Page loading... Please wait.
7|1|58 - इदितो नुम् धातोः
॥ तस्मै पाणिनये नमः ॥
7|1|58
SK 2262
इदितो नुम् धातोः   🔊
सूत्रच्छेदः
इदितः (षष्ठ्येकवचनम्) , नुम् (प्रथमैकवचनम्) , धातोः (षष्ठ्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
इदितः धातोः नुम्
सूत्रार्थः
इदित्-धातोः नुमागमः भवति ।
यस्मिन् धातौ औपदेशिक-अवस्थायाम् इकारः इत्संज्ञकः अस्ति, तस्य धातोः नुम्-आगमः भवति । अयम् आगमः मित्-आगमः अस्ति, अतः मिदचोऽन्त्यात्परः 1|1|47 इत्यनेन अन्त्यात् अचः परः आगच्छति । एतत् नुमागमस्य कार्यम् धातोः प्रकृतेः एव भवति, अत्र किमपि निमित्तम् नापेक्षते ।

उदाहरणम् - वदिँ (अभिवादनस्तुत्योः) अस्मिन् धातौ इकारः इत्संज्ञकः अस्ति । अतः अस्मिन् धातोः एतादृशम् परिवर्तनम् भवति -
वदिँ
→ वन् द् [इँकारस्य उपदेशेऽजनुनासिक इत् 1|3|2 इति इत्संज्ञा, तस्य लोपः 1|3|9 इति तस्य लोपः । इदितो नुम् धातोः 7|1|58 इति नुमागमः ।]
→ वं द् [नश्चापदान्तस्य झलि 8|3|24 इति नकारस्य अनुस्वारः]
→ व न् द् [अनुस्वारस्य ययि परसवर्णः 8|4|58 इति अनुस्वारस्य परसवर्णः नकारः]
→ वन्द् ।

अनेनैव प्रकारेण एते धातवाः अपि परिवर्तन्ते -
1. अकिँ (लक्षणे) → अन् क् → अंक् → अङ्क् ।
2. भजिँ (भाषायाम्) → भन् ज् → भंज् → भञ्ज् ।
3. कुठिँ (प्रतिघाते) → कुन् ठ् → कुंठ् → कुण्ठ् ।
4. चितिँ (स्मृत्याम्) → चि न् त् → चिंत् → चिन्त् ।
5. जभिँ (नाशने) → जन् भ् → जंभ् → जम्भ् ।
6. त्रसिँ (भाषायाम्) → त्रन् स् → त्रंस् । अत्र परसवर्णः न भवति, यतः अत्र अग्रे यय्-वर्णः नास्ति ।
7. बृहिँ (भाषायाम्) → बृन् ह् → बृंह् । अत्रापि परसवर्णः न भवति, यतः अत्र अग्रे यय्-वर्णः नास्ति ।
8. इवि (व्याप्तौ → इन्व् । अत्र नुमागमस्य अनुस्वारः एव न भवति, यतः वकारः झल्-वर्णः नास्ति ।

अत्र एतत् स्मर्तव्यम् यत् - (1) नकारस्य अनुस्वारनिर्माणम्, (2) अनुस्वारस्य च परसवर्णः - एतत् कार्यद्वयम् त्रिपाद्या क्रियते, अतः तिङ्गन्तकृदन्तप्रक्रियासु प्रायः सर्वत्र अस्य असिद्धत्वम् अस्ति । यथा, कपिँ धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -

कपिँ + लट् [वर्त्तमाने लट् 3|2|123
→ कन् प् + लट् [इदितो नुम् धातोः 7|1|58 इति नुमागमः]
→ कन् प् + त [तिप्तस्.. 3|4|78 इति प्रथमपुरुषैकवचनस्य विवक्षायाम् आत्मनेपदस्य "त" प्रत्ययः]
→ कन् प् + शप् + त [कर्त्तरि शप् 3|1|68 इति औत्सर्गिकम् विकरणम् शप्]
