Page loading... Please wait.
7|1|3 - झोऽन्तः
॥ तस्मै पाणिनये नमः ॥
7|1|3
SK 2169
झोऽन्तः   🔊
सूत्रच्छेदः
झः (षष्ठ्येकवचनम्) , अन्तः (प्रथमैकवचनम्)
अनुवृत्तिः
प्रत्ययस्य  7|1|2 (षष्ठ्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
प्रत्ययस्य झः अन्तः
सूत्रार्थः
प्रत्ययस्य झ्-इत्यस्य "अन्त्" इति आदेशः भवति ।
झ्-इति वर्णः तिङ्प्रत्ययेषु दृश्यते - परस्मैपदस्य प्रथमपुरुषवहुवचनस्य "झि" प्रत्ययः तथा आत्मनेपदस्य प्रथमपुरुषबहुवचनस्य "झ" प्रत्ययः । एतयोः उपस्थितस्य झकारस्य अन्त्-आदेशः भवति । उदाहरणे एते -

1) पठ्-धातोः लट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् -
पठ् + लट् [वर्तमाने लट् 3|2|123 इति लट्]
→ पठ् + झि [तिप्तस्झि.. 3|4|78 इति परस्मैपदस्य प्रथमपुरुष-बहुवचनस्य झि-प्रत्ययः]
→ पठ् + शप् + झि [कर्तरि शप 3|1|68 इति विकरणप्रत्ययः शप्]
→ पठ् + अ + अन्ति [झोऽन्तः 7|1|3 इति झ्-इत्यस्य "अन्त्" आदेशः]
→ पठन्ति [अतो गुणे 6|1|97 इति गुण-एकादेशः अकारः]

2) वन्द्-धातोः लट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् -
वन्द् + लट् [वर्तमाने लट् 3|2|123 इति लट्]
→ वन्द् + झ [तिप्तस्झि.. 3|4|78 इति आत्मनेपदस्य प्रथमपुरुष-बहुवचनस्य झ-प्रत्ययः]
→ वन्द् + शप् + झ [कर्तरि शप 3|1|68 इति विकरणप्रत्ययः शप्]
→ वन्द् + अ + अन्त [झोऽन्तः 7|1|3 इति झ्-इत्यस्य "अन्त्" आदेशः]
→ वन्द् + अ + अन्ते [टित आत्मनेपदानां टेरे 3|4|79 इति टि-संज्ञकस्य अकारस्य एकारादेशः]
→ वन्दन्ते [अतो गुणे 6|1|97 इति गुण-एकादेशः अकारः]


ज्ञातव्यम् -
1. अस्मिन् सूत्रे पूर्वस्मात् सूत्रात् "प्रत्ययादीनाम्" इत्यस्मात् केवलं "प्रत्यय" इति अनुवर्तते, "आदि" इति न ।
2. झकारस्य प्रयोजनाभावात् चुटू 1|3|7 इत्यनेन इत्संज्ञा न भवति ।
3. झेर्जुस् 3|4|108 इत्यनेन झि-प्रत्ययस्य लिङ्लकारस्य विषये विहितः जुस्-आदेश, तथा च सिजभ्यस्तविदिभ्यः च 3|4|109 इत्यनेन अभ्यस्तात् परस्य लिङ्-लकारस्य विषये झि-प्रत्ययस्य विहितः जुस्-आदेशः - उभौ अपि वर्तमानसूत्रस्य अपवादत्वेन आगच्छतः ।
One-line meaning in English
The letter झ् occurring in a प्रत्यय is converted to अन्त्.
