Page loading... Please wait.
7|1|39 - सुपां सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः
॥ तस्मै पाणिनये नमः ॥
7|1|39
SK 3561
सुपां सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः   🔊
सूत्रच्छेदः
सुपाम् (षष्ठीबहुवचनम्) , सु-लुक्-पूर्वसवर्ण-आ-आत्-शे-या-डा-ड्या-याजालः (प्रथमाबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
छन्दसि विषये सुपां स्थाने सु लुक् पूर्वसवर्ण आ आत् शे या डा ड्या याचालित्येते आदेशाः भवन्ति। सु अनृक्षरा ऋजवः सन्तु पन्थाः। पन्थानः इति प्राप्ते। सुपां सुपो भवन्ति इति वक्तव्यम्। धुरि दक्षिणायाः। दक्षिणायाम् इति प्राप्ते। तिङां तिङो भवन्दि इति वक्तव्यम्। चषालं ये अश्वयूपाय तक्षति। तक्षन्ति इति प्राप्ते। लुक् आर्द्रे चर्मन्। रोहिते चर्मन्। चर्मणि इति प्राप्ते। हविर्धाने यत् सन्वन्ति तत्सामिधेनीरन्वाह। यस्मिन् सुन्वन्ति तस्मिन् सामिधेनीः इति प्राप्ते। पूर्वसवर्णः धीती। मती। सुष्टुती। धीत्या, मत्या, सुष्टुत्या इति प्राप्ते। आ द्वा यन्तारा। द्वौ यन्तारौ इति प्राप्ते। आत् न ताद् ब्राह्मणाद् निन्दामि। तान् ब्राह्मणानिति प्राप्ते। शे न युष्मे वाजबन्धवः। अस्मे इन्द्राबृहस्पती। यूयं वयम् इति प्राप्ते। युयादेशो वयादेशश्च छन्दसत्वान् न भवति। या उरुया। धृष्णुया। उरुणा, धृष्णुना इति प्राप्ते। डा नाभा पृथिव्याम्। नाभौ पृथिव्याम् इति प्राप्ते। ड्या अनुष्टुयोच्च्यावयतात्। अनुष्टुभा इति प्राप्ते। याच् साधुया। साधु इति सोर्लुकि प्राप्ते। आल् वसन्ता यजेत। वसन्ते इति प्राप्ते। इयाडियाजीकाराणाम् उपसङ्ख्यानम्। इया उर्विया परि ख्यन्। दार्विया परिज्मन्। उरुणा, दारुणा इति प्राप्ते। डियाच् सुक्षेत्रिया सुगातुया। सुक्षेत्रिणा, सुगात्रिणा इति प्राप्ते। ईकारः दृतिं न शुष्कं सरसी शयानम्। सरसि शयानम् इति प्राप्ते। आङयाजयारां च उपसङ्ख्यानम्। आङ् प्र बाहवा। प्रवहुना इति प्राप्ते। अयाच् स्वप्नया सचसे जनम्। स्वप्नेन इति प्राप्ते। अयार् स नः सिन्धुमिव नावया। नावा इति प्राप्ते।
`पन्थाः` इति। पथिन्नित्येतस्माज्जस्, तस्य सुः, `पथिमथ्यृभुक्षामात्` 7|1|85 इत्यात्त्वम्, `इतोऽत्सर्वनामस्थाने` 7|1|86 इतीकारस्यात्त्वम्, `थो न्थः` 7|1|87 इति न्थादेशः। `सुपाम्` इत्यादिना सुपां स्थाने सुप आदेशा भवन्तीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--पूर्वसूत्रादपिशब्दोऽनुवत्र्तते, स चानुक्तसमुच्चयार्थः, तेन सुपामन्येऽपि