→ कन् प् अ ते [टित आत्मनेपदानां टेरे 3|4|79 इति एकारादेशः]
→ कं प् अ ते [नश्चापदान्तस्य झलि 8|3|54 इति नकारस्य अनुस्वारः]
→ कम्पते [अनुस्वारस्य ययि परसवर्णः 8|4|58 इति अनुस्वारस्य परसवर्णः मकारः]

अत्र अनुस्वार-परसवर्णौ अन्ते कृतौ स्तः ।

ज्ञातव्यम् -
1. येषु धातुषु इकारः इत्संज्ञकः नास्ति, तेषां विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, जिरि (हिंसायाम्) अस्मिन् धातौ रेफात् परः इकारः / जकारात् परः इकारः च इत्संज्ञकौ न स्तः । अतः अस्य धातोः नुमागमः न भवति ।
2. येषु धातुषु इर इत्संज्ञा वाच्या अनेन वार्त्तिकेन "इँर्"-इत्यस्य इत्संज्ञा भवति, तेषु धातुषु यद्यपि इकारः अनुनासिकः अस्ति, तथापि प्रयोजनाभावात् तस्य इत्संज्ञा न भवति । अतः एतेषां धातूनाम् अपि नुमागमः न भवति । यथा - दृशिँर् (प्रेक्षणे) अत्र "इर्" इत्यस्य समुदायस्य इत्संज्ञा भवति, अत्र केवल-इँकारः इत्संज्ञकः नास्ति, अतः अस्य नुमागमः न भवति ।
3. येषु धातुषु प्रयोगे उपान्त्यस्थाने अनुनासिकः दृश्यते ते सर्वे इदिताः सन्ति इति न । केषुचन धातुषु औपदेशिक-स्थितौ एव अनुनासिकम् दत्तम् अस्ति । यथा - मन्थँ (विलोडने), भञ्जोँ (आमर्दने) आदयः ।
One-line meaning in English
The verb roots that have इकार as इत्संज्ञक get a नुमागम.
काशिकावृत्तिः
इदितो धातोर् नुमागमो भवति। कुडि कुण्डिता। कुण्डितुम्। कुण्डितव्यम्। कुण्डा। हुडि हुण्डिता। हुण्डितुम्। हुण्दितव्यम्। हुण्डा। इदितः इति किम्? पचति। पठति। अयं धातूपदेशावस्थायाम् एव नुगाममो भवति कुण्डा, गुण्डा इति, गुरोश्च हलः 3|3|103 इत्यकारप्रत्ययो यथा स्यात्। तथा हि धिन्विकृण्व्योर च 3|1|80 इति प्रत्ययविधावेव नुमनुषक्तयोर् ग्रहणम्। धातुग्रहणम् च इह क्रियते धातूपदेशकाल एव नुमागमो यथा स्यातित्येवम् अर्थम्। तासिसिचोरिदित्कार्यं न अस्ति इत्युच्चारणार्थो निरनुनासिक इकारः पठ्यते। अमंस्त इत्येवम् आदौ हि हनः सिच् 1|2|24 इति कित्वविधानसामर्थ्यात् नकारलोपो न भवति। मन्ता इत्यत्र अपि असिद्धवदत्राऽ भात् 6|4|22 इति टिलोपस्य असिद्धत्वान् नलोपो न भवति। इह कस्मान् न भवति, भेत्ता, धेत्ता इति? इरितां समुदायस्येत्संज्ञा इति इदित्वं न अस्ति। अवयवशो ऽपि इत्संज्ञायां सत्यां गोः पादान्ते 7|1|57 इतो ऽन्तग्रहणम् अनुवर्तयितव्यम्, तेनान्तेदितो धातवो गृह्यन्ते।
Text Unavailable. Please use feedback link below to provide the text if you have.
