्तुगागमः । अम रोगे गत्यादौ वा । अस्य धुगागमः । पशि नासने सौत्रो धातुः । अस्य दीर्घः । बाधृ लोजने अस्य हादेश- । षड्भ्योऽपि कुप्रत्ययः स्यादित्यर्थः । अविशेषेणेति । चादिगणे पइआति पठितम् ।पशु दृश्यर्थमव्ययम् इति धरणिः । कन्तुः कन्दर्पः ।इः कन्तुर्मकराङ्गः॑ इति त्रिकाण्डशेषः । पांसुरिति । पडि पसि नाशने चुरादिर्दन्त्यान्तः । स्त्रीपुंसयोरिति । उक्तं ह्रमरेणद्वौ परौ द्वयोः । भुजवाहु॑ इति । परौ द्वौ = भुजबाहुशब्दौ, द्वयोः = स्त्रीपंसयोरिति तदर्थः । आकारान्तोऽप्ययम् । अत एवबाहोऽआभुजयोः पुमान् इति दामोदरः ।बाहा भुजे पुमान्मानभेदाऽस्ववृषवायुषु॑ इति मेदिन्यां टाबन्तोऽप्ययम् ।प्रथिम्रदि । प्रथ प्रख्याने, म्रद मर्दने, भ्रस्ज पाके । प्रथते इति पृथुः ।पृथुः स्यान्महति त्रिषु । त्वक्पत्र्यां कृष्णजीरेऽथ पुमानग्नौ नृपान्तरे॑ इति मेदिनी । म्रदितुं शक्यतेऽकठनत्वादिति मृदुः कोमलः ।भृगुः शुक्रे प्रपाते च जमदग्नौ पिनाकिनि॑ इति विआः । लघुरिति ।पृक्कायां स्त्री लघुः क्लीबं शीघ्रे कृष्णाऽगुरुण्यपि॑ इति त्रिकाण्डशेषः ।लघुरगुरौ च मनोज्ञे निःसारे वाच्यवत्क्लीबम् । शीघ्रे कृष्णागुरुणि च पृक्कानामौषधौ स्त्रियाम् इति मेदिनी । * वालमूललघ्वलमङ्गुलीनां वा लोरत्वमापद्यते । नृपभेद इति । एतेनअवेक्ष्य धातोर्गमनार्थमर्थविच्चकार नाम्ना रघुमात्मसंभव॑मिति कालिदासवचनं व्याख्यातम् । बहुरिति ।बहुः स्यात्र्यादिसङ्ख्यासु विपुले त्वभिधेयव॑दिति मेदिनी । ऊरिरिति ।सक्थि क्लीबे पुमानूरुः॑ इत्यमरः । ऊर्णूयते आच्छद्यते इत्यूरिः । कर्मणि प्रत्ययः । उरु महदिति । कर्तरि प्रत्ययः । श्लिषेः । श्लिष आलिङ्गने अस्मात्कुप्रत्ययः, कश्चान्तादेशः । उद्यत इति । स हि यावत्कार्यं श्लिष्यति = लगति । व्याप्रियत इति यावत् । आङपरयोः । खनु अवदारणे, शृ हिंसायाम् । पर्शुरपीति । पर्शुः परशुना सहे॑ति विआः । हरिमितेति । द्रु गतौ, अस्माद्धरिमितयोरुपपदयोः कुः स्यात्स च डित् । हरिद्रुर्वृक्ष इति । दारुहरिद्रा इत्येके । शतद्रुर्नदीभेदः ।शतद्रुस्तु शुतुद्रिः स्यात् इत्यमरः । तद्वानिति ।द्युद्रुभ्यां मः॑ इति मः । खरुशङ्कु । खनु अवदारणे, शकि शङ्क्याम् । काम इत्यादि । खरुः पतिंवरा कन्येत्यपि बोध्यम् ।खरुर्दर्पे हरे दन्ते हये ओते तु वाच्यवत् इति विआत्रिकाण्डशेषौ । शङ्कते अस्मादिति शङ्कुः ।शङ्कुः कीले गरे शस्त्रे संख्यापादपभेदयोः । यादोभेदे च पापे च स्थाणावपि च दृश्यते॑ इति विआः । पीयुरिति ।पीयुः कालेरवौ घोरे॑ इति मेदिनी । क्रिमिविशेष इति ।नीलङ्गुः क्रिमिजातौ स्याद्भम्भरालीप्रसूनयोः॑ इति विआः ।नीलङ्गुः स्यात्कृमौ पुंसि भम्भराल्यां तु योषिति॑ इति मेदिनीकारः । पाठान्तरमिति ।नीलङ्गुरपि नीलाङ्गुः॑ इति विआः । धातोरपीति । केचित्तु नीलशब्दे उपपदे गमेष्टिलोपः, उपपदस्य मुम्, दीर्घश्च पाक्षिको निपात्यते इत्याहुः ।लिगु चित्ते नपुसंकम् इति वररुचिः ।मृगय्वादयश्च ।मृगयुः पुंसि गोमायौ व्याधे च परमेष्ठिनि॑ इति मेदिनी ।मृगयुब्र्राहृणि ख्यातो गोमायुव्याधयोरपि॑ इति विआः ।देवयुर्वाच्यलिङ्गः स्याद्धार्मिके लोकयात्रिके॑ इति मेदिनी । आकृतिगण इति । तेन पील प्रतिष्टम्भे अस्मात्कुः ।पीलुर्गजे द्रुमे काण्डे परमाणुप्रसूनयोः॑ ति विआः । भाट्टास्तु — पीलुशब्दसय् वृक्षे आर्यप्रसिद्धिर्गजे तु म्लेच्छप्रसिद्धिरित्याश्रित्य व्यवजह्युः । पडि गतौ अस्मात्कुः धातोर्वृद्धिश्च । पाण्डुः । कडि मदे । कण्डुरित्यादि बोध्यम् । मन्दिवाशि । मदि स्तुत्यादौ,वाशृ शब्दे, मथे विलोवाशुरो गर्दभ इत्यन्ये ।वाशुरा वाशितारात्र्योः॑ इति मेदिनीहेमचन्द्रौ । चङ्कुर इति ।चङ्कुरः स्यन्दने वृक्षे॑ इति मेदिनी ।अङ्कुरो रुधिरे लोम्नि पानीयेऽभिनवोद्भिदि इति च । खर्जूरादित्वादिति । ऊरप्रत्ययोऽपीति भावः ।अङ्कुरोऽङ्कूर एव च॑ इति विआप्रकाशः ।व्यथेः । व्यथ भयसंचलनयोरस्मादुरच् कित्स्याद्धातोः संप्रसारणं च । दशपाद्यां तुव्यथेः संप्रासरणं धः किच्चे॑ति सूत्रं पठित्वा धकारमन्तादेशं विधायविधुरोऽनग्निक॑ इत्युदाह्मतम् । माधवप्रसादकारादिभिरपि तदेवाऽनुसृतं । नत्वेतद्युक्तम् ।त्वमेषां विथुरा शवांसि॑ अथ विद्धा विथुरेणाऽचिदरुआआ॑ इत्यादि मन्त्रेषु थकारपाठस्य निर्विवादत्वात् । यद्यपि माधवेनोक्तं — विदिभिदिच्छिदी॑त्यत्रव्यथेः संप्रसारण॑मिति वचनात्कुरचि दान्तरूपमिति, तदपि स्थवीयः । कुरज्विधायके सूत्रे व्यथेरुपसङ्ख्यानस्याऽप्रसिद्धत्वात् । तस्मादिहधः किच्चे॑ति दशपादीपाठ उपेक्ष्य एव । कथं तर्हि विधुर इतीष्टप्रयोगस्य निर्वाह इति चेत्, धुरो विगत इति प्रादिसमासेनेत्यवधेहि ।समासान्ताः॑ इति सूत्रे वृत्तिपदमञ्जर्योस्तथैवोक्तत्वात् ।इहव्यथेः किच्चे॑त्येवास्तु,ग्रहिज्ये॑त्यनेन संप्रसारणं स्यादेवेति न भ्रमितव्यम् । ग्रहिज्यादिषु व्यधिर्वर्गचतुर्थो न त्वयमिति निष्कर्षात् । मकुर इति । मकि मण्डने अस्मादुरच्, लोपश्च । बहुलकादिति । धातोरुपधायाः पक्षे उकार इति भावः ।मकुरो मुकुरोऽपि च॑ इति विआः ।मकुरः स्यान्मुकुरवद्दर्पणे बकुलद्रुमे । कुलालदण्डे॑ इति मेदिनी । धातोर्द्विर्वचनमिति । केचित्तु गुणो दुगागमश्च निपात्यत इत्याहुः । ग्रामजाले चेति ।यामजाले चे॑ति पाठान्तरम् । मद्गुरादयश्च । मदी हर्षे । कर्बुर इति ।कर्बुरं सलिले हेम्नि कर्बुरः पापरक्षसोः । कर्बुरा कृष्णवृन्तायां शबले पुनरन्यव॑ दिति मेदिनी । बन्धूरबन्धुराविति । बन्ध बन्धने । कुक्कुर इति । कुक आदाने ।