सुपो भवन्ति। `धुरि दक्षिणायाः` इति। सप्तम्येकवचनस्य स्थान पञ्चम्येकवचनम्, षष्ठएकवचनं वा। `तिङाम्` इत्यादि। तिङाञ्च तिङो भवन्तीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु पूर्वपदेव वक्तव्यम्। `आद्र्रे चर्मन्` इति। सप्तम्येकवचनस्य चर्मन्शब्दाल्लुक्। `यत्` इति। अत्रापि यच्छब्दात्, तच्छब्दाच्च। `धीती` इत्यादि। `धीति-मति-सुष्टुतिशब्देभ्यः परसय तृतीयैकवचनस्य पूर्वसवर्ण इकारः, उभयोरकः सवर्णे 6|1|97 दीर्घत्वम्। `उभा` इति। उभशब्दात्प्रथमाद्विवचनस्याकारः। `प्रथमयोः पूर्वसवर्णः` 6|1|98 इत्येकादेशः। `न ताद्? ब्राआहृणाद्? निन्दामि` इति। तच्छब्दाद्? ब्राआहृणशब्दाच्च द्वितीयैकवचनस्यात्। निशब्दे परतः `यरोऽनुनासिकेऽनुनासिको वा` 8|4|44 इति तकारस्य नकारादेशः। `युष्मे, अस्मे` इति। युष्मदस्मच्छब्दाभ्यां परस्य च जसः `शे` 1|1|13 इत्ययमादेशः। शकारः सर्वादेशार्थः। अथेह `यूयषयौ जसि` 7|2|93 इति यूयवयादेशौ कस्मान्न भवतः? इत्याह-`यूयादेशः` इत्यादि। `उरुया, धृष्णुया` इति। उरुधृष्णुशब्दाभ्यां परस्य तृतीयैकवचनस्य यादेशः। `नाभा` इति। नाभिशब्दात्? सप्तम्ये कवचन्सय डादेशः डकारष्टिलोपार्थः। `अनुष्टआ` इति। अनुष्टुप्शब्दात्? तृतीयैकवचनस्य डआदेशः। `साधुया` इति। साधुशब्दात्? परस्य प्रथमैकवचनस्य याजादेशः। चकारोऽन्तोदात्तार्थः। `सोर्लुकि प्राप्ते इति। याजित्ययमादेशो विधीयत इति शेषः। लुक्प्राप्तिस्तु `स्वमोर्नपुंसकात्` 7|1|23 इत्यनेन। `वसन्ता` इति। वकन्तशब्दात्? परस्य सप्तम्येकवचनस्यालित्ययमादेशः। लित्करणं लित्प्रत्ययात्? पूर्वस्योदात्तत्वं यथा स्यात्। `उपसंख्यानम्` इति। प्रतिपादनमस्यार्थः। उत्तरत्राप्युपसंख्यानशब्दस्य प्रतिपादनमर्थः। प्रतिपादनं त्वपिशब्दमाश्रित्य कत्र्तव्यम्। उर्विया, दार्विया` इति। उरुदारुशब्दाभ्यां परस्य तृतीयैकवचनस्येयादेशः। `सुक्षेत्रिया` इति। सुक्षेत्रिन्नित्यादेर्मत्वर्थीयेनिप्रत्ययान्तात्? परस्य तृतीयैकवचनस्य ङियाजादेशः। डकारष्टिलोपार्थः। चकारोऽन्तोदात्तार्थः। `सरसी` इति। सरःशब्दात्? सप्तम्येकवचनस्य ईकारः। `प्रबाहवा` इति। प्रबाहुशब्दात्? तृतीयैकवचनस्याङादेशः, `घेङिति` 7|3|111 इति गुणः, अवादेशः। ननु च `ङित्त्वे विद्याद्वर्णनिर्देशमात्रं वर्णे यत्स्यात्तच्च विद्यात्तदादौ॥` (म।भा।3।247)इत्युक्तम्, न चेहादौ ङकारः, तत्? कथं गुणः? ङित्करणसामथ्र्याद्भविष्यतीत्यदोषः। `स्वप्नया` इति। स्वप्नशब्दात्? परस्य तृतीयैकवचनस्यायाच्, `अतो गुणे` 6|1|94 पररूपत्वम्। चकारः स्वरार्थः। `नावया` इति। मौशब्दात्? परस्य तृतीयैकवचनस्यायारादेशः। रेफः `उपोत्तमं रिति` 6|1|211 इत्युपोत्तमाकारस्योदात्तत्वार्थः॥
