Page loading... Please wait.
7|1|34 - आत औ णलः
॥ तस्मै पाणिनये नमः ॥
7|1|34
SK 2371
आत औ णलः   🔊
सूत्रच्छेदः
आतः (पञ्चम्येकवचनम्) , औ (लुप्तप्रथमान्तनिर्देशः) णलः (षष्ठ्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
आकारान्तादङ्गादुत्तरस्य णलः औकारादेशो भवति। पपौ। तस्थौ। जग्लौ। मम्लौ। अत्र औत्वम्, एकादेशः , स्थानिवद्भावः, द्विर्वचनम् इत्यनेन क्रमेण कार्याणि क्रियन्ते। एकादेशादनवकाशत्वादौत्वं द्विर्वचनादपि परत्वादेकादेशः इति।
`तस्यौ` इति। `शर्पूर्वाः खयः` 7|4|61 इति खयः शेषः। `जग्लौ` इति। `कहोश्चुः` 7|4|62 इति चुत्वम्। इह `पा` इत्यादिभ्यो णलि परत्रवस्थिते युगपत्? त्रीणि कार्याणि प्राप्नुवन्ति--द्विवचनम्, एकादेशः, औत्वञ्च। तेषाञ्च तथा प्राप्तानां युगपत्प्रवृत्तिः सम्भवतीति सामथ्र्यात्? प्राप्तः क्रम आश्रीयते। तत्र येन क्रमेण तानि कत्र्तव्यानि, तं दर्शयितुमाह--`अत्र` इत्यादि। अत्रेत्यनेन पपवित्यादीन्युदहरणानि प्रत्ययमुश्यन्ते। यदि द्विर्वचनादेकादेशः पूर्वं क्रियते तदा `वृद्धिरेचि` 6|1|85 इति वृद्धावेकादेशे कृते निमित्तनिमित्तिनोविंशेषाभावाल्लिटि परतः पूर्वस्योचयमानं द्विवचनं न प्राप्नोतीति तस्य निरासायेदमुक्तम्--स्थानिवद्भावो द्विर्वचनमिति। केन पुनरत्र स्थानिवद्भावः? `द्विर्वचनेऽचि` 1|1|59 इत्यनेन? नैवम्; द्विर्वचननिमित्तेऽपि परतः पूर्वस्योच्यमानं द्विवचनं न प्राप्नोतीति तस्य निरासायेदमुक्तम्--स्थानिवद्भावो द्विर्वचनमिति। केन पुनरतर स्थानिवद्भावः? `द्विर्वचनेऽचि` 1|1|59 इत्यनेन? नैवम्; द्विर्वचननिमित्तेऽचि परतः पूर्वसय स्थानिवद्भाव उच्यते, न चात्र द्विर्वचननिमित्तं परमचं पश्यामः। अत्र क्चिदाहुः--अचीत्युपलक्षणम्, अचि य आदेशो दृष्टः स द्विर्वचने कत्र्तव्ये स्थानिवद्भवतीतीमं सूत्रार्थमाश्रित्यैतदुक्तम्। इह सम्प्रत्यनच्परत्वेऽप्येकादेशकरणकालेऽचः परस्य निमित्तभावेनश्रयणादच्ययमादेशः कृतः। तस्माद्भवितव्यं स्थानिवद्भावेन। अन्ये त्वाहु--`एकादेशः पूर्वविधौ स्थानिवद्भवतीति वक्तव्यम्` इत्यनयेष्टआ स्थानिवद्भावः। `द्विर्वचनेऽचि` 1|1|58 इति योगाविभागाद्वा स्थानिवद्भावः इत्यपरे। कथं पुनरयमेषां कार्याणां क्रम उपलभ्यते? इत्यत आह--`एकादेशात्` इत्यादि। पा+अ इति स्थितेऽकः सवर्णे दीर्घत्वं 6|1|97 प्राप्नोति, औत्वञ्च। तत्रैकादेशः--दण्डाग्रमित्यादौ सावकाशः, औत्वं तु न क्वचित्? सावकाशम्; अतस्तावदनवकाशत्वात्? प्रागौत्वं क्रियते, ततर कृते वृद्धिः प्रापनोति, द्ववचनञ्च, तत्र परत्वाद्वृद्धिर्भवति। द्विवचनं हि--पपाचेत्यादौ सावकाशम्, वृद्धेस्त्ववकाशः--खट्वैडकेत्यादौ। अतो वृद्धौ कृतायां पश्चाद्भवति द्विर्वचनं स्थानिवद्भावेन!`णलः` इति। णकारोच्चारणं प्रत्ययग्रहणं यथा स्यात्। णलो णकारोच्चारणे हि णल्प्रत्ययोऽस्तीति तस्य ग्रहणं भवति। तस्मश्चासत्यल इत्युच्यमाने सत्यल्प्रत्ययस्याभावात्? प्रत्याहारग्रहणं विज्ञायेत। लकारोच्चारणं `श्याद्व्यध` 3|1|141 इत्यादिना विहितस्य णप्रत्ययस्य ग्रहणं मा भूदित्येवमर्थम्। अथ `एकवचनस्य` 7|1|32 इत्यनुवत्र्तते? तथा सति मुखसुखार्थम्॥