कुक्कुरः कुकुरो मतः॑ इति हट्टचन्द्रः ।कुक्कुरः सारमेये ना ग्रन्थिपर्णे नपुंसक ॑मिति मेदिनी । अत सातत्यगमने । आदिदीर्घः । आतुरः । वा गतिगन्धनयोः । गुगागमः ।वागुरा मृगबन्धिनी॑त्यादिरपि ज्ञेयम् । असेः । असु क्षेपणे ।मसेश्च । मसी परिणामे ।॒मसूरा मसुरा वा ना वेश्याव्रीहिप्रभेदयोः । मसूरी पापरोगे स्यादुपधाने पुनः पुमानिति मेदिनी । शावशेः ।शु॑इतिकृताऽ‌ऽकारलोप आशुशब्दस्तस्मिन्नुपपदे आप्तौ गम्यमानायाम् अशू व्याप्तावित्यस्माद्धातोरुरन्स्यात् । आशुशब्दस्तस्मिन्नुपपदे आप्तौ गम्यमानायाम् अशू व्याप्तावित्यस्माद्धातोरुरन्स्यात् । आशुरो दम्पत्योः पिता ।पतिपत्न्योः प्रसूः आश्रूः आशुरस्तु पिता तयोः॑ इत्यमरः । अवि । अव रक्षणादौ । मह पूजायाम् । अविष इति । राजा समुद्रश्च । महिषो महान् ।तुरीयं धाम महिषो विवक्ति॑ ।उत माता महिषमन्ववेनत् । टित्त्वान्ङीप् । महिषी राजपत्नी । रुहेः । रुह बीजजन्मनि ।रौहिषो मृगभेदः स्याद्रौहिषं च तृणं मत॑मिति संसारावर्तः । वेदभाष्यमिति ।इन्द्रो वृत्रस्य तविषीम् ।इन्द्रस्याऽत्र तविषीभ्यो विरप्शिन् इत्यादिमन्त्रेष्विति भावः । वैदिकनिघण्टौओजः पाजः॑ इत्यादिषु बलनामसु तविषीशब्दस्य पाटश्चेह मूलमिति बोध्यम् ।तविषः शोभनाकारे बलेऽब्धिव्यवसाययोः । तविषी देवकन्यायां पुंसि स्वर्गे महोदधौ । ताविषी चेन्द्रकन्यायां ना स्वर्गाम्बुधिकाञ्चने॑ इति मेदिनी । नञि व्यथेः । व्यथ भयसंचलनयोः । किलेः । किल औत्यक्रीडनयोः । अस्माट्टिषच्धातोर्वुगागमश्च ।किल्बिषं पापरोगयोः । अपराधेऽपि॑ इति मेदिनी ।इषिमदि । इष इच्छायाम्, मदी हर्षे, मुद हर्षे, खिद दैन्ये, छिदिर् द्वैधीकरणे, भिदिर् विदारणे, मदि स्तुत्यादौ, चदि आह्लादने, तिम आद्र्रीभावे, मिह सेचने,मुह वैचित्ये, मुच्लृ मोक्षणे, रुच दीप्तौ, रुधिर् आवरणे, बन्ध बन्धने, शुष शोषणे । इषिरोऽग्निरिति । आहार इत्यन्ये ।छिदिरः पावके रज्जौ करवाले परआधे॑ इति मेदिनी ।मन्दिरं नगरेऽगारे क्लीबं ना मकरालये॑ इति मेदिनी ।चन्दिरोऽनेकपे चन्द्रे॑ इति च ।तिमिरं ध्वान्ते नेत्रामयान्तरे इति च ।मिहिरः सूर्यबुद्धयोः॑ इति च मेदिनी ।मिहिरः कामिमूर्खयोः॑ इति च ।सुन्दरं रुचिरं चारु॑ इत्यमरः । अशेः । अश भोजने । अजिरमिति । दशपादीवृत्तौ तु नञ्पूर्वस्य जीयतेरृवर्णलोपो निपात्यते इत्युक्तं तदपि ग्राह्रम् ।आशु द्रुतमजिरं प्रत्नमीडम् इत्यादौ न जीर्यतीत्यजिर इत्यस्याऽनुगुणत्वात् । अङ्गणमिति । अङ्गेर्ल्युटि अनादेशः । नकारस्य बाहुलकाम्णत्वमित्येके । अन्ये तु दन्त्यमेवेच्छन्ति ।अजिरं प्राङ्गणे काये विषये दर्दुरेऽनिले॑ इति मेदिनी ।शिशिरो ना हिमे, न स्त्री ऋतुभेदे, जडे त्रिषु॑ इति च । विआकोशस्थमाह — शिशिरं स्यादिति । खदिरो वृक्षभेदः ।खदिरी शाकभेदे स्त्री ना चन्द्रे दन्तधावने॑ इति मेदिनी । शिबिरमिति । शेरतेऽस्मिन् राजबलानि ।निवेशः शिबिरं शण्ढे॑ इत्यमरः । सलिकलि । षल गतौ, कल सङ्ख्याने, अन प्राणने, मह पूजायाम्, भडि परिभाषणे, भडि कल्याणे, शडि रुजायाम्,पिडि सङ्घाते, तुडि तोडने, कुक आदाने, भू सत्तायाम्, कुट कौटिल्ये । कलिल इति । मिश्रो गहनश्च ।कलिलं गहनं समे॑ इत्यमरः । महिलेति ।महिला फनलिनीस्त्रियोः॑ इति मेदिनी ।प्रियङ्गुः फलिनी फली॑त्यमरः । पृषोदरेति । तथा च दमयन्तीकाव्ये प्रयोगः — परमहेलारतोऽप्यपारदारिकः॑ इति । परस्य महेला = स्त्री, अथ च परमा उत्कृष्टा हेला = क्रीडा तत्र रत इत्यर्थः । कमेः । कमु कान्तौ । अस्मादिलच् पश्चान्तादेशः ।कपिला रेणुकायां च शिंशपागोविशेषयोः । पुण्डरीके करिण्यां स्त्री वर्णभेदे त्रिलिङ्गकम् । नाऽनले वासुदेवे च मुनिभेदे च कुक्कुरे॑ इति मेदिनी । रेणुकेह लताविशेषःहरेणु रेणुका कुन्ती कपिला भस्मगन्धिनी॑ इत्यमरात् । गुपादिभ्यः । गुपू रक्षणे, तिज निशाने, गुहू संवरणे । मिथिलादश्च । मथे विलोडने । अकारस्येत्वं निपातनात् । पथे गतौ । पतिकठि । पत्लृ गतौ, कठ कच्छ्रजीवने, कुठि च, गड सेचने, गुड रक्षायाम्, दंश दशने । कुठि धातोरिदित्त्वान्नुमि प्राप्ते आह — बाहुलकादिति । कुम्बेः । कुबि आच्छादने । अन्येषामैआर्यं कुम्बतीति कुबेरः ।कुबेरस्त्र्यम्बकसखः॑ । शदेः । शद्लृ शातने । मूलेरा । मूल प्रतिष्ठायाम्, गुध परिवेष्टने, गुहू संवरणे, मुह वैचित्ये । कबेः । कबृ वर्णे ।कपोतः स्याच्चित्रकण्ठे पारावतविहङ्गयोः॑ इति मेदिनी ।कपोतः पक्षिमात्रेऽपी॑ति त्रिकाण्डशेषः । अत्रओतचश्चित्त्वं प्रामादिकम् ।यत्कपोतः पदमग्नौ कृणोति,देवाः कपोत इषितो यदिच्छन् इत्यादौ सर्वत्र प्रत्ययस्वरेण मध्योदात्तस्यैव पठमानत्वादित्याहुः । भातेः । भा दीप्तौ । भवानिति । सर्वनामशब्दोऽयम् । कठि । कठ कृच्छ्रजीवने, चक तृप्तौ । कठोरः कठिनः पूर्णश्च ।कठोरताराधिपलाञ्छनच्छविः॑ इति माघः । चकोरः पक्षिभेदः । किशोरा । शृ हिंसायाम् । षह मर्षणे ।किशोरोऽआस्य शावके । तैलपर्ण्योषधौ च स्यात्तरुणावस्थसूर्ययोः॑ इति मेदिनी । कपिगडि । कपि चलने, गड सेचने, गडि वदनैकदेशे,कटे वर्षावरणयोः, पट गतौ । कपोल इति । केचित्तु सूत्रे कडिं पठन्ति.कडि मदे । कण्डोलश्चाण्डालः ।चण्डालिका तु कण्डोलवीणा चण्डालवल्लकी इत्यमरः । पटोल इति ।पटोलं वस्त्रभेदे नौषधौ ज्योत्स्न्यां तु योषिति॑ इति मेदिनी । स्यन्दे । स्यन्दू प्ररुआवणे ।