सुशब्द आदेश उच्यमाने अन्ये सुपो न प्राप्नुवन्ति, तस्मात् सुग्रहणमपनीय सुड्ग्रहणं कर्तव्यमित्याह - सुपां सुप इति । तिङं तिङ् इति । एतच्च व्यात्ययो बहुलम् इति सिद्धम् । सुपां सुप इत्ययमपि तस्यैव प्रपञ्चः । तक्ष्ण्वन्तीति प्राप्त तु युक्तः पाठः । आद्रे चर्मन्निति । ननु च पूर्वसवर्णेनाप्येतत्सिद्धम्, कथम् चर्मन् - इ इति स्थिते इकारस्य पूर्वसवर्णो नकारः, तत्र परतः स्वादिषु इति पदसंज्ञायां सत्यां पूर्वस्य नकारस्य लोपः, तत्रायमप्यर्थः - न ङसिम्बुद्ध्योः इत्यत्र ङ्ग्रिहणं न कर्तव्यं भवति, अप्रातिपदिकत्वादेव विभक्तिनकारस्य लोपाप्रसङ्गात्, पूर्वस्य तु नकारस्येष्ट एव लोपः नैतदस्ति अत्र हि पूर्वसवर्णो भवन्नान्तर्यतो निरनुनासिकस्य निरनुनासिको दकार एव स्यात् । अस्तु, संयोगान्तलोपो भविष्यति नात्र संयोगान्तलोपः प्राप्नोति, स्वादिषु इति पदसंज्ञायां सत्यां पूर्वनकारस्य लोपे सति असंयोगान्तत्वात् । नलोपो हि संयोगान्तलोपे सिद्धः । एवं तर्हि न ङसिम्बुद्ध्योः इत्यत्र ङ्ग्रिहणं करिष्यते, तत्र नलोपाभावे संयोगान्तलोपः तदेवमस्यान्यथासिद्धत्वादुदाहरणान्तरमाह - हविर्द्धाने यत्सुन्वन्तीति । यत् - इ इति स्थिते अत्र यदि पूर्वसवर्णो दकारः स्यात्यदाद्यत्वे सति स्थानिवद्भावात्स्मिन्भावः प्राप्नोति । तस्मादत्र लुगेव कर्तव्यः । अनेकाल्षु च भ्यामादिषु अन्त्यस्य पूर्वसवर्णे पूर्वभाग्य श्रवणाप्रसङ्गः, तस्मातत्रापि लुगेव कर्तव्यः । धीतीत्यादि । धीति -मति - सुष्टुअतिशब्देभ्यस्तृतीयेकवचनस्य पूर्वसवर्ण इकारः, कवर्णदीर्घत्वम् । न तादू ब्राह्मणादिति । तच्छब्दाद् ब्राह्मणशब्दाच्च शस्, तस्यादादेशः, न विभक्तौ तुस्माः इति इत्संज्ञाप्रतिषेधः । या देव विप्नतात् त्वा महान्तम् इति बह्वचाः । यूयं वयमिति प्राप्त इति । प्रमादपाठोऽयम्, तथा हि - न युष्मे बाजबन्धवः इत्यत्र मन्त्रे ऋक्षाश्वमेधनाम्नो राज्ञोर्दानं स्तूयते, व्यत्ययेन द्वयोर्बहुवचनम्, बाजमित्यन्ननाम, अन्नप्रदानेन सर्वेषां बन्धवस्तेषां सम्बोधनं हे बाजबन्धवः । युष्माअ युषमासु अधीत्यस्यानेन सम्बन्धः, सच सप्तम्यर्थातनुवादी । निनित्सुश्च निन्दनशीलोऽपि मर्त्यौ युष्मासु अवद्यं न धारयति नावधारयति, अवद्याभावादित्यर्थः । अस्मे इन्द्राबृहस्पती थैत्यत्रापि रयिं धतमिति क्रिया, दधातिश्च दानार्थः । तस्माद्यौष्मासु अस्मःयमिति युक्तः पाठः । यूयादेश इत्याद्यपि न पठितव्यम् । अनुष्टमेति प्राप्त इति । अध्रिगुप्रैषै तु ता अनुष्ट।