Page loading... Please wait.
7|1|57 - गोः पादान्ते
॥ तस्मै पाणिनये नमः ॥
7|1|57
SK 3574
गोः पादान्ते   🔊
सूत्रच्छेदः
गोः (पञ्चम्येकवचनम्) , पादान्ते (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
गो इत्येतस्मातृक्पादान्ते वर्तमानादुत्तरस्य आमः नुडागमो भवति। विद्मा हि त्वा गोपतिं शूर गोनाम्। पादान्ते इति किम्? गवां गोत्रमुदसृजो यदङ्गिरः। सर्वे विधयश्छन्दसि विकल्प्यन्ते इति पादान्ते ऽपि क्वचिन् न भवति। हन्तारं शत्रूणां कृधि विराजं गोपतिं गवाम्।
`ऋक्पादान्ते वत्र्तमानात्` इति। छन्दसि ऋक्पाद एव सम्भवति, न श्लोकपाद इति ऋक्पादग्रहणम्॥ `कुण्डिता, हुण्डता` इति। `कुडि दाहे` (धातुपाठः-270), `हुडि सङ्घाते` (धातुपाठः-269)--आभ्यां तृच्, इट्, `ऋदुशनस्` 7|1|94 इत्यादिनानङ्।`किमयं धातूपदेशावस्थायामेव नुमु विधीयते? इत्याह--`कुण्डा, हुणडा` इत्यादि। यदि प्रत्यय उत्पन्ने नुम्? स्यात्, तद प्रत्ययविघधानवेलायं कुडिडुडओरगुरुत्वात्? क्तिन्नेव स्यात्, न त्वकारप्रत्ययः, स चेध्यते। तस्मात्? तदर्थं धातूपदेशावस्थायामेव नुम्? भवतीत्यवसीयते। कथं पुनर्धातूपदेशावस्थायां नुम्? भवतीत्यवसीयते, यावतात्रोपदेशग्रहणं नास्ति? इत्याह--`तथा हि` इत्यादि। `धिन्विकृण्ष्योर च` 3|1|80 इत्युप्रत्ययविधानकाले नुमनुषक्तयोग्र्रहणं सनुम्कयोरेव प्रकृततवं यथा स्यात्। एवं सनुम्कयोः परकृतत्वं भवति यद्युपदेशावस्थायामेव नुम्? भवति, नान्यथा। तस्मान्नुमनुषक्तयोग्र्रहणाज्ज्ञापकादवसीयते--धातूपदेशावस्थायामेव नुम्? भवतात्। तस्य ह्रतत्? प्रयोजनम्--उपदेशावस्थायामेव नुम्? यथा विज्ञायेतेति। न हि तन्नुमर्थं प्रयुज्यते; नुम्? भवतीति। तस्य ह्रतत्? प्रयोजनम्--उपदेशावस्थायामेव नुम्? यथा विज्ञायेतेति। न हि तन्नुमर्थं प्रयुज्यते; नुम भवितव्यम्, तत्र लक्षणवशादेव `धिन्विकृच्च्योर च` 3|1|80 इति नुमनुषक्तयोग्र्रहणम्, तत्कथमस्यार्थस्य ग्रहणं ज्ञापकम्? नैतदस्ति; न हि `धिन्विकृण्व्योर च` 3|1|80 इत्ययमिका निर्देशः, स हि `रोगाख्यायां ष्वुल्? बहुलम्` 3|3|108 इति बहुलवचनेन सन्निधानात्? क्वचिदेव भवति न सर्वत्र। एवञ्च `गुप्तिज्किद्भ्यः सन्` 3|1|5 इत्येवमादयो निर्देशा उपपद्यन्ते। तस्मात्? `धिन्विकृण्व्योः` 3|1|80 इति नायमिका निर्द्देशः, किं तर्हि? उच्चारणार्थेनेकारेण, यथा--`इन्धिभवतिभ्याम्` 1|2|6 इत्यत्रेकारेण निर्द्देशः; अन्यथा `अनिदिताम्` 6|4|24 इत्यादिनानुनासिकलोपः स्यात्। अथापि हि `धिन्विकृण्व्योः` 3|1|80 इतीका निर्देशः स्यात्, एवमपि यदि धातूपदेशावस्थायामेव नुम्भवतीत्ययमर्थो ज्ञापयितुं नाभीष्टः स्यात्, ततो लाघवार्थमनितयत्वादागमशासनस्य नुममकृत्वैव निर्द्देशं कुर्यात्, यथा--`युवोरनाकौ` 7|1|1 इत्यत्र द्वन्द्वैकवद्भावपक्ष उक्तम्। तस्मान्नुमनुषक्तयोग्र्रहणं ज्ञापकमेव धातुग्रहणादप्यवसीयते। नुमुपदेशावस्थायामेव भवतीति दर्शयितुमाह--`धातुग्रहणं च` इत्यादि। धातुसंज्ञाप्रवृत्तिकालो धातूपदेशकालः, तत्रैव नुम्? भवतीत्येवमर्थमिह धातुग्रहणं क्रियते। तस्मादतोऽपि धातुग्रहणादुपदेशवस्थाया मेव नुम्? भवतीति ज्ञायते, न ह्रन्यद्धातुग्रहणस्य प्रयोजनमस्तीत्यभिप्रायः। ननु च भेत्ता, अभैत्सोदित्यत्राघात्वोस्तासिस्चोरिदितीर्नुम्? मा भूदित्येवमर्थं धातुग्रहणं स्यात्? इत्याह--`तासिसिचोः` इत्यादि। यदि तासिसिचोरिदित्कार्यं