सिन्दूरस्तरुभेदे स्यात्सिन्दूरं रक्तवर्णके॑ इतिमेदिनीविआप्रकाशौ । सितनि । षिञ् बन्धने, तनु विस्तारे, ग्मलृ गतौ, मसी परिणामे, षट सेचने, अव रक्षणादौ,डुधाञ् धारणपोषणयोः, क्रुश आक्रोशे ।सेतुर्नाऽ‌ऽलौ कुमारके॑ इति मेदिनी ।सेतुरालौ स्त्रियां पुमान् इत्यमरः ।सूत्राणि नरि तन्तवः॑ इत्यमरः ।मण्डं दधिभवं मस्तु॑ इति च ।धातुर्ना नेन्द्रिये त्रिषु । शब्दयोनिमहाभूततदगुणेषु रसादिष । मनःशिलादौ श्लेष्मादौ विशेषाद्गैरिकेऽस्थ्निच॑ इदि मेदिनी ।श्लेष्मादिरसरक्तादिमहाभूतानि तद्गुणाः । इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः॑ इत्यमरः । पः किच्च । पा पाने अस्मात्तुन्, स च कित् । कित्त्वात्घुमास्थे॑ तीत्त्वम् । अर्तेश्च तुः । ऋ गतौ । तुनि प्रकृते अन्तोदात्तार्थं तुः क्रियते ।ऋतुना यज्ञं य ऋतुर्जनीनामि॑त्यादि ।ऋतुर्वर्षादिषट्सु च । आर्तवे मासि च पुमान् इति मेदिनी ।ऋतुः स्त्रीकुसुमेऽपि च॑ इत्यमरः । कमिमनि । कमु कान्तौ, मन ज्ञाने, जनी प्रादुर्भावे, गै शब्दे, भा दीप्तौ, या प्रापणे, हि गतौ वृद्धौ च । कमिग्रहणं प्रपञ्चार्थम् ।अर्जिदृशि॑ इत्यादिना कुप्रत्यये तुकि सिद्धत्वात् । मन्तुरिति ।मन्तुः पुंस्यपराधेऽपि मनुष्येऽपि प्रजापतौ॑ इति मेदिनी ।गातुर्ना कोकिले भृङ्गे गन्धर्वे त्रिषु रोषणे॑ इति च मेदिनी ।भातुर्ना किरणे सूर्ये॑ इति च । चायः किः । चायृ पूजनिशामनयोः । अस्मात्तुर्धातोः किरादेश्च ।केतुर्ना रुक्पताकाविग्रहोत्पातेषु लक्ष्मणि॑ इति मेदिनी । आप्नोतेः । आप्लृ व्याप्तौ । अप्नुः शरीरमिति । अभिलषितार्थश्च, आप्तव्यत्वात् । अत एव यागविशेषवाचकस्याऽ‌ऽप्तोर्यामशब्दस्याभिलषितार्थप्रापक #इत्यवयवार्थमाहुः । वसेः । वस निवासे । डुकृञ् करणे ।कतोः कित्त्वाद्गुणाऽभावे यणादेशः ।क्रतुर्यज्ञे मुनौ पुंसि॑ इति मेदिनी । एधिवह्रोश्चतुः । एध वृद्धौ,वह प्रापणे । चित्त्वाद्नतोदात्तः ।स्योनं पत्ये वहतुं कृणुष्व॑ ।वहतुः पथिके वृषभे पुमान् इति मेदिनी । जीवेः । जीव प्राणधारणे । आतृकन् ।जैवातृकः पुमान् सोमे कृषकायुष्मतोस्त्रिषु॑ इति मेदिनी । कृषिचमि । कृष विलेखने, चमु अदने, तनु विस्तारे, धन धान्ये । रभसकोशस्थमाह — कर्षूः पुंसीत्यादि ।कर्षूः पुमान् करीषाऽग्नौ स्त्रियां कुल्याऽल्पखातयोः॑ इति मेदिनी ।चमूः सेनाविशेषे च सेनामात्रे च योषिति॑ इति मेदिनी ।स्त्रियां मूर्तिस्तनुस्तनूः॑ इत्यमरः ।सर्जूर्वणिजि विद्युति । स्त्रियां स्वर्गे विधौ रुद्रे॑ इति मेदिनी ।खर्जूः कोटान्तरे नृ (वृ ) तौ॑,खर्जूरीपादपे कण्ड्वा॑मिति च । मृजेः । मृजू शुद्धो । अस्मादूः स्याद्वृद्ध्यपवादो गुणश्च ।मर्जूः स्त्री शुद्धौ धावकेऽपि च॑इति मेदिनी । वहो धश्च । वह प्रापणे ।वधूः स्नुषा नवोढा स्त्री भार्यापृक्काङ्गनासु च॑ इति विआः ।पृक्का महिला च वधूः॑ इति त्रिकाण्डशेषः । कषेश्छश्च । कषशिषेथि दण्डके हिंसार्थः । अस्मादूः स्याच्छश्चान्तादेशः ।कच्छ्वां तु,पाम पामा विचर्चिका॑इत्यमरः । णित्कसि । कसगतौ, पद गतौ, ऋ गतौ ।कासूर्विकलवाचि स्यात्तथा शक्त्यायुधे स्त्रीयाम् इति मेदिनी ।कासूः शक्त्यायुधे रुजि । बुद्धौ विकलवाचि स्यात् इति हेमचन्द्रः । अणो डश्च । अण दण्डके शब्दार्थः । अस्मादूः स्यात्स च णित् । डश्चान्तादेशः । नञि लम्बेः । लबि अवरुआसने । न लम्बते जले इत्यलाबूः । के श्रः । शृ हिंसायाम् । त्रो दुट् च । तप्लवनतरणयोः । तर्दूरिति ।नेड्वशी॑ति नेट् ।वरमनादा॑विति परिगणनं तु बाहुलकान्नाश्रीयते इत्याहुः । केचित्तु इडभावेत्रो दुक् चे॑ति पठित्वा धातोर्दुगागममाहुस्तेषां तु धातोर्गुणो दुर्लभः । दुगागमात्पूर्वं यत्प्राप्तं तदपि भवतीत्येवं चकारबलेन व्याख्याय वा गुणः साधनीयः । दरिद्रातेः । दरिद्रा दुर्गतौ । इश्च आश्चेति । भोजदेवस्तुर्यालोप॑ इति रेफाघटितं पदं छित्त्वा द्वेधा व्याख्यत् । इश्च आश्चेति व्याख्याने — दर्द्रूः । रश्च इश्च आश्चेति व्याख्याने तुअन्त्यबाधेऽन्त्यसदेशस्ये॑ति द्वितीयस्यैव रेफस्य लोपाद्दर्दूरिति । मृगय्वादित्वात्कुप्रत्यये दद्र्रुरित्यन्ये ।दद्र्रुणो दद्रुरोगी स्यात् इत्यमरः । इत्थं चत्वारि रूपाणि । नृति । नृती गात्रविक्षेपे, शृधु शब्दकुत्सायाम् ।अन्दूदृम्भू । अदि बन्धने ।नृतिशृध्योः कूः॑ इत्यत्रादिग्रहणं नकृतं वैचित्र्यार्थमित्याहुः । ला आदाने कफपूर्वः । डुधाञ् धारणपोषणयोः कर्कपूर्वः । षोऽन्तचकर्मणि — दिधिपूर्वः षत्वं च । अन्दूर्बन्धनमिति ।अन्दूः स्त्रियां स्यान्निगडे प्रभेदे भूषणस्य च॑ इति मेदिनी ।अन्दुको हस्तिनि गदे॑इत्यमरः । संज्ञायां कन् ।केऽणः॑ इति ह्यस्वः । केचित्तु अम गतौ अस्य दुक् । अन्दूर्बुद्धिरिति व्याचख्युः । दृभी ग्रन्थ इति । तुदादिरयम् । दृभतीति दृम्भूः संदर्भकर्तेत्यर्थः । कथक इत्यन्ये । कैयटमतानुरोधेनास्य रूपाणि हूहूवदित्युक्तम् । माधवादयस्तु दृढशब्दे उपपदे भुवः कूप्रत्ययः, उपपदस्य दृन्नादेशो निपात्यते । यद्वा दृढार्थकं दृन्निति नान्तमन्ययमुपपदम् । दृम्भूस्तु सर्पः कपिर्वेति व्याख्यायदृन्करे॑ति यणि वर्षाभूवद्रूपमस्येत्याहुः । ह्यस्वोऽपीति । अतएव विक्रमादित्येनोक्तं — तस्या जम्बोः फलरसोनदीभूय प्रवर्तते॑ इति.केचित्तुपरिणतजम्बुफलोपभगह्मष्टाः॑ इति भारविप्रयोगं ह्यस्वान्तत्वे साधकत्वेनोदाजह्युस्तन्न ।इको ह्यस्वोऽङ्य॑ इत्युत्तरपदाधिकारस्थह्यस्वविदायकसूत्रेण गतार्थत्वात् । दिधिमिति । केचित्तु दधातोरित्वं द्वित्वं षुक् च निपात्यते । दधात्यसौ दिधित्यसौदिधिषूरित्याहुः । पुनर्भूरिति ।