पपावित्यादौ पा - अ इति स्थिते युगपत् त्रीणि कार्यणि प्राप्नुवन्ति द्विर्वचनम्, सवर्णदीर्घत्वमेकादेशः, औत्वमिति, तत्र येन क्रमेणैतानि कर्तव्यानि, तद्दर्शयति - अत्रेति । लित्स्वरं तु नोपन्यस्याति, सर्वथान्तोदातत्वसिद्धेः । उक्तक्रमे हेतुमाह - एकादेशादिति । यदि पूर्वमेकादेशः स्याव्द्यपवर्गाभावादौत्वं न स्यादित्यनवकाशं तत् । परत्वादेकादेश इति । अत्र वृद्धिरेकादेशः, तस्य स्थानिवद्भावाद् द्विर्वचनम्, स्थानिवद्भावस्तु द्विर्वचनेऽचि इति । तत्र ह्यचीति न स्थानिवद्भावस्य निमितनिर्द्देशः किं तर्हि अजादेशस्य - द्विर्वचननिमितेऽचि योऽजादेश इति । तेन सम्प्रत्यच्परत्वाभावेऽपि स्थानिवद्भावो भवत्येव । ओकारौकारयोर्लाघवे विशेषाभावात्प्रयोगसमवाय्यौकार एव विहितः । अपर आह - आङ्प्रश्लिष्टाकार ओकारः, तस्योच्चारणे प्रयत्नलाघवं भवति विश्लिष्टाकार औकारस्तस्योच्चारणे प्रयत्नगौरवं भवति, तद्विधानं दरिद्रात्यर्थम्ददरिद्रौ, अत्र दरिद्रातेरार्द्धधातुके लोपो वक्तव्यः इत्याकारलोपेऽप्यौकारस्य श्रवणम् भवति । यद्यपि सिद्धश्च प्रत्ययविधौ इति वचनाल्लिटि विवक्षित एवाकार लोपे सत्यौत्वस्याप्रसङ्गः, यद्यपि च सास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थम् इत्यामि सति णल एवासम्भवः, तथाप्यौत्वविधानसामर्थ्याद् द्वयमप्येतन्न भवति ॥
सिद्धान्तकौमुदी
आदन्ताद्धातोर्णल औकारादेशः स्यात् । दधौ ॥
आत औ णलः - तथा च प्रकृते लिटि द्वित्वादौ दधा अ इति स्थिते — आत औ । "औ" इति लुप्तप्रथमाकम् । अङ्गस्येत्यधिकृतं पञ्चम्या विपरीणम्यते । "आत" इति तद्विशेषणम् । तदन्तविधिः । तदाह — आदन्ताद्धातोरिति । णल्प्रकृतिश्च धातुरेवेति धातुग्रहणम् । तथा च णल औत्वे वृद्धौ रूपमाह — दधाविति ।
आत औ णलः - आत औ णलः । इह अङ्गस्येत्यनुवर्तते । धातोरिति तु फलितार्थकथनम् । आदन्तादङ्गादित्यर्थः ।
लघुसिद्धान्तकौमुदी
आदन्ताद्धातोर्णल औकारादेशः स्यात्। पपौ॥
महाभाष्यम्
आत औ णलः इह पपौ तस्थाविति त्रीणि कार्याणि युगपत्प्राप्नुवन्ति ‐ द्विर्वचनमेकादेश औत्वमिति। तद्यदि सर्वत औत्वं लभ्येत कृतं स्यात्। अथापि द्विर्वचनं लभ्येत एवमपि कृतं स्यात् । तत्तु न लभ्यम्।। किं कारणम्?।। अत्र हि परत्वादेकादेशो द्विर्वचनं बाधते।। परत्वादौत्वम्।। नित्य एकादेश औत्वं बाधेत।। कं पुनर्भवानौत्वस्यावकाशं मत्वाह ‐ नित्य एकादेश इति, ‐ अनवकाशमौत्वमेकादेशं बाधिष्यते। औत्वे कृते द्विर्वचनमेकादेश इति; यद्यपि परत्वादेकादेशः स्थानिवद्भावाद्विर्वचनं भविष्यति।। (आत औ)।।