स्यात्, तदेकारस्येत्संज्ञार्थमनुनासिकत्वं प्रतिज्ञायेत, न चास्ति प्रयोजनमिति न प्रतिज्ञायते; ततश्च निरनुनासिकोऽप्रतिलब्धेत्संज्ञक उच्चारणार्थं एवानयोरिकारः पठत इति नुमः प्रसङ्ग एव नास्ति, तत्? किं तन्निवृत्त्यर्थेन धातुग्रहणेन! ननु चारंस्त, अमंस्त, मन्त#आ, संगन्तेत्यत्र `अनिदिताम्` 6|4|24 इत्यनुनासिकलोपो मा भूदित्येवमर्थं तासिसिचोरिदित्कार्यम्, तत्? किमुच्यते इदित्कार्यं तासिसिचोर्नास्ति? इत्यत आह--`अरंस्त, अमंस्त` इत्यादि। `हनः सिच्` 1|2|14 इति कित्त्वविधावस्यैतत्प्रयोजनम्--आहतेत्यत्रानुनासिकलोपो यथा स्यात्। यदि सिज्न्तस्यानुनासिकलोपः सार्वधातुकङित्त्वमाश्रित्य स्यात्? `हनः सिच्` 1|2|14 इति कित्त्वमनर्थकं स्यात्, प्रयोजनाभावात्? नैतदस्ति; अस्ति ह्रन्यत्? कित्त्वविधानस्य प्रयोजनम्--`अनुदात्तोपदेश` 6|4|37 इत्यादिना सिच्यनुनासिकलोपो यथा स्यादिति; `अनिदताम्` 6|4|24 इत्यादिना सिजन्तस्य सार्वधातुके मा भूदिति। कः पुनरत्र विशेषः--सार्वधातुके ङिति वा? सिचि किति वा? अयमस्ति विशेषः--समानाश्रये सिच्यनुनासिकलोपस्यासिद्धत्वादतो लोपो 6|4|48 न भवति; सार्वधातुके तूपधालोपे तस्य व्याश्रयत्वेनासिद्धत्वाभावादतो लोपः स्यादेव। नैषोऽस्ति विशेषः; अतो लोपविधौ `अनुदात्तोपदेश` 6|4|37 इत्यादेः सूत्रादुपदेशग्रहणमनुवत्र्तते, तेनार्थधातुकोपदेशे यदकारान्तमङ्गं तस्य लोपो विज्ञायते; न चाहतेत्यत्रोपदेशेन्कारान्तमेतत्। तस्मात्? `हनः सिच्` 1|2|14 इति कित्त्वविधानसामथ्र्यादरंस्तेत्यादौ नकारलोपो न भवति। तदेवं सिच इदित्कार्यं न भवतीति प्रतिपादितम्। इदानीं तासेरप्यनुनासिकलोपाभाव इदित्कार्यं न भवतीति प्रतिपादयितुमाह--`मन्ता` इत्यादि। नकारलोपो न भवतीति प्रकृतेन सम्बन्धः। उपधानकारस्य `अनिदिताम्` 6|4|24 इत्यादिना लोप उच्यते। न च मक्तेत्यत्र नकार उपधा भवति; टिलोपस्यासिद्धत्वात्। तस्मात्? तासेरपीदित्कार्यं न विद्यते। ततश्च युक्तमुक्तम्--`तासिसिचोरिदित्कार्य नास्ति` इति। अथ नुमागम इदित्कार्यं कस्मान्न भवति? अनिष्टत्वात्। न ह्रनिष्टं कार्यं शास्त्रे परिकल्पयितुं युक्तम्। यदि तर्हि तासेर्निरनुनासिक इकारः उच्चारणार्थः, एवं तर्हि `स्यतासी लृलुटोः` 3|1|33 इत्यत्र यदुक्तम्--`इदित्करणमनुनासिकलोपप्रतिबन्धर्थम्`, तत्कथं न विरुध्यते? यथा न विरुध्यते तदा तत्रैवोक्तम्। अथ भिदिरित्येवमादीनां नुम्? कस्मान्न भवति, स्ति ह्रेषामपीकार इत्संज्ञकः? इत्याह--`हरिताम्` इत्यादि। भिदिर्प्रभृतयो हीरितः, न त्विदितः; यस्मात्? `इर उपसंख्यानम्` (1.3.7।वा) इति रेफेकारस्य समुदायस्य तेषामित्संज्ञा, न प्रत्येकमवयवस्य। तत्रेदितामुच्यमानो नुम्? कः प्रसङ्गो यदिरितां स्यात्!स्यादेतत्--`उपदेशेऽजनुनासिक इत्` 1|3|2 इतीत्संज्ञेकारस्य, `हलन्त्यम्` 1|3|3 इति रेफस्य, तस्मादस्त्येव तेषामिदित्त्वम्? इत्याह--`अवयवस्यापि` इति। गतार्थम्॥
च्छन्दसि इत्यधिकारदृक्पादस्यै ग्रहणम्, श्लोकपादस्येत्याह - ऋक्पादान्त इति ॥
सिद्धान्तकौमुदी
विद्मा हि त्वा गोपतिं शूर गोनाम् (वि॒द्मा हि त्वा॒ गोप॑तिं शूर॒ गोना॑म्) । पादान्ते किम् । गवां शता पृक्षयामेषु (गवां॑ श॒ता पृ॒क्षयामेषु) । पादान्तेऽपि क्वचिन्न । छन्दसि सर्वेषां वैकल्पिकत्वात् । विराजं गोपतिं गवाम् (वि॒राजं॒ गोप॑तिं॒ गवा॑म्) ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.