कुडि दाहे, हुङ् सिङ्घाते । अङ्गाधिकारान् नुमयं प्रत्यये परतो भवेत् । कुण्डेत्यादौ ततश्च क्तिन्स्यान्नाकारो गुरोर्हलः इत्याशङ्क्याह - अयमिति । अत्र प्रमाणमाह - तथा हीति । कथं पुनरेतज्ज्ञापकम्, यावता इक्श्तिपौ धातुनिर्द्देशे वक्यतव्यौ इति इक्प्रत्यये कृतेऽङ्गसंज्ञायां सत्यां नुमा भवितव्यमिति लक्षणवशादेव नुमनुषक्तयोर्ग्रहणं कर्तव्यम् एवं मन्यते - नायमिका निर्देशः, किं तर्हि आगन्तुकेनेकारेण, तत्राप्राप्तो नुमिति । नात्र किञ्चित्प्रमाणमस्तीत्याशङ्क्याह - धातुग्रहणं चेति । धातुत्वमेवापेक्षितं न त्वङ्गत्वमित्येवमर्थं धातुग्रहणम्, नान्यत्किञ्चित्प्रयोजनमस्तीति भावः । ननु च भेता, अभैत्सीदित्यत्राधात्वोस्तासिचसिचोरिदितोर्नुम्निवृत्यर्थं धातुग्रहणं स्यात् अत आह - तासिसिचोरिति । ननु चामंस्तेत्यादौ आत्मनेपदं ङ्तिमपेक्ष्य सिजन्तस्य अनिदिताम् इति लोप मा भूदित्येतत्सिचीदित्कार्यं स्यात् इत्यत आह - अमंस्तेत्यादाविति । यथा हनः सिच् इति कित्वविधानमस्य लिङ्गं तथा तत्रैव प्रतिपादितम् । तासेस्तर्हीदित्करणं मन्तेत्यादौ आत्मनेपदैकवचनस्य डादेशे कृते टिलोपे च मनत् - आ इति स्थिते नकारस्योपधालोपे मा भूदित्येवमर्थं स्यादत आहमन्तेत्यत्रेति । नकारलोपो न भवतीत्यनुषङ्गः । जयादित्यस्तु - आभीयमसिद्धत्वमनित्यमाश्रित्य तासेरिदितकरणमनुनासिकलोपप्रतिषेधार्थमित्यवोचत् । तन्मते धातुग्रहणं तासिनिवृत्यर्थं कर्तव्यमिति उपदेशे नुम्भवति इत्यत्र यत्नान्तरमास्थेयम् । इह भिदिर्प्रभृतिषु इकारस्य उपदेशेऽजनुनासिक कैत् इतीत्संज्ञा, रेफस्यापि हलन्तयम् इति, ततश्चेदित्वान्नुम् प्राप्नोति तत्राह - इरितामिति । इरितामिर उपसङ्ख्यानम् इत्यौपसङ्ख्यानिकी समुदायस्येत्संज्ञा, न प्रत्येकं सौत्री, ततश्चानिदित्वान्नुम् न भवतीत्यर्थः । नन्वेवमपि स्वरितेत्वनिबन्धनमात्मनेपदं न प्राप्नोति भिदिर्प्रभृतिषु, तस्मात्प्रत्येकपक्षे परिहारो वाच्यः - इति मत्वा प्रत्येकपक्षे परिहारमाह - अवयवशोऽपीति । अपर आह - इदित इति नायं बहुव्रीहिः, किं तर्हि कर्मधारः ततश्च वर्णग्रहणमिदं भवति । तत्र तदन्तविधिनेत्संज्ञकेकारान्तस्य धातोर्नुमिति । अथेदितो धातोवो ननमनुषक्ता एव कस्मान्न पठिताः, एवं हीदं न कर्तव्यं भवति नुम्ग्रहणं तावदुतरार्थं कर्तव्यम्, इदितां च भूयस्त्वातप्रत्येकं नक्रोच्चारणादिदमेव सूत्रं लघीयः ॥
सिद्धान्तकौमुदी
स्कुन्दते । चुस्कुन्दे । 10 श्विदि श्वैत्ये । अकर्मकः । श्विन्दते । शिश्विन्दे । 11 वदि अभिवादनस्तुत्योः । वन्दते । ववन्दे । 12 भदि कल्याणे सुखे च । भन्दते । बभन्दे । 13 मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु । मन्दते । ममन्दे । 14 स्पदि किंचिच्चलने । स्पन्दते । पस्पन्दे । 15 क्लिदि परिदेवने । शोक इत्यर्थः । सकर्मकः । क्लिन्दते जैत्रम् । चिक्लिन्दे । 16 मुद हर्षे । मोदते । 17 दद दाने । ददते ॥