काशिकावृत्तिः
प्रत्ययग्रहणम् अनुवर्तते, आदिग्रहणं निवृत्तम्। प्रत्ययावयवस्य झस्य अन्त इत्ययम् आदेशो भवति। कुर्वन्ति। सुन्वन्ति। चिन्वन्ति। अद्य श्वो विजनिष्यमाणाः पतिभिः सह शयान्तै। जृ̄विशिभ्यां झच् जरनतः। वेशन्तः। प्रत्ययस्य इत्येव, उज्झिता। उज्झितुम्। उज्झितब्यम्। अस्मिन्नप्यन्तादेशे कृते प्रत्ययाद्युदात्त्वं भवति। तथा च झचः चित्करणम् अर्थवच् भवति।
`प्रत्ययग्रहणमनुवत्र्तते` इति। अनन्तरसूत्रात्। यद्येवम्, एकयोगनिर्दिष्टत्वादादिग्रहणमप्यनुवत्र्तेत, ततश्च शयान्तै--इत्यत्र न स्यात्, चकारस्यादित्वाभावात्? इत्यत आह--`आदिग्रहणं निवृत्तम्` इति। एवं मन्यते--स्वरितत्वप्रतिबद्धा हि शब्दानामनुवृत्तिः, तच्च स्वरितत्वं प्रतिज्ञाधर्मः--`प्रतिज्ञास्वरिताः पाणिनीयाः` इति--यत्रैव तैः स्वरितत्वं प्रतिज्ञायते तत्रैव भवति, नान्यत्रेति। तेनैकयोगनिर्द्दिष्टानामप्येकतरस्यानुवृत्तिर्न विरुध्यते। इह च प्रत्ययस्यैव स्वरितत्वं प्रतिज्ञायते, नादिग्रहणस्य। तेन सत्यप्येकयोगनिर्द्दिष्टत्वे प्रत्ययग्रहणमनुवत्र्तते। `आदिग्रहणं निवृत्तम्` इति। `अन्त इत्ययमादेशो भवति` इति। अकारसहित एवादेशः करणीयः। अकारः--तकारेत्संज्ञा मा भूदित्येवमर्थः। स च जरन्तः, वेशन्त इत्यत्र। कुर्वन्तीत्यादौ `न विभक्तौ तुस्माः` 1|3|4 इति प्रतिषेधादेवेत्संज्ञा न भवति। अथ तु `उणादयो बहुलम्` 3|3|1 इति वचनाज्जरन्तः, वेशन्त इत्यादौ न भवति? तथा च सत्यकार उच्चारणार्थः। `न विभक्तौ तुस्माः` 1|3|4 इत्यस्यानित्यत्वज्ञापकार्थं वाऽकारोच्चारणम्। `तेन किमोऽत्` 5|3|12 इत्यादीनां तकारेत्संज्ञा भवति। `कुर्वन्ति` इति। `अत उत्सार्वधातुके` 6|4|110 इत्युत्त्वम्। `शयान्तै` इति। शीङः `लिङर्थे लेट्` 3|4|7 , `लेटोऽडाटौ` 3|4|94 इत्याट्, टेरेत्त्वम्, `एत ऐ` 3|4|93 इत्यनुवत्र्तमाने `वैतोऽयन्त्र` 3|4|96 इत्यैत्त्वम्। `उज्झिता` इति। `उज्झ उत्सर्गे` (धातुपाठः-1304) तृच्। `ऋदुशनस्` 7|1|94 इत्यादिनानङ्, `नोपधायाः` 6|4|7 `सर्वनामस्थाने च` 6|4|8 इति दीर्घः। `उज्झितुम्` इति। तुमुन्। `उज्झितव्यम्` इति। तव्यः। `अस्मिन्नपि` इत्यादि। ननु चान्तरङ्गत्वात्? प्रत्ययाद्युदात्तत्वेन प्राग्भवितव्यम्, पश्चादादेशेन? नैवम्; अन्तादेशस्याप्यन्तरङ्गत्वात्। अन्तरङ्गत्वं तु तस्यायन्नादिवद्वेदितव्यम्। उभयोरन्तरङ्गत्वात्? पूर्वमन्तादेशः, पश्चात्? प्रत्ययाद्युदात्तत्वम्। अत्रैव ज्ञापकमाह--`तथा च` इत्यादि। एतच्च ``घच्छौ च` 4|4|116 इति घचश्चित्करणमनर्थवद्भवति`--इत्येतद्वाख्यानेन व्याख्यातमिति। प्रत्ययाद्युदात्तत्वात्? पूर्वमन्तादेशस्य भावे सति द्विषन्तीत्यत्र मध्योदात्तत्वम्; अन्यथाऽन्तोदात्तता स्यात्। सा चानिष्टेति पूर्वमन्तादेशः क्रियते॥
