Page loading... Please wait.
7|1|50 - आज्जसेरसुक्
॥ तस्मै पाणिनये नमः ॥
7|1|50
SK 3572
आज्जसेरसुक्   🔊
सूत्रच्छेदः
आत् (पञ्चम्येकवचनम्) , जसेः (षष्ठ्येकवचनम्) , असुक् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अवर्णान्तातङ्गादुत्तरस्य जसेः असुकागमो भवति छन्दसि विषये। ब्राह्मणासः पितरः सोम्यासः। ब्राह्मणाः सोम्याः इति प्राप्ते। ये पूर्वासो य उपरासः इत्यत्र परत्वादसुकि पुनः प्रसङ्गविज्ञानात् शिभावः प्राप्तः, सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितम् एव इति न भवति।
जसेरिति पूर्वाचार्यनिर्द्देशः। पूर्वाचार्या हि जसिरित्येवं विहतवन्तः। `ये पूर्वासो ये परास इत्यत्र` इत्यादि चोद्यम्। एतच्च जातौ पदार्थे। तत्रान्यत्र चरितार्थत्वाच्छास्त्रयोस्तुल्यबलयोर्विरोधे सति परस्पर प्रतिबन्धादप्रवृत्तौ प्राप्तायां `विप्रतिषेधे परं कार्यम्` 1|4|2 इति क्रियते--विप्रतिषेधे परं भवति, तत्र कृते यदि पूर्वमपि प्राप्नोति तदपि भवतीति जातिपदार्थः पुन प्रसङ्गविज्ञानस्य विषयः। `सकृत्` इत्यादिना परीहारः। एव च ष्यक्तो पदार्थेऽन्यत्राकृतार्थत्वाद्द्वयोरपि शास्त्रयोरीदृशे विषये पर्यायेण प्रवृत्तौ प्राप्तायामयं नियम आरभ्यते--विप्रतिषेधे परमेव भवति, न पूर्वमिति। तेन पुनः प्रसङ्गविज्ञानाभावाद्बाधितः शोभावो न भवति। न ह्रसति पुनःप्रसङ्गे यद्वाधितं तदुत्सहते पुनर्भवितुम्॥
जसेः इति पूर्वाचार्यानुरोधेन निर्द्देशः । ब्राह्मणास इति । असुकि कृते जसः सकारस्य श्रवणम्, असुकः सकारस्य विसर्जनीयः । येपूर्वास इत्यादि । चोद्यम् - उपरास इति । अपरशब्दस्यादेरुकारश्छान्दसः । यदि पुनरयं पूर्वान्तः क्रियते - अस्य जस्यसुक् इति, नैवं शक्यम्, अतो गुणे पररुपत्वं हि स्यात् । अकारोच्चारणं तु - उतरसूत्रे एदध्यस्यतीत्यादौ श्रवणार्थ स्यात् । सकृद्गतावित्यादि परिहारः । यद्यप्येत्सर्वनामसंज्ञाया पूर्वादिषु जसि विकल्पनादेव सिद्धम्, उभयासो जातवेदःस्याम इत्यत्र तु शीभावप्रसङ्गः, अत्र हि प्रथमचरम इति वकल्पं बाधित्वा सर्वादिषु पाठान्नित्या संज्ञा भवति, सा ह्यन्तरङ्गा ॥
सिद्धान्तकौमुदी
अवर्णान्तादङ्गात्परस्य जसोऽसुक् स्यात् । देवासः (दे॒वासः॑) । ब्राह्मणासः (ब्रा॒ह्म॒णासः॑) ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
आज्जसेरसुक् इह ‐ -ये पूर्वासो य उ परासः । आज्जसेरसुगित्यसुकि कृते जसिग्रहणेन(2) ग्रहणाच्छीभावः प्राप्नोति ।। एवं तर्हि जसि पूर्वान्तः करिष्यते ।। यदि पूर्वान्तः क्रियते का रूपसिद्धिः-ब्राह्मणा सः पितरः सोम्यासः ? ।। सवर्णदीर्घत्वेन सिद्धम् ।। न सिद्ध्यति ‐ -अतो गुण इति पररूपत्वं प्राप्नोति ।। अकारोच्चारणसार्मथ्यान्न भविष्यति ।। यदि तर्हि प्राप्नुवन्विधिरुच्चारणसार्मथ्याद्बाध्यते सवर्णदीर्घत्वमपि न प्राप्नोति ।। नैषः(3) दोषः ‐ यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते ‐ -यस्य तु विधोर्विमित्तमेव नासौ बाध्यते ।। पररूपं च प्रत्यकारोच्चारणमनर्थकं, सवर्णदीर्घत्वस्य पुनर्निमित्तमेव । अथ वाऽसुट्करिष्यते । एवमपि-ये पूर्वासो य उ परास इत्यसुटि कृते जयो ग्रहणोन ग्रहणाच्छीभावः । प्राप्नोति ।। नैषः(3) दोषः ‐ -निर्दिश्यमानस्यादेशा भवन्तीत्येवमस्य न भविष्यति ।। यस्तर्हि निर्दिश्यते तस्य कस्मान्न भवति ? ।। असुटा व्यवहितत्वात् ।। सिध्द्यति सूत्रं तर्हि भिद्यते ।। यथान्यासमेवाऽस्तु । ननु चोक्तं ये पूर्वासो य उ परासः. असुकि कृते जसिग्रहणेन ग्रहणाच्छीभावः प्राप्नोती(1)ति ।। नैषः दोषः, ‐ - इदमिह संप्रधार्यं ‐ -शीभावः क्रियतामसुगिति; किमत्र कर्तव्यम् ।। परत्वादसुक् ।। अथेदानीमसुकि कृते पुनः प्रसङ्गविज्ञानाच्छीभावः कस्मान्न भवति ? ।। सकृद्गतौ विप्रविषेधे यद्बाधितं तद्बाधितमेवेति ।। ( आज्जसेरसुक् ) ।।