Page loading... Please wait.
7|1|51 - अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि
॥ तस्मै पाणिनये नमः ॥
7|1|51
SK 2662
अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि   🔊
सूत्रच्छेदः
अश्व-क्षीर-वृष-लवणानाम् (षष्ठीबहुवचनम्) , आत्मप्रीतौ (सप्तम्येकवचनम्) , क्यचि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
छन्दसि इत्यतःप्रभृति निवृत्तम्। अश्व क्षीर वृष लवण इत्येतेषाम् अङ्गानाम् आत्मप्रीतिविषये क्यचि परतो ऽसुगागमो भवति। अश्वस्यति वडवा। क्षीरस्यति माणवकः। वृषस्यति गौः लवणस्यत्युष्ट्रः। आत्मप्रीतौ इति किम्? अश्वीयति। क्षीरियति। वृषीयति। लवणीयति। अश्ववृषयोर्मैथुनेच्छायाम् इति वक्तव्यम्। क्षीरलवणयोर् लालसायाम् इति वक्तव्यम्। तृष्णातिरेको लालसा। अन्यत्रात्मप्रीतावपि न भवति। अपर आह सर्वप्रातिपदिकेभ्यो लालसायामसुग्वक्तव्यः। दध्यस्यति, मध्वस्यति इत्येवम् आद्यर्थम्। अपर आह सुग्वक्तव्यः। दधिस्यति, मधुस्यति इत्येवम् आद्यर्थम्।
`आत्मप्रीतौ` इति। विषयसप्तमीयम्। अत एवाह--`आत्मप्रीतिविषये क्यचि` इति। आत्मप्रीतिर्विषयो यस्य क्यचः स तथोक्तः। `अआस्यति` इति। आत्मनोऽआमिच्छतीति `सुपः आत्मनः क्यच्` 3|1|8 अनेनासुक्, अतो गुणे` 6|1|94 पररूपत्वम्। एवं `क्षीरस्यति` इत्यादावपि वेदितव्यम्। सर्वत्रात्मप्रीतिविषये क्यच्। यो ह्रात्मनोऽआआदिकमिच्छति स नियोगत आत्मनः प्रोत्यर्थमिच्छति। यद्येवम्, इच्छायां क्यच्विधीयमानः सर्वत्रात्मप्रीतिविषये भविष्यतीतीच्छायां वक्तव्यम्? प्रसिद्ध्युपसंग्रहार्थमात्मप्रीताविति लौकिकस्यार्थस्योपादानम्, तेन यत्रात्मप्रीतावसुग्लोके प्रयुज्यते तत्रैव भवति, नान्यत्र। तेनाआवृषयोर्मैथुनेच्छायां क्षीरलवणयोर्लालसायामित्युपपन्नं भवति। `अआईयति` इति। अआमिवाचरतीति `उपमानादाचारे` 3|1|10 इति क्यच्, `क्यचि च` 7|4|33 इतीत्त्वम्। `अआवृषयोः` इत्यादि। ` अआवृष्योर्मेथुनेच्छायामसुग्भवति` इत्येतदर्थरूपं व्याख्येयमित्यर्थः। `क्षीरलवणयोः` इत्यादि। वक्तव्यमित्येतदपेक्षते। `क्षोरलवणयोर्लालसायामसुग्भवति` इत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु कृतमेव। `अन्यत्रात्मप्रीतावपि न भवति` इति। आत्मनोऽआआदिकमिच्छत्यआईयतीति। लवणीयति। `तृष्णातरेकः` इति। तृष्णाया अतिरेकः=अतिशयः, प्रकर्षः, अधिक्यमित्यर्थ-॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