लेव्यावयतादिति अनुपूर्वातिष्ठतेः आतश्चोपसर्गे इत्यङ्, अनुष्ठानमनुष्ठा, तयाऽनुष्ठ।ल । प्रबाहवेति । धेर्ङिति इति गुणः । ननु इङ्त्वे विद्याद्वर्णनिर्द्देशमात्रं वर्णे यत्स्यातच्च विद्यातदादौ इत्युक्तम् सत्यम् ङ्त्किरणसामर्थ्यातु गुणः । प्रबहुनेति प्राप्त इति । बाहुनेति तु युक्तः पाठः प्रशब्दस्याख्यातेन सम्बन्धनात् । अयाचोऽकारः सुपि च इति दीर्घनिवृत्यर्थः ॥
सिद्धान्तकौमुदी
ऋजवः सन्तु पन्थाः पन्थान (ऋ॒जवः॑ सन्तु॒ पन्थाः॑ पन्थान) इति प्राप्ते सुः । परमे व्योमन् (पर॒मे व्यो॑मन्) । व्योमनि इति प्राप्ते ङेर्लुक् । धीती मती सुष्टुती (धी॒ती म॒ती सु॑ष्टु॒ती) । धीत्या मत्या सुष्टुत्येति प्राप्ते पूर्वसवर्णदीर्घ । या सुरथा रथीतमोभा देवा दिविस्पृशा (या सु॒रथा॑ र॒थीत॑मो॒भा दे॒वा दि॑वि॒स्पृशा॑) । अश्विना (अ॒श्विना॒) । यौ सुरथौ दिविस्पृशावित्यादौ प्राप्ते आ । नताह्ब्रह्मणम् । नतमिति प्राप्ते आत् । या देव विद्म ता त्वा (या दे॒व वि॒द्म ता त्वा॑) । यमिति प्राप्ते न युष्मे वाजबन्धवः (न यु॒ष्मे वा॑जबन्धवः) । अस्मे इन्द्राबृहस्पती (अ॒स्मे इ॑न्द्राबृहस्पती) । युष्मासु अस्मभ्यमिति प्राप्ते शे । उरुया । धृष्णुया । उरुणा धृष्णुनेति प्राप्ते या । नाभा॑ पृथिव्याः । नाभाविति प्राप्ते डा । ता अनुष्ठ्योच्यावयतात् । अनुष्ठानमनुष्ठा व्यवस्थावदङ् । आङो ड्या । साधुया (साधु॒या) । साध्विति प्राप्ते याच् । वसन्ता यजेत । वसन्ते इति प्राप्ते आल् ॥ ।ईयाडियाजीकाराणामुपसंख्यानम् (वार्तिकम्) ॥ उर्विया । दार्विया । उरुणा दारुणेति प्राप्ते इया । सुक्षेत्रिया (सु॒क्षे॒त्रि॒या) । सुक्षेत्रिणेति प्राप्ते डियाच् । दृतिं न शुष्कं सरसी शयानम् (दृतिं॒ न शुष्कं॑ सर॒सी शया॑नम्) । ङेरीकार इत्याहुः । तत्राद्युदात्ते पदे प्राप्ते व्यत्ययेनान्तोदात्तता । वस्तुतस्तु ङीषन्तात् ङेर्लुक् । ईकारादेशस्य तूदाहरणान्तरं मृग्यम् ॥ ।आङ्याजयारामुपसंख्यानम् (वार्तिकम्) ॥ प्र बाहवा सिसृतम् (प्र बा॒हवा॑ सिसृतम्) । बाहुनेति प्राप्ते आङादेशः । घेर्ङिति-(कौमुदी-245) इति गुणः । स्वप्नया । स्वप्नेनेति प्राप्ते अयाच् । स नः सिन्धुमिव नावया (स नः॒ सिन्धु॑मिव ना॒वया॑) । नावेति प्राप्ते अयार् । रित्स्वरः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.