पुनर्बूदिधिषूरूढा द्विः॑ इत्यमरः । द्विरूढा = द्विवारं विवाहितेत्यर्थः । उज्ज्वलदत्तोक्तपाठमाह — केचित्त्विति । एतच्च कैयटमाधवादिग्रन्थविरुद्धम् । अतएवदृम्भूः स्त्रीसर्पचक्रयोः इति भान्ते मेदिनी । मृग्रोः । मृङ् प्राणत्यागे,गृ निगरणे, आभ्यामुतिः । इकारस्तकारस्येत्संज्ञापरित्राणार्थः । मरुदिति । प्रज्ञादित्वादणि मारुतोऽपि । मरुतशब्दोऽप्यव्युत्पन्नोऽस्ति.तथा च विक्रमादित्यकोशःमरुतः स्पर्शः प्राणः समीरो मारुतो मरुत् इति ।कोऽयं वाति स दक्षिणात्यमरुतः॑ इति कविराजश्लोकेऽनुपपतिंत मत्वादक्षिणात्यपवन॑ इति पाठं केचित्कल्पयन्त्यल्पदृआआन इति वर्णविवेकः । गरुदिति । यवादिरयम् । तेनाऽस्मात्परस्य मतुपो मस्यझयः॑ इत्यनेन वत्वं न । गरुत्मान् । गर्मुदिति ।गर्मुत्स्त्री स्वर्णलतयोःट इति मेदिनी । ह्मषेः । ह्मष तुष्टौ । चटतेरिति । चटे वर्षावरमयोः । ह्मसृ । ह्मञ् हरणे, गतौ, रुह बीजजन्मनि । विआकोशस्थमाह — हरिदिति ।हरिद्दिशि स्त्रियां पुंसि हर्षवर्णविशेषयोः । अस्त्रियां स्यात्तृणे च॑ मेदिनी । ऋश्यस्येति । एतेनगतं रोहिद्भूतां रिरमयिषुमृस्यस्य वपुषा — ॑ इति पुष्पदन्तप्रयोगो व्याख्यातः ।रोहिन्मृग्यां लताभेदे स्त्री नाऽर्के॑ इति मेदिनी । ताडेः ।तड आघाते॑ ण्यन्तः ।तडित्सौदामनी विद्युत् इत्यमरः । शमेः । शम उपशमे । बाहुलकादिति । यद्यपिनेड्वशि कृती॑त्यनेनैव इडभावस्य सिद्धत्वादिट् च नेत्येतदयुक्तं तथापिनेड्वरमनादा॑विति परिगणनाद्बहुललग्रहणमाश्रित्यैव इडभावोऽपि साधितः ।शण्ढः स्यात्पुंसि गोपतौ । आकृष्टाऽण्डे वर्षवरे तृतीयप्रकृतावपि॑ इति मेदिनी ।कमेः । कमु कान्तौ ।कमठः कच्छपे पुंसि भाण्डभेदे नपुंसकम् इति मेदिनी । जरठ इति । जृ वयोहानौ ।जरठः कठिने पाण्डौ कर्कशेऽप्यभिधेयवत् इति विआमेदिन्यौ ।जरठः कठिने जीर्णे॑ इति वैजयन्ती । रमेः । रम क्रीडायाम् । शमेः । शम उपशमे ।शङ्खो निधौ ललाटाऽस्थ्नि कम्बौ न स्त्री॑ इत्यमरः ।शङ्खः कम्बौ न योषिन्ना भालास्थिनिधिभिन्नखे॑ इति मेदिनी । कणेः ।कण्ठो गले सन्निधाने ध्वनौ मदनपादपे॑ इति विआमेदिन्यौ । कल.तृप प्रीणने । फलत्रिके इति ।त्रिफला तृफला च सा॑ इति विआः । त्रिफलाशब्दसमानार्थस्तृफलाशब्द इति द्विगोः॑ इति सूत्रे रक्षितः । शपेः । शप आक्रोशे । वृषादिभ्यः । वृषु सेचने,पलगतौ, सृ गतौ,तृ प्लवनतरणयोः ।शूद्राश्चाऽवरवर्णाश्चवृषालश्च जघन्यजाःट इत्यमरः ।वृषलस्तुरगे शूद्रे॑ इति हेमचन्द्रः ।पलं तिलचूर्णे च पिकेमांसे नपुंसकम् । ना राक्षसे॑इति मेदिनी ।सरला विरलायन्ते घनायन्ते किल द्रुमाः । न शमी न च पुन्नागा अस्मिन्संसारकानने॑इत्यभियुक्तप्रयोगः । कमेः । कमु कान्तौ । अस्माद्ववृषादित्वेन कलप्रत्यये बाहुलकादित्यनुषज्यत इति बुक् ।कम्बलोनागराजे स्यात्सास्नाप्रावारयोरपि । कृमावप्युत्तरासङ्गे सलिले तु नपुंसकम् इति मेदिनी ।मुसलं स्यादयोऽग्रे च पुंनपुंसकयोः रिउआयाम् । तालमूल्यामाखुपर्णीगृहगोधिकयोरपि॑इति मेदिनी । मूर्धन्यमध्योऽप्यमिति वर्णदेशना । मुस खण्डन इति धातोर्दन्त्यान्तेषु मूर्धन्यान्तेषु च बोपदेवादिभिः पठितत्वात् । उज्ज्वलदत्तदयस्तु तालव्यमध्यमप्याहुः । अतएवमुसलो मुषलोऽपि च॑इति विआकोशे ।मुशलोऽपि चे॑ति पाठान्तरम् । लङ्गे । लगि गतौ । अस्मात्कलप्रत्यये बाहुलकादित्यनुषङ्गाद्वृद्धिरिति भावः । एवमग्नेऽपि । मुडागमो बाहुलकादेव । कुटिकशि । कुट कौटिल्ये, कशगतिशासनयोः, कु शब्दे, अस्मात्कलप्रत्यये गुणो नेत्याशङ्क्याह — बाहुलकादिति ।कोमलं मृदुलं मृद#उ॑ । बाहुलकादन्यत्रापि बोध्य- । तद्यथा — कुस श्लेषणे । द्त्यान्तोऽयम् । बोपदेवमते तु तालव्यान्तोऽपि.गुणः । गोशलः कोसलो वा देशविशेषः ।वृद्धेत्कोसले॑ति सूत्रे तु दन्त्यान्त एव सांप्रदायिकः । संबसंबन्धे, शंब च । संबलं शंबलम् ।शंबलोऽस्त्री संबलवत् कुलपाथेयमत्सरे॑ इति मेदिनी । कदि आह्वाने । नलोपः । गौरादित्वान्ङीषि — कदली ।मन्दान्दोलितकर्पूरकदलीदलसंज्ञया । विश्रमाय श्रमापन्नानानाह्वयन्तीमिवाध्वगा॑निति काशीखण्डम् । अजादेराकृतिगणत्वाट्टाबपि ।कदलाकदलौ पृश्न्यां कदलीकदलौ पुनः । रम्भावृक्षेऽथ कदली पताकामृगभेदयोः । कदली बिम्बिकायां च ॑ इति मेदिनी । कमु कान्तौ ।कमलं सलिले ताम्रे जलजे व्योम्नि भेषजे । मृगभेदे तु कमलः कमला श्रीवरस्त्रियोः॑ इति विआमेदिन्यौ । मडि भूषायाम् ।मण्डलं परिधौ कोठे देशे द्वादशराजके॑ इति मेदिनी ।कोठो मण्डलकं क्लीबे॑ इत्यमरः ।बिम्बोऽस्त्री मण्डलं त्रिषु॑ इति च ।मृजेः । मृजू शुद्धौ ।मलोऽस्त्री पापविट्किट्टे कृपणे त्वभिधेयवत्इति मेदिनी । चुपेः । चुप मन्दायां गतौ ।चपलः पारदे मीने चोरकेप्रस्तरान्तरे । चपला कमलाविद्युत्पुंश्चलीपिप्पलीषु च । नपुंसके तु शीघ्रे स्याद्वाच्यवत्तरले चले॑ इति मेदिनी । शकिशम्योः । शक्लृ शक्तौ, शम उपशमे । शकलं खण्डे रोहितादीनां त्वचि च । तद्योगात् शकली मत्स्यः ।मत्स्यान् शकला॑निति भाष्यम् ।शकलं त्वचि खण्डे स्याद्रागवस्तुनि वल्कले॑ इति मेदिनी । छो गुक् । छो छेदने ।छगलं नीलवस्त्रे ना छागे स्त्री वृद्धदारके॑ इति मेदिनी । ञमन्ताड्डः ।ञ॑मिति प्रत्याहारः । दमु उपशमे, रमु क्रीडायाम्, खनु अवदारणे, मन ज्ञाने, वन संभक्तौ, अम गत्यादिषु षणु दाने, गम्लृ गतौ,चण दाने, पण व्यवहारे स्तुतौ च । काशिकायां तुत्रिभ्य एव कणमाः स्यु॑रित्युक्तम् । ञम् प्रत्याहारस्तु न स्वीकृतः । अष्टाध्यायां तस्य विषयाऽभावात् । दण्ड इति । बाहुलकात्चुटू॑ इति नेत्संज्ञा ।