आदिग्रहणं निवृतमिति । तदनुवृतौ हि शयान्तै इत्यत्र शीङे लेटि लेटोऽडाटौ इति लावस्थायामेव प्राप्ते आटि सति झकारस्यानादित्वान्न स्यात् । कथं पुनः समासनिर्द्दिष्टानामेकदेशोऽनवर्तते नैष दोषः, अनाश्रितार्थकं शब्दमात्रं स्वरितत्ववशादनुवर्तते - इति पक्षे यस्यैव स्वरितत्वं प्रतिज्ञातं तस्यैवानुवृत्तिः । अर्थाधिकारपक्षे तु समासार्थस्यैकत्वातस्यैवानुवृत्तिः स्याद्वा, न वा । यद्वा - प्रत्ययग्रहणं पूर्वसूत्रे पृथक् पदं लुप्तविभक्तिकम्, तेन तस्यैवानुवृत्तिर्भविष्यति । आदेशे त्वकार उच्चारणार्थः तेन पचन्तीत्यादौ श्रवणं न भवति ॥
सिद्धान्तकौमुदी
प्रत्ययावयवस्य झस्यान्तादेशः स्यात् । अतो गुणे (कौमुदी-191) । भवन्ति । भवसि । भवथः । भवथ ॥
झोऽन्तः - झः अन्त इति च्छेदः । "झ" इति षष्ठन्तम् । आदेशे तकारादकार उच्चारणार्थः ।आयनेयी॑ति सूत्रात्प्रत्ययग्रहणमनुवर्तते, न त्वादिग्रहणमपि, अस्वरितत्वात् । अनुवृत्तं च प्रत्ययग्रहणमवयवषष्ठन्तमाश्रीयते । तदाह — प्रत्ययावयवस्येति । झस्य । झकारस्येत्यर्थः । अन्तादेशः स्यादिति । "अन्त्" इत्ययमादेशः स्यादित्यर्थः । प्रत्ययावयवस्येति किम् । उज्झिता । अत्र धात्ववयवस्य झकारस्य न भवति । आदिग्रहणानुवृत्तौ तु "शयान्तै" इति न सिध्यति । अन्तादेशात्प्रागेवान्तरङ्गत्वाल्लेटोऽडाटावित्याटि कृते झकारस्य प्रत्ययादित्वाऽभावादिति भाष्ये स्पष्टम् । एवं च "भव-झी" त्यत्र झकारस्य अन्त् इत्यादेशे, भव-अन्ति इति स्थिते, "अतो गुण" इति द्वयोरकारयोः सवर्णदीर्गापवादे पररूपे कृते, भवन्तीति रूपमित्यर्थः । अन्तादेशे प्रथमाऽकारोच्चारणं तु लुगविकरणे द्विषन्तीत्यादौ अकारश्रवणार्थम् । भवसीति । मध्यमपुरुषैकवचने सिपि शपि गुणेऽवादेशे रूपम् । भवथ इति । मध्यमपुरुषद्विवचने थसि शपि गुणेऽवादेशे रुत्वविसर्गयोश्च रूपम् । "न विभक्तौ तुस्मा" इति सस्य नेत्त्वम् । भवथेति । मध्यमपुरुषबहुवचने थादेशे शपि गुणे अवादेशे रूपम् ।
झोऽन्तः - तकारादकार उच्चारणार्थः ।आयनेयीनी॑ति सूत्रात्प्रत्ययग्रहणमनुवर्तते न त्वादिग्रहम्, एकदेशे स्वरितत्वप्रतिज्ञानात् । तस्याप्यनुवृत्तौ तुशयान्तै॑ इति न सिध्येत् । शीङोलेटोऽरडाटौ॑ इत्यन्तरङ्गत्वादन्तादेशात्प्रागाटि कृते झस्यादित्वाऽभावात् । तदेतदाह — प्रत्ययावयवस्येति । प्राचा तु प्रत्ययादेर्झस्येत्युक्तं, तदनेन प्रत्युक्तम् । इह मनोरमायामादिग्रहणं निवृत्तमित्युक्तं, तदापाततः, अन्यत्राऽप्रवृत्तस्यादिग्रहणस्य निवृत्तत्वाऽयोगात् ।निवृत्त॑मित्यस्याननुवृत्तमित्यर्थ इति वा कथंचिद्व्याख्येयम् । यत्तु प्रत्ययादेरिति ग्रन्थसमर्थनाय व्याचक्षते — आडागमे कृते तत्सहितोऽपि प्रत्ययोऽस्तु नाम, न तु तत्सहित एव प्रत्यय इति नियमोऽस्तीति । तन्न । अवयवविनिर्मुकत्स्यावयवित्वाऽयोगात् । अन्यथा भूयास्तामित्यादौ तामादीनामिडागमापत्तेः । नन्वह्गात्परस्य प्रत्ययस्येट्, यासुडन्तं तु नाङ्गमिति चेत् ।