इदितो नुम् धातोः - इदितः । इत् = ह्यस्व इकारः, इत् = इत्संज्ञको यस्य स इदित्, तस्येति विग्रहः । इत्संकेदनतधातोरित्यर्थः । तेन चक्षिङादौ न दोषः । नुमि मकार इत् । उकार उच्चारणार्थः । मित्त्वादन्त्यादचः परः । स्कुन्दत इति ।नश्चापदान्तस्ये॑त्यनुस्वारः परसवर्णः । चुस्कुन्द इति । लिटि द्वित्वे "शर्पूर्वाः खयः" इत्यभ्यासे ककारः शिष्यते ।कुहोश्चु॑रिति तस्य कुत्वेन चकारः । इआदीति । औत्यं — औत्यकरणम् । अकर्मक इति । औत्यस्य धात्वर्थेनोपसङ्ग्रहादिति भावः । ततश्चआन्दयति देवदत्तं यज्ञदत्त॑ इत्यादौगतिबुद्धिप्रत्यवसाने॑त्यादिनाऽकर्मककार्यं द्वितीया भवति । ओतीभवनं वा औत्यम् । इआन्दत इति । ओतीभवतीत्यर्थः । इदित्वान्नुम् । अनुस्वारपरसवर्णौ । तत्कारणभूतो व्यापारः — प्रणामादिरभिवादनम् । वन्दत इति । इदित्त्वान्नुम् । भदीति । कल्याणं — शुभक्रिया । सुखं — सुखीभावः । भन्दत इति । इदित्त्वान्नुम् बभन्द इति । अभ्यासे भकारस्य जश्भावेन बकारः । मदीति । मोदः — सन्तोषः । मदः — गर्वः । मन्दत इति । इदित्त्वान्नुम् । ममन्द इति । नुमि सति संयुक्तहल्मध्यस्थत्वादेत्त्वाभ्यासलोपौ नेति भावः । स्पदीति । अकर्मकः । स्पन्दत इति । इदित्त्वान्नुम् । पस्पन्द इति । "शर्पूर्वाः खयः" इत्यभ्यासे पकारः शिष्यते । क्लिदीति । परिदेवनशब्दं व्याचष्टे — शोक इति । स्मृत्वा क्लेशः — शोकः । तदाह — सकर्मक इति । क्लिन्दते चैत्रमिति । अतीतं चैत्रं स्मृत्वा क्लिश्नातीत्यर्थः । इदित्त्वान्नुम् । चिक्लिन्द इति । अभ्यासे ककारस्य चुत्वेन चकार इति भावः । मुदेति । हर्षः — तुष्टिः । मोदत इति । शपि लघूपधगुणः । मुमुद इति ।असंयोगल्लिट्कि॑दिति कित्वान्न गुणः । ददेति । न ममेति त्यागो दानं, न तु द्रव्यत्यागः । तथा सति धात्वर्थौपसङ्ग्रहादकर्मकत्वापत्तेः ।
इदितो नुम् धातोः - मदि स्तुति । मोदः - संतोषः ।मदो- गर्वः । स्वप्नः- आलस्यम् ।
लघुसिद्धान्तकौमुदी
नन्दति। ननन्द। नन्दिता। नन्दिष्यति। नन्दतु। अनन्दत्। नन्देत्। नन्द्यात्। अनन्दीत्। अनन्दिष्यत्। अर्च पूजायाम्॥ 9॥ अर्चति॥
महाभाष्यम्
ःथ्द्य;दितो नुम् धातोः अथ धातोरिति किमर्थम् ? ।। अभैत्सीत् । अच्छैत्सीत्(2) ।। नुम्विधावुपदेशिवद्वचनं प्रत्ययविध्यर्थम् ।। नुम्विधावुपदेशिवद्भावो वक्तव्यः । उपदेशात्वस्थायां नुम्भवतीति वक्तव्यम् ।। किं प्रयोजनम् ? ।। प्रत्ययविध्यर्थम् । उपदेशावस्थायां नुमि कृते इष्टः प्रत्ययविधिर्यथा स्यात् ‐ -कुण्डा हुण्डा इति ।। इतरथा ह्यनकारे प्रत्ययः ।। अक्रियमाणे हि उपदेशिवद्भावेऽनकारे यः(1) प्रत्ययः प्राप्नोति स तावत्स्यात्तस्मिन्नवस्थिते नुम् ।। तत्र को दोषः ? ।। तत्राऽयथेष्टप्रसङ्गः ।। तत्राऽयथेष्टं प्रसज्येत । अनिष्टे प्रत्ययेऽवस्थिते नुम् । अनिष्टस्य प्रत्ययस्य श्रवणं प्रसज्यते ।। धातुग्रहणसार्मथ्याद्वा तदुपदेशे नुम्विधानम् ।। 8 ।। धातुग्रहणसार्मथ्याद्वा तदुपदेशे ‐ धातूपदेशे ‐ नुम् भविष्यति ।। ननु च अन्यद्धातुग्रहणस्य प्रयोजनमुक्तम् ? ।। किं (तत्) ? ।। अभैत्सीत् । अच्छैत्सीदिति(2) ।। नैतदस्ति प्रयोजनम् । प्रयोजनं नाम तद्वक्तव्यं यन्नियोगतः स्यात् । यच्चाऽत्रेकारेण क्रियतेऽकारेणापि तच्छक्यं कर्तुम् ।। ( इदितो ) ।।