एषां क्यचि असुगागमः स्यात् ॥ ।अश्ववृषयोर्मैथुनेच्छायाम् (वार्तिकम्) ॥ अश्वस्यति वडवा । वृषस्यति गौः ॥क्षीरलवणयोर्लालसायाम् (वार्तिकम्) ॥ क्षीरस्यति बालः । लवणस्यति उष्ट्रः ॥ ।सर्वप्रातिपदिकानां क्यचि लालसायां सुगसुकौ (वार्तिकम्) ॥ दधिस्यति । दध्यस्यति । मधुस्यति । मध्यवस्यति ॥
अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि - अआक्षीर क्यचि ।परे असु॑गिति शेषपूरणम्,आज्जसेरसु॑गित्यतस्तदनुवृत्तेरिति भावः । असुकि ककार इत्ुकार उच्चारणार्थः । कित्त्वादन्त्यावयवः । अआवृषयोरिति - वार्तिकम् । अआस्यति वडवेति । मैथुनार्थमआमिच्छतीत्यर्थः । वृषस्यति गौरिति । मैथुनार्थं वृषमिच्छतीत्यर्थः ।वृषस्यन्ती तु कामुकी॑ति कोशस्तु अआवृषरूपप्रकृत्यर्थपरित्यागेव मैथुनेच्छामात्रे लाक्षणिकः । क्षीरलवणयोरिति - वार्तिकम् । "असु " गिति शेषः । लालसा - उत्कटेच्छा । सर्वप्रातिपदिकानामिति । इदमपि वार्तिकम् । लालसायां सर्वेषां प्रातिपदिकानां क्यच् वक्तव्यः । तस्मिन् परे प्रकृतीनां सुगसुकौ च वक्तव्यौ इत्यर्थः । नचानेनैव वार्तिकेन सिद्धेक्षीरलवणयोर्लालसाया॑मिति वार्तिकं व्यर्थमिति शङ्क्यं,क्षीरलवणयोर्लालसाया॑मिति वार्तिकं व्यर्थमिति शङ्क्यं,क्षीरलवणयो॑रिति वार्तिकं कात्यायनीयं,सर्वप्रातिपदिकाना॑मिति तु मतान्तरमित्यदोषात् । एतच्च भाष्येअपर आहे॑त्यनेन ध्वनितम् ।
अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि - अआक्षीर ।आज्जसे॑रित्यतोऽसुगिति वर्तते ।* अआवृषयोर्मैथुनेच्छायाम् । अआस्यतीति । मैथुनार्थमआमिच्छतीत्यर्थः एवं मैथुनार्थं वृषमिच्छति वृषस्यति गौः । ननुइति रामो वृषस्यन्ती॑मिति प्रयोगो मनुष्यविषये कथं सङ्गच्छत इति चेत् । अत्राहुः — अआवृषरूपप्रकृत्यर्थपरित्यागेन मैथुनेच्छैवार्थः, अतएववृषस्यन्ती तु कामुकी॑ति कोशोऽपि स्वरसतः सङ्गच्छते इति । *लवणयोर्लालसायाम् । लालसायामिति । उत्कटेच्छायामित्यर्थः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि ।। अश्ववृषयोर्मैथुनेच्छायाम् ।। अश्ववृषयोर्मैथुनेच्छायामिति वक्तव्यम् । अश्वस्यति वडवा । वृषस्यति(2) गौः ।। मैथुनेच्छायामिति किमर्थम् ? ।। अश्वीयति वृषीयति ।। 8 ।। क्षीरलवणयोर्लालसायाम् ।। क्षीरलवणयोर्लालसायामिति वक्तव्यम् । क्षीरस्यति माणवकः । लवणस्यति उष्ट्र इति ।। अपर आह ‐ - ।। (सर्वप्रातिपदिकेभ्यो(3) लालसायाम् ।।) सर्वप्रातिपदिकेभ्यो लालसायामिति वक्तव्यम् । दध्यस्यति मध्वस्यतीत्येवमर्थम् ।। अपर आह (।। सर्वप्रातिपदिकेभ्यो(2) लालसायां सुक् ।। सर्वप्रातिपदिकेभ्यो लालसायां ) सुग्वक्तव्यो दधिस्यति मधुस्यतीत्येवमर्थम् । ( अश्वक्षीरवृष ) ।।