दण्डोऽस्त्री लगुडेऽपि स्यात् इत्यमरः ।रण्डा मूषकपर्ण्यां च विधवायां च योषिति । खण्डोऽस्त्री शकले नेक्षुविकारमणिभेदयोः ।मण्डः पञ्चाङ्गु शाकभेदे क्लीबं तु मस्तुनि ।वण्डा तु पांसुलायां स्त्री त्रिषु हस्तादिवर्जिते॑ । अमन्ति संप्रयोगं यान्ति अनेनेति अण्डः प्राण्यवयवः ।षण्डः पद्मादिसङ्घाते न स्त्री स्याद्गोपतौ पुमान् । शडि रुजायाम्, अस्माद्धञि शण्डखङ्गिनि । चिह्नवीरकपोलेषु हयभूषणबुद्बुदे । चण्डो ना तिन्तिणीवृक्षे यमकिङ्कदैत्ययोः । चण्डी कात्यायनीदेव्यां हिंसाराकोपनयोषितो- ।पण्डः षण्डे धियि स्त्री स्या॑दिति मेदिनी । फमगतौ फण्डः । प्रज्ञादित्वादण् । फाण्डमुदरम् । क्वादिभ्यः कित् ।कुण शब्दोपकरणयोः । कुण्डमिति । इह कुण्डमित्यत्र प्रायेणानुस्वारमेव लिखन्ति, तत्तु प्रमादकृतम् । एवमन्यत्रापि बोध्यम् । डस्य कित्त्वान्न गुण- ।अनुनासिकस्य क्विझलो॑रिति दीर्घस्तु न भवति, बाहुलकात्संज्ञापूर्वकविधेरनित्यत्वाद्वेत्याहुः ।कुण्डमग्न्यालये मानभेदे देवजलाशये । कुण्डी कमण्डलौ काण्डमिति । कमु कान्तौ ।अनुनासकिस्ये॑ति दीर्घः ।काण्डोऽस्त्री दण्डबाणाऽर्ववर्गावसरवारिषु॑ इत्यमरः । अर्वाङ्कुत्सितः । अतएवकाण्डं स्तम्बे तरुस्कन्धे बाणेऽवसरनीरयोः । कुत्सिते वृक्षभिन्नाडीवृन्दे रहसि नस्त्रिया॑मिति मेदिनी । गुह् अव्यक्ते शब्दे ।गुडो गोलेक्षुपाकयोः॑ इत्यमरः । गुडा स्नुही,तद्वत्केशा यस्य सगुडाकेशः = शिवः, जटाधारित्वात् ।गुडः स्याद्गोलके हस्तिसन्नाहेक्षुविकारयोः । गुडा स्नुह्रां च कथिता गुडिकायां च योषिति॑ इति मेदिनी । गुडाका = निद्रा, तस्याईश इति वा, जितेन्द्रियत्वादिति भावः ।स्थाचति । ष्ठा गतिनिवृत्तौ, चते याचने, मृजू शुद्धौ । लचा सिद्धे आलच आकारश्चिन्त्यप्रयोजनः । चित्स्वरं बाधित्वा पक्षे आद्युदात्तार्थमित्येके ।स्थालं स्मृतः शूद्रेबिजालेकायशोधने॑ इति मेदिनी । पतिचण्डि । पत्लृ गतौ, चडि कोपे ।पतन्त्यस्मिन्नधर्मेणेति पातालम् । उपधावृद्धिः ।अधोभुवनपातालं बलिसद्म रसातल॑मित्यमरः ।पातालं नागलोके स्याद्विवरे वडवाऽनले॑ इति मेदिनी । चण्डाल इति । इदित्त्वान्नुमि अदुपधत्वाऽभावान्न वृद्धिः । माधवेन तुपतिचण्डिब्यामालन् इति नितं पठित्वा पातालशब्दे बाहुलकाद्वृद्धिमुक्त्त्वावृद्ध्यर्थमालञिति केषांचित्पाठे तु चण्डालशब्देऽपि वृद्धिः स्यादित्युक्तं तदतिरभसात् । एके इति । उज्ज्वलदत्तादयः । एतच्चकुलालवरुडकर्मारनिषादचण्डालमित्राऽमित्रेभ्यश्छन्दसी॑ति चण्डालात्स्वार्थेऽणं विदधता तद्भाष्येण च सह विरुद्धमिति बोध्यम् । तमिविशि । तमु काङ्क्षायाम्, विश प्रवेशने, बिड आक्रोशे, भृण हिंसायाम्, कुल संस्त्याने, कपि चलने, निर्देशान्नलोपः । पलगतौ, पचि विस्तारे ।तमालस्तिलके खङ्गे तापिच्छे वरुणद्रुमे॑ इति मेदिनी ।विशाला त्विन्द्रवारुण्यामुज्जयिन्यां तुयोषिति । नृपवृक्षभिदोः पुंसि पृथुलेऽप्यभिधेयवत् इति मेदिनी ।बिडालो नेत्रपिण्डे स्याद्वृषदंशकके पुमान् इति च मेदिनी ।ओतुर्बिडालोमार्जारो वृषदंशक आखुभुक् इत्यमरः ।मृगालंनलदे क्लीबे पुंनपुंसकयोर्बिसे॑इति मेदिनी ।कुलालः ककुभे कुम्भकारे स्त्रीत्वञ्जनान्तरे॑ इति च मेदिनी ।कुलालो घूकपक्षिणि । ककुभे कुम्भकारे च॑ इति हेमचन्द्रः ।कपालोऽस्त्रीशिरोऽस्थ्नि स्याद्धटादेः शकले व्रजे॑ इति मेदिनीविआप्रकाशौ ।पाञ्चाली पुत्रिकागीत्योः स्त्रियां पुंभूम्नि नीवृति॑ इति मेदिनी । बाहुलकात् श्यतेरपि कालन् ।आदेच उपेदेशे॑ इत्यात्वम् । शाला शल चलने । अस्मात् घञि शाला ।सेनासुराच्चायाशालनिशाना॑मिति निपातनात्स्त्रीत्वमिति न्यासः ।शालाद्रुस्कन्धशाखायां गृहगेहैकदेशयोः । ना झषे इति मेदिनी । पतेरङ्गच् । पत्लृ गतौ । पक्षिणीत्युपलक्षणम् ।पतङ्गः शलभे शालिप्रभेदे पक्षिसूर्ययोः । क्लीबंसूते॑ इति मेदिनी । सूते पारद इत्यर्थः । तरत्या.तृ प्लवनतरणयोः । लूञ् छेदने । तरङ्ग ऊर्मिः ।तरङ्गस्तुरगादीनामुत्फाले वरुआभङ्गयोः॑ इति विआः ।लवङ्गं देवकुसुमे॑ । आकृतिगणोऽयम् । विडादिभ्यः । बिड आक्रोशे, मृद क्षोदे, कृ विक्षेपे, एभ्योऽङ्गच् कित्स्यात् । विडङ्ग ओषधिविशेष इति उज्ज्वलदत्तः ।विडङ्गः कृमिसङ्घघ्ने विडङ्गो नागरेऽन्यवत् इति विआः ।विडङ्गस्त्रिष्वभिज्ञे स्यात् कृमिघ्ने पुंनपुंसक॑ मिति मेदिनी ।मृदङ्गः पटहे घोषे॑ इति च । कुरङ्गो मृगविशेषः । बाहुलकादुत्वं चेति.कुर शब्दे इत्यस्मादङ्गच् ।तस्य कित्त्वेन गुणाऽभाव इत्यन्ये । सृवृञोः । सृ गतौ, वृञ् वरणे ।सारङ्ग पुंसि हरिणे चातके च मतङ्गजे ।शबले त्रिषु॑इति मेदिनी । बाहुलकात् नृ नये ।अथ नारङ्गः पिप्लीरसे । यमजप्राणिनि विटे नागरङ्गद्रुमेऽपि चे॑ति मेदिनी । गन् गम्य । गम्लृ गतौ, अद भक्षणे,बाहुलकादम गत्यादिषु । अस्मादपि गन् ।अङ्गं गात्रे उपाये च प्रतीके चाऽप्रधानके । अह्गोदेशविशेषे स्यादङ्ग संबोधनेऽव्यय॑मिति विआः ।अङ्गं गात्रे प्रतीकोपाययोः पुंभूम्नि नीवृति । क्लीबैकत्वे त्वप्रधाने त्रिष्वङ्गवति चान्तिके॑ इति मेदिनी । छापू । छो छेदने, पूङ् पवने, खड भेदने । छायते छिद्यते यज्ञार्थमिति छागः । पूयतेमुखमनेनेति पूगः ।पूगस्तु क्रमुके वृन्दे॑ इति मेदिनी ।खङ्गो गण्डकशृङ्गे स्यान्निस्त्रशे गण्डकेऽपि चे॑ति शब्दतरङ्गिणी ।खङ्गो गण्डक शृङ्गाऽसिबुद्धभेदेषु गण्डके॑ इति मेदिनी । भृञः । डुभृञ् धारमपोषणयोः । किदित्यनुवर्तनात्किद्ग्रहममिह स्पष्टार्थम् ।भृङ्गो धूम्याटषिङ्गयोः ।