Page loading... Please wait.
7|1|40 - अमो मश्
॥ तस्मै पाणिनये नमः ॥
7|1|40
SK 3562
अमो मश्   🔊
सूत्रच्छेदः
अमः (षष्ठ्येकवचनम्) , मश् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अमः प्रति मिबादेशो गृह्यते। तस्य छन्दसि विषये मशादेशो भवति। वधीं वृत्रम्। त्रमीं वृक्षस्य शाखाम्। लुङि बहुलं छन्दस्यमाङ्योगे ऽपि 6|4|75 इत्यडागमाभावः। शित्करणम् सर्वादेशार्थम्। मकारस्य अपि हि मकारवचनम् अनुस्वारनिवृत्त्यर्थं स्यात्।
`अमिति मिबादेशो गृह्रते` इति द्वितीयैकवचनाशङ्कां निराकारोति। द्वितीयैकवचनस्याग्रहणम्; छन्दसि यथादृष्टानुविधानात्। अपिशब्दानुवृत्तेर्वा, तदनुवृत्तौ ह्रेषं सम्बन्धः क्रियते--अमो मश्च भवति, अपिशब्दात्? क्वचिच्छ्रवणमपीति। `वधीम्` इति। हन्तेर्लुङ, `चलेः सिच्` 3|1|44 सिप्, तस्य `तस्थस्थ` 3|4|101 इत्यादिनाऽम्, तस्य मशादेशः--अकार उच्चारणार्थः, `लुङि च` 2|4|43 इति हन्तेर्वधादेशा, `आर्धधातुकस्य` 7|2|35 इत्यादिनेट्? `अस्तिसिचोऽपृक्ते` 7|3|96 इतीट्? `इट ईटि 8|2|28 इति सिचो लोपः, सवर्णदीर्घतद्वलम्। `क्रमीम्` इति। `क्रमु पादविक्षेपे` (धातुपाठः-473) सर्वं पूर्ववत्। अयमत्र विशेषः--`स्नुक्रमोरनात्मनेपदनिमित्ते` 7|2|36 इतीट्। अवधिवम्, अक्रमिषमिति प्राप्ते। `शित्ककरणं सर्वादेशार्थम्` इति। असति तस्मिन्? `अलोऽन्त्यस्य` 1|1|51 स्यादिति भावः। ननु च मकारस्य मकारवचने प्रयोजनं नास्तीत्यन्तरेणापि शकारं सर्वादेशो भविष्यति? इत्याह--`मकारस्य` इत्यादि। अस्ति हि मकारविधाने प्रयोजनम्। किं तत्? `मोऽनुस्वारः` 8|3|23 प्राप्नोति; स मा भूदिति। सत्येतस्मिन्? प्रयोजने यदि शकारो न क्रियेत, तदाऽन्त्यस्यैव स्यात्, न स्यात्, न सर्वस्य। तस्मात्? सर्वादेशार्थः शकारः कत्र्तव्यः॥
अमिति मिबादेशो गृह्यत इति । द्वितीयैकवचनस्य ग्रहणं न भवति च्छन्दसि दृष्टानुवधानाद्वक्ष्यमाणेषु बाहुल्येन तिङ निर्द्देशात् । वधीमिति । हन्तेर्लुङ्, लुङ् चि इति वधादेशः, च्लेः सिच्, इट्, मिपोऽम्भावः, तस्य मश् - अकार उच्चारणार्थः, अस्तिसिचोऽपृक्ते इतीट्, इट ईटि इति सिचो लोपः, सवर्णदीर्घत्वम् । शित्करणं सर्वादेशार्थमिति । अन्यथा हि अलोऽन्त्यस्य इति मकारत्य मकारवचने प्रयोजनाभावात्सर्वादेशो भविष्यति, अत आह - मकारस्यापीति । यथा मो राजि समः कौ इत्यत्रेति भावः । पञ्चमीनिर्द्देशाभावातु आदेः परस्य इत्येतन्न भवति । अथोच्यते - द्विमकारकोऽयं निर्द्देशः करिष्यते, तत्रैकस्य संयोगान्तलोपेऽपि वधीमित्यादि सिद्धमिति एवमपि लाघवे नास्ति विशेषः । किञ्चसंयोगान्तलोपस्यासिद्धत्वादपृक्तलक्षण ईट् एव स्यात् । एवं तर्हि यकारादिः करिष्यते, किम् यकारो न श्रूयते, बलि लुप्तनिर्द्दिष्टो यकारः नात्र किञ्चित् प्रम, णमस्ति, तस्माच्छित्करणम् ॥
सिद्धान्तकौमुदी
मिबादेशस्यामो मश् स्यात् । अकार उच्चारणार्थः । शित्त्वात्सर्वादेशः । अस्तिसिचः-(कौमुदी-2225) इतीट् । वंधीं वृत्रम् (वंधीं॑ वृ॒त्रम्) । अवधिषमिति प्राप्ते ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अमो मश् किमर्थः शकारः ? ।। ( ।। शकारः(2) सर्वादेशार्थः ।। ) ठशित्सर्वस्येति सर्वादेशो यथा स्यात् । अक्रियमाणे हि शकारेऽलोन्त्यस्य विधयो भवन्तीत्यन्त्यस्य प्रसज्येत ।। अत उत्तरं पठति ‐ ।। अमो(3) मश् न मकारस्य ।। 8 ।। मकारस्य मकारवचने(4) प्रयोजनं नास्तीति कृत्वा तत्राऽन्तरेण शकारं सर्वादेशो भविष्यति ।। वचनादन्यबाधनम् ।। 8 ।। अस्त्यन्यन्मकारस्य मकारवचने प्रयोजनम् ।। ( किम्(2) ? ।। अन्यबाधनम् ।) येऽन्ये मकारादेशाः प्राप्नुवन्ति तद्वाधनार्थम् । तद्यथा ‐ मो राजि समः क्वाविति मकारस्य मकारवचनसार्मथ्यादनुस्वारादयो बाध्यन्ते ।। एवं तर्हि (।। द्विमकारको(2) निर्देशः ।। ) द्विमकारको निर्देशः करिष्यते ।। द्विमकार इर्डपृक्ते ।। यदि द्विमकारकः ‐ -अपृक्ताश्रय इर्ण्न प्राप्नोति, ‐ वधीं वृत्रं मरुत इन्द्रियेण । ।। यकारादौ(1) न दुष्यति ।। किं यकारो न श्रूयते ? ।। लुप्तनिर्दिष्टो यकारः ।। ।। अमो मश्न मकारस्य वचनादन्यबाधनम् । द्विमकार इर्डपृक्ते यकारादौ न दुष्यति ।। 1 ।। ।।