आगमविनिर्मुक्तस्यापि प्रत्ययत्व॑मिति वदतां मते भवामि भविष्यामीत्यादौ विकरणान्तस्येव तदादिग्रहणबलेन यासुडन्तस्याप्यङ्गताया दुर्वारत्वात् । किं च लविषीयेत्यत्र विशेषविहितत्वात्सीयुटि कृते लिङः स्थाने इट्, तस्यागमेनाऽ‌ऽदित्वविघातात्प्रत्ययाद्युदात्तत्वं न प्राप्वोतीत्याशङ्क्य प्रत्ययस्वरे कर्तव्ये आगमा अविद्यमानवदित्यतिदेशः#आद्युदात्तश्चे॑ति सूत्रे भाष्यादौ स्वीकृतः । न चैतत्कैवलस्यापि प्रत्ययत्वे युज्यते । न च तन्मते आगमसहितस्यापि प्रत्ययत्वादिकारस्याप्युदात्तः स्यात्,तद्वारणायप्रत्ययस्वरे कर्तव्ये॑ इत्यादिग्रन्थः स्वीकर्तव्य एवेति नास्त्येवाऽ‌ऽकरग्रन्थविरोध इति वाच्यम्,आगमा अनुदात्ताः॑ इति विशेषवचनेनागमस्याप्यनुदात्तत्वे कृते आद्युदात्तत्वस्य तत्राऽप्रवृत्तेरिति दिक् । झस्येति । झकारादकार उच्चारणार्थः । अतो गुणे इति ।अतो दीर्घो यञी॑ति तु न प्रवत्र्तते, स्थान्यलादेशविधौ स्थानिवत्त्वनिषेधादिति भावः ।
लघुसिद्धान्तकौमुदी
प्रत्ययावयवस्य झस्यान्तादेशः। अतो गुणे। भवन्ति। भवसि। भवथः। भवथ॥
महाभाष्यम्
झोऽन्तः ।। 8 ।। झादेशे धात्वन्तप्रतिषेधः ।। झादेशे धात्वन्तस्य प्रतिषेधो वक्तव्यः । उज्झिता । उज्झितुमिति ।। प्रत्ययाधिकारात्सिद्धम् ।। (प्रत्ययाधिकारात्सिद्धमेतत्(1) ।। कथम् ? ।।) प्रत्ययग्रहणं प्रकृतमनुवर्तते ।। क्व प्रकृतम् ? ।। आयनेयीनीयियः फढखछघां प्रत्ययादीनामिति ।। प्रत्ययाधिकारात्सिद्धमिति चेदनादेरादेशवचनम् ।। प्रत्ययाधिकारात्सिद्धमिति चेदनादेरादेशो वक्तव्यः । अपि नः श्वो (वा(2)) विजनिष्यमाणाः पतिभिः सह शयान्तै ।। एवं तर्हि प्रत्ययग्रहणमनुवर्तते आदिग्रहणं निवृत्तम् ।। कथं पुनः समासनिर्दिष्टानामेकदेशोऽनुवर्तते एकदेशो वा निवर्तते ।। असमासनिर्देशात्सिद्धम् ।। (असमासनिर्देशात्सिद्धमेतत्(1) ।) असमासनिर्देशः करिष्यते ‐ प्रत्ययस्यादीनामिति ।। स तर्ह्यसमासनिर्देशः कर्तव्यः ? ।। न कर्तव्यः । क्रियते न्यास एव ।। कथम् ? ।। अविभक्तिको निर्देशः, प्रत्यय आदीनामिति ।। तत्र शयान्ता इत्यनकारान्तत्वाद्ङ्गस्याद्भावप्रततिषेधः ।। तत्रैतस्मिन्प्रत्ययग्रहणेऽनुवर्तमाने आदिग्रहणे निवृत्तेशयान्तै इत्यनकारान्तत्वादङ्गस्याऽद्भावः प्राप्नोति तस्य प्रतिषेधो वक्तव्यः ।। सिद्धमनानन्तर्यादनकारान्तेनाऽद्भावनिवृत्तिः ।। सिद्धमेतत् ।। कथम् ? ।। (ठअनानन्तर्यात्) । अनानन्तर्यादनकारान्तेनाद्भावो न भविष्यति । कथं कृत्वा चोदितं कथं कृत्वा परिभारः ।। अनकारान्तग्रहणं प्रत्ययविशेषणमिति कृत्वा चोदितम्, झकारविशेषणमिति कृत्वा परिहारः ।। यद्यनकारान्तग्रहणं झकारविशेषणं, शेरते अत्र न प्राप्नोति ।। तत्र रुटि सन्नियोगवचनात्सिद्धम् ।। तत्र रुटि सन्नियोगः करिष्यते ।। क एष यत्नश्चोद्यते सन्नियोगो नाम ? ।। चकारः कर्तव्यः, रुट्च ।। किं च ? ।। यच्चान्यत्प्राप्नोति ।। किं चान्यत्प्राप्नोति ? ।। अद्भावः ।। स तर्हि चकारः कर्तव्यः ? ।। न कर्तव्यः । योगविभागः करिष्यते ‐ शीङः । शीङ उत्तरस्य झस्याद्भावो भवति । ततो-रुट् । रुट् च भवति शीङ इति ।। एवमपि पर्यायः प्रसज्येत ।। एवं तर्हि अच्शब्दस्य रुटं वक्ष्यामि ।। तदच्छब्दग्रहणं कर्तव्यम् ? ।। न कर्तव्यम् । प्रकृतमनुवर्तते ? ।। क्व प्रकृतम् ? ।। अदभ्यस्तादिति ।। तद्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन चेहार्थः ! ।। शीङ इत्येषा पञ्ञ्चमी अदिति प्रथमायाः षष्ठीं प्रकल्पयिष्यति, तस्मादित्युत्तरस्येति ।।