मधुव्रते वभृङ्गराजे पुंसि भृङ्गं गुडत्वचि॑ इति मेदिनी । शृणातेः । शृ हिंसायामस्माद्गन्,धातोह्र्यस्वत्वं प्रत्ययस्य तु कित्त्वं नुट् च ।शृङ्गं प्रभुत्वे शिखरे चिह्ने क्रीडाऽम्बुयन्त्रके । विषाणोत्कर्षयोश्चाथ शृङ्गः स्यात्कूर्चशीर्षके । स्त्री विषायां स्वर्णमीनभेदयोरृषभौषधौ॑ इति मेदिनी ।शृङ्गं विषाणमाख्यातं शैलाग्ने जलयन्त्रके । मीनौषधिसुवर्णानां बेदे शृङ्गी प्रयुज्यते इत्युत्पलिनीकोशः । गण् शकुनौ । शृणातेः शकुनौ वाच्ये गण् स्यात्तस्य नुट् ।अचोऽञ्णिती॑ति धातोर्वृद्धिः । शार्ङ्गः पक्षी । शाङ्र्गं धनुरिति तु शृङ्गस्य विकार इति बोध्यम् । मुदिग्रोः । मुद हर्षे,गृ निगरणे,आभ्यां यथासंख्यं गक् ग इत्येतौ स्तः । मुद्गः सस्यभेदः । गर्गो मुनिविशेषः ।अण्डन् । डुकृञ् करणे,सृ गतौ,भृञ् भरणे, वृञ् वरणे ।करण्डो मधुकोशाऽसिकारण्डेषु दलाढके॑ इति मेदिनी ।वरण्डोऽप्यन्तरावेदौ समूहमुखरोगयोः॑ इति विआमेदिन्यौ । बाहुलकात् — तृ प्लवनतरणयोरपि ।तरण्डो वडिशीसूत्रबद्धकाण्ठादिके प्लवे॑ इति मेदिनी । शृ दृ ।शृ हिंसायाम्, दृ विदारणे, भस भत्र्सनदीप्त्योः । शरत् स्त्री वत्सरेऽप्यृतौ ।दरत्स्त्रियां प्रपाते च भयपर्वतयोरपि ।भसत् स्त्री भास्करे योनौ इति मेदिनी ।उबे अम्बसुलाभिक॑ इति व्याख्यातारः । दृणातेः । दृ विदारणे ।दृष्निष्पेषणशिलापट्टप्रस्तरयोः स्त्रियाम् इति मेदिनी । त्यजि.त्यज हानौ, तनु विस्तारे, यज देवपूजादौ । त्यदितयादि.अदेर्डित्वाट्टिलोपः । एतेः । इण् गतौ अस्माददिः । तस्य तुटि गुणः । एतद् । सर्तेः । सृ गतौ ।लङ्घेः । लघि शोषणे । पारयतेः । पीर तीर कर्मसमाप्तौ चुरादिः । पारगिति । णिलोपः कुत्वम् । प्रथेः । प्रथ प्रख्याने । भियः । ञिभी भये । युष्यसि । असु क्षेपणे । अर्तिस्तु । ऋ गतौ, ष्टुञ् स्तुतौ, षुञ् अभिषवे, हु दनादनयोः,सृ गतौ, धृञ् धारणे, क्षि क्षये, टुक्षु शब्दे,भा दीप्तौ, या प्रापणे, वा गतिगन्धनयोः,पद गतौ, णीञ् प्रापणे ।सोमस्तु हिमदीधितौ । वानरे च कुबेरे च पितृदेवे समीरणे । वसुप्रभेदे कपूरे नीरे सोमलतौषधौ॑ इति मेदिनी । होम इति । देवतोद्देशेन हविः प्रक्षेपः ।धर्मोऽस्त्री पुण्य आचारे स्वभावौपमयोः क्रतौ । अहिंसोपनिषन्नयाये ना धनुर्यमसोमपे॑ इति च ।धर्मः पुण्ये यमे न्याये स्वभावाचारयोः क्रतौ॑ इति विआः ।क्षौमं पट्टे दुकूलेऽस्त्री क्षौमं वल्कलजांऽशुके । शणजेऽतसिजे॑ इति मेदिनी ।भामः क्रोधे रवौ दीप्तौ॑ इति च ।यामस्तु पुंसि प्रहरे संयमेऽपि प्रकीर्तितः॑ इति च ।वामं धने पुंसि हरे कामदेवे पयोधरे । वल्गुप्रतीतपसव्येषु त्रिषु नार्यां स्त्रियामथ.वामी शृगालीवडवारासभीकरभीषु चे॑ति ।पद्मोऽस्त्री पद्मके व्यूहनिधिसंख्यान्तरेऽम्बुजे । ना नागे॑इति च॑ इत्यमरः ।राजयक्ष्मेव रोगाणा॑मिति माघः ।यक्ष्मणाऽपि परिहाणिराययौ॑ इति रघुः । अत्र जकारयकारयोर्भेदाऽग्रहेण जक्ष भक्षहसनयोरित्युज्ज्वलदत्तेनोपन्यस्तम् । तन्न । तस्यचवर्गतृतीयादित्वात् । अतएवअक्षीभ्यां ते नास#इकाभ्यां कर्णाभ्यां चुबुकादधि । यक्ष्मं सर्वस्मात् इति मन्त्रे यक्ष्मशब्दस्यान्तः स्थादित्वम् ।जक्षन् क्रीडन् रममाण॑ इत्यादिमन्त्रे तु जक्षच्छब्दस्य चवर्गतृतीयादित्वं वेदभाष्यकृतो व्याचख्युः ।नेमः कीलेऽवधौ गर्ते प्राकारे कैतवेऽपि च॑ इति मेदिनी ।नेमस्त्वर्धे प्राकारगर्तयोः । अवधौ कैतवे च॑ इति हेमचन्द्रः ।जहातेः । ओहाक् त्यागे । जहृ इति । मन्प्रत्ययस्य सन्वत्त्वाद्वित्वेसन्यतः॑ इतीत्वम् ।जिहृस्तु कुटिले मन्दे क्लीबं तगरपादपे॑ इति मेदिनी । अवेतिः । अव रक्षणादौ ।ॐ प्रश्ने स्वीकृतौ रोषे॑ इति विआः । ग्रसेरा च । ग्रसु अदने । अतो मन्, धातोराकारश्च ।ग्रामः स्वरे संवसतेवृन्दे शब्दादिपूरवकः॑ इति विआः । शब्दादिपूर्वको ग्रामशब्दो वृन्दे । शब्दग्रामोगुणग्राम इति यथा ।शब्दादिपूर्वो वृन्दे शब्दादिपूर्वकः॑ इति विआः । शब्दादिपूर्वको ग्रामशब्दो वृन्दे । शब्दादिपूर्वो वृन्देऽपि ग्रामः॑ इत्यमरः । संपूर्वोऽयं युद्धे । तदुक्तंसंपूर्वः संयुगे स्मृतः॑ इति । अविसिवि । अव रक्षणादौ, षिवु तन्तुसन्ताने,षिञ् बन्धने, शुष शोषणे , एभ्यो मन्स्यात्स च कित् । ऊठादितं पूर्ववत् । ऊमं नगरमिति ।त्वे क्रतुम् इति मन्त्रे ऊमास्तर्पका यजमाना इति वेदभाष्यम् । टापिबाहुलकाद्ध्रत्वत्वेउमाऽतसीहैमवतीहरिद्राकान्तिकीर्तिषु॑ इति मेदिनी । स्यूमो रश्मिरिति । सूत्रतन्तुरित्यन्ये । सिमः सर्वनाम गणे पठितः ।शुष्मं तेजसि सूर्ये ना॑ इति मेदिनी । शुष्मं बलमिति वेदभाष्यम् । इषियुधि । इष गतिहिंसादानेषु । ईष गताविति केचित् । इष्मः । युध संप्रहारे,ञीन्धी दीप्तौ, दसु उपक्षये, श्यैङ् गतौ, धूञ् कम्पने, षूञ् प्राणिगर्भविमोचने । युध्म इति ।युध्मो धनुषि संयुगे॑, इति मेदिनी ।दस्मस्तु यजमाने स्यादपि चौरे हुताशने॑ इति च ।त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिवा निशा॑ इत्यमरः ।श्यामो वटे प्रयागस्य वारिदे वृद्धदारके । पिके च कृष्णहरितोः पुंसि स्यात्तद्वति त्रिषु । मरीचे सिन्धुलवणे क्लीबं स्त्री शारिवौषधौ ।अप्रसूताऽङ्गनायां च प्रियङ्गावपि गुग्गुलौ । यमुनायां त्रियामायां कृष्णत्रिवृतिकौषधे । नीलिकाया॑मिति मेदिनी । ईर्ममिति । ईर गतौ ।व्रणोऽस्त्रियामीर्ममरुः क्लीबे॑ इत्यमरः । बाहुलकाज्जन जनने स्तु अकारान्तनकारान्तोभयसाधारणः ।युजि । युजिर् योगे, रुच दीप्तौ, तिज निशाने, एभ्यो मक्, कवर्गश्चान्तादेशः ।रुक्मं तु काञ्चने लोहे॑ इति विआमेदिन्यौ । तिग्मं तीक्ष्णम् । हन्तेः । हन हिंसागत्योरस्मान्मक्, धातोर्हिरादेशश्च ।हिमं तुषारमलयोद्भवयोः स्यान्नपुसंकम् । शीतले वाच्यलिङ्गः॑ इति मेदिनी । भियः । ञिभी भये । बिभेत्यस्मादिति विग्रहः ।भीष्मो गाङ्गेयघोरयोः ।भीमोऽम्लवेतसे धोरे शम्भौ मध्यमपाण्डवे॑ इति मेदिनी । घर्मः । घृ क्षरणदीप्त्योः । ग्रीष्मः । ग्रसु अदने ।घर्मः स्यादातपे ग्रीष्मेऽपर्युष्णस्वेदाम्भसोरपि॑ ।ग्रीष्म ऊष्मर्तुभेदयोः॑ इति च मेदिनी । प्रथेः । प्रथ प्रख्याने । षित्त्वान्ङीष् ।पृथवी पृथिवी पृथ्वी धरा सर्वसहा रसा॑ इति शब्दार्णवः । अशुप्रुषि.अशू व्याप्तौ, लट बाल्ये,कण निमीलने,खटि काङ्क्षायाम्,विश प्रवेशने ।अआः पुंजातिभेदे च तुरङ्गे च पुमानय॑मिति मेदिनी ।अआः पुंभेदवाजि#ईनोः॑ इति विआः ।लट्वा करञ्जभेदे स्यात्फले वाद्ये खगान्तरे॑ इति विआमेदिन्यौ ।कण्वं पापे मुनौ पुंसि॑ इति मेदिनी ।किण्वं बीजाऽघसीधुषु॑ इति च पठते । शयनार्थिभिः काङ्क्ष्यते इति खट्वा ।विआआ ह्रतिविषायां स्त्री जगति स्यान्नपुंसकम् । न ना शुण्टआं पुंसि देवप्रभेदेष्वखिले त्रिषु॑ इति मेदिनी । इण् । इण गतौ । शीङ् स्वप्ने । शेवं सुखमिति वेदभाष्यम् । शेवं मेढ्रमित्युज्जज्वलदत्तः । सर्वनिघृष्व । सर्वनिघृष्व । सृ गतौ,घृषु संघर्षे, रिष हिंसायाम्, लष कान्तौ, शीङ् स्वप्ने, पट गतौ, ह्वेञ् स्पर्धायां शब्दे च, ओहाक् त्यागे इति वा, ईष गत्यादिषु । तन्त्रशब्दोऽत्र कर्तृवाचीत्याह — अकर्तरीति । निपात्यन्त इति ।वन् प्रत्ययान्ततये॑ ति शेषः ।ह्यस्व इति । ह्यस शब्दे ।ह्यस्वो न्यक्खर्वयोरिउआषु॑ इति मेदिनी । शेयवह्व । एते वन्प्रत्ययान्ता निपात्यन्ते । अन्तोदात्तार्थमिति ।इण्शीभ्या॑मित्यनेन आद्युदात्तत्वसिद्धेरिति भावः । शीङ् स्वप्ने । शेवा लिङ्गाकृतिः । दशपादीवृत्तिरीत्याह — यान्त्यनेनेति । उज्ज्वलदत्तस्तु यज देवपूजादौ जकारस्य हकारो, यह्वो यजमान इत्याह । वैदिकनिघण्टौ महन्नामसु यह्वशब्दः पठितः ।प्रवो यह्वं पुरुणां । यह्वं महान्तमिति वेदभाष्यम् । लिह आस्वादने । लिह लिहनत्यनयेति जिह्वा । जि जये हुगागमः । जिह्वा रसनेत्युज्ज्वलदत्तः । ग्रीवेति । गृ निगरणे, आप्लृ व्याप्तौ, मीह् हिंसायाम् । मीवेति.वेदे तु अमीवेति छित्त्वा अम रोग इत्यस्माद्वः, इट् चेत्युक्तम् ।अमीवहा वास्पोष्पते॑ इत्यादिमन्त्रास्तत्रानुकूलाः । कृ गृ कृ विक्षेपे, गृ निगरणे, शृ हिंसायाम्, दृ विदारणे । गर्वोऽहंकारः । शर्वो रुद्रः । कनिन्यु ।यु मिश्रणे, वृषु सेचने, तक्षू तनूकरणे, राजृ दीप्तौ, धन्वि (वि) गत्यर्थः, द्यु अभिगमने, दिवु क्रीडादौ ।युवा स्यात्तरुणे श्रेष्ठे निसर्गबलशालिनी॑ ति ।वृषा कर्णे महेन्द्रे ना॑इति च मेदिनी ।तक्षा तु वर्धकिस्त्वष्टा रथकारश्च काष्ठतट् इत्यमरः ।राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रियशक्रयोः॑ इति च ।समानौ मरुधन्वानौ॑ इति च ।अथाऽस्त्रियाम् । धनुश्चापौ धन्वशरासनकोदण्डकार्मकुम् इति चाऽमरः ।धन्वा तु मरूदेशेना क्लीबे चापे स्थलेऽपि च॑ इति मेदिनी । सप्यशूभ्याम् । षप समवाये, अशू व्याप्तौ । नञि । ओहाक् त्यागे, कनिनि आतो लोपः । आन्नुक्षन् । टुओआगतिवृद्ध्योः, उक्ष सेचने, पूष वृद्धौ । ष्णिह प्रीतौ, मुह वैचित्ये, मुर्वी बन्धने । उकारस्य दीर्घत्वे वकारस्य धकार इत्युज्जवलदत्तः । टुमस्जो शुद्धौ । मस्जेः सकारस्य शकारस्तस्य जश्त्वेन जः । माङ् माने शब्दे च, प्सा भक्षणे, जनी प्रादुर्भावे, टुओइआ गतिवृद्ध्योः । कनिप्रत्ययान्ता इति । नायं निदिति भावः । केचित्तु नित्त्वं स्वीकृत्य उक्षन्नादीनां सूत्रेऽन्तोदात्तनिपातनमाहुस्तच्च गौरवग्रस्तमित्युपेक्ष्यम् । ओति । इकारलोपो निपात्यते । पूषेति ।सौ चे॑त्युपधादीर्घः ।इन्हन् इति नियमात्पूषणौ पूषण इत्यादौ न दीर्घः ।क्लिदौषदिशशाङ्कयोः॑ इति यादवः । मूर्धेति ।मूर्धा ना मस्तकोऽस्त्रियाम् इत्यमरः । मज्जेति । नकारान्तोऽयं । टाबतोऽप्यभ्युपगम्यते ।ऊष्मया सार्धमूष्मापि मज्जोक्तो मज्जया सह॑ इति द्विरुपकोशात् ।अर्यमा तु पुमान्सूर्ये पितृदेवन्तरेऽपि॑चेति मेदिनी । परिजायत इत्यादि । एतच्च दशपादीवृत्त्यनुरोदेनोक्तम् ।परिज्मानं सुखं रथ॑मिति मन्त्रस्य वेदभाष्येतु परिज्मा परितो गन्ता । अञ्जेः परिपूर्वस्यआन्नुक्षन् इत्यादिना मन्प्रत्ययः, अकारलोपः, आद्युदात्तत्वं च निपात्यत इत्युक्तम् । उज्जवलदत्तस्तु परिज्वेति पठित्वा जु इति सौत्रो धातुः परिपूर्वः, यणादेशः परिज्वा चन्द्र इत्याह, तल्लक्ष्यविरोधादुपेक्ष्यम् । मातरिओति । सप्तम्या अलुक् । इह भत्वविषये संप्रसारणं न भवति,आयु वे॑ति सूत्रे अभिव्यक्ततरत्वेन कुक्कुरवाचकस्यैव आशब्दस्य,तदन्तस्य च ग्रहणात् । तेन मातरिआनः, मातरिनेत्येव । इह सूत्रे इतिशब्द आद्यर्थस्तेनाऽन्येभ्योऽपि यथादर्शनं कनिः प्रयोक्तव्यः । दशपाद्यां तु इतिशब्दोऽत्र न पठते । इत्युणादिषु प्रथमः पादः ।अथ द्वितीयः पादः ।कृह्मभ्याम् । डुकृञ् करणे, ह्मञ् हरणे ।करेणुरिभ्यां स्त्री नेभे॑ इत्यमरः ।करेणुर्गजयोषायां स्त्रियां पुंसिमतङ्गजे॑ इति मेदिनी । गन्धद्रव्यमिति । कलायश्चेति बोध्यम् ।कलायस्तु सतीनकः॑ इत्यमरः । हरेणुखण्डिके चास्मिन् इत्यमरः ।हेरणुर्ना सतीने स्त्री रेणुकाकुलयोषितोः॑ इति मेदिनीविआप्रकाशौ ।हनिकुषि । हन हिंसागत्योः,कुष निष्कर्षे, णीञ्प्रापणे, रमु क्रीडायाम्, काशृ दीप्तौ ।कुष्ठं रोगे पुष्करे स्त्री॑ इति मेदिनी ।कुष्ठं रोगे सुगन्धे च॑ इति विआः ।नीथे नीथे मघवानं सुतासः॑ इति मन्त्रे नीथशब्दस्याऽन्तोदात्तत्वं बाहुलकात् । नीथे नीथे = स्तोत्रे स्तोत्रे इति वेदभाष्यम् ।रथः पुमानवयवे स्यन्दने वेतसेऽपि च॑ इति मेदिनी ।रथः स्यात्स्यन्दने काये चरणे वेतसेऽपि च॑ इति विआः ।काष्ठा दारुहरिद्रायां कालमानप्रकर्षयोः । स्थानमात्रे दिशि च स्त्री दारुणि स्यान्नपुंसकम् इति मेदिनी । अवे । डुभृञ् धारणपोषणयोः । अवभृथो यज्ञावसानम् । उषिकुषि । उष दाहे, कुष निष्कर्षे, गै शब्दे, ऋ गतौ, एभ्यस्थन् ।कोष्ठं कुक्षिकुसूलयोःर॑ ।गाथा शोके संस्कृतान्यभाषायां शेषवृत्तयोः॑ इति मेदिनी ।अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु॑ इत्यमरः । शोथः आयथुः । शु गतौ । सर्तेः । सृ गतौ ।सार्थो वणिक्समूहे स्यादपि सङ्घातमात्रके॑ इतिमेदिनीविआप्रकाशौ । जृवृञ् । ज्या वयोहनौ क्यादिः, जृष् दिवादौ । वृञ् वरणे । जरूथोऽसुरविशेष इति वेदभाष्यम् ।वरूथः स्यात्तनुत्राणे रथगोपनवेश्मनोः॑ इति हेमचन्द्रः । पातृ । पा पाने, तृ प्लवनतरणयोः, तुद व्यथने, वच परिभाषणे, रिचिर् विरेचने, षिच क्षरणे, ऋच स्तुतौ ।तुत्थोऽग्नावञ्जने तुत्था नीलीसूक्ष्मैलयोरपि॑ इति विआः ।तुत्थमञ्जनभेदे स्यान्नीलीसूक्ष्मैलयोः स्त्रियाम् ।सिक्थो भक्तपुलाके ना मधूच्छिष्टे नपुसंकम् इति मेदिनी । अर्तेः । ऋ गतौ ।द्रोघवाचस्ते निरृथं सचन्ताम् इति मन्त्रे निरृथो हिंसेति वेदभाष्यम् । निशीथ । शीङ् स्वप्ने निपूर्वः, पा पाने गोपूर्वः ।घुमास्थे॑ तीत्वम् । गाङ् गतौ । अवपूर्वस्य धातोह्र्यस्वत्वम् ।निशीथस्तु पुमानद्र्धरात्रे स्याद्रात्रिमात्रके॑ इति मेदिनी ।प्रति त्यं चारुमध्वर॑ मिति मन्त्रेगोपीथः सोमपान॑मिति वेदभाष्यम् । तीर्थमिति तु वृत्तिकारः । गश्चोदि । उदि उपपदे गै शब्दे इत्यस्मात्थक् । समीणः । इणा गतावस्मात्समि उपपदे थक् । समिथशब्दः सङ्ग्रामपर्यायेषु वैदिकनिघण्टौ पठितः ।श्रिये जातः॑ इति मन्त्रेसमिथाः युद्धानी॑ति वेदभाष्यम् । तच्च युक्तमेव । सम्यगेति जयार्थमत्रेति व्युत्पत्तेः । संपूर्वस्येणः क्तिन्नाद्यन्तस्य लोकेऽपि युद्धार्थत्वदर्शनाच्च । उक्तं ह्रमरेणसमित्याजिसमिद्युधः॑ इति । तिथपृष्ठ । तिज निशाने, पृषु सेचने, गु पुरीषोत्सर्गे,यु मिश्रणे, प्रुङ् गतौ । एते थक्प्रत्ययान्ता निपात्यन्ते ।पृष्ठं तु चरमं तनोः॑ इत्यमरः ।पृष्ठं चरममात्रेऽपि देहस्यावयवान्तरे॑ इति मेदिनी । स्तोत्रविशेषोऽपिपृष्ठैः स्तुवते॑ इत्यादौ तथा निर्णयात् । गूथमिति । निपातनाद्दीर्घः । एवं यूथोऽपि [॒यूथं तिर्यक्समूहेऽस्त्री पुष्पभेदेऽपि योषिती॑ति मेदिनी । यूथी पुष्पप्रेभेदे स्यान्मागध्यां चकुरण्टके]यूथं तिर्यक्समूहेऽपि वृन्दमात्रेऽपि भाषित॑मिति विआः ।यूथं तदग्रसरगर्वितकृष्णसार॑मिति रघुः । प्रोथमिति । निपातनाद्गुणः ।प्रोथोऽस्त्री हयघोणायां ना कटआ मघ्वगे त्रिषु॑ इति मेदिनी । स्फायतिञ्चि । स्फायी वृद्धौ, तञ्चु संकोचने, वञ्चु प्रलम्भने, शक्लृ शक्तौ , क्षिप प्रेरणे, क्षुदिर् संपेषणे, सृप्लृ गतौ, तृप प्रीणने,दृप हर्षमोचनयोः, वदि अभिवादनस्तुत्योः, उन्दी क्लेदने,इआता वर्णे, वृतु वर्तने, अजगतिक्षेपणयोः, णीञ् प्रापणे, पद गतौ, मदी हर्षे, मुद हर्षे, खिद दैन्ये, छिदिर् द्वैधीकरणे भिदिर् विदारणे, मदि स्तुतौ, चदि आह्लादने, दह भस्मीकरणे, दसु उपक्षेपे, दम्भु दम्भने, वस निवासे, वाशृ शब्दे, शीङ् स्वप्ने, हसे हसने, षिध गत्याम्, शुभ दीप्तौ । द्वाशिंशत इति । दशपाद्यां तु त्रयस्त्रशदुक्ताः ।दम्भिवहिवसी॑ति पठित्वा वह प्रापणे ऊह्रोऽनड्वानित्युदाहरणात् । माधवोऽप्येवम् । [तक्रमिति] ।तक्रं ह्रुदइआन्मथितं पादाम्ब्वर्धाम्बु निर्जल॑मित्यमरः ।वक्रः स्याज्जटिले क्रुरे पुटभेदे शनैश्चरे॑ इति विआः ।शक्रः पुमान् देवराजे कुटजाऽर्जुन भूरुहोः॑ इति मेदिनी ।क्षुद्रः स्यादधमक्रूरकृपणाऽल्पेषु वाच्यवत् इति मेदिनी । तृप्र पुरोडाश इति ।न तृप्रा उरुव्यचस॑मिति मन्त्रे वेदभाष्यकारैरित्थं व्याख्यातं, प्रकृतसूत्रे उज्ज्वलदत्तादिभश्च । दशपादीवृत्तौ तु तृप्रमाज्यं काष्ठं चेत्युक्तम् । तृप्रं दु#ःखमिति सुबन्धातु वृत्तौ माधवः । हिमांशुरित्यादि । हिमद्युतिरित्यन्तं शब्दार्वणः । दस्यति रोगान् क्षिपतीति दरुआः ।दरुआः खरेऽआनीसुते॑ इति मेदिनी ।दरुआः खरे चाऽइआनयोः॑ इति विआः ।
लघुसिद्धान्तकौमुदी
मुच् लिप् विद् लुप् सिच् कृत् खिद् पिशां नुम् स्यात् शे परे। मुञ्चति, मुञ्चते। मोक्ता। मुच्यात्। मुक्षीष्ट। अमुचत्, अमुक्त। अमुक्षाताम्। लुपॢ छेदने॥ 7॥ लुम्पति, लुम्पते। लोप्ता। अलुपत्। अलुप्त। विदॢ लाभे॥ 8॥ विन्दति, विन्दते। विवेद, विवेदे। व्याघ्रभूतिमते सेट्। वेदिता। भाष्यमतेऽनिट्। परिवेत्ता॥ षिच क्षरणे॥ 9॥ सिञ्चति, सिञ्चते॥
महाभाष्यम्
शे मुचादीनाम् ।। शे तृम्पादीनाम्(1) ।। शे तृम्पादीनामुपसङ्ख्यानं कर्तव्यम् । तृम्पति(2) । तृम्फति ।। किमर्थमिदं, न नुमनुषक्ता एवैते पठ्यन्ते ? ।। ।। लुप्तनकारत्वात् ।। लुप्यतेऽत्र नकारः ‐ -अनिदितां हल उपधायाः क्ङितीति ।। यदि पुनरिमे इदितः पठ्येरन् ? ।। नैवं शक्यम्, इह हि लोपो न स्यात् ‐ तृपितो(1) दृपित इति ।। यदि पुनरिमे मुचादिष्वेव(2) पठ्येरन् ? ।। न दोषः स्यात् । अथवा नैवं विज्ञायते ‐ इदितो नुम्धातोरिति।। कथं तर्हि ? ।। इदितो नुम् । ततो धातोरिति ।। ( शे